Ad Code

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं

 


तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्‌। कथं नु तद्विजानीयां किमु भाति विभाति वा ॥

॥ लिप्यन्तरणम् ॥

tadetaditi manyante'nirdeśyaṁ paramaṁ sukham | kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā ||

॥ अन्वयः ॥

यतयः तं अनिर्देश्यं परमं सुखं तत् एतत् इतिमन्यते। कथं नु तद् विजानीयां। किम् उ भाति वा विभाति ॥

॥ अन्वयलिप्यन्तरणम् ॥

(yatayaḥ taṁ ) anirdeśyaṁ paramaṁ sukhaṁ tat etat itimanyate| kathaṁ nu tad vijānīyāṁ | kim u bhāti vā vibhāti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ निरतिशयानन्दब्रह्मविषयकप्रश्नः ]

तेषां सुखं शाश्वतम् इति फलतया प्रस्तुतं नित्यं किं तत् इत्यत्राह - तदेतत् इति । 

तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।

कथन्नु तद्विजानीयां किमु भाति विभाति वा ॥१४॥

अनिर्देश्यम्- किमपि तत्, इदमिति परिच्छेदानर्हम् । “यतो वाचो निवर्तन्ते" (तै तिरीयोपनिषत् - २.२८) । परमम् - निरतिशयम् । यस्मिन्ननुभूयमाने नावशिष्यते किमपि सुखम्, यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितम्, किमत्र परिशिष्यते । इदं च यदनया वल्लया पूर्वया च निरूपितं परंब्रह्म न ततोऽन्यत्, तदेतत् इति तद्विदो मन्यन्ते । विवक्षितार्थे आप्तसंवाद: प्रदर्श्यते - मन्यन्त इति । अथ शिष्यः परिपृच्छति दिव्यविग्रहविशेषजिज्ञासया । कथं नु तद्विजानीयाम् अपरिच्छिन्ननिरतिशयसुखरूपं परंब्रह्मेत्युपदेशतो गगनमिव केवलं निराकारमेकरूपं परितो व्याप्तं परंब्रह्मेत्यापातत: स्फुरति, तत्कथं निश्चिनुयाम् । कथमिति जिज्ञासितं विकल्पं व्यनक्ति - किमु भाति विभाति वा । किं तन्निरतिशयसुखस्वरूपं परंब्रह्म सामान्यतो दीप्यते, उत विशेषतो दीप्यते ? आस्तिकाग्रेसरोऽयं भगवतो विग्रहसद्भावासद्भावकोटिं साक्षात्प्रष्टुं शङ्कित आपाततो जातां शङ्कां परिजिहीर्षन् विग्रहसद्भावको सामान्यतो दीप्तिमत्त्वनिरतिशयदीप्तिमत्त्वे विकल्पयति । एतदुत्तरेण विग्रहसद्भावासद्भावयोरेकतर: पक्षोऽपि निश्चितो भवेदिति । दीप्तिर्हि निरूप्यमाणा स्वाश्रयं विग्रहं ज्ञापयति । “आदित्यवर्णम्" ( श्वेताश्वतरोपनिषद् - ३.८) इति श्रुत्यन्तरैकार्थ्यं च ॥१४॥

॥ आङ्गल-अर्थः ॥

“This is He,” is all they can realise of Him, a highest felicity which none can point to nor any define it. How shall I know of Him whether He shineth or reflecteth one light and another?

॥ हिन्दी-अर्थः ॥

'' "यह है वह" - केवल इतना ही वे 'उस' अनिर्देश्य परम सुख अनुभव कर सकते हैं। मैं 'उसके' विषय में कैसे जानूँ कि 'वह' स्वयं आभामय है अथवा किसी अन्य आभा से प्रतिभासित होता है?

॥ शब्दावली ॥

तत् एतत् इति - tat etat iti - this is He

अनिर्देश्यम् - anirdeśyam - which none can point to nor any define it

परमम् सुखम् - paramam sukham - a highest felicity

मन्यते - manyate - they realise

कथम् नु - katham nu - how

तद् - tad - of Him

विजानीयाम् - vijānīyām - shall I know

किम् उ - kim u - whether

भाति - bhāti - He shineth

वा - vā - or

विभाति - vibhāti - reflecteth one light and another

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code