Ad Code

मासो वै प्रजापतिस्तस्य

 


प्रश्नोपनिषद् प्रथम प्रश्नः

मासो वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन्‌ ॥

॥ लिप्यन्तरणम् ॥

māso vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ kurvantītara itarasmin ||

अन्वयः

मासः वै प्रजापतिः तस्य कॄष्णपक्षः एव रयिः शुक्लः प्राणः तस्मात् एते ऋषयः शुक्ले इष्टं कुर्वन्ति इतरे इतरस्मिन्

अन्वयलिप्यन्तरणम्

māsaḥ vai prajāpatiḥ tasya kṝṣṇapakṣaḥ eva rayiḥ śuklaḥ prāṇaḥ tasmāt ete ṛṣayaḥ śukle iṣṭaṁ kurvanti itare itarasmin ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ परमात्मनः मासरूपत्वम् ]

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः 

प्राणस्तस्मादेत ऋषयः शुक्ल इष्टिं कुर्वन्तीतर इतरस्मिन् ॥१२॥

मासो वै प्रजापतिः यः प्रजापतिः संवत्सरात्मा स एव तदवयवभूतमासात्मकोऽपि भवतीत्यर्थः । तस्य-मासात्मकस्य प्रजापते: द्वाववयवौ कृष्णपक्षः शुक्लपक्ष इति, तयोः कृष्णो रयिः शुक्लः प्राणः, तयोस्तथात्वेन रूपणे लिङ्गं तूक्तमेव । तस्मात् - रयिप्राणविभागकृतादेव विशेषात् ये ऋषय:- ज्ञानिनः एते शुक्ल एवेष्टिं कुर्वन्ति । शुक्लपक्षो हि देवयानकोटौ गणितः । इतरे - अनात्मविदः कामपराः पुनः इतरस्मिन् कृष्णपक्षे इष्टिं कुर्वन्ति ॥१२॥

॥ आङ्गल-अर्थः ॥

“The month also is that Eternal Father, whereof the dark fortnight is Matter the Female and the bright fortnight is Life the Male. Therefore do one manner of sages offer sacrifice in the bright fortnight and another in the dark.

॥ हिन्दी-अर्थः ॥

''मास भी वही 'प्रजापति' है, जिसका कृष्णपक्ष 'रयि' (जड़तत्त्व) 'स्त्रीतत्त्व' है तथा शुक्लपक्ष 'प्राण' पुंस्तत्त्व है। इसीलिए एक प्रकार के ऋषिगण शुक्लपक्ष में हवि अर्पण करते हैं तथा अन्य कृष्णपक्ष में।

॥ शब्दावली ॥

मासः वै - māsaḥ vai - the month also

प्रजापतिः - prajāpatiḥ - is that Eternal Father

तस्य - tasya - of that

कॄष्णपक्षः एव - kṝṣṇapakṣaḥ eva - the dark fortnight

रयिः - rayiḥ - is Matter the Female

शुक्लः - śuklaḥ - the bright fortnight

प्राणः - prāṇaḥ - is Life the Male

तस्मात् - tasmāt - therefore offer sacrifice and another in the dark

एते ऋषयः - ete ṛṣayaḥ - do one manner of sages

शुक्ले - śukle - in the bright fortnight

इष्टम् कुर्वन्ति - iṣṭam kurvanti - offer sacrifice

इतरे - itare - another

इतरस्मिन् - itarasmin - in the other (dark fortnight)


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code