Ad Code

१.१.११ सूत्राणि:॥ ईदूदेद्द्विवचनं प्रगृह्यम् ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

 


 १.१.११

सूत्राणि:॥ ईदूदेद्द्विवचनं प्रगृह्यम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - ईत्-ऊत्-एद् १।१ द्विवचनम् १।१ प्रगृह्यम् १।१। 

समासः - इत् च ऊत् च एत् च एतेषां समाहार: - ईदूदेद् (समाहारद्वन्द्वः) ।

अर्थ: - ईदन्तम्, ऊदन्तम्, एदन्तम् च द्विवचनं शब्दरूपं प्रगृह्यसंज्ञकं भवति ।

उदाहरणम् - (ईदन्तम्) अग्नी इति । (ऊदन्तम्) वायू इति । (एदन्तम्) माले इति । पचेते इति ।

आर्यभाषार्थ - (ईत्-उत्-एत्) ईकारान्त, ऊकारान्त और एकारान्त (द्विवचनम्) द्विवचनान्त पद की (प्रगृह्यम्) प्रगृह्य संज्ञा होती है । 

उदाहरणम् - (ईकारान्त) अग्नी इति । (ऊकारान्त) वायू इति । (एकारान्त) माले इति, पचेते इति ।

सिद्धिः - (१) अग्नी इति । यहां अग्नी पद ईकारान्त द्विवचन है । इसकी प्रगृह्य संज्ञा होने से यह 'प्लुतप्रगृह्या अचि नित्यम्' (६.१.१२५) से प्रकृतिभाव से रहता है । 'अकः सवर्णे दीर्घः' (६.१.१०१) से प्राप्त सवर्ण दीर्घ नहीं होता है ।

(२) वायू इति । यहां वायू पद ऊकारान्त द्विवचन है । इसकी प्रगृह्य संज्ञा होने से यह पूर्ववत् प्रकृति भाव से रहता है । 'इको यणचि' (६.१.७७) से प्राप्त यण्-आदेश (व्) नहीं होता है ।

(३) माले इति । यहां माले पद एकारान्त द्विवचन है । इसकी प्रगृह्य संज्ञा होने से यह पूर्ववत् प्रकृतिभाव से रहता है । 'एचोऽयवायाव:' (६.१.७८) से प्राप्त अयादेश नहीं होता है ।

॥ काशिका ॥

ईद्, ऊद्, एद्, इत्येवमन्तं द्विवचनं शब्दरूपं प्रगृह्यसंज्ञं भवति । अग्नी इति । माले इति । पचेते इति । यजेते इति । ईदूदेदिति किम् ? वृक्षावत्र । प्लक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । किशोर्यत्र । तपरकरणमसन्देहार्थम् । प्रगृह्यप्रदेशाः - “प्लुतप्रगृह्या अचि नित्यम्” (६.१.१२५/९०) इत्येवमादयः । ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः । ‘मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम’ महाभारते (१२.१७२.१२) । दम्पतीव, जम्पतीव, रोदसीव ॥

॥ न्यासः ॥

अत्रेदादि यद्विवचनम्, तत् प्रगृह्यमित्येवं वा विज्ञायते ? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्यमिति वा? तत्राद्ये पक्षे ‘पचेते’ इत्यादी प्रगृह्यसञ्ज्ञा न प्राप्नोति, न ह्येकारमात्रमत्र द्विवचनम् अपि तु आतेशब्द इति । इममाद्ये

पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - ‘ईदूदेदित्येवमन्तम्’इत्यादि । नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्यत्र द्विवचनं न तदन्तम् ? ‘आद्यन्तवदेकस्मिन्’ (१.१.२१) इत्यनेनान्तवद्भावो भवतीत्यदोषः । ‘अग्नी’ इति । ‘प्रथमयोः पूर्वसवर्ण:’ (६.१.१०२) इति दीर्घत्वम् । अत्र प्रगृह्यसञ्ज्ञायां सत्याम् ‘प्लुतप्रगृह्या अचि’ (६.१.१२५) इति प्रकृतिभावादितिशब्दे परतः ‘अकः सवर्णे’ दीर्घत्वं (६.१.१०१) न भव - ‘वायु’ इत्यत्रापि ‘इको यणचि’ (६.१.७७) इति यणादेशः । शेषेष्वप्युदाहरणेष्वयादेशः । ‘खट्वे’ इति । ‘औङ आप:’ (७.१.१८) इति शीभावः । ‘आद्गुणः’ (६.१.८७) । ‘पचेते’ इति , ‘यजेते’ इति । स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, ‘आतो ङितः’ (७.२.८१) इतीयादेशः ‘लोपो व्योर्वलि’ (६.१.६६) इति यलोपः । ‘वृक्षावत्र, प्लक्षावत्र’ इति । भवत्येतद् द्विवचनम्, न त्वीदूदेदन्तम् । तेन प्रकृतिभावाभावादादेशो भवत्येव । ‘कुमार्यत्र’ इति । ‘वयसि प्रथमे’ (४.१.२०) इति ङीपिकृते ‘कुमारी’ इत्येतदीकारान्तम्, न तु द्विवनचान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः । अथ तपरकरणं किमर्थम् ? प्लुतनिवृत्त्यर्थमिति चेत्, न इष्टत्वात् प्लुतस्य । यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्यसञ्ज्ञा सिध्यति, तथा भाष्ये ‘असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव (म.भा. १. ६६) इत्यादिना प्रतिपादितम् । गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न, ‘अभेदकत्वाच्छास्त्रे गुणानाम्’ (सो.प.८०) इत्यत आह - ‘तपरकरणमसन्देहार्थम्’ इति । असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात् । ततश्च सन्देह एव स्यात् किमिदं यकारवकारोयर्ग्रहणम्, आहोस्विदिकारोकारयोरिति वक्तव्यः’ इति । व्याख्येय इत्यर्थः । तत्रेदं व्याख्यातम् - वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन सा च व्यवस्थित- विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव, रोदसीवे - मणीवेत्या- दयः शब्दा द्विवचनान्ताः । तत्रासति प्रगृह्यत्वे ‘अकः सवर्णे दीर्घः’ (६.१.१०१) एकादेशो भवत्येव । 

॥ पदपञ्जरी ॥

अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हभिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि “ नाज्झलौ” इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाणुशलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । “अच्च हल् चे”ति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः “आदिरन्त्येन सहेता” इति प्रत्याहारः, ततः “नाज्झलौ” इत्यस्य निष्पत्तिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहारेणेष्टविषये सवर्णसंज्ञा प्रवर्त्तते, न त्वेतत्सूत्रनिष्पत्तिसमये । ततश्च “अणुदित्सवर्णस्य च” इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु “अस्य च्वौ” इत्यादिषु वर्त्तते, न त्वङ्गेषूपदेशादिष्विति “नाज्झलौ” इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य ? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च “परःशतानि कार्याणि” इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य “कर्तृकरणे कृता बहुलम्” इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते “अनचि च” इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य “झरो झरि सवर्णे” इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति “कुमारी शेते” इत्यत्र मा भूदिति दीर्घविधौ “अचि “ इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चरमेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । “वैपाशा “इति भवार्थेऽण् । “आनडुहमिति - विकारे “प्राणिरजतादिभ्योऽञ्” ॥ 

॥ शब्दकौस्तुभः ॥

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । ‘हरी एतौ’ ‘विष्णू इमौ’ ‘गङ्गे अमू’ । तपरकरणमसन्देहार्थम्’ इति वृत्तिकाराः । अन्यथा हि यणादेशे कृते ह्रस्वस्यायं निर्द्देश इत्यपि सम्भाव्येत । ततश्च ‘अकुर्वह्यत्र’ इत्यादावतिप्रसङ्गः स्यादिति भावः । भाष्ये तु व्यक्तिः पदार्थो, भेदकाश्च गुणा इति पक्षमाश्रित्य गुएणान्तरयुक्तानां दीर्घाणां सङ्ग्रहार्थं तपरकरणमित्युक्तम् । इदञ्च ‘इद्’ इति प्रथमतकारस्यैव फलमित्यवधेयम्,तावतैव ऊकारेऽपि सिद्धेः तात्पर इति पञ्चमीसमासपक्षस्यापि स्थितत्वात् । एकारस्यत्वण्त्वादेवाणुदित्सूत्रेण सवर्णग्राहकतासिद्धेः । ईदूतोः परमनण्त्वाद् गुणान्तरयुक्तसङ्ग्रहाय युक्तो यत्नः । तस्माद्भाष्यमतेऽपि ऊदेतोस्तपरकरणमसन्देहार्थमेव गुणानामभेदकत्वे त्वीदित्यपि तथेत्यभिप्रेत्यैकरुप्यं वृत्तिकृद्भिरुक्तम् । इह तपरः (१.१.७०) इति सूत्रे पञ्चमीसमासोमाऽस्त्वित्यभिप्रेत्य ऊदिति, तथाऽतपर एवैकारो निर्द्दिष्ट इत्यपि सुवचम् ।

स्यादेतत्, असन्देहायापि क्रियमाणं तपरत्वं प्लुतं व्यावर्त्तयेदेव ‘घटायोन्मीलितं चक्षुः पटं न हि न पश्यति’ इति न्यायात् । अथायं दकारः ऋदोरप् (३.३.५७) इतिवदिति चेत् ? एवमप्येकारो गृह्यणात् प्लुतम्, अणत्वात्; न त्वीदूतौ वाक्यापरिसमाप्तिन्यायेनानण्त्वात् । जातिपरो निर्देश इति चेत् ? तर्हि ह्रस्वेऽप्यतिप्रसक्तिः दीर्घव्यक्तिरपि विशेषणीभूता विवक्षितेति चेत् ? कथं तर्हि प्लुतसङ्ग्रहः ? न च प्लुतव्यावृत्तिरिष्टैवेति वाच्यम् ‘अग्री इति’ इत्यत्र अप्लुतवदुपस्थिते (६.१.२९) इति सूत्रेण प्लुतत्वप्रयुक्ते प्रकृतिभावे निषिद्धेऽपि प्रगृह्यत्वप्रयुक्तस्यतस्येष्यमाणत्वात् । अप्लुतवत् (६.१.१२९) इत्यस्यतु ‘देवदत्तेति’ इत्यादौ चरितार्थत्वाद्वैयर्थ्यं न शङ्क्यम् । तथा च षाष्ठ वार्त्तिकम् वद्वचनं प्लुतकार्यप्रतिषेधार्थं प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् इति । अत्राह भाष्यकारः यथोद्देशं संज्ञापरिभाषम् (पा.भा.२) इत्याश्रयणात् प्रगृह्यसंज्ञां प्रति प्लुतोऽसिद्धः । तथाच द्विमात्रत्वबुद्धेरप्रतिघातात् सिद्धासंज्ञा । कार्यकालपक्षे परं प्रगृह्यसंज्ञाया अपि”अणोऽप्रगृह्यस्य (८.४.५७) इत्येतद्देशतया तां प्रति प्लुतस्य सिद्धत्वेनाऽनुनासिकः प्रवर्त्तेतैवेति स्यादेवदोषः । एतेन ‘अग्नी ३ इति’ इत्यादौ प्रकृतिभावोऽपि व्याख्यातः, प्लुतप्रगृह्या आचि (६.१.१२५) इति ज्ञापकात्स्वरसन्धइषु प्लुतस्य सिद्धत्वेऽपि संज्ञां प्रत्यसिद्धत्वानपायात्, यथोद्देशपक्ष एवेहाश्रीयते इत्युक्तत्वात् । वस्तुतस्त्वनुनासिकप्रवृत्तिभयेनैवेह यथोद्देशपक्षाश्रयणम् । प्रकृतिभावस्तु कार्य्यकालपक्षंऽपि सूपपादः । न च प्रगृह्यः प्रकृत्येत्यनेनैकवाक्यतापन्नां संज्ञां प्रति प्लुतस्य सिद्धतया त्रिमात्रस्य संज्ञा दुरुपपादेति वाच्यम्, प्लुतस्य सिद्धतायां बीजाभावात् । यत्तूक्तं प्लुतः प्रकृत्येत्येतदेव ज्ञापकमिति । तन्न, प्लुतशब्देन तत्स्थानिनो लक्षणया सर्वसामञ्जस्यात् । न चैवं लक्षणैव दोष इति वाच्यम्, श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एवाभ्यर्हितत्वात् ।अस्तु वा विशेषापेक्षं ज्ञापकम् । सिद्धः प्लुतः प्लुतत्वप्रयुक्तं प्रकृतिभाव इति, न तु प्रगृह्यत्वप्रयुक्तेऽपि । तस्मात्कार्य्यकालपक्षमाश्रित्य प्रकृतिभावस्य समर्थयितु शक्यत्वेऽप्यनुनासिकप्रवृत्तिवारणायैवेह यथोद्देशपक्षाश्रयणमिति स्थितम् ।

अत्र हरदत्तः यद्यपि संज्ञायामसिद्धः प्लुतस्तथाप्यनुनासिकपर्युदासे सिद्धएव । ततश्च यस्यानेन सञ्ज्ञाकृता द्विमात्रस्य न सोऽनुनासिकविधौ स्थानी किन्तु त्रिमात्रः। न च स्थानिवद्भावात्तस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । किञ्चावश्यं सिद्धः प्लुतः स्वरसन्धिषु इत्याश्रयणीयम् । ‘दण्ड आढकम्’ इति प्लुतस्य दार्घेण निवृत्तिर्यथा स्यात् । अत एव ‘सुश्लोका ३ इति, सुश्लोकेति’ इत्यत्र गुणो भवन् प्लुतमेव निवर्त्तयति न तु स्थानिनम् । अन्यथा ह्यदेशरूपे प्लुतः श्रूयेत तदिह यथोद्देशेऽपि संज्ञापरिभाषे कथमिवेष्टसिद्धिः, कथं वा ग्रन्थेषु न पूर्वापरविरोध इति विपश्चितः प्रष्टव्या इति ?

अत्राहुःयद्यपि द्विमात्रस्त्रिमात्रेणापहृतस्तथापि पूर्वत्रासिद्धम् (८.२.१) इति शास्त्रासिद्धत्वबोधनात्त्रिमात्रेऽपि द्विमात्र एवायमिति बुद्ध्या प्रगृह्यसंज्ञा क्रियते । अत एव ‘अमुना’ इत्यत्र मुत्वे कृते नदुपजीवनेन नाभावे च कृते सुपि च (७.३.१०२) इति दीर्घो मुशब्द एव दशब्दोऽयमिति बुद्ध्या प्राप्नोति तत्परिहाराय तन्त्रावृत्त्याद्याश्रणेन नाभावे कर्त्तव्ये कृते च सति मुभावो नासिद्ध इत्यष्टमे व्याख्यातम् । कृन्मेजन्तसूत्रे च सन्निपातपरिभाषा समाहितम् । न त्विह द्विमात्रे कृतां संज्ञां स्थानिवद्भावेन त्रिमात्रे आनयामः, येन अनल्विधौ (ए.१.१.५६) इति निषेधः शङ्क्येत । नहि रजतभ्रमप्रयुक्ता प्रवृत्तिः शुक्तिं न गोचरयतीति युक्तम् । एतावानेव पर विशेषः रजतभ्रमोऽनाहार्य्यः प्रवर्त्तकः, इहतु शास्त्राप्रामाण्यादाहार्यारोपोऽपि तत्तच्छास्त्रप्रवृत्तावप्रवृत्तौ च नियामक इति । तदेतत्कैय्यटेनैव स्फुटीकृतम् । यदाह शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रत्वबुद्धिः प्रवर्त्तते । तथा च वक्ष्यति असिद्धवचनमुत्सर्गलक्षमभावार्थमादेशलक्षणप्रतिषेधार्थं च इति । षत्वतुकोरसिद्धः (६.१.८६) इत्येतत्सूत्रस्थं वार्त्तिकमिदम् । उत्सृज्यते निवर्त्यते आदेशेनेत्युत्सर्गः स्थानी, स लक्षणं निमित्तं यस्य कार्यस्य तुगादेस्तस्य प्रवृत्त्यर्थमित्यर्थः । तथा चैकरूप्यार्थँ सर्वत्र शास्त्रासिद्धत्वमेवेति भावः । एतेन यस्यानेन सज्ञा कृता न सोऽनुनासिकविधौ स्थानीति प्रथमदूषणमुद्धृतम् । यदपि ‘दण्डाढकं’ सुश्लोकेति इत्यादावादेशः प्लुतः श्रूयेतेति । तदपि न, उक्तरीत्या तत्राप्यादेशेन प्लुतस्यैव निवृत्तेः । प्लुतो मयाऽपह्रियते इति बुद्धिः परं तस्य नास्तीत्यन्यदेतत् ।

यत्तु षष्ठे बाष्यकारो वक्ष्यति”सिद्धः प्लुतःस्वरसन्धिषु इति, तत्त्विहानुनासिकपर्य्युदासानुरोधाद्यथोद्देशपक्ष एवाश्रयणीय इति स्थिते स्वरसन्धिसामान्यापेक्षज्ञापकाश्रयणेऽपि न दोष इत्याशयेन न तु सामान्यापेक्षतायामेव किञ्चिदाग्रहे बीजमस्तीति दिक् ।

ननूदाहरणेष्वीदादिकमेव द्विवचनं न तु तदन्तमिति चेत् ?, व्यपदेशिवद्भावेन तदन्तत्वात् । नन्वीदूदन्तं द्विवचनान्तमित्येव कथं न व्याख्यातम् ? एवं हि सति व्यपदेशिवद्भावो नाश्रयणीय इति चेत् ? न, ‘कुमार्योरगारं कुमार्यगारं’ ‘वध्वोरगारं वध्वोरगारं वध्वगारम्’ इत्यत्र प्रत्ययलक्षणेन द्विवचनान्तेऽतिव्याप्तेः”संज्ञाविधौ प्रत्ययग्रहमे तदन्तग्रहणं नास्ति (पा.भा.२७) इति सुप्तिङ्न्तं पदम् (१.४.१४) इत्यत्रान्तग्रहणेन ज्ञापितत्वात्च । एतेनेदाद्यन्तं यद् द्विवचनं तदन्तं प्रगृह्यं, कुमार्य्यगारादौ तु सकारान्तं द्विवचनंन त्वीदाद्यन्तमिति परस्तम्, संज्ञाविधौ प्रत्ययग्रहणे तदन्ताग्रहणात् । यत्त्वस्मिन्पक्षे दूषणान्तरमुक्तम् ’अशुक्ले शुक्ले समापद्येतांशुक्ल्यास्तां वस्रे’ इत्यत्र शब्दान्तरप्राप्त्या ऽनित्यं लुकं बाधित्वा परत्वाच्छीभावे कृते तस्यलुकि प्रत्ययलक्षणेन शुक्लीत्यस्य प्रगृह्यता स्यादिति । तन्न, अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते (पा.भा.५२) इति परिभाषयौकारस्यैव लोपात्, तस्य चेदाद्यन्तत्वविरहात् । अस्तु तर्हि ईदादि विशेष्यं, तथा च द्विवचनसंज्ञं ईदादि गप्रगृह्यमित्यर्थ इति चेत् ? न, ‘गङ्गे’ इत्यादेः सिद्धावपि ‘दृश्येते’ इत्याद्यसिद्धेः । द्विवचनावयवो ह्ययमेकारो न तु द्विवचनम् । किञ्च प्रगृह्यमित्यस्य सन्निहितत्वाद् द्विवचनमेव सज्ञिं न त्वीदादिः, विप्रकृष्टत्वात् । तस्माद्यथाव्याख्यानमेव मनोरमम् ।

अत्र वृत्तिकाराः ममीवादीनां प्रतिषेधो वक्तव्यः इति पठित्वा ‘मणीव’ ‘रोदसीव’ ‘दम्पतीव’ ‘जम्पतीव’ इत्युदाजर्हुः । मुनित्रयानुक्तत्वादप्रमाणमिदमिति कैयटादयः । वदद्भिः समानन्यायतयाऽन्येषां मुनित्रयानुक्तानां वृत्तिकृन्मात्रोक्तानां तुरीयस्येष्टिः, शंसिदुहिगुहिभ्यो वा, क्रमेके छन्दसि, भाषायां च अङ्गगात्रकण्ठेभ्यस्त्विष्यत इत्यादीनामनादर्त्तव्यतोक्ता । मर्णावोष्ट्रस्य लम्बेते इति तु इवार्थकेन वाशब्देन निर्वाह्यमित्याहुः न्यासकारस्तु सम्बुद्धौ शाक्ल्यस्येतौ(१.१.१६) इति शाकल्यग्रहमस्य सिंहावलोकितन्यायेनेह सम्बन्धाद्व्यवस्थितविभाषाश्रयणाच्चेदं लभ्यते इत्याह ।केचित्त्विवार्थेयं वशब्दः प्रयुक्तो भीमो भीमसेन इतिवत् । ‘कादम्बखण्डितदलानिव पङ्कजानि’ इत्यादिवच्चेत्याहुः । वस्तुतस्तु वद्वायतातथेवैवं साम्ये (अ.को.३.४.९) इति कालिदाकसप्रयोगस्य तद्व्याख्यातृभिरुदाहरमात्सर्वं सुस्थम् । युक्तंश्चायमेव पाठः प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात् । एतेन स्फुटोत्पलाभ्यामलिदम्पतीव विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुः । (नै.) इति श्रीहर्षप्रयोगोऽपि गतार्थः ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । प्रदेशाः प्लुतप्रगृह्या इत्यादयः । हरी एतौ । विष्णू इमौ । गङ्गे अमू । नन्विह तपरत्वं किमर्थम् ? व्यक्तिपक्षे ईदूतोर्दीर्घत्वादनण्त्वेन सवर्णग्राहकत्वाभावेन तत्कालग्रहणार्थत्वायोगात् । न च उदात्तानुदात्तस्वरितगुणयुक्तानां दीर्घाणामीदूतां ग्रहणार्थमिति वाच्यम् । गुणानामभेदकत्वादेव तदुपपत्तेः । जातेः पदार्थत्वपक्षेऽपि दीघोंच्चारणसामध्यदिव ह्रस्वव्यावृत्तेः । प्लुतव्यावृत्तेश्च सिद्धान्तेऽप्यनिष्टत्वाद् इति चेदत्र भाष्यम् व्यक्तिः पदाथों भेदकाश्च गुणा इति पक्षे उदात्तादिगुणयुक्तानां ‘दीर्घार्णा सङ्ग्रहाय तपरत्वमिति । 

न च व्यक्तावेव पदार्थे एकारस्याण्त्वाद् ग्रहणकशास्त्रेण प्लुतग्रहो मा भूदित्येतदर्थं तपरत्वमिति वाच्यम् । तपरसूत्रेऽण्पदमनुवर्त्य तथाऽर्थस्यापि वक्ष्यमाणत्वात् । अत्र वदन्ति तथाऽपि तात्परत्वेनैव उकारस्य गुणान्तरयुक्तदीर्घसङ्ग्राहकत्वसिद्धेरेकारस्य तु अणत्वादेव तत्सिद्धेरुभयत्र तपरत्वमसन्देहार्थमेव । तद्वरं गुणानामभेदकत्वपक्षमाश्रित्य इकारांशे तपरत्वमसन्देहार्थमेवास्तु इत्याशयेन सर्वत्र तपरत्वमसन्देहार्थमिति वृत्तिकृतः । वस्तुतस्तु पञ्चमीसमासेन तात्परस्य तत्कालग्राहकत्वे मानाभावादूकारे तपरत्वम्, एकारस्त्वतपर एव निर्दिष्ट इति सुवचमिति । तत्र एकारः केवल एवेत्येतत् किमर्थम् ईदादीनां तपराणां प्रगृह्यसंज्ञा इतिभाष्यविरुद्धम् । तेन त्रयाणामपि तपरत्वनिर्देशप्रतीतेः । 

ननु प्रगृह्यसंज्ञां प्रति प्लुतस्यासिद्धत्वात् द्विमात्र एव प्रगृह्यसंज्ञेति प्लुतानुपस‌ङ्ग्रहेऽपि न क्षतिः । न च प्लुतप्रगृह्या अचि इति प्रकृतिभावेन स्वरसन्धिप्रकरणे प्लुतस्य सिद्धत्वज्ञापनाद्दोषो दुर्वार इति वाच्यम् । प्लुतशब्दस्य लक्षणया तत्स्थानिपरत्वसम्भवे ज्ञापकत्वायोगात् । श्रुतार्थापत्तिमूलकवाक्यान्तरकल्पनापेक्षया लक्षणाया एवं युक्तत्वात् । प्लुतत्वप्रयुक्तप्रकृतिभावे प्लुतस्य सिद्धत्वज्ञापनेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभावेऽसिद्धत्वात् । मैवम्, प्लुतस्यासिद्धत्वे अप्रगृह्यस्य इतिपर्युदासाप्रवृत्तौ अणोऽप्रगृह्यस्यानुनासिकः इत्यनुनासिकस्य दुर्वारत्वात् । 

अथात्रैकारस्याण्त्वेन प्लुतग्राहकत्वेऽपि ईदूतोः कथं तत्, दीर्घाणामनण्त्वेन सवर्णग्राहकत्वाभावात् । न च जातिपरो निर्देशः । ह्रस्वेष्वतिप्रसङ्गापत्तेः । दीर्घव्यक्तिसमवेतैव जातिर्विवक्षितेति चेन्न, प्लुतानुपग्रहतादवस्थ्यात् । न चेष्टापत्तिः । अनी३ इति इत्यादौ अप्लुतवदुपस्थिते इत्यनेन लौकिक इतिशब्दे परे प्लुतस्याप्लुतवद्भावविधानेन प्लुतनिमित्तकप्रकृतिभावनिषेधेऽपि प्रगृह्यत्वनिबन्धनस्य प्रकृतिभावस्येष्टत्वात् । तथा च षष्ठे वार्तिकम् वद्वचनं प्लुतकार्यप्रतिषेधार्थ, प्लुतप्रतिषेधे हि प्रगृह्यप्लुतनिषेधप्रसङ्गोऽन्येन विहितत्वात् इति । 

प्लुतकार्यप्रकृतिभावनिषेधे स्वरसन्धेरावश्यकतया प्लुतस्य श्रवणाभावधौव्यात् प्लुत एव निषिध्यताम्, किमतिदेशार्थवद्वचनेनेति तत्र शङ्काऽर्थः । उभयनिमित्तकप्रकृतिभावप्राप्त्या प्लुतप्रयुक्ततन्निषेधेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभावसत्त्वात्युतश्रवणसिद्धिः, प्लुतनिषेधे तु श्रवणं न स्यादिति समाधानार्थः । न चैवम् अप्लुतवद् इत्यस्य वैयर्थापत्तिः, प्लुतनिमित्तकप्रकृतिभावमात्रनिषेधस्य विशेषानुपपादकत्वादिति वाच्यम् । यत्र प्रगृह्यसंज्ञा नास्ति तत्र चरितार्थत्वात् । यथा सुश्लोका३इति सुश्लोकेति । अत्र भाष्यम् यथोद्देशं संज्ञापरिभाषमिति पक्षे प्रगृह्यसंज्ञां प्रति प्लुतस्यासिद्धतया द्विमात्रत्वबुद्धेरविघातात्सिद्धा प्रगृह्यसंज्ञा, कार्यकालपक्षे तु प्रगृह्यसंज्ञायाः अणोऽप्रगृह्यस्य इत्येतत्समानदेशतया तां प्रति प्लुतस्यासिद्धत्वाभावादनुनासिकप्रवृत्तिः स्यात् । 

ननु संज्ञापरिभाषस्य कार्यार्थत्वात् कार्यकालपक्ष एव न्याय्य इति चेदनाहुः प्रयोजनविशेषानवगमेऽपि सामान्यतः किञ्चित्प्रयोजनवत्ताज्ञानमात्रेण यथोद्देशपक्षोपपत्तिः । यथा विशिष्याश्रूयमाणभाव्यकेषु विधिषु इष्टसामान्यस्य भाव्यत्वमादायांशत्रयवैशिष्ट्यं भावनायाः सम्पाद्य तदुत्तरमार्थवादिकः कल्पितो वा इष्टविशेषो व्यवस्थाप्यते तद्वत्, महावाक्यार्थपर्यालोचनया तु कार्यकालपक्ष इति । 

अत्र हरदत्तःसंज्ञां प्रति प्लुतस्यासिद्धत्वेऽपि अनुनासिकपर्युदासं प्रति न तथा । ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य न सोऽनुनासिकविधौ स्थानी, किन्तु त्रिमात्रः । न च स्थानिवद्भावेन त्रिमात्रस्यापि प्रगृह्यत्वम् । अल्विधौ तदयोगात् । ईकारान्तद्विवचनस्य प्रगृह्यसंज्ञतया विशेषणतया ईकारादिरूपाल्सापेक्षत्वात् । कि चावश्यं सिद्धः प्लुतः स्वरसन्धिषु इत्याश्रयणीयम्, दण्ड आढकमिति प्लुतस्य दीर्घेण निवृत्तिर्यथा स्यात् । अत एव सुश्लोका ३ इति सुश्लोकेति इत्यत्र गुणो भवन् प्लुतमेव निवर्त्तयति, न स्थानिनम् । आदेशे प्लुतश्रवणप्रसङ्गात् । तत्कथं यथोद्देशपक्षेऽपीष्टसिद्धिरिति । अत्र कैयटः शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधीयमाने द्विमात्रविषया बुद्धिः प्रवर्तते इति । 

अयमर्थः द्विमात्रस्य त्रिमात्रेणापहारेऽपि पूर्वत्रासिद्धम् इत्यनेन शास्त्रासिद्धत्वबोधनात् त्रिमात्रएव द्विमात्रत्वबुद्ध्या प्रगृह्यसंज्ञा क्रियते, न तु द्विमात्रे कृतां प्रगृह्यसंज्ञां त्रिमात्रे अतिदिशामः, येनाल्विधित्वात्तदभावशङ्का स्यात् । एवञ्च त्रिमात्रएव प्रगृह्यसंज्ञाप्रवृत्तिः । द्विमात्रत्वबुद्ध्या संज्ञाप्रवृत्तावपि वस्तुतो धर्मिणस्त्रिमात्रतया तत्रैव विश्रामात्, रजतभ्रमजन्यप्रवृत्तेः शुक्तिविषयकत्ववत् । न चाहारीपेण कथं शास्त्रप्रवृत्तिः । शास्त्रेणैव तस्य शास्त्रप्रवृत्तिप्रयोजकत्वोक्तेः । शास्त्रस्य वस्तुतोऽसिद्धत्वासम्भवात् । एतेन सुश्लोकेतीत्यादावादेशे प्लुतः श्रूयेतेत्यप्यपास्तम् । द्विमात्रबुद्ध्यैव क्रियमाणेन गुणेन तद्बुद्धिविशेष्यप्लुतस्यैव निवृत्तेरर्थसिद्धत्वादिति दिक् । 

चत्वारोऽत्र पक्षाः सम्भवन्ति । ईदादीनां विशेष्यत्वं द्विवचनस्य च विशेषणत्वम्, द्विवचनसंज्ञं यदीदादि तत् प्रगृह्यमित्यर्थ इत्याद्यः । प्रत्ययग्रहणपरिभाषया द्विवचनपदं द्विवचनान्तपरम्, ईदादीनां विशेषणत्वात्तदन्तविधिः, ईदाद्यन्ते द्विवचनान्तमिति द्वितीयः । ईदाद्यन्तं यद् द्विवचनं तदन्तमिति तृतीयः । द्विवचनमेव संज्ञि वक्ष्यमाणयुक्तेः, ईदाद्यन्तं द्विवचनं प्रगृह्यसंज्ञमिति वाक्यार्थ इति चतुर्थः । तत्राद्ये पचेते इत्यादौ संज्ञा न स्यात्, एकारस्य द्विवचनावयवत्वेऽपि द्विवचनत्वाभावात् । न च मुख्यानुपपत्त्या शास्त्रप्रामाण्याद्‌गौणे प्रवृत्तिः । गङ्गे इत्यादौ अन्तादिवच्च इत्यादिवद्भावेन एकारस्य मुख्यद्विवचनत्वेन तत्र चारितार्थ्यात् । द्वितीयेऽपि कुमार्योरगारं कुमार्यगारम् वध्वोरगारम् वध्वगारमित्यादावतिप्रसङ्गः । प्रत्ययलक्षणेन द्विवचनान्तत्वात् । स्वरूपत ईदूदन्तत्वाच्च । तृतीयेऽपि अशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्रथमाद्विवचनस्य नपुंसकाच्च इति शीभावे च्विप्रत्यये सुपो धातुप्रातिपदिकयोः इति शी लोपे अस्य च्वौ इति शुक्लशब्दान्त्याकारस्य ईत्वे तद्धितान्तत्वादुत्पन्नस्य सुप्रत्ययस्याव्ययत्वाल्लुकि कृते शीशब्द ईकारान्तं द्विवचनं प्रत्ययलक्षणेन च पदं तदन्तमित्यतिप्रसङ्गः । 

ननु पक्षद्वयेऽपि न दोषः । ईदूतौ च सप्तम्यर्थे इत्यत्र सप्तमीत्येवोक्तेऽपि प्रत्ययलक्षणेन सोमो गौरी अधिश्रित इत्यत्र प्रगृह्यसंज्ञासिद्धौ अर्थग्रहणेन प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापयितुं शक्यत्वात् । शुक्ल्यास्तामित्यत्र अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते इति न्यायादौकारस्यैव लोपेन शीभावाप्रवृत्तेः प्रत्ययलक्षणे सत्यपि दोषाभावाच्च । ईदाद्यन्तत्वस्य तावताऽप्यलाभाद् इति चेन्मैवम्, तथाऽपि तदन्तग्रहणदौर्लभ्यादेव पक्षद्वयस्य दुष्टत्वात् । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति इति सुप्तिङन्तं पदम् इत्यन्तग्रहणेन ज्ञापितत्वात् । तस्मादीदूदेदन्तं यद्विवचनमित्येव युक्तम् । सन्निधानेन द्विवचनस्यैव संज्ञित्वप्रतीतेः । न चैवं यथोक्तोदाहरणेषु ईदादिस्वरूपेषु तदन्तत्वं नास्तीति वाच्यम् । व्यपदेशिवद्भावेन तदन्तत्वसम्भवात् । अत्र मणीवादीनां प्रतिषेधो वक्तव्यः इति पठित्वा मणीव रोदसीव दम्पतीवेति वृत्तिकृतः । कैयटादयस्तु भाष्यवार्त्तिककाराभ्यामपठितत्वादप्रमाणमेतत् । मणीवोष्ट्रस्येति तु प्रयोगो वाशब्दस्योपमानार्थस्य । रोदसीवेत्यादिस्तु छान्दसः प्रयोग इत्याहुः । 

एवं च न्यायसाम्यान्मुनित्रयानुक्तानां तुरीयस्येष्टिः शंसिदुहिगुहिभ्यो वा नमेके छन्दसि भाषायां च इत्यादीनां वृत्तिकृन्मात्रोक्तानामियमेव गतिः । नन्वेवम् - स्फुटोत्पलाभ्यामलिदम्पतीव तद्विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलौ तरलौ विरेजतुः ।

इति नैषधस्य का गतिः, वाशब्दस्यात्रासङ्गतेः पौरुषेयत्वाच्चेति चेदत्राहुः इवार्थस्य वाशब्दस्याये प्रयोगः । न च तत्र मानाभावः । वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् इतिविश्वदर्शनात् । कादम्बखण्डितदलानि व पङ्कजानि इत्यादिप्रयोगात् । व वा यथा तथैवैवम् इत्यमरव्याख्यायाम् शात्रवं व पपुर्यशः इति कालिदासप्रयोगस्य तद्व्याख्यातृभिरुदाहृतत्वाच्च । 

यत्तु अमरे अयमेव पाठो युक्तः, न तु वद्वेति क्षीरस्वाम्युक्तः । प्रातिपदिकप्रक्रमे तद्धितस्य वतेरननुगुणत्वात् । अपत्यसमूहादिपर्यायमध्ये अफिञ्वजादीनामनुक्तेश्वेति । तच्चिन्त्यम्, तद्धितत्वमात्रेण प्रक्रमविरोधे यथेत्यादीनामप्यनुपादानप्रसङ्गात् । प्रकृतिनिर्मुक्तस्य तथात्वे तु प्रकृतिविशेषस्य नियतत्वस्योपाधित्वात् । थादीनां प्रकृतिविशेषोत्तरमेव विहितत्वात् । वतेस्तु तदभावात् । अत एव अणादीनामित्यादिकमपास्तम् । तेषामपत्यसमूहाद्यर्थविशेषासाधारणरूपाभावात् । प्रकृतिविशेषगर्भतया तु गार्भिणं गणे इत्यादिना तत्तत्प्रकरणे बहुशो दर्शितत्वात् । वतेश्च सादृश्य एव विधानात् ॥

॥ सिद्धान्तकौमुदी ॥

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे अमू । पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः ॥

॥ बालमनोरमा ॥

ईदूदेद्द्विचनम् । ईच्च ऊच्च एच्चेति समाहारद्वन्द्वः । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधिः । 'द्विवचन'मित्यनेन तु प्रत्ययत्वे । ञपि न तदन्तं गृह्यते, 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती'ति तन्निषेधात् । तदाह - ईदूदेदन्तमित्यादिना । हरी एताविति । अत्र ईकारस्य परादिवत्त्वाश्रयणाद्द्विवचनत्वम् । प्रगृह्यत्वे सति 'प्लुतप्रगृह्या' इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम् । गङ्गे अमू इत्यत्र त्वयादेशो न भवति । 'ईदूदेदन्त'मिति तदन्तविधेः प्रयोजनं दर्शयितुमाह - पचेते इमाविति । तदन्तविध्यबावे ईदूदेदात्मकं द्विवचनं प्रगृह्यमिति लभ्येत । एवं सति 'पचेते' इत्यत्र 'इते इति द्विवचनस्य एद्रूपत्वाऽभावात्प्रगृह्यत्वं न स्यादिति भावः । 'ईदूदेदन्तं यद्द्विचनान्त'मिति व्याख्याने तु कुमार्योरगारं कुमार्यगारमित्यत्रातिप्रसङ्गः स्यात् । 'ईदूदेदन्तं द्विवचन'मिति व्याख्याने तु नातिप्रसङ्गः, ओसो द्विवचनस्य ईदूदेदन्तत्वाऽभावात् । ननु 'मणीवोष्ट्रस्य सम्बेते प्रियौ वत्सतरौ ममे'ति भारतश्लोके 'मणी इवे'ति ईकारस्य प्रगृह्यत्वे सति प्रकृतिभावे सवर्णदीर्घो न स्यादित्यत आह-मणीवोष्ट्रस्येति । 'त्वं प्रचेतसि जानीयादिवार्थे च तदव्यय'मिति मेदिनी । 'व वा यथा तथैवैवं साम्ये'इत्यमरः ॥

॥ तत्त्वबोधिनी ॥

ईदूदेदन्तमिति । अत्र विशेणेन तदन्तविध्याश्रयणं किम् ? । 'पचेते इमा' - विति यथा स्यात् । 'हरी' 'विष्णू' इत्यादिष्वेकादेशस्य परादिवद्भावाश्रयेण ईकारादीनां द्विवचनत्वादीदूदेद्रूपं द्विवचनमित्युक्तेऽपि प्रगृह्रत्वं सिध्यतीति बोध्यम् । द्विवचनमिति । 'संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति', 'सुप्तिङन्त' - मित्यन्तग्रहणाज्ज्ञापकात् । तेन कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति सिद्धम् । 'द्विवचनान्तं प्रगृह्रं स्या' दिति व्याकुर्वतः प्राचस्तु नेदं सिध्येत् । हरी एताविति । इह ह्यस्वसमुच्चितप्रकृतिभावो न, 'प्लुतप्रगृह्राः' इत्यत्र नित्यग्रहणादित्युक्तम् । अत्र वृत्तिकारेण - 'मणीवादीनां प्रतिषेधो वक्तव्यः' इति पठित्वा 'मणीव' 'रोदसीव' 'जंपतीवे' त्युदाह्मतम् । तच्च मुनित्रयानुक्तत्वादप्रमाणमिति कैयटादयः । एवं स्थिते 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ ममे' ति भारतप्रयोगं समर्थयते - इवार्थे इति । वशब्द इत्यादि । 'वं प्रचेतसि जानीयादिवार्थे च तदव्यय' मिति मेदिनी । 'व वा यथा तथैवैवं साम्ये' इत्यमरः । कादम्बखण्डितदलानि व पङ्कजानी' त्यादिप्रयोगदर्शनाच्चेति भावः ॥

॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥

द्विवचनमिति ॥ सुप्तिङन्तम् इति अन्तग्रहणेन 'सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति' इति ज्ञापितत्वादिति भावः । तेनेह न । कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्वगारमिति । स्पष्टं चेदं भाष्यादौ । द्विवचनान्तं प्रगृह्यं स्यादिति तु प्राचः प्रमाद एव । हरी एताविति । इह शाकलं न । प्लुतप्रगृह्य - इत्यत्र नित्यग्रहणादित्युक्तम् । अत्र वृत्तिकारः - 'मणीवादिनां प्रतिषेधो वक्तव्यः' इति पठित्वा मणीव, रोदसीव, दम्पतीव, जम्पतीवेत्युदाजहार । तच्च मुनत्रयानुक्तत्वादप्रमाणमिति कैयटहरदत्तादयः । एवं स्थिते - 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम'॥ इति भारतप्रयोगं समर्थयते - वशब्द इति । 'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्' इति मेदिनी ॥ 'व वा यथा तथैवैवं साम्ये' इत्यमरग्रन्थ्याख्यावसरे 'शात्रवं व पपुर्यशः' इति कालिदासप्रयोगस्याभियुक्तैरुदाहृतत्वात्। 'कादम्बखण्डितदलानि व पङ्कजानि' इत्यादिदर्शनाच्चेति भावः। यत्तु पाठान्तरं 'वद्वा यथा तथा' इत्यादि; तदयुक्तम्, नामलिङ्गानुशासनप्रक्रमे तद्धितवतेरननुगुणत्वात् अपत्यसमूहादिपर्यायमध्येऽण्फिञ्वुञादीनामनुक्तेश्च । अदसो मात् ॥ इह एकारो नानुवर्तते, असम्भवात् इत्यभिप्रेत्याह -

॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥

कौमुदी - ईदूदेद्विवचनं प्रगृह्यम् । १.१.११॥ इदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् । हरी एतौ । विष्णू इमौ । गन्ने अमू। पचेते इमौ । मणीवोष्ट्रस्येति तु इवार्थे व शब्दो वा शब्दो वा बोध्यः । 

मनोरमा - द्विवचनमिति । 'सुप्तिङन्तम्' (पा.सू.१.४.१४) इति अन्तग्रहणेन संज्ञाविधी प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति ज्ञापितत्वादिति भावः । तेनेह न कुमार्योर्वध्वोश्चागारं कुमार्यगारं वध्र्वगारमिति । स्पष्टं चेदं भाष्यादौ । द्विवचनान्तं प्रगृह्यं स्यादिति तु प्राचः प्रमाद एव । 

ईदन्त, ऊदन्त, एदन्त द्विवचन को यह सूत्र प्रगृह्यसंज्ञा करता है, न कि ईदन्त, ऊदन्त, ऐदन्त द्विवचनान्त को मनोरमाकार उसमें उपपत्ति देते हैं कि 'सुप्तिङन्तम्' जो 'अन्त' ग्रहण किया गया है वह ज्ञापित करता है 'संज्ञा विधौ ' - इत्यादि । अर्थात् जिस सूत्रादि के द्वारा संज्ञा का विधान किया जाता हो उस सूत्र में उद्देश्य या निमित्त रूप में यदि प्रत्यय का ग्रहण किया गया हो तो वहाँ उस प्रत्यय से प्रत्ययान्त का ग्रहण नहीं होता । 'ईदूदेत्' सूत्र भी प्रगृह्य संज्ञा का विधान करता है । अतः उद्देश्य रूप में गृहीत प्रत्यय ( द्विवचन) से द्विवचनान्त का ग्रहण नहीं होता है । अतः ईदन्तादि द्विवचन (प्रत्यय) की ही प्रगृह्यसंज्ञा होती है । इसीलिए कुमार्योः अगारम् इस विग्रह में कुमारी + ओस् अगार  + सु का, तथा वध्वोः अगारम् इस विग्रह में वधू  + ओस्  + अगार + सु का षष्ठीतत्पुरुष समास होकर विभक्ति का जब लुक् हो जाएगा तो क्रमशः कुमारी  + अगारम्, तथा वधू - अगारम् यहाँ 'री' के ईकार या 'धू' के ऊकार की प्रगृह्य संज्ञा नहीं होती । यहाँ शब्दरत्नकार कहते हैं - 

शब्दरत्न - कुमायरिति । हि प्रत्ययलक्षणेन द्विवचनान्तत्वं श्रुत्या चेदन्तत्वमस्तीतिभावः । इदं च द्विवचनान्तमीदन्तमित्यथ। ईदन्तं यद् द्विवचनं अत्र तदन्तमित्यर्थे तदन्तविध्यसम्भव एव दोषो बोध्यः । 

तात्पर्य यह है कि यदि यहाँ तदन्तविधि मानकर 'ईदन्त, ऊदन्त, ऐदन्त जो द्विवचनान्त उसे प्रगृह्य संज्ञाहो' ऐसा सूत्रार्थ होता तो समास होने के बाद की स्थिति में कुमारी  + अगारम्, या वधू  + अगारम् यहाँ पर कुमारी में ईदन्तत्त्व तथा 'वधू' में ऊदन्तत्त्व तो प्रत्यक्ष ही सुनाई पड़ रहा है, प्रत्ययलक्षण से द्विवचनान्त भी आ ही जाएगा । इस प्रकार 'कुमारी' ईदन्त द्विवचनान्त, तथा 'वधू' ऊदन्त द्विवचनान्त कहलाएगा तो उसकी प्रगृह्य संज्ञा हो जाएगी । तब 'प्लुत प्रगृह्या' से प्रगृह्योद्देश्यक प्रकृतिभाव हो जाएगा तो सन्धि नहीं होने से कुमार्यगारम्, वध्र्वगारम् प्रयोग नहीं बन पाता । यह दोष होता । शब्दरत्नकार कहते हैं कि यह जो ऊपर अव्याप्ति दोष दिया गया । वह तो इस सूत्र का अर्थ 'ईदन्त जो द्विवचनान्त' - इत्यादि माना जाएगा तब । यदि सूत्र का अर्थ “ईदन्त जो द्विवचन तदन्त को" इत्यादि माना जाएगा तब तो तदन्तविधि हो ही नहीं सकता था असम्भव है यही दोष समझना चाहिए । अर्थात् तब मनोरमाकार कहते है 'ईदन्तं ऊदन्तं एदन्तं यद् द्विवचनं तदन्तमित्यर्थो न तदन्तविध्यसम्भवात् । ' अस्तु एवं च उपर्युक्त उदाहरण में कुमारी का ईकार या वधू का ऊकार चूँकि द्विवचन नहीं है । अत: प्रगृह्य संज्ञा नहीं होती प्रकृतिभावाभावात् सन्धि हो जाती है । 

मनोरमा - हरी एताविति । इह शाकलं न 'प्लुतप्रगृह्या' इत्यत्र नित्यग्रहणादित्युक्तम् । अत्र वृत्तिकारः 'मणीवादीनां प्रतिषेधो वक्तव्यः' इति पठित्वा मणीव, रोदसीव, दम्पतीव, जम्पतीवेत्युदाजहार । तच्च मुनित्रयानुक्तत्वादप्रमाणम् इति कैयटहरदत्तादयः । एवं स्थिते 'मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरी मम' इति भारतं प्रयोगं समर्थयते - इवार्थे इति । व शब्द इति । 

'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम्' इति मेदिनी। 'व वा यथा तथैवैवं साम्ये' इत्यमरग्रन्थव्याख्यावसरे 'शात्रवं व पपुर्यशः' इति कालिदासप्रयोगस्याभियुक्तै - रुदाहृतत्वात् । ‘कादम्बखण्डितदलानि व पङ्कजानि इत्यादिदर्शनाच्चेति भावः । यत्तु पाठान्तरं 'वद्वा यथा तथा' इत्यादिः, तदयुक्तम् नामलिनानुशासनप्रक्रमे तद्धितवतेरननुगुणत्वात् अपत्यसमूहादिपर्यायमध्ये अफिञ्ञादीनामनुक्तेश्च ॥

'हरी एतौ ' यहाँ पर शाकल अर्थात् 'इकोऽसवर्णे शाकल्यस्य' सूत्र से ह्रस्वसमुच्चित प्रकृतिभाव नहीं हुआ। क्योंकि 'प्लुतप्रगृह्या' सूत्र में 'नित्यम्' का ग्रहण है । यह बात कही जा चुकी है । शब्दरत्नकार कहते हैं - 

शब्दरत्न - इत्युक्तमिति । मूले इति शेषः । 

अर्थात् कौमुदी में कही जा चुकी है । यहाँ वृत्तिकार 'मणीवादीनां प्रतिषेधो वक्तव्य:' ऐसा पढ़कर इसका उदाहरण देते हैं - मणीव, रोदसीव दम्पतीव जम्पतीव इत्यादि । उनका तात्पर्य यह है कि उपर्युक्त प्रयोगों में मणी, रोदसी आदि ईदन्त द्विवचन है तथापि प्रगृह्यसंज्ञा नहीं हुई तो प्रकृतिभाव भी नहीं हुआ। अतः उन सब शब्दों के आगे 'इव' के रहने पर सवर्णदीर्घ हो गया । मनोरमाकार कहते हैं कि वृत्तिकार द्वारा पठित 'मणीवादीनाम्' इत्यादि वचन तीनों मुनियों द्वारा अनुक्त है । अतः अप्रमाणिक है । ऐसा कैयट हरदत्त आदि ने कहा है । ऐसी स्थिति में 'मणीवोष्ट्रस्य लम्बेते' इत्यादि जो महाभारत का श्लोक है, उसमें आये 'मणीव' का समर्थन अर्थात् उसके साधुत्व की उपपत्ति कौमुदी में कही गयी - इवार्थे व शब्दो वा शब्दो वा बोध्यः । अर्थात् 'मणीव' मणि + व इस प्रकार का पदच्छेद समझना चाहिए न कि मणि + इव ऐसा। यहाँ 'व' अथवा 'वा' शब्द है जो इवार्थक है अर्थात् सादृश्य अर्थ वाला है । 'व' और 'वा' शब्द इवार्थक होता है । इसमें मेदिनीकोश को प्रमाणरूप से मनोरमाकार उद्धृत करते हैं - 'वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् । ' इसी प्रकार 'व वा यथा तथैव' - इत्यादि अमरकोष की व्याख्या के अवसर पर 'शास्त्रवं व पपुर्यश:' इस कालिदास के प्रयोग को 'अभियुक्तों ने उदाहृत किया है । शब्दरत्नकार उपर्युक्त कालिदास के श्लोकांश की व्याख्या करते हैं - 

शब्दरत्न - शात्रवं वेति । शात्रवं यश इवेत्यर्थः । ववेत्यादिकोशप्रदर्शनेन व शब्द इव पर्यायः स्वतन्त्र एव न तु सत्या भामादिवत् एकदेश इति सूचयति । 'विनाऽपि प्रत्ययं पूर्वोत्तरपदयोर्लोपो वाच्यः' इति वचनेन तादृशस्थले तथाकल्पनेऽप्यखण्डे पदे तथात्वे मानाभावात् । 

'शात्रवं व पपुर्यशः' का अर्थ है शात्रवं यशः व पपुः अर्थात् शत्रु के यश की तरह पीआ। शब्दरत्नकार आगे कहते हैं कि व वा' शब्द इवार्थक हैं इस बात में मनोरमाकार ने जो 'व वा' इत्यादि कोश को उद्धृत किया, उससे सूचित होता है कि 'व' शब्द या 'वा' शब्द इवअर्थ को कहने वाले स्वतन्त्र शब्द हैं । न कि 'इव' शब्द का एक भाग। जैसे 'सत्यभामा' शब्द का एकभाग 'सत्या' अथवा 'भामा' शब्द सत्यभामा अर्थ को कहता है उसी तरह 'इव' शब्द का एक भाग 'व' शब्द भी 'इव' अर्थ को कहता है । ऐसी बात नहीं है । अपितु वे दोनों शब्द (व तथा वा) 'इव' शब्द की तरह स्वतन्त्र हैं । 'सत्यभामा' जैसे स्थल में 'विनाऽपि प्रत्ययं पूवोत्तरपदयोर्लोपोवाच्यः' की भले ही कल्पना की जाए परन्तु अखण्ड (व और वा) पद में वैसी कल्पना करने में कोई प्रमाण नहीं है । 

इसी प्रकार 'कादम्बखण्डितदलानि व पङ्कजानि' इस पद्य में भी 'व' शब्द इवार्थ में प्रयुक्त हुआ है । ऐसा कहते हुए अमरकोश के अभियुक्त व्याख्याकार ने उपर्युक्त श्लोकांश को उद्धृत किया है । 

कुछ लोग अमरकोष में 'वद्वा यथा तथा' इत्यादि पाठान्तर मानते हैं अर्थात् वत्, वा, यथा तथा इत्यादि इवार्थ में है । इस प्रकार इस पाठान्तर के अनुसार इवार्थको में 'व' शब्द का पाठ नहीं है अपि तु 'वत्' इस तद्धितीय प्रत्यय का पाठ है । मनोरमाकार इसका खण्डन करते हुए कहते हैं - तदयुक्तम् । क्योंकि नामलिङ्गानुशासन अर्थात् प्रातिपदिक के लिए लिङ्ग का अनुशासन करने हेतु बने इस कोष में तद्धितप्रत्यय 'वत्' का पाठ करना अननुगुण है उपयुक्त नहीं है । क्योंकि तब तो अपत्य या समूह के पर्यायवाची शब्दों में अण्, फिञ्, वुञ् आदि प्रत्ययों का पाठ करना चाहिए था । परन्तु किया नहीं गया है । अतः सादृश्यार्थक शब्दों के पर्याय में 'वत्' का पाठ मानना अनुचित है । अपि तु 'व वा' इत्यादि वाला पाठ ही उचित है । 

॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥

विशेषणेन तदन्तविधिमाश्रित्याह - ईदूदेदन्तमिति । द्विवचनमिति । संज्ञाविधो प्रत्ययग्रहणे तदन्तविधिनिषेधाविति भावः ।

एदन्तमिति व्याख्याने फलमाह - पचेते इति ॥

ईदन्तमुदन्तदन्तं द्विवचनम् प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणमिति परिभाषया प्रत्ययवाचकत्वेन तदन्तविधिपरं न, 'संज्ञाविधो प्रत्ययग्रहणे न तदन्तग्रहणम्' इति परिभाषया तदन्तविधेः प्रतिषेधात्, तदाह-संज्ञाविधाविति । ननु ईकारेण ऊकारेण च विशेषणेन तदन्तविधेर्नोपयोगः, 'हरी विष्णू' इत्युभयत्र दीर्घकारोका- रयोः केवलयोद्विवचनरूपत्वेन तदन्तत्वसम्पादनाय व्यपदेशिवद्भावस्यापेक्षिततया प्रत्युत गौरवमेव स्यात्, अतः तदन्तविधिर्नावश्यक इत्यत आह - एदन्तमिति । 'पचेते' इत्यत्र एकारमात्रस्य द्विवचनत्वाभावात् एतदर्थम् एदन्तमित्यर्थस्तदन्तविधिना अवश्यं वाच्यः । तथा च ऐकरूप्याय ईकारोकारयोरपि तदन्तविधिः कृतः । व्यपदेशिवद्भावाच्च ईदन्तम् उदन्तश्च सम्पादनीयम् । एतेन एकारांशे द्वितीयोदाहरणविशेषार्थबोधनाय सफलम् । अन्यथा 'गङ्गे अमू' इत्येकेनोदाहरणेन निर्वाहे द्वितीयोदाहरणस्य कोऽवकाशः ! अदसो मात् ॥ शे ॥

॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

विशेषणेन तदन्तविधिमाश्रित्याह - ईदूदेदन्तमिति । द्विवचनमिति । सञ्ज्ञाविधौ प्रत्यवग्रहणे तदन्तविधिनिषेधादिति भावः । एदन्तमिति व्याख्याने फलमाह - पचेते इति ।

“ईदूदेद् द्विवचनं प्रगृह्यम्” इस सूत्र में “ईदूदेत्” अर्थात् ईद ऊत् और एत् ये तीनों विशेषण हैं और द्विवचन विशेष्य है । इसलिए “येन विधिः” सूत्र से तदन्तविधि होती है । इस तदन्तविधि के परिणामस्वरूप कौमुदी में इस सूत्र की वृत्ति कही गई कि “ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञ स्यात्” । अर्थात् ईदन्त, ऊदन्त और एदन्त जो द्विवचन उसकी प्रगृह्य संज्ञा होती है । 

अब प्रश्न यह होता है कि “द्विवचन संज्ञा के प्रत्यय बोधक होने के कारण “प्रत्ययग्रहणे यस्मात्स विहितः” इस परिभाषा से तदादि की उपस्थिति होगी । उस तदादि को विशेष्य और द्विवचन को विशेषण बना कर “येन विधिः” सूत्र से तदादिविशेष्यक तदन्तविधि करके “ईदूदेदन्तं यद् द्विवचनान्तं तत् प्रगृह्यसंज्ञकं स्यात्” ऐसा अर्थ यहाँ क्यों नहीं किया जाता है ? इस शंका के उत्तर में शेखरकार कह रहे हैं कि “संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति” इस परिभाषा से यहाँ तदन्तविधि का निषेध कर दिया जाता है, क्योंकि यहाँ प्रगृह्य संज्ञा विधि है और संज्ञा - विधि में प्रस्तुत परिभाषा से तदन्तविधि का निषेध किया जाता है । इसी आधार पर इस सूत्र की वृत्ति में “द्विवचनान्तम्” न कह कर “द्विवचनम्” कहा गया है । 

इस सूत्र का वास्तविक अर्थ जो कौमुदी की वृत्ति में कहा गया, उसका समन्वय “हरी एतौ इत्यादि प्रयोगों में किस प्रकार होता है, यह बात भी यहाँ प्रसंगवश विवेचित करना आवश्यक है । ईदन्त, उदन्त और एदन्त द्विवचन की प्रगृह्य संज्ञा होती है, इस बात को सन्दर्भित करके “हरी एतौ” प्रयोग पर विचार करते समय यह बात सामने आती है कि जो ईदन्त “हरी” यह पद है वह द्विवचन नहीं है किन्तु वह द्विवचनान्त है । यदि ईकार में परादिवद्भाव से द्विवचनत्व लाते हैं तो उसमें द्विवचनत्व के सुलभ होने पर भी ईदन्तत्व नहीं है, क्योंकि ईदन्त तो “हरी” यह पद है, न कि केवल ईकार ईदन्त है । ऐसी स्थिति में यहाँ प्रगृह्य संज्ञा कैसे की जाय ? यह प्रश्न उपस्थित होता है । इस प्रश्न का समाधान यह है कि “हरी” पदघटक ईकार में परादिवद्भाव से द्विवचनत्व तथा व्यपदेशिवद्भाव से तदन्तत्व (ईकारान्तत्व) लाकर उस ईकार को ही ईदन्त द्विवचन मान कर प्रगृह्य संज्ञा की जाती है । 

अब एक विचार यहाँ यह उपस्थित होता है कि कौमुदीकार ने इंकारांश और उकारांश में तो एक - एक उदाहरण दिया है “हरी एती” और “विष्णू इमौ” किन्तु एकारांश में “गङ्गे अमू” “और “पचेते इमी” ये दो उदाहरण क्यों दिये हैं ? इस प्रश्न का समाधान यह है कि इस सूत्र  - घटक पर्दो के मध्य विशेषण - विशेष्यभाव का व्यत्यास करके द्विवचन को विशेषण और “ईदूदेत्” को विशेष्य क्यों न बनाया जाए? ऐसा एक पक्ष जब सामने आया तब इस विशेषण - विशेष्य - भाव में तदन्तविधि करने पर द्विवचनान्त जो 'ईदूदेत्' ऐसा सूत्रार्थ होने की स्थिति आती है, किन्तु असम्भवात् ऐसा उदाहरण न मिलने के कारण अगत्या तदन्तविधि न करके सूत्रार्थ इस प्रकार किया जाता है  - द्विवचन रूप जो ईदूदेत उनकी प्रगृह्य संज्ञा होती है । ऐसा अर्थ करने पर “हरी एतौ “इस प्रयोग में लाघव भी यह होता है कि “हरी” के ईकार में केवल परादिवदभाव से द्विवचनत्व ही लाना पड़ता है । इस पक्ष में व्यपदेशिवभाव की आवश्यकता नहीं पड़ती है । यही बात उकारांश में भी है । किन्तु ऐसा अर्थ करने पर “गने अमू” उदाहरण में द्विवचन रूप एकार के मिल जाने पर भी “पचेते इमी” इस प्रयोग में द्विवचन रूप एकार नहीं मिल रहा है, क्योंकि यहाँ द्विवचन तो “आते” यह है, जो एकार नहीं है, इसलिए यहाँ प्रगृह्य संज्ञा नहीं हो सकेगी । इस दोष को दृष्टिगत कर यहाँ विशेषण विशेष्यभाव में व्यत्यास नहीं करना चाहिए, किन्तु यथा पूर्व में कहा गया है कि यहाँ ईदूदेत् विशेषण हैं और द्विवचन विशेष्य है, यही बात सिद्धान्ततः माननी चाहिए । ऐसा करने से ईदन्त, ऊदन्त और एदन्त द्विवचन की प्रगृह्य संज्ञा होती है, ऐसा सूत्रार्थ होता है । ऐसा अर्थ करने से “पचेते इमौ” का दोष हट जाता है । क्योंकि “पचेते” घटक “एते” यह अंश एदन्त तो स्वयमेव है, केवल परादिवद्भाव से इसमें द्विवचनत्व लाया जाता है, जिससे यहाँ प्रगृह्य संज्ञा हो जाती है । इसी अभिप्राय से शेखरकार कह रहे हैं कि “एदन्तम्” इस रूप में सूत्र के व्याख्यान का फल “पचेते इमौ” यह प्रयोग है । 

॥ महाभाष्यम् ॥

अथ प्रगृह्यसञ्ज्ञाप्रकरणम्

(१०. प्रगृह्यसञ्ज्ञासूत्रम् १.१.५ आ. १) 

ईदूदेद् द्विवचनं प्रगृह्यम् १.१.११

॥ तपरपाठप्रयोजनाधिकरणम् ॥

आक्षेपभाष्यम् - किमर्थमिदानीं तपराणां प्रगृह्यसञ्ज्ञोच्यते ? 

समाधानभाष्यम् - ' तपरस्तत्कालस्य ' इति तत्कालानां सवर्णानां ग्रहणं यथा स्यात् । केषाम् ? उदात्तानुदात्तस्वरितानाम् । 

भाष्यम् - अस्ति प्रयोजनमेतत् । किं तहींति ? प्लुतानां तु प्रगृह्यसञ्ज्ञा न प्राप्नोति । किं कारणम् ? अतत्कालत्वात् । न हि प्लुतास्तत्कालाः । 

आक्षेपबाधकभाष्यम् - असिद्धः प्लुतः । तस्यासिद्धत्वात्तत्काला एव भवन्ति । 

आक्षेपसाधकभाष्यम् - सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते - सिद्धः प्लुतः स्वरसन्धिषु ' इति । यदयं ' प्लुतः प्रकृत्या ' इति प्लुतस्य प्रकृतिभावं शास्ति । कथं कृत्वा ज्ञापकम्सतो हि कार्यिणः कार्येण भवितव्यम् । 

प्रयोजनजिज्ञासाभाष्यम् - किमेतस्य ज्ञापने प्रयोजनम् ? 

प्रयोजनभाष्यम् - ' अप्लुतादप्लुते ' इत्येतन्न वक्तव्यं भवति । 

आक्षेपबाधकभाष्यम् - किमतो यत्सिद्धः प्लुतः स्वरसन्धिषु । सञ्ज्ञाविधावसिद्धः । तस्यासिद्धत्वात्तत्काला एव भवन्ति । 

आक्षेपसाधकभाष्यम् - सञ्ज्ञाविधौ च सिद्धः । कथम् ? कार्यकालं हि सज्ञापरिभाषम्, यत्र कार्य तत्रोपस्थितं द्रष्टव्यम्, ' प्रगृह्यः प्रकृत्या ' इत्युपस्थितमिदं भवति - ' ईदूदेद् द्विवचनं प्रगृह्यम् ' इति । 

प्रत्याक्षेपभाष्यम् - किं पुनः प्लुतस्य प्रगृह्यसञ्ज्ञावचने प्रयोजनम् ? 

समाधानभाष्यम् - प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् । 

प्रत्याक्षेपबाधकभाष्यम् -  मा भूदेवम् । प्लुतः प्रकृत्या - इत्येवं भविष्यति । 

प्रत्याक्षेपसाधकभाष्यम् - नैवं शक्यम् । उपस्थिते हि दोषः स्यात् । ' अप्लुतवदुपस्थिते ' इति । अत्र पठिष्यति ह्याचार्यः - ' वद्वचनं प्लुतकार्यप्रतिषेधार्थम् । प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गोऽन्येन विहितत्वात् ' इति । तस्मात्प्लुतस्य प्रगृह्यसंज्ञैषितव्या । प्रगृह्याश्रयः प्रकृतिभावो यथा स्यात् । 

आक्षेपबाधकरीत्यन्तरनिराकरणभाष्यम् - यदि पुनर्दीर्घाणामतपराणां प्रगृह्यसञ्ज्ञोच्यते, एवमप्येकार एव एकः सवर्णान्गृह्णीयात्, ईकारोकारौ न गृह्णीयाताम् । किं कारणम् ? अनण्त्वात् । 

आक्षेपबाधकरीत्यन्तरनिराकरणभाष्यम् - यदि पुनर्हस्वानामतपराणां प्रगृह्य - सञ्ज्ञोच्यते । नैवं शक्यम् । इहापि प्रसज्येत - अकुर्वहि, अत्र अकुर्वह्यत्रेति । 

आक्षेपोपसंहारभाष्यम् - तस्माद्दीर्घाणामेव तपराणां प्रगृह्यसञ्ज्ञा वक्तव्या । दीर्घाणां चोच्यमाना प्लुतानां न प्राप्नोति । 

समाधानभाष्यम् - एवं तर्हि किं न एतेन यत्नेन यत् - ' सिद्धः प्लुतः स्वरसन्धिषु ' इति । असिद्धः प्लुतः । तस्यासिद्धत्वात्तत्काला एव भवन्ति । 

आक्षेपभाष्यम् - कथं यत्तज्ज्ञापकमुक्तम् - ' प्लुतप्रगृह्या अचि ' इति ? 

समाधानभाष्यम् - प्लुतभावी प्रकृत्या - इत्येवमेतद्विज्ञायते । 

आक्षेपभाष्यम् - कथं यत्तत्प्रयोजनमुक्तम् ? 

समाधानभाष्यम् - क्रियते तन्त्र्न्यास एव - ' अप्लुतादप्लुते ' इति । 

आक्षेपभाष्यम् - एवमपि यत्सिद्धे प्रगृह्यकार्य तत्प्लुतस्य न प्राप्नोति - ' अणोऽप्रगृह्यस्यानुनासिकः ' इति । 

समाधानभाष्यम् - एवं तर्हि किं न एतेन यत्नेन - ' कार्यकालं सञ्ज्ञापरिभाषम् ' इति । यथोद्देशमेव सज्ञापरिभाषम् । अत्र चासावसिद्धः, तस्यासिद्धत्वात्तत्काला एव भवन्ति । 

द्विवचनविशेषणताविचारभाष्यम् - कथं पुनरिदं विज्ञायते - ईदादयो यद् द्विवचनम्,आहोस्विदीदाद्यन्तं यद् द्विवचनमिति । 

विशेषजिज्ञासाभाष्यम् - कश्चात्र विशेषः ? 

(१४८. प्रथमपक्षे दोषप्रदर्शकवार्त्तिकम् - १) * ईदादयो द्विवचनं प्रगृह्या इति चेदन्त्यस्य विधिः * 

भाष्यम् - ईदादयो द्विवचनं प्रगृह्या इति चेत्, अन्त्यस्य प्रगृह्यसञ्ज्ञा विधेया - पचेते इति, पचेथे इति । 

दूषणबाधकभाष्यम् - वचनाद्भविष्यति । 

दूषणसाधकभाष्यम् - अस्ति वचने प्रयोजनम् । किम् ? खट्वे इति, माले इति । 

दूषणबाधकद्वितीयपक्षाभ्युपगमभाष्यम् - अस्तु तर्हि ईदाद्यन्तं यद् द्विवचनम् इति । 

(१४९. द्वितीयपक्षे दूषणवार्त्तिकम् - २) * ईदाद्यन्तमिति चेदेकस्य विधिः * 

भाष्यम् - ईदाद्यन्तं द्विवचनमिति चेदेकस्य प्रगृह्यसञ्ज्ञा विधेया - खट्वे इति, माले इति । 

(१५०. द्वितीयपक्षे समाधानवार्त्तिकम् - ३) * न वाऽऽद्यन्तवत्त्वात् * 

भाष्यम् - न वा एष दोषः । किं कारणम् ? आद्यन्तवत्त्वात् । आद्यन्तवदेकस्मिन्कार्य भवतीत्येवमेकस्यापि भविष्यति । 

तृतीयपक्षाभ्युपगमभाष्यम् - अथवा एवं वक्ष्यामि - ' ईदाद्यन्तम् ' । ईदाद्यन्तं यद् द्विवचनान्तम् इति । 

(१५१. आक्षेपवार्त्तिकम् - ४) * ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधः * 

भाष्यम् - ईदाद्यन्तं द्विवचनान्तमिति चेल्लुकि प्रतिषेधो वक्तव्यः । कुमार्योरगारं कुमार्य - गारम् । वध्वोरगारं वध्वगारम् । एतद्धीदाद्यन्तं श्रूयते, द्विवचनान्तं च भवति प्रत्ययलक्षणेन । 

(१५२. समाधानवार्त्तिकम् - ५) * सप्तम्यामर्थग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधस्य * 

भाष्यम् - यदयम् ' ईदूतौ च सप्तम्यर्थे ' इत्यर्थग्रहणं करोति, तजापयत्याचार्यः - न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति । 

द्रौरवाक्षेपभाष्यम् - तत्तर्हि ज्ञापकार्थमर्थग्रहणं कर्तव्यम् । 

चतुर्थपक्षाश्रयणेन समाधानभाष्यम् - न कर्तव्यम् । ईदादिभिर्द्विवचनं विशेषयिष्यामः, ईदादिविशिष्टेन च द्विवचनेन तदन्तविधिर्भविष्यति - ईदाद्यन्तं यद् द्विवचनं तदन्तमीदाद्यन्तमिति । 

आक्षेपभाष्यम् - एवमप्यशुक्ले वस्त्रे शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे इत्यत्र प्राप्नोति । अत्र हीदादि च द्विवचनं, तदन्तं च भवति प्रत्ययलक्षणेन । 

समाधानभाष्यम् - अत्राप्यकृते शीभावे लुग्भविष्यति । 

आक्षेपसाधकभाष्यम् - इदमिह सम्प्रधार्य - लुक् क्रियतां, शीभाव इति । किमत्र कर्तव्यम् ? परत्वाच्छीभावः । 

समाधानसाधकभाष्यम् - नित्यो लुक् । कृते शीभावे प्राप्नोत्यकृतेद्धपि प्राप्नोति । 

आक्षेपसाधकभाष्यम् - अनित्यो लुक् । अन्यस्य कृते शीभावे प्राप्नोत्यन्यस्याकृते । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । शीभावोऽप्यनित्यः, न हि कृते लुकि प्राप्नोति । उभयोरनित्ययोः परत्वाच्छीभावः, शीभावे कृते लुक् । 

आक्षेपदार्व्यभाष्यम् - अथापि कथञ्चिन्नित्यो लुक्स्यात् । एवमपि दोषः, वक्ष्यत्येतत् - ' पदसञ्ज्ञायामन्तग्रहणमन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ' इति । इदं चापि प्रत्ययग्रहणम्, अयं चापि सञ्ज्ञाविधिः । अवश्यं खल्वस्मिन्नपि पक्षे आन्तवद्भाव एषितव्यः । तस्मादस्तु स एव मध्यमः पक्षः । ईदूदेत् । 



एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code