Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च



इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥

॥ लिप्यन्तरणम् ॥

indriyebhyaḥ parā hyarthā arthebhyaśca paraṁ manaḥ | manasastu parā buddhirbuddherātmā mahānparaḥ ||

॥ अन्वयः ॥

इन्द्रिभेयः अर्थाः पराः अर्थेभ्यः च मनः परम्। मनसः तु बुद्धिः बुद्धेः महान् आत्मा परः ॥

॥ अन्वयलिप्यन्तरणम् ॥

indribheyaḥ arthāḥ parāḥ arthebhyaḥ ca manaḥ param| manasaḥ tu buddhiḥ buddheḥ mahān ātmā paraḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ वशीकार्येषु प्रधानभूताः ]

संसाराध्वनः पारमिच्छताऽवश्यम् इन्द्रियमनोबुद्धयो वशे कार्या इत्युक्तमेतावता । अथैषां वशीकरणे प्रवृत्तेन ज्ञातव्यां वशीकार्यकाष्ठां ज्ञापयन्नाह - इन्द्रियेभ्य इति । 

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥१०॥

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः ॥११॥

इन्द्रियेभ्यः - चक्षुरादिभ्यः, अर्था: - शब्दादयः पराः - प्रबलाः । अवगत्य शब्दादीन् विषयाननर्थदान् शून्यागारमध्यमध्यासीनस्य इन्द्रियनिग्रह प्रवृत्तस्यापि समुपनते विषयसान्निध्ये सपदि संक्षुभ्यन्त्येवेन्द्रियाणि । तदिन्द्रियापेक्षया वशीकार्यत्वे प्रधाना अर्थाः । अर्थेभ्यश्च परं मनः दूरीकृतेऽप्यर्थे, पिहितेष्वपीन्द्रियद्वारेषु, मनश्चेन्न वशे, प्रसरेदेव परितः, ततश्च नेन्द्रियजयः स्यात् । अतो मनसो वशीकृतस्य तदुभयवशीकरणमूलत्वान्मनसः ततः परत्वम् । अध्यवसाये चावशगे मनोऽपि न वशे स्यादिति - मनसस्तु परा बुद्धिरुच्यते । अध्यवसायलक्षणाया: तस्याः पर आत्मा - अध्यवसायस्यापि आत्मा ह्याश्रयः । यथाश्रयं ह्याधेयस्य सम्भवः । इन्द्रियाणि जेतव्यानि, मनश्च वशीकार्यम्, अध्यवसायश्च आत्मन्येवाधेय इति यस्य रुचिः, तस्य हि तत्प्रसङ्गः, यस्य तु न रुचिः न तस्य तथाविधाऽध्यवसायः, अत आत्मा परो बुद्धित: । इन्द्रियादेः अध्यवसायपर्यन्तस्यैतदिच्छायत्तत्वादयं महान् इति च विशिष्यते । अत एव च रथित्वेन रूपितः प्राक् । महतः परमव्यक्तम् - अस्य चानादिप्रकृतिसंसर्गेण गुणाभिभूततया गुणानुगुण्येनैव रुचिवैचित्र्यसम्भवात् शरीरात्मना परिणतमव्यक्तमस्मादात्मनोऽपि वशीकार्यतायां परम् । विशेषणवाचिमहच्छब्देनेह विशेष्यस्यात्मनो ग्रहणम् । देवदत्ताद्यज्ञदत्तः शीघ्रगतिर्योऽयमश्वारूढः, अश्वारूढाच्च विष्णुमित्र इत्यादाविव । सत्यपि विविक्ताहारसेवनादौ सर्वान्तर्यामिणः परमपुरुषस्य प्रसादादृते न सत्त्वोन्मेषादि । तत्, ततोऽपि परः पुरुषः । वशीकार्यत्वे प्रथमोऽयम् । अस्य च वशीकरणं शरणागतित इत्यनुपदं व्यक्ती भविष्यति ।

सा काष्ठा सा परा गतिः, अयमेवोपायकोटौ मुख्योपायः, अयमेव परमप्राप्यश्च । सर्वेऽपि इन्द्रियजयादयो मुक्त्युपाया यदुपायमूलाः सैवोपायकाष्ठा । यत्प्राप्तवतः प्राप्यान्तरं न विद्यते स एव च परमप्राप्यः। ‘तद्विष्णोः परमं पदम्' (कठोपनिषद् - ३.९) इत्यत्रोक्तं परमप्राप्यत्वमिह स्मारितम् ॥१०,११॥

॥ आङ्गल-अर्थः ॥

Than the senses the objects of sense are higher; and higher than the objects of sense is the Mind; and higher than the Mind is the faculty of knowledge; and than that is the Great Self higher.

॥ हिन्दी-अर्थः ॥

''इन्द्रियों से उच्चतर हैं उनके विषय, उन इन्द्रिय-विषयों से उच्चतर है 'मन', 'मन' से उच्चतर है बुद्धि तथा उससे (बुद्धि से) उच्चतर है 'महान् आत्मा'।

॥ शब्दावली ॥

इन्द्रिभेयः - indribheyaḥ - than the senses

अर्थाः - arthāḥ - the objects of sense

पराः - parāḥ - are higher

अर्थेभ्यः - arthebhyaḥ - than the objects of sense

च - ca - and

मनः - manaḥ - the Mind

परम् - param - is higher

मनसः - manasaḥ - than the Mind

तु - tu - indeed

बुद्धिः - buddhiḥ - the faculty of knowledge

बुद्धेः - buddheḥ - than the faculty of knowledge

महान् आत्मा - mahān ātmā - the Great Self

परः - paraḥ - is higher

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ