अथ हैनं सुकेशा भारद्वाजः पप्रच्छ - - - भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत - - षोडशकलं भारद्वाज पुरुषं वेत्थ। तमहं कुमारम्ब्रुवं नाहमिमं वेद यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति। समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्हम्यनृतं वक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति ॥
॥ लिप्यन्तरणम् ॥
atha hainaṁ sukeśā bhāradvājaḥ papraccha - - - bhagavan hiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṁ praśnamapṛcchata - - ṣoḍaśakalaṁ bhāradvāja puruṣaṁ vettha | tamahaṁ kumārambruvaṁ nāhamimaṁ veda yadhyahamimamavediṣaṁ kathaṁ te nāvakṣyamiti | samūlo vā eṣa pariśuṣyati yo'nṛtamabhivadati| tasmānnārhamyanṛtaṁ vaktum | sa tūṣṇīṁ rathamāruhya pravavrāja | taṁ tvā pṛcchāmi kvāsau puruṣa iti ||
॥ अन्वयः ॥
अथ ह भारद्वाजः सुकेशा एनं पप्रच्छ भगवन् कौसल्यः हिरण्यनाभः राजपुत्रः माम् उपेत्य एतं प्रश्नं पप्रच्छ भारद्वाज षोडशकलं पुरुषं वेत्थ अहं तं कुमारम् अब्रुवम् अहम् इमं न वेद। अहं यदि इमम् अवेदिषं तर्हि ते कथम् न अवक्ष्यम् इति। यः अनृतं वदति एषः वै समूलः परिशुष्यति तस्मात् अनृतं वक्तुं न अर्हामि। सः तूष्णीम् रथम् आरुह्य प्रववाज त्वा तं पृच्छामि असौ पुरुषः क्व इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha ha bhāradvājaḥ sukeśā enaṁ papraccha bhagavan kausalyaḥ hiraṇyanābhaḥ rājaputraḥ mām upetya etaṁ praśnaṁ papraccha bhāradvāja ṣoḍaśakalaṁ puruṣaṁ vettha ahaṁ taṁ kumāram abruvam aham imaṁ na veda| ahaṁ yadi imam avediṣaṁ ( tarhi ) te katham na avakṣyam iti| yaḥ anṛtaṁ vadati eṣaḥ vai samūlaḥ pariśuṣyati tasmāt anṛtaṁ vaktuṁ na arhāmi| saḥ tūṣṇīm ratham āruhya pravavāja tvā taṁ pṛcchāmi asau puruṣaḥ kva iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
षष्ठः प्रश्नः
[ जीवस्य षोडशकलत्वं परमात्मोपासनं च ]
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत् ।
षोडशकलं भारद्वाज पुरुषं वेत्थ तमहं कुमारमब्रुवं नाहमिमं वेद यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति ।
समूलो हवा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुं स तूष्णीं रथमारुह्य प्रवव्राज तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥
कौसल्यो राजपुत्र इत्यादिना वृत्तानुवादः क्रियते । इदं च जिज्ञासितार्थ- स्यानुपेक्षणीयत्वज्ञापनाय । तं यं पुरुषमधिकृत्य हिरण्यनाभो मामपृच्छत्, तं षोडशकलं पुरुषं पृच्छामि भवन्तम्, वासौ पुरुषः ॥१॥
॥ आङ्गल-अर्थः ॥
Then Sukesha the Bharadwaja asked him, “Lord, Hiranyanabha of Koshala, the king's son, came to me and put me this question, 'O Bharadwaja, knowest thou the Being and the sixteen parts of Him?' and I answered the boy, 'I know Him not; for if I knew Him, surely I should tell thee of Him: but I cannot tell thee a lie; for from the roots he shall wither who speaketh falsehood.' But he mounted his chariot in silence and departed from me. Of Him I ask thee, who is the Being?”
॥ हिन्दी-अर्थः ॥
इसके पश्चात् भारद्वाज सुकेशा ने उनसे पूछा, ''हे भगवन्, कोशल का राजकुमार हिरण्यनाभ मेरे पास आया और उसने मुझसे यह प्रश्न पूछा-'हे भारद्वाज, क्या आप 'पुरुष' एवं 'उसकी' षोडश कलाओं के विषय में जानते हैं? और मैनें उस कुमार को उत्तर दिया-'मैं' उसे नहीं जानता; कारण, यदि मैं 'उसे' जानता होता तो निश्चित रूप से तुम्हें 'उसके' विषय में बताता, किन्तु मैं तुमसे असत्य नहीं बोल सकता क्योंकि जो असत्य बोलता है वह समूल नष्ट हो जाता है। 'वह' चुपचाप रथ पर चढ़कर मेरे पास से चला गया। मैं आपसे 'उसके' विषय में पूछ रहा हूँ, कौन है यह 'पुरुष'?''
॥ शब्दावली ॥
अथ ह - atha ha - then
भारद्वाजः सुकेशा - bhāradvājaḥ sukeśā - Sukesha the Bharadwaja
एनम् पप्रच्छ - enam papraccha - asked him
भगवन् - bhagavan - Lord!
राजपुत्रः कौसल्यः हिरण्यनाभः - rājaputraḥ kausalyaḥ hiraṇyanābhaḥ - Hiranyanabha of Koshala, the king's son
माम् उपेत्य - mām upetya - came to me
एत प्रश्नम् - eta praśnam - this question
पप्रच्छ - papraccha - asked
भारद्वाज - bhāradvāja - O Bharadwaja!
षोडशकलम् पुरुषम् - ṣoḍaśakalam puruṣam - the Being and the sixteen parts of Him
वेत्थ - vettha - knowest thou
तम् कुमारम् - tam kumāram - to the boy
अहम् अब्रुवम् - aham abruvam - I answered
अहम् इमम् न वेद - aham imam na veda - I know Him not
यदि अहम् इमम् अवेदिषम् - yadi aham imam avediṣam - for if I knew Him
ते कथम् न अवक्ष्यम् इति - te katham na avakṣyam iti - why should I not tell thee
यः अनृतम् वदति - yaḥ anṛtam vadati - who speaketh falsehood
एषः वै - eṣaḥ vai - for he
समूलः - samūlaḥ - from the roots
परिशुष्यति - pariśuṣyati - shall wither
तस्मात् - tasmāt - therefore
अनृतम् - anṛtam - a lie
वक्तुम् न अर्हामि - vaktum na arhāmi - I cannot tell
सः तूष्णीम् - saḥ tūṣṇīm - he in silence.,
रथम् आरुह्य - ratham āruhya - mounted his chariot
प्रववाज - pravavāja - and departed from me
त्वा - tvā - thee
तम् पृच्छामि - tam pṛcchāmi - of Him I ask
असौ पुरुषः क्व इति - asau puruṣaḥ kva iti - who is the Being?
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know