हृदि ह्येष आत्मा। अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥
॥ लिप्यन्तरणम् ॥
hṛdi hyeṣa ātmā | atraitadekaśataṁ nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyāṁ dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi bhavantyāsu vyānaścarati ||
॥ अन्वयः ॥
एषः आत्मा हृदि वसति अत्र नाडीनाम् एतम् एकशतम्। तासाम् एकैकस्यां शतं शतं प्रतिशाखानाडी सहस्राणि द्वासप्ततिः द्वासप्ततिः भवन्ति आसु व्यानः चरति ॥
॥ अन्वयलिप्यन्तरणम् ॥
eṣaḥ ātmā hṛdi ( vasati ) atra nāḍīnām etam ekaśatam| tāsām ekaikasyāṁ śataṁ śataṁ pratiśākhānāḍī sahasrāṇi dvāsaptatiḥ dvāsaptatiḥ bhavanti āsu vyānaḥ carati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
व्यानात्मना सर्वत्र नाडीषु संस्थितिमस्य दर्शयितुं नाडीनामुत्पत्तिस्थानं निरूपयति प्रथमम् ।
हृदि ह्येष आत्मा अत्रैकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्त्राणि भवन्ति तासु व्यानश्चरति ॥६॥
एष आत्मा - जीवात्मा हृदि हि - हृदयप्रदेशे हि । अत्र - हृदये एकशतं नाडीनाम् - एकोत्तरशतं नाड्यः सन्तीत्यर्थः । तासाम् - प्रधाननाडीनां मध्ये, एकैकस्यां शतं शतं नाड्यः शाखानाड्यः सन्तीत्यर्थः । द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्त्राणि भवन्ति प्रतिशाखानाडीनां सहस्राणि तानि च द्वासप्ततिः शाखानाडीषु मध्ये एकैकस्यां प्रतिशाखानाड्योऽवान्तरशाखानाड्यो द्वासप्ततिसहस्रसङ्ख्याका भवन्तीति यावत् । तासु व्यानश्चरति ॥६॥
॥ आङ्गल-अर्थः ॥
“The Spirit in the heart abideth, and in the heart there are one hundred and one nerves, and each nerve hath a hundred branch-nerves and each branch-nerve hath seventy two thousand sub-branch-nerves; through these the breath pervasor moveth.
॥ हिन्दी-अर्थः ॥
''यह 'आत्मा' हृदय में निवास करता है, और इस हृदय में एक सौ एक नाड़ियाँ होती हैं, एवं प्रत्येक नाड़ी में सौ-सौ शाखानाड़ियाँ होती हैं तथा प्रत्येक शाखा-नाड़ी की बहत्तर हजार उपशाखानाड़ियाँ होती हैं, इन सबमें संचरण करता है व्यान वायु।
॥ शब्दावली ॥
एषः आत्मा - eṣaḥ ātmā - the Spirit
हृदि - hṛdi - in the heart abideth
अत्र - atra - here in the heart there are
नाडीनाम् - nāḍīnām - nerves
एतम् एकशतम् - etam ekaśatam - one hundred and one
तासाम् एकैकस्याम् - tāsām ekaikasyām - each of these nerves has
शतम् शतम् - śatam śatam - a hundred
प्रतिशाखानाडी - pratiśākhānāḍī - branch-nerves
द्वासप्ततिः सहस्राणि - dvāsaptatiḥ sahasrāṇi - each branch-nerve hath seventy two thousand sub-branch-nerves
भवन्ति - bhavanti - there are
आसु - āsu - through these
व्यानः - vyānaḥ - Vyana, the breath pervasor
चरति - carati - moves

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know