यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः। तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥
॥ लिप्यन्तरणम् ॥
yasmin dyauḥ pṛthivī cāntarikṣamotaṁ manaḥ saha prāṇaiśca sarvaiḥ | tamevaikaṁ jānatha ātmānamanyā vāco vimuñcathāmṛtasyaiṣa setuḥ ||
॥ अन्वयः ॥
यस्मिन् द्यौः पृथिवी अन्तरिक्षं च सर्वैः प्राणैः सह मनः च ओतं तम् एकं आत्मानम् इति एव जानथ अन्याः वाचः विमुञ्चत। एषः अमृतस्य सेतुः ॥
॥ अन्वयलिप्यन्तरणम् ॥
yasmin dyauḥ pṛthivī antarikṣaṁ ca sarvaiḥ prāṇaiḥ saha manaḥ ca otaṁ tam ekaṁ ātmānam ( iti ) eva jānatha anyāḥ vācaḥ vimuñcata| eṣaḥ amṛtasya setuḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सर्वजगदाधारभूतः परमात्मा मोक्षप्रापकः ]
निरूपणमुखेन विवक्षितं ध्यानं कण्ठरवेण विधास्यन्नाह - यस्मिन्नित्यादिना ।
यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥
[ दृष्टान्तपूर्वकं ब्रह्मणः सर्वाधारत्वम् ]
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथाऽऽत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥६॥
तत्र प्रथमं जानथेति निर्देशः, अनन्तरं तस्यैव विशेषतो निर्देशो ध्यायथेति । यस्मिन्नक्षरे पृथिवी अन्तरिक्षं च ओतम् - सम्बद्धम् । चकारात्तत्रत्यानां सङ्ग्रहः । सर्वैः प्राणैश्चक्षुरादिभिः सहमनश्च यस्मिन्नोतम् । तमेवैकमात्मानं जानथ - सन्ति जीवात्मानः प्रतिशरीरं भिन्नभिन्नाः, यस्तेभ्योऽन्यः सर्वस्यास्यैक आत्मा - अभिन्न आत्मा, तं परमात्मानं द्युलोकादीनामाधारभूतं जानथ । अन्या वाचः - इतोऽन्यस्यावगमकं सर्वं वादमात्रम्, न तद्विज्ञानायालम्, तत्तां विमुञ्चथ । कस्मादुच्यते अन्या वाच एवेति, अमृतस्यैष सेतुः एष एव हि संसारसागरसन्तरणोपायभूतो नान्यः ।
प्रथममन्त्रे 'गुहाचर' मित्यनेनाभिप्रेतमर्थं विशदयति - अरा इवेति । यत्र नाड्यो - रथनाभावरा इव सम्बद्धास्तत्रान्तः - हृदये स एष चरते - वर्तते । कथमयमकर्मवश्यः प्राणिनां हृदये वर्तते ? बहुधा जायमानः - अयं हि सर्वज्ञः सर्वशक्तोऽपारमहिमा व्यूहादिरूपेण स्वेच्छया जायमानः, तदयमन्तर्यामिस्वरूपेण सर्वेषां हृदि सन्निहित: । यद्वा स एष सर्वान्तरात्मैकोऽपि प्रतिहृदयं विग्रहविशिष्टवेषेणाविर्भवन् बहुरूपो भवतीत्यभिप्रायेण 'बहुधा जायमान' इत्युक्तिः । ओमित्येवं ध्यायथात्मानम् - एवंभूतं परमात्मानं प्रणवेनावलम्बनेन ध्यायथ । कस्मै फलाय ?, तमसः परस्तात्पाराय - संसारस्य यत्परं तीरं तस्मै । एवमुपदिश्य स्वोपदिष्टार्थे श्रद्दधानान् शिष्यान्प्रत्याशिषं प्रयुङ्क्ते - स्वस्ति व इति ॥५-६॥
॥ आङ्गल भा़षा-
He in whom are inwoven heaven and earth and the midregion, and mind with all the life currents, Him know to be the one Self; other words put away from you: this is the bridge to immortality.
॥ हिन्दी-अर्थः ॥
'वह', जिसमें द्युलोक, पृथ्वी एवं अन्तरिक्ष, मन तथा प्राण की समस्त गलियां अन्तर्भूत हैं, ओत-प्रोत हैं, 'उसको' तुम एकमेव 'आत्मरूप' जानो; इससे भिन्न अन्य वचनों का सर्वथा त्याग कर दो, यही है अमृत का सेतु।
॥ शब्दावली ॥
यस्मिन् - yasmin - in whom
द्यौः - dyauḥ - heaven
पृथिवी - pṛthivī - earth
अन्तरिक्षम् च - antarikṣam ca - and the midregion
सर्वैः प्राणैः सह - sarvaiḥ prāṇaiḥ saha - with all the life currents
मनः च - manaḥ ca - and mind
ओतम् - otam - are inwoven
तम् - tam - Him
एकम् आत्मानम् एव - ekam ātmānam eva - to be the one Self
जानथ - jānatha - know
अन्याः वाचः - anyāḥ vācaḥ - other words
विमुञ्चत - vimuñcata - put away from you
एषः - eṣaḥ - this
अमृतस्य - amṛtasya - to immortality
सेतुः - setuḥ - is the bridge

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know