Ad Code

तस्माद्वा एते देवा



तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥

॥ लिप्यन्तरणम् ॥

tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṁ pasparśuste hyenatprathamo vidāñcakāra brahmeti ||

॥ अन्वयः ॥

यत् ते अग्निः वायुः इन्द्रः एनत् नेदिष्ठं पस्पर्शुः ते हि एनत् ब्रह्म इति विदाञ्चकार। तस्मात् वै एते देवाः अन्यान् देवान् अतितराम् इव ॥

॥ अन्वयलिप्यन्तरणम् ॥

yat te agniḥ vāyuḥ indraḥ enat nediṣṭhaṁ pasparśuḥ te hi enat brahma iti vidāñcakāara | tasmāt vai ete devāḥ anyān devān atitarām iva ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ देवेषु अग्निवाविन्द्राणां श्रेष्ठता ]

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते 

ह्येनन्नेदिष्ठं पस्पर्शस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥२॥

यत् इति प्रत्येकं सम्बध्यते, लिङ्गव्यत्ययश्छान्दसः । तस्माद्वा तस्मादेव, एते देवा अन्यान्देवान्, अतितरामिव महिम्नाऽतिशेरत इत्यर्थः । इवेत्यनर्थकमेवार्थकं वा । के ते देवा इत्यत्राह - यदग्निरिति योऽग्निर्यो वायुर्यश्चन्द्रः । कस्मात् तेऽन्येभ्यो ऽतिशयिता इत्यत्राह - ते हि - यस्मात् ते अग्न्यादय:, एनन्नेदिष्ठम् समीपगतं पस्पर्शः । स्पर्शश्चात्र सन्निधिगमनसंवादादिरूपः संबन्ध: । हि- यस्मात् ते एनत् - ब्रह्म, प्रथमः- प्रथमम्, विदाञ्चकार - विदाञ्चक्रुः । वचनव्यत्ययश्छान्दसः। उमावचनेनेन्द्रस्य इन्द्रवाक्येन चाग्निवाय्वोस्तत्परिज्ञानम् । अन्ये तु पश्चादेव व्यजानन्त । इमे प्रथमं व्यजानन्नित्युच्यते ॥२॥

॥ आङ्गल-अर्थः ॥

Therefore are these gods as it were beyond all the other gods, even Agni and Vayu and Indra, because they came nearest to the touch of That...

॥ हिन्दी-अर्थः ॥

इसीलिए ये देवगण-अग्नि, वायु तथा इन्द्र, अन्यान्य देवों से मानों परे, उच्चतर हैं, क्योंकि उन्हें उस ‘परतत्त्व' का निकटतम स्पर्श प्राप्त हुआ... प्राचीन कण्ठस्थ करने वालों की अथवा परवर्ती अनुलेखकों की किसी भूल के कारण इस मंत्र का शेषांश पूरी तरह से दूषित हो गया है। इसका अर्थ है-''कि वह प्रथम जान पाया कि यह ‘ब्रह्म' है'' यह भाव न तो तथ्य है, न अर्थयुक्त, न व्याकरण-सम्मत है। तीसरे मंत्र के अन्तिम अंश ने दूसरे मंत्र के मूलपाठ के अन्तिम अंश में प्रवेश करके उसका स्थान ले लिया है।

॥ शब्दावली ॥

यत् - yat - since

ते - te - they

अग्निः - agniḥ - the Fire god

वायुः - vāyuḥ - the Wind god

इन्द्रः - indraḥ - the god of the Divine will

एनत् - enat - this

नेदिष्ठम् - nediṣṭham - close

पस्पर्शुः - pasparśuḥ - touched

ते - te - they

हि - hi - indeed

एनत् - enat - this

ब्रह्म - brahma - the Eternal

इति - iti - thus

विदाञ्चकार - vidāñcakāara - came to know

तस्मात् - tasmāt - therefore

वै - vai - indeed

एते - ete - these

देवाः - devāḥ - gods

अन्यान् - anyān - other

देवान् - devān - gods

अतितराम् - atitarām - transcend

इव - iva - like / as if


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code