Ad Code

न साम्परायः प्रतिभाति



न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्‌। अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥

॥ लिप्यन्तरणम् ॥

na sāmparāyaḥ pratibhāti bālaṁ pramādyantaṁ vittamohena mūḍham | ayaṁ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me ||

॥ अन्वयः ॥

साम्परायः वित्तमोहेन मूढं वित्तमोहेन प्रमाद्यन्तं बालं न प्रतिभाति। अयं लोकः अस्ति परः न अस्ति इति मानी पुनः पुनः मे वशम् आपद्यते ॥

॥ अन्वयलिप्यन्तरणम् ॥

sāmparāyaḥ vittamohena mūḍhaṁ vittamohena pramādyantaṁ bālaṁ na pratibhāti| ayaṁ lokaḥ ( asti ) paraḥ na asti iti mānī punaḥ punaḥ me vaśam āpadyate ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ नास्तिकस्य यमसदनप्राप्तिः ]

न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।

अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥६॥

प्रमाद्यन्तम् पुत्रपश्वन्नादिषु अत्यासङ्गेन शास्त्रीयादपि पथः प्रस्खलन्तम्, तत्रानवहितमनस्कमित्येतत् । वित्तमोहेन मूढम् - धनमोहेन मुग्धं, तमसाऽऽवृतमिति यावत् । एवम्भूतं बालम् - अविवेकिनं प्रति, साम्परायः - परलोकसाधनभूतः शास्त्रीयोऽर्थो न प्रतिभाति । रजसा तमसाऽऽवृतस्य न परलोकदृष्टिरिति यावत् । एष मूढः, अयं लोकः अयमेव दृश्यमानो लोकः नास्ति पर इति मन्यते । एवं मानी पुनः पुनः मम वशमापद्यते - दण्डधरस्य मम वशमापद्यते, मत्क्रियमाणयातनागोचरी भवतीति यावत् ॥६॥

॥ आङ्गल-अर्थः ॥

The childish wit bewildered and drunken with the illusion of riches cannot open its eyes to see the passage to heaven; for he that thinks this world is and there is no other, comes again and again into Death's thraldom.

॥ हिन्दी-अर्थः ॥

''बाल-बुद्धि व्यक्ति को, जो वित्तमोह से मूढ हो गया है, प्रमाद में डूबा हुआ है, परलोक यात्रा का प्रतिबोध नहीं होताː मात्र यह लोक ही है, परलोक होता ही नहीं, ऐसा मानने वाला व्यक्ति 'मृत्यु' के वशीभूत होता रहता है।

॥ शब्दावली ॥

वित्तमोहेन - vittamohena - with the illusion of riches

मूढम् - mūḍham - bewildered

प्रमाद्यन्तम् - pramādyantam - drunken

बालम् - bālam - childish wit

साम्परायः - sāmparāyaḥ - the passage to heaven

न प्रतिभाति - na pratibhāti - comes not to sight

अयम् लोकः - ayam lokaḥ - this world

अस्ति - asti - is

न परः - na paraḥ - no other

इति - iti - thus

मानी - mānī - he that thinks

पुनः पुनः - punaḥ punaḥ - again and again

मे - me - my (of the Death)

वशम् - vaśam - thraldom

आपद्यते - āpadyate -


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code