Ad Code

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं



यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम्‌। सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्‌ चेतोमुखः प्राज्ञस्तृतीयः पादः ॥

लिप्यन्तरणम्

yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyati tat suṣuptam | suṣuptasthāna ekībhūtaḥ prajñānaghana evānandamayo hyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ ||

अन्वयः

यत्र सुप्तः कम् च न कामं न कामयते। कम् च न स्वप्नं न पश्यति। तत् सुषुप्तं। सुषुप्तस्थानः एकीभूतः प्रज्ञानघनः एव आनन्दमयः हि आनन्दभुक् चेतोमुखः प्राज्ञः तृतीयः पादः ॥

अन्वयलिप्यन्तरणम्

yatra suptaḥ kam ca na kāmaṁ na kāmayate| kam ca na svapnaṁ na paśyati| tat suṣuptaṁ| suṣuptasthānaḥ ekībhūtaḥ prajñānaghanaḥ eva ānandamayaḥ hi ānandabhuk cetomukhaḥ prājñaḥ tṛtīyaḥ pādaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ प्राज्ञात्मकः ओंकारस्य तृतीयः पादः ]

यत्स्थानं जागरितस्य यच्च स्वप्नस्य तस्मादुभयस्मात्सुषुप्तिस्थानस्य विशेषं ज्ञापयन्सुषुप्तिस्थानमादावाह यत्रेति ।

यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।

सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥३॥

गहनं चैतत्स्थानम् । श्रूयते चान्यत्र 'तद्यथा हिरण्यनिधिमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तोऽपि न विन्दन्ति' (छांदोग्योपनिषद् - ८.३.२) इत्यादि । विशदयति चानुपदम् 'एष सर्वेश्वर' इत्यादिना । यत्र परमात्मन्यन्तर्यामिणि सुप्तो न कञ्चन रूपादिकामं कामयते, न कञ्चन स्वप्नं पश्यति, तदद्वितीयं किमपि सुषुप्तिस्थानम् । तस्मिन् सुषुप्ते स्थानविशेषे सङ्गतोऽयं सुषुप्तस्थान: प्रत्यगात्मा तदानीमेकीभूतः - अपगतचक्षुराद्युपकरणः स्वयमेकीभूतः । यद्वा - एकीभूतः सुषुप्तिस्थानभूतेन परमात्मना सहाविभागं प्राप्तः । सुषुप्तस्थान इति सप्तम्यन्तं वा एकीभूत इत्यनेनान्वेति । प्रज्ञानघन एव च तदा; न सप्ताङ्गो न वैकोनविंशतिमुखः, अपेतसमस्ताभिमानतया तदानीं तेषां सतामप्यङ्गाङ्गिभावमुखमुखिभावापगमात् । औपाधिकाभिमानलक्षणतिरोध्यपगमेन स्वाभाविकानन्दस्याविर्भावात् स्वयमानन्दमयः । अत एवानन्दभुक् - आनन्दैकभुक् । किं तदस्य मुखम् ? - चेत एवास्य मुखम् । चेतो नेहाहङ्कारिकं किन्तु चैतन्यम् । स्वयंप्रकाशचैतन्यमुख इति यावत् । प्राज्ञस्तृतीयः पादः । यद्यपि 'प्राज्ञेनात्मना सम्परिष्वक्तः' (बृहदारण्यकोपनिषद् - ६.३.२१), 'प्राज्ञेनात्मनान्वारूढः' (बृहदारण्यकोपनिषद् - ६.३.३५) इति तत्र तत्र प्राज्ञशब्दः परमात्मनि सुषुप्तिस्थाने सुषुप्तिस्थाने प्रसिद्ध:, अथापि सुषुप्तौ तेन सह एकीभावादपेतनामरूपस्तन्नाम्नैव व्यवहार्यो भवति, तदुच्यते प्राज्ञ इति ॥३॥

आङ्गल-अर्थः ॥

When one sleepeth and yearneth not with any desire, nor seeth any dream, that is the perfect slumber. He whose place is the perfect slumber, who is become Oneness, who is wisdom gathered into itself, who is made of mere delight, who enjoyeth delight unrelated, to whom conscious mind is the door, Prajna, the Lord of Wisdom, He is the third.

हिन्दी-अर्थः

जब कोई सोता है तथा किसी भी कामना की अभिलाषा नहीं करता, न किसी स्वप्न को देखता है, वह है पूर्ण सुषुप्तावस्था। सुषुप्ति जिसका स्थान है, जो 'एकीभूत' हो गया है, जो प्रज्ञानघन अर्थात् स्वयं में घनीभूत प्रज्ञा है जो केवल आनन्दमय है, जो निरपेक्ष आनन्द का रसास्वाद करता है, सचेतन मन जिसके लिए द्वार है 'प्राज्ञ' 'प्रज्ञा का ईश', 'वह' तृतीय पाद है।

शब्दावली

यत्र - yatra - when

सुप्तः - suptaḥ - sleepeth

कञ्चन - kañcana - one

कामम् - kāmam - any desire

न कामयते - na kāmayate - yearneth not with

कञ्चन - kañcana - one

स्वप्नम् - svapnam - any dream

न पश्यति - na paśyati - nor seeth

तत् सुषुप्तम् - tat suṣuptam - that is the perfect slumber

सुषुप्तस्थानः - suṣuptasthānaḥ - he whose place is the perfect slumber

एकीभूतः - ekībhūtaḥ - who is become Oneness

प्रज्ञानघनः एव - prajñānaghanaḥ eva - who is wisdom gathered into itself

आनन्दमयः हि - ānandamayaḥ hi - who is made of mere delight

आनन्दभुक् - ānandabhuk - who enjoyeth delight unrelated

चेतोमुखः - cetomukhaḥ - to whom conscious mind is the door

प्राज्ञः - prājñaḥ - Prajna, the Lord of Wisdom

तृतीयः पादः - tṛtīyaḥ pādaḥ - he is the third


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code