Ad Code

तान्‌ ह स ऋषिरुवाच भूय एव तपसा



॥ उपनिषद् ॥ व्याख्या: प्रश्नोपनिषत् प्रथमः प्रश्नः

तान्‌ ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्‌ पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्षाम इति ॥

लिप्यन्तरणम्

tān ha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣāma iti ||

अन्वयः

सः ऋषिः तान् उवाच ह तपसा ब्रह्मचर्येण श्रद्धया भूयः एव संवत्सरं संवत्स्यथ। अनन्तरं यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः वः ह सर्वं वक्षामः ॥

अन्वयलिप्यन्तरणम्

saḥ ṛṣiḥ tān uvāca ha tapasā brahmacaryeṇa śraddhayā bhūyaḥ eva saṁvatsaraṁ saṁvatsyatha| ( anantaraṁ ) yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ vaḥ ha sarvaṁ vakṣāmaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ आचार्येण शिष्येभ्यः ब्रह्मचर्यादिविधानम् ]

तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ ।

यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥

तान् ह स ऋषिरुवाच - यद्यपि तपःप्रभृति युष्माभिराचरितं नाम, यदि ब्रह्मविद्यायां वो वाञ्छा संवत्सरमेकं भूयस्तपसा ब्रह्मचर्येण श्रद्धया संवत्स्यथ वसतेति यावत्, अथ यथाऽभिलषितं पृच्छत। सर्वं वो वक्ष्यामः यदि विज्ञास्यामः । इदं चानुद्धतेः, न तु संशयात्, महतामियमेव शैली। अनेनापरीक्ष्याऽऽदरं ब्रह्मविद्या नोपदेष्टव्येत्येतद्व्यज्यते ॥२॥

॥ आङ्गल-अर्थः ॥

The Rishi said to them, “Another year do ye dwell in holiness and faith and askesis; then ask what ye will, and if I know, surely I will conceal nothing.”

॥ हिन्दी-अर्थः ॥

ऋषि ने उनसे कहा, ''आप लोग पुनः एक वर्ष ब्रह्मचर्य, श्रद्धा एवं तपस्यापूर्वक व्यतीत करिये फिर जो चाहें प्रश्न पूछिये, और मैं यदि उस विषय में जानता होऊँगा तो निःसंदेह बिना कुछ गुप्त रखे आप लोगों को सब बताऊँगा।''

शब्दावली

सः ऋषिः - saḥ ṛṣiḥ - the Rishi

तान् ह - tān ha - to them

उवाच - uvāca - said

तपसा - tapasā - with askesis

ब्रह्मचर्येण - brahmacaryeṇa - with holiness

श्रद्धया - śraddhayā - with faith

भूयः एव - bhūyaḥ eva - another yet more

संवत्सरम् - saṁvatsaram - one year

संवत्स्यथ - saṁvatsyatha - do dwell here

यथाकामम् - yathākāmam - what ye will

प्रश्नान् - praśnān - questions

पृच्छत - pṛcchata - then ask

यदि - yadi - if

विज्ञास्यामः - vijñāsyāmaḥ - I know

वः - vaḥ - to you all

सर्वम् ह - sarvam ha - everything

वक्षामः - vakṣāmaḥ - I shall tell

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code