ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता। स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥
॥ लिप्यन्तरणम् ॥
brahmā devānāṁ prathamaḥ sambabhūva viśvasya kartā bhuvanasya goptā | sa brahmavidyāṁ sarvavidyāpratiṣṭhāmatharvāya jyeṣṭhaputrāya prāha ||
॥ अन्वयः ॥
विश्वस्य कर्ता भुवनस्य गोप्ता ब्रह्मा देवानां प्रथमः सम्बभूव सः सर्वविद्याप्रतिष्ठां ब्रह्मविद्यां ज्येष्ठपुत्राय अथर्वाय प्राह ॥
॥ अन्वयलिप्यन्तरणम् ॥
viśvasya kartā bhuvanasya goptā brahmā devānāṁ prathamaḥ sambabhūva saḥ sarvavidyāpratiṣṭhāṁ brahmavidyāṁ jyeṣṭhaputrāya atharvāya prāha ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
मुण्डकोपनिषत्
स्वामिनारायणमूलभाष्यसमेता
शान्तिमन्त्रः
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
॥ॐ शान्तिः शान्तिः शान्तिः ॥
मङ्गलाचरणम्
यः सर्वज्ञः सर्वविच्च यस्यैष महिमा भुवि ।
तं नमामि घनश्याममक्षरात्परतः परम् ॥
प्रथममुण्डकम्
प्रथमः खण्डः
[ विद्यागुरूणां परम्परा ]
इयमाथर्वणोपनिषत् विद्यायां श्रद्धामुत्पादयितुमादौ विद्याप्रवर्तकानां गुरूणां परम्परां निरूपयति - ब्रह्मा देवानामित्यादिना ।
ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता ।
स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥१॥
विद्याप्रवर्तकवैलक्षण्यज्ञाने हि श्रद्धा विशेषतः स्याद्विद्यायाम् । ब्रह्मा - हिरण्यगर्भः । देवानाम् - इन्द्रादीनाम् । प्रथमः सम्बभूव । स हि विश्वस्यास्य कर्ता । गोप्ता च भुवनस्य । एवंभूतः सः, अथर्वाय ज्येष्ठपुत्राय ब्रह्मणः परब्रह्मणो विद्यां प्राह । कीदृशीम् ? सर्वविद्याप्रतिष्ठाम् - सर्वस्या अपि विद्याया आश्रयभूताम् । ब्रह्मविदो विदितं न किञ्चित् । ज्ञातव्यमखिलं ब्रह्मणि विज्ञाते परिसमाप्यते । तदुच्यते सर्वविद्याप्रतिष्ठामिति । अत एवेयं विद्या नार्वाचीनस्य ब्रह्मणो विद्या, अपि तु परस्यैव ब्रह्मणः ॥१॥
॥ आङ्गल-अर्थः ॥
Brahma first of the Gods was born, the creator of all, the world's protector; he to Atharvan, his eldest son, declared the Godknowledge in which all sciences have their foundation.
॥ हिन्दी-अर्थः ॥
देवगणों में प्रथम ब्रह्मा की उत्पत्ति हुई जो सम्पूर्ण विश्व के कर्ता एवं लोक के संरक्षक हैं; उन्होंने अपने ज्येष्ठ पुत्र अथर्वा के प्रति उस ब्रह्मविद्या का कथन किया जिसमें समस्त विद्याओं की प्रतिष्ठा है।
॥ शब्दावली ॥
विश्वस्य कर्ता - viśvasya kartā - the creator of all
भुवनस्य गोप्ता - bhuvanasya goptā - the world's protector
ब्रह्मा - brahmā - Brahma
देवानाम् प्रथमः - devānām prathamaḥ - first of the Gods
सम्बभूव - sambabhūva - was born
सः - saḥ - he
सर्वविद्याप्रतिष्ठाम् - sarvavidyāpratiṣṭhām - in which all sciences have their foundation
ब्रह्मविद्याम् - brahmavidyām - the Godknowledge
ज्येष्ठपुत्राय अथर्वाय - jyeṣṭhaputrāya atharvāya - to Atharvan, his eldest son
प्राह - prāha - declared
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know