शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्। भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥
॥ लिप्यन्तरणम् ॥
śatāyuṣaḥ putrapautrānvṛṇīṣva bahūnpaśūnhastihiraṇyamaśvān | bhūmermahadāyatanaṁ vṛṇīṣva svayaṁ ca jīva śarado yāvadicchasi ||
॥ अन्वयः ॥
शतायुषः पुत्रपौत्रान् वृणीष्व। अहून् पशून् हस्तिहिरण्यम् अश्वान् भूमेः महत् आयतनं वॄणिष्व। स्वयं च यावत् शरदः जीवितुम् इछसि तावत् जीव ॥
॥ अन्वयलिप्यन्तरणम् ॥
śatāyuṣaḥ putrapautrān vṛṇīṣva| ahūn paśūn hastihiraṇyam aśvān bhūmeḥ mahat āyatanaṁ vṝṇiṣva| svayaṁ ca yāvat śaradaḥ ( jīvitum ) ichasi ( tāvat ) jīva ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ मुमुक्षास्थैर्यपरीक्षार्थं पुनः प्रलोभनम् ]
शतायुषः पुत्रपौत्रान् वृणीष्व बहून्पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥२३॥
पुत्रपौत्रान्वृणीष्व - सन्तानसमृद्धिं वृणीष्व इति यावत् । सा हि सर्वतो दुर्लभा । तच्च पुत्रपौत्रादिसन्तानं चिरायुरपि स्यात् इत्याह - शतायुष इति । किञ्च - बहून्पशून्हस्तिहिरण्यमश्वान् न केवलं सन्तानसमृद्धिमात्रम्, अथ च भोगोपकरणं गवाश्वहस्तिहिरण्यं यत् त्वदपेक्षितं तद्वृणीष्व । किं बहुना ? इदमपि वृणीष्व यच्च भूमेर्महदायतनम् - भौमं महत्स्थानम्, राज्यम् इत्येतत् । सर्वमिदं स्यान्नाम, यदि स्वल्पायुः किमेतैः ? तदाह - स्वयं च जीव शरदो यावत् इच्छसि - आयुर्नियमम् उल्लङ्घ्य यथेच्छं जीवेति यावत् ॥२३॥
॥ आङ्गल-अर्थः ॥
“Choose sons and grandsons who shall live each a hundred years, choose much cattle and elephants and gold and horses; choose a mighty reach of earth and thyself live for as many years as thou listest.
॥ हिन्दी-अर्थः ॥
(यम कहते हैं) १यमराज उस वैश्व 'विधान' के ज्ञाता और संरक्षक हैं जिसके द्वारा आत्मा को जन्म तथा मृत्यु के माध्यम से 'अमरत्व' की मुक्तावस्था में आरोहण करना है। ''शतायु पुत्रों तथा पौत्रों का वरण कर लो; बहुत से पशुओं (गायों आदि का) हाथियों, स्वर्णराशि तथा घोड़ों का वरण कर लो; अतिविस्तृत भूमिखण्ड का वरण कर लो तथा स्वयं जितने वर्ष इच्छा हो, जीवित रहो।
॥ शब्दावली ॥
शतायुषः - śatāyuṣaḥ - living for a hundred years
पुत्रपौत्रान् - putrapautrān - sons and grandsons
वृणीष्व - vṛṇīṣva - choose
अहून् पशून् - ahūn paśūn - much cattle
हस्तिहिरण्यम् - hastihiraṇyam - elephants and gold
अश्वान् - aśvān - horses
भूमेः - bhūmeḥ - of earth
महत् आयतनम् - mahat āyatanam - a mighty reach / portion
वॄणिष्व - vṝṇiṣva - choose
स्वयम् च - svayam ca - and thyself
यावत् शरदः - yāvat śaradaḥ - for as many years
इछसि - ichasi - as thou listest
जीव - jīva - live

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know