इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥
॥ लिप्यन्तरणम् ॥
indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ | manasastu parā buddhirbuddherātmā mahānparaḥ ||
॥ अन्वयः ॥
इन्द्रिभेयः अर्थाः पराः अर्थेभ्यः च मनः परम्। मनसः तु बुद्धिः बुद्धेः महान् आत्मा परः ॥
॥ अन्वयलिप्यन्तरणम् ॥
indribheyaḥ arthāḥ parāḥ arthebhyaḥ ca manaḥ param| manasaḥ tu buddhiḥ buddheḥ mahān ātmā paraḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ वशीकार्येषु प्रधानभूताः ]
संसाराध्वनः पारमिच्छताऽवश्यम् इन्द्रियमनोबुद्धयो वशे कार्या इत्युक्तमेतावता । अथैषां वशीकरणे प्रवृत्तेन ज्ञातव्यां वशीकार्यकाष्ठां ज्ञापयन्नाह - इन्द्रियेभ्य इति ।
इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥१०॥
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥११॥
इन्द्रियेभ्यः - चक्षुरादिभ्यः, अर्था: - शब्दादयः पराः - प्रबलाः । अवगत्य शब्दादीन् विषयाननर्थदान् शून्यागारमध्यमध्यासीनस्य इन्द्रियनिग्रह प्रवृत्तस्यापि समुपनते विषयसान्निध्ये सपदि संक्षुभ्यन्त्येवेन्द्रियाणि । तदिन्द्रियापेक्षया वशीकार्यत्वे प्रधाना अर्थाः । अर्थेभ्यश्च परं मनः दूरीकृतेऽप्यर्थे, पिहितेष्वपीन्द्रियद्वारेषु, मनश्चेन्न वशे, प्रसरेदेव परितः, ततश्च नेन्द्रियजयः स्यात् । अतो मनसो वशीकृतस्य तदुभयवशीकरणमूलत्वान्मनसः ततः परत्वम् । अध्यवसाये चावशगे मनोऽपि न वशे स्यादिति - मनसस्तु परा बुद्धिरुच्यते । अध्यवसायलक्षणाया: तस्याः पर आत्मा - अध्यवसायस्यापि आत्मा ह्याश्रयः । यथाश्रयं ह्याधेयस्य सम्भवः । इन्द्रियाणि जेतव्यानि, मनश्च वशीकार्यम्, अध्यवसायश्च आत्मन्येवाधेय इति यस्य रुचिः, तस्य हि तत्प्रसङ्गः, यस्य तु न रुचिः न तस्य तथाविधाऽध्यवसायः, अत आत्मा परो बुद्धित: । इन्द्रियादेः अध्यवसायपर्यन्तस्यैतदिच्छायत्तत्वादयं महान् इति च विशिष्यते । अत एव च रथित्वेन रूपितः प्राक् । महतः परमव्यक्तम् - अस्य चानादिप्रकृतिसंसर्गेण गुणाभिभूततया गुणानुगुण्येनैव रुचिवैचित्र्यसम्भवात् शरीरात्मना परिणतमव्यक्तमस्मादात्मनोऽपि वशीकार्यतायां परम् । विशेषणवाचिमहच्छब्देनेह विशेष्यस्यात्मनो ग्रहणम् । देवदत्ताद्यज्ञदत्तः शीघ्रगतिर्योऽयमश्वारूढः, अश्वारूढाच्च विष्णुमित्र इत्यादाविव । सत्यपि विविक्ताहारसेवनादौ सर्वान्तर्यामिणः परमपुरुषस्य प्रसादादृते न सत्त्वोन्मेषादि । तत्, ततोऽपि परः पुरुषः । वशीकार्यत्वे प्रथमोऽयम् । अस्य च वशीकरणं शरणागतित इत्यनुपदं व्यक्ती भविष्यति ।
सा काष्ठा सा परा गतिः, अयमेवोपायकोटौ मुख्योपायः, अयमेव परमप्राप्यश्च । सर्वेऽपि इन्द्रियजयादयो मुक्त्युपाया यदुपायमूलाः सैवोपायकाष्ठा । यत्प्राप्तवतः प्राप्यान्तरं न विद्यते स एव च परमप्राप्यः। ‘तद्विष्णोः परमं पदम्' (कठोपनिषद् - ३.९) इत्यत्रोक्तं परमप्राप्यत्वमिह स्मारितम् ॥१०,११॥
॥ आङ्गल-अर्थः ॥
Than the senses the objects of sense are higher; and higher than the objects of sense is the Mind; and higher than the Mind is the faculty of knowledge; and than that is the Great Self higher.
॥ हिन्दी-अर्थः ॥
''इन्द्रियों से उच्चतर हैं उनके विषय, उन इन्द्रिय-विषयों से उच्चतर है 'मन', 'मन' से उच्चतर है बुद्धि तथा उससे (बुद्धि से) उच्चतर है 'महान् आत्मा'।
॥ शब्दावली ॥
इन्द्रिभेयः - indribheyaḥ - than the senses
अर्थाः - arthāḥ - the objects of sense
पराः - parāḥ - are higher
अर्थेभ्यः - arthebhyaḥ - than the objects of sense
च - ca - and
मनः - manaḥ - the Mind
परम् - param - is higher
मनसः - manasaḥ - than the Mind
तु - tu - indeed
बुद्धिः - buddhiḥ - the faculty of knowledge
बुद्धेः - buddheḥ - than the faculty of knowledge
महान् आत्मा - mahān ātmā - the Great Self
परः - paraḥ - is higher
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know