Ad Code

नित्योऽनित्यानां चेतनश्चेतनानामेको



नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्‌। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्‌ ॥

॥ लिप्यन्तरणम् ॥

nityo'nityānāṁ cetanaścetanānāmeko bahūnāṁ yo vidadhāti kāmān | tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ śāntiḥ śāśvatī netareṣām ||

॥ अन्वयः ॥

अनित्यानां चेतनानां चेतनः। एकः सन् यः बहूनां कामान् विदधाति ये धीराः तम् आत्मस्थम् अनुपश्यन्ति तेषां शाश्वती शान्तिः। इतरेषां न ॥

॥ अन्वयलिप्यन्तरणम् ॥

anityānāṁ cetanānāṁ cetanaḥ | ekaḥ ( san ) yaḥ bahūnāṁ kāmān vidadhāti ye dhīrāḥ tam ātmastham anupaśyanti teṣāṁ śāśvatī śāntiḥ| itareṣāṁ na ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमात्मज्ञानेन सांसारिकदुःखशान्तिः ]

अयमेव सर्वकामप्रद इत्याह- नित्य इति ।

नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥१३॥

नित्यानां बहूनां चेतनानाम् - अन्तर्यामितया सन्निहितो योऽयम् एकः - तत्तत्कामांस्तत्तत्कर्मानुगुणं विदधाति, तमात्मनि सन्निहितम्, येऽनुपश्यन्ति तेषां शान्तिः शाश्वती - संसारोपरतिरूपा, नान्येषाम् । चेतनबहुत्वमत्र सुस्पष्टम् ॥१३॥

॥ आङ्गल-अर्थः ॥

The One Eternal in many transient, the One Conscious in many conscious beings, who being One ordereth the desires of many; the calm and strong who behold Him in the self as in a mirror, theirs is eternal peace and 'tis not for others.

॥ हिन्दी-अर्थः ॥

''अनेक अनित्यो में 'एक नित्य', अनेक चेतन सत्ताओं में 'एक तत्त्व' 'एकमेव' होते हुए भी जो बहुतों की कामनाओं का विधान करता है; जो धीर पुरुष 'उसका' आत्मा में दर्पणवत् अनुदर्शन करते हैं, उन्हें शाश्वत शान्ति प्राप्त होती है, इससे इतर अन्य लोगों को नहीं।

॥ शब्दावली ॥

अनित्यानाम् - anityānām - in many transient

चेतनानाम् - cetanānām - in many conscious beings

चेतनः - cetanaḥ - the One Conscious

एकः - ekaḥ - the One

यः - yaḥ - he who

बहूनाम् - bahūnām - of many

कामान् - kāmān - the desires

विदधाति - vidadhāti - ordereth

ये धीराः - ye dhīrāḥ - the calm and strong,

तम् - tam - Him

अत्मस्थम् - atmastham - in the self as in a mirror

अनुपश्यन्ति - anupaśyanti - behold

तेषाम् - teṣām - theirs

शाश्वती शान्तिः - śāśvatī śāntiḥ - the eternal peace

न इतरेषाम् - na itareṣām - 'tis not for others

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code