Ad Code

अतः समुद्रा गिरयश्च सर्वेऽस्मात्‌ स्यन्दन्ते सिन्धवः सर्वरूपाः

 


अतः समुद्रा गिरयश्च सर्वेऽस्मात्‌ स्यन्दन्ते सिन्धवः सर्वरूपाः। अतश्च सर्वा ओषधयो रसाश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥

॥ लिप्यन्तरणम् ॥

ataḥ samudrā girayaśca sarve'smāt syandante sindhavaḥ sarvarūpāḥ | ataśca sarvā oṣadhayo rasāśca yenaiṣa bhūtaistiṣṭhate hyantarātmā ||

॥ अन्वयः ॥

अतः सर्वे समुद्राः गिरयः च उत्पन्नाः अस्मात् सर्वरूपाः सिन्धवः स्यन्दते। अतः च सर्वाः ओषधयः रसः च सम्भवन्ति येन एषः अन्तरात्मा भूतैः परिबेष्ठितः तिष्ठते हि ॥

॥ अन्वयलिप्यन्तरणम् ॥

ataḥ sarve samudrāḥ girayaḥ ca ( utpannāḥ ) asmāt sarvarūpāḥ sindhavaḥ syandate| ataḥ ca sarvāḥ oṣadhayaḥ rasaḥ ca ( sambhavanti ) yena eṣaḥ antarātmā bhūtaiḥ ( paribeṣṭhitaḥ ) tiṣṭhate hi ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

अतः समुद्रा गिरयश्च सर्वेऽस्मात्स्यन्दन्ते सिन्धवः सर्वरूपाः ।

अतश्च सर्वा ओषधयो रसश्च येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥९॥

सर्वे समुद्रा गिरयश्चास्मादेवाक्षरात्प्रभवन्ति । गङ्गाद्या बढ्यो नद्योऽप्यस्मादेव प्रभवन्ति । अस्मादेव सर्वा ओषधयः । अस्मादेव च सर्वो रसः । 

ननु ते ते रसादयः स्वस्वोपादानेभ्य ओषधिप्रभृतिभ्य: प्रादुर्भवन्ति तत्कथमुच्यत अत इति तत्राह - येनैष भूतैस्तिष्ठते ह्यन्तरात्मा शरीरतयाऽपृथक्सिद्धप्रकारभूतैर्भूतैर्विशिष्टस्तिष्ठति । स्वेतरसमस्तवस्तुप्रकारोऽयमेवेति ततस्ततो जायमाने तत्र तत्र तत्तदात्मा तत्तत्प्रकारोऽयमेव हेतुरिति भावः ॥९॥

॥ आङ्गल-अर्थः ॥

From Him are the oceans and all these mountains and from Him flow rivers of all forms, and from Him are all plants, and sensible delight which makes the soul to abide with the material elements.

हिन्दी-अर्थः

'उसी' से सारे समुद्र तथा ये सारे पर्वत, ये सब प्रकार की नदियाँ 'उसी' से प्रवाहित होती हैं; 'उसी' से समस्त वनस्पतियां तथा रसादि हैं जिनकी रसानुभूति से यह अन्तरात्मा भौतिक तत्त्वों के साथ निवास करती है।

शब्दावली

अतः - ataḥ - from Him

सर्वे समुद्राः - sarve samudrāḥ - are the oceans

गिरयः च - girayaḥ ca - and all these mountains

अस्मात् - asmāt - from Him

सर्वरूपाः सिन्धवः - sarvarūpāḥ sindhavaḥ - rivers of all forms

स्यन्दते - syandate - flow

अतः च - ataḥ ca - and from Him

सर्वाः ओषधयः - sarvāḥ oṣadhayaḥ - are all plants

रसः च - rasaḥ ca - and sensible delight

येन - yena - by which

एषः अन्तरात्मा - eṣaḥ antarātmā - the soul

भूतैः - bhūtaiḥ - with the material elements

तिष्ठते हि - tiṣṭhate hi - abides


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code