एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च। महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाजं करोमि ॥
॥ लिप्यन्तरणम् ॥
etattulyaṁ yadi manyase varaṁ vṛṇīṣva vittaṁ cirajīvikāṁ ca | mahābhūmau naciketastvamedhi kāmānāṁ tvāṁ kāmabhājaṁ karomi ||
॥ अन्वयः ॥
यदि एतत् तुल्यं वरं मन्यसे यथा वित्तं चिरजीविकां च वृणिस्व। नचिकेतः महाभुमौ त्वम् एधिः। त्वा कामानां कामभाजं करोमि ॥
॥ अन्वयलिप्यन्तरणम् ॥
yadi etat tulyaṁ varaṁ manyase ( yathā ) vittaṁ cirajīvikāṁ ca vṛṇisva| naciketaḥ mahābhumau tvam edhiḥ| tvā kāmānāṁ kāmabhājaṁ karomi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥२४॥
एतत् इति । योऽयं वरो वृतो मुक्तस्वरूपमधिकृत्य तमेकमृते यदनेन तुल्यं मन्यसे, तद्वृणीष्व । वित्तम् - मुक्ताफलमाणिक्यादिमहार्घमपि वृणीष्व । चिरजीविकामपि तथा । पुत्रमित्रकलत्रादिसकलसम्पद्योग्यायाम् अस्यां महाभूमौ हे नचिकेतः ! अनेनैव नाम्ना प्रथित: त्वम् एधि - सर्वोत्कृष्टो राजन्यचूडामणीभूय वर्धस्व । किंबहुना ? अस्यामेव भूमौ त्वां दिव्यानामपि कामानाम् अप्सरःप्रभृतीनाम्, कामभाजम्- कामपात्रं करोमि स्पृहणीयं करोमि इत्येतत् ॥२४॥
॥ आङ्गल-अर्थः ॥
“This boon if thou deemest equal to that of thy asking, choose wealth and long living; possess thou, O Nachiketas, a mighty country; I give thee thy desire of all desirable things for thy portion.
॥ हिन्दी-अर्थः ॥
''यदि तुम इसे अपने वर के तुल्य मान लो, तो धन और चिरजीवन का वरण कर लो; हे नचिकेता! तुम विशाल भूमि का आधिपत्य ले लो; मैं तुम्हारी सभी इष्ट वस्तुओं की कामनाओं की पूर्ति करता हूँ।
॥ शब्दावली ॥
यदि - yadi - if
एतत् तुल्यम् - etat tulyam - equal to that
वरम् - varam - boon
मन्यसे - manyase - thou deemest
वित्तम् - vittam - wealth
चिरजीविकाम् - cirajīvikām - long living
च - ca - and
वृणिस्व - vṛṇisva - choose
नचिकेतः - naciketaḥ - O Nachiketas!
महाभुमौ - mahābhumau - in a mighty country
त्वम् एधिः - tvam edhiḥ - thou groweth / possess
त्वाम् - tvām - to thee
कामानाम् - kāmānām - of all desirable things
कामभाजम् - kāmabhājam - thy desire for thy portion
करोमि - karomi - I give

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know