वायुरनिलममृतमथेदं भस्मांतं शरीरम्। ॐ क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥
॥ लिप्यन्तरणम् ॥
vāyuranilamamṛtamathedaṁ bhasmāṁtaṁ śarīram | om krato smara kṛtaṁ smara krato smara kṛtaṁ smara ||
॥ अन्वयः ॥
अथ वायुः अमृतम् अनिलम्। इदम् शरीरं भस्मान्तं भूयात् । ओं क्रतो कृतं स्मर ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha vāyuḥ amṛtam anilam| idam śarīraṁ bhasmāntaṁ ( bhūyāt )| oṁ krato kṛtaṁ smara ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अथोपासकस्य प्रकृत्यात्मविवेकानुसन्धानपूर्वकमन्तिमस्मरणमुच्यते - वायुरिति ।
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ॐ क्रतो स्मर कृतं स्मर ऋतो स्मर कृतं स्मर ॥१७॥
वातीति वायुः, गन्ता, वा गतिगन्धनयो: (पाणिनीयधातुपाठः - १०५०) । यद्यपि कर्मणा देवादिनानादेशेषु गच्छति, तथाप्यनिलः स्वभावतो निलयनरहितः, उपाधितो देहादिसम्बन्धेऽपि स्वभावतस्तद्रहित इति भावः ।
यद्वा - वायुः - वायुवत्सूक्ष्मत्वात्सर्वत्र भूतेषु व्यापनशीलः, व्याप्येभ्यः स्थूलेभ्यो भूतेभ्यः व्यापकोऽयं सूक्ष्मः प्रत्यगात्मा विलक्षण इति भावः । अनिलः - यथा वायुस्सततगमनशीलो न नियतनिलयनस्तथाऽयं कर्मणाऽन्यान्यदवगाहमानो न नियतदेवादिदेहनिलयनः । यथा सततगतेर्वायोर्नैकप्रदेशो ऽसाधारण्येन निरूपणायालम्, तस्माद्देहादिभिरसाधारण्येन यो व्यवहारस्स भ्रान्तिकृत इति भाव: । अमृतम् - यथा वायुस्तत्र तत्र प्रविष्टोऽपि तदीयदोषेण न लिप्यते तथाऽयं देहेषु विशन्नपि तदीयजरामरणादिभिर्न लिप्यते, सन्निकर्षाच्चारोप्यते केवलं जरामरणादिकं वायाविव गन्धादिकमिति भावः । अथेति प्रकरणभेदे । इदम् - रमणीयतया भोगसाधनतया च दृश्यमानम्, शरीरम् - विशरणस्वभावं वपुः, भस्मान्तम् - अग्निसात्कृतं भस्मान्तम्, इदमुपलक्षणं कीटान्तस्य तथैव परित्यक्तंकीटान्तम् । रमणीयतया प्रतीयमानस्याऽस्य वपुषः परिणामगतिस्तु भस्मकीटाद्यात्मनेति भावः ।
एवं प्रकृत्यात्मविवेकमनुसन्धाय ओमिति व्याहरंस्तद्वाच्यं परंब्रह्मानुस्मरति - ओं क्रतो इति । उक्तं च " ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् " (भगवद्गीता - ८.१३) इति । तो "यज्ञो वै विष्णुः " ( तैत्तिरीय.ब्रा.३.३.३१) इति श्रुतेर्भगवतस्सम्बोधनमिदम् । सर्वक्रतुसमाराध्यत्वाद्वा, उपासनपरस्य वा क्रतुशब्दस्योपास्य उपचारः । मया कृतानां कर्मणामुपासनानां च गोचरीभूत ! इति व्यज्यते । स्मर - त्वामनुस्मरन्तं मां स्मर । कृतं स्मर मया कृतं कर्मयोग-प्रभृत्युपासनपर्यन्तमखिलं त्वत्प्रीणनं स्मर, समयोऽयं भवत्कृपाकटाक्षस्येति भावः । आदराद्विरुक्तिः । केचित्तु क्रतोरिति षष्ठ्यन्तं पठित्वा उपासनस्य स्मर - स्मृत्यर्थ- धातुयोगात्कर्मणि षष्ठी, कृतं कर्म च त्वदाराधनरूपं स्मरेति व्याचक्षते ॥१७॥
॥ आङ्गल-अर्थः ॥
The Breath of things is an immortal Life, but of this body ashes are the end. OM! OWill, remember, that which was done remember! O Will, remember, that which was done remember.
॥ हिन्दी-अर्थः ॥
वस्तुओं का प्राण, वायु, अमर जीवनतत्त्व है, परन्तु इस का अन्त है भस्म। ओ३म। हे दिव्य संकल्पशक्ति! स्मरण कर, जो किया था उसे स्मरण कर! हे दिव्य संकल्पशक्ति, स्मरण कर, किये हुए कर्म का स्मरण कर।
॥ शब्दावली ॥
वायुः - vāyuḥ - the Breath of things
अमृतम् - amṛtam - an immortal
अनिलम् - anilam - Life
अथ - atha - but
इदम् शरीरम् - idam śarīram - this body
भस्मान्तम् - bhasmāntam - ending in ashes
ओम् - om - OM!
क्रतो - krato - O Will
कृतम् - kṛtam - that which was done
स्मर - smara - remember
ओम् - om - OM!
क्रतो - krato - O Will
कृतम् - kṛtam - that which was done
स्मर - smara - remember
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know