Ad Code

आत्मा का अतुलनिय प्रकाश श्रोत


आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम्।
गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते॥२०॥

न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः।
विकारित्वाद्विनाशित्वाद्दृश्यत्वाच्च घटो यथा॥२१॥

विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम्।
यदेकं परमानन्दं तत्त्वमस्यद्वयं परम्॥२२॥

शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च।
मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि॥२३॥

स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः।
अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः॥२४॥

चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके।
भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा॥२५॥

तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः।
लक्ष्यौ च साङ्ख्ययोगाभ्यां वेदान्तैरैक्यता तयोः॥२६॥

कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ।
अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ॥२७॥

कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः।
साङ्ख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः॥२८॥

अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः।
एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते॥२९॥

अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता।
बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसम्भवाः॥३०॥

ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम्।
मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत्॥३१॥

सङ्कल्पसाक्षि यज्ज्ञानं सर्वलोकैकजीवनम्।
तदेवास्मीति यो वेद स मुक्तो नात्र संशयः॥३२॥

प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा।
यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम्॥३३॥

अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते।
अर्थज्ञानं विजानाति स एवार्थः प्रकाशते॥३४॥

वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत्।
स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः॥३५॥

चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत्।
अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे॥३६॥

निराधारा निर्विकारा या दशा सोन्मनी स्मृता।
चित्तं चिदिति जानीयात्तकाररहितं यदा॥३७॥

तकारो विषयाध्यासो जपारागो यथा मणौ।
ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम्॥३८॥

त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति।
मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम्॥३९॥

अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम्।
अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते॥४०॥

ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम्।
सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः॥४१॥

अहन्ता गर्जनं तत्र धारासारा हि वृत्तयः।
महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया॥४२॥

तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः।
ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता॥४३॥

एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते॥४४॥

विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः।
परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम्॥४५॥

आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम्।
त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम्॥४६॥

पदयोरैक्यबोधस्तु ज्ञानविज्ञानसञ्ज्ञितम्।
आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः॥४७॥

अज्ञानं चान्यता लोके विज्ञानं तन्मयं जगत्।
अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति॥४८॥

यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम्।
अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम्॥४९॥

ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम्।
भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः॥५०॥

भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकः।
ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा॥५१॥

सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते।
गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते॥५२॥

गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान्।
किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः॥५३॥

हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते।
स गृही यो गृहातीतः शरीरं गृहमुच्यते॥५४॥

सदाचारमिमं नित्यं योऽनुसन्दधते बुधः।
संसारसागराच्छीघ्रं स मुक्तो नात्र संशयः॥५५॥

तत्र प्राणो नाम वायुर्योऽयं मुखनासिकाधिष्ठानप्राणनात्
क्रमेणाननात् प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभेरधिष्ठाता
अपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम
वायुर्हृदधिष्ठाता समनात् समगमनाच्च समान इत्यभिधीयते । उदानो
नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते । व्यानो
नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते ।
इति पञ्चवायवो व्याख्याताः ॥

Post a Comment

0 Comments

Ad Code