स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥
॥ लिप्यन्तरणम् ॥
svapnasthāno'ntaḥprajñaḥ saptāṅga ekonaviṁśatimukhaḥ praviviktabhuk taijaso dvitīyaḥ pādaḥ ||
॥ अन्वयः ॥
स्वप्नस्थानः अन्तःप्रज्ञः सप्ताङ्गः एकोनविंशतिमुखः प्रविविक्तभुक् तैजसः द्वितीयः पादः ॥
॥ अन्वयलिप्यन्तरणम् ॥
svapnasthānaḥ antaḥprajñaḥ saptāṅgaḥ ekonaviṁśatimukhaḥ praviviktabhuk taijasaḥ dvitīyaḥ pādaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ तैजसरूपः भगवान् प्रणवस्य द्वितीयः पादः ]
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसा द्वितीयः पादः ॥२॥
स्वप्नस्थानः - अभिसम्बध्य नाडीविशेषं स्वप्नमनुभवति, अत: स्थानविशेषसम्बन्धादुच्यते स्वप्नस्थान इति । तान्येवाङ्गानि तान्येव मुखानीत्याह - सप्ताङ्ग एकोनविंशतिमुख इति । स्वप्नेऽप्युपभोगस्यानपगमात् । यस्मादुपभुज्यमानाः स्वाप्नार्था नान्यसाधारणाः, तदुच्यते प्रविविक्तभुगिति । सोऽयं स्वप्नावस्थः तैजस उच्यते ॥२॥
॥ आङ्गल-अर्थः ॥
He whose place is the dream, who is wise of the inward, who has seven limbs, to whom there are nineteen doors, who feeleth and enjoyeth subtle objects, Taijasa, the Inhabitant in Luminous Mind, He is the second.
॥ हिन्दी-अर्थः ॥
स्वप्नावस्था जिसका स्थान है, जो अन्तर्जगत् का ज्ञाता है, जो सात अगोंवाला है, जिसके लिए उत्रीस द्वार हैं, जो सूक्ष्म पदार्थों की रसानुभूति करता है, 'तेजस' अर्थात् 'तेजोमय मन' में 'निवास करने वाला', 'वह' द्वितीय पाद है।
॥ शब्दावली ॥
स्वप्नस्थानः - svapnasthānaḥ - he whose place is the dream
अन्तःप्रज्ञः - antaḥprajñaḥ - who is wise of the inward
सप्ताङ्गः - saptāṅgaḥ - who has seven limbs
एकोनविंशतिमुखः - ekonaviṁśatimukhaḥ - to whom there are nineteen doors
प्रविविक्तभुक् - praviviktabhuk - who feeleth and enjoyeth subtle objects
तैजसः - taijasaḥ - Taijasa, the Inhabitant in Luminous Mind
द्वितीयः पादः - dvitīyaḥ pādaḥ - he is the second

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know