प्रश्नोपनिषद्
praśnopaniṣad
प्रथमः
प्रश्नः
ॐ
नमः परमात्मने। हरिः ॐ॥
सुकेशा
च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो
वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणाः
एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ ।।१।।
om
namaḥ paramātmane। hariḥ om ।।
sukeśā
ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaścāśvalāyano
bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite brahmaparā brahmaniṣṭhāḥ paraṁ
brahmānveṣamāṇāḥ eṣa ha vai tatsarvaṁ vakṣyatīti te ha samitpāṇayo bhagavantaṁ
pippalādamupasannāḥ ।।
Anvaya
भारद्वाजः
सुकेशा च शैव्यः सत्यकामः च गार्ग्यः सौर्यायणी च आश्वलायनः कौसल्यः च वैदर्भिः
भार्गवः कात्यायनः कबन्धी ते ह ब्रह्मपराः ब्रह्मनिष्ठाः परं ब्रह्म अन्वेषमाणाः
आसन् ते ह एषः ह वै तत् सर्वं वक्ष्यति इति निश्चित्य समित्पाणयः भगवन्तं
पिप्प्लादम् उपसन्नाः ॥
Anvaya
Transliteration
bhāradvājaḥ
sukeśā ca śaivyaḥ satyakāmaḥ ca gārgyaḥ sauryāyaṇī ca āśvalāyanaḥ kausalyaḥ ca
vaidarbhiḥ bhārgavaḥ kātyāyanaḥ kabandhī te ha brahmaparāḥ brahmaniṣṭhāḥ paraṁ
brahma anveṣamāṇāḥ ( āsan ) te ha eṣaḥ ha vai tat sarvaṁ vakṣyati iti (
niścitya ) samitpāṇayaḥ bhagavantaṁ pipplādam upasannāḥ ।।
Meaning
OM!
Salutation to the Supreme Spirit. The Supreme is OM. Sukesha the Bharadwaja;
the Shaivya, Satyakama; Gargya, son of the Solar race; the Kosala, son of
Ashwala; the Bhargava of Vidarbha; and Kabandhi Katyayana;-these sought the
Most High God, believing in the Supreme and to the Supreme devoted. Therefore
they came to the Lord Pippalada, for they said “This is he that shall tell us
of that Universal.”
Hindi
Meaning
ॐ !
'परमात्मा ' को नमन! परमात्मा (हरि) ही ॐ हैं।
भरद्वाजपुत्र सुकेशा; शैव्य (शिवि पुत्र) सत्यकाम; सूर्यवंशी गार्ग्य; अश्वल पुत्र कौशलन* ; विदर्भ निवासी भार्गव; तथा कात्यायन कबन्धी, ये ब्रह्मपरायण एवं ब्रह्मनिष्ठ ऋषिगण, ब्रह्म के
अनुसन्धान में लगे हुए, (हाथों में समिधा लिये हुए)**प्रभु
पिप्पलाद के समीप आये और बोले, ''यही वे हैं जो हमे उस 'सर्वम्' के विषय में बतायगे।''
*यह श्रीअरविन्द के द्वारा किया गया अर्थ है। संस्कृत के अनुसार अर्थ होगाː'कोसल निवासी अश्वलायन'।- अनु.
** यह वाक्यांश मूल संस्कृत में है, श्रीअरविन्द ने
अनुवाद में इसका उल्लेख नहीं किया है।- अनु.
Glossary
सुकेशा
भारद्वाजः - sukeśā bhāradvājaḥ - Sukesha the Bharadwaja । शैव्यः सत्यकामः च - śaivyaḥ satyakāmaḥ ca - the Shaivya,
Satyakama । गार्ग्यः सौर्यायणी च - gārgyaḥ sauryāyaṇī ca -
Gargya, son of the Solar race । आश्वलायनः कौसल्यः च - āśvalāyanaḥ
kausalyaḥ ca - the Kosala, son of Ashwala । वैदर्भिः भार्गवः च - vaidarbhiḥ
bhārgavaḥ ca - the Bhargava of Vidarbha । कात्यायनः कबन्धी - kātyāyanaḥ
kabandhī - Kabandhi Katyayana । ते ह - te ha - these । ब्रह्मपराः - brahmaparāḥ - believing in the Supreme । ब्रह्मनिष्ठाः - brahmaniṣṭhāḥ - devoted to the Supreme । परम् ब्रह्म - param brahma - the Most High God ।
अन्वेषमाणाः - anveṣamāṇāḥ - seeking । ते ह - te ha
- they । एषः ह वै तत् सर्वम् वक्ष्यति इति - eṣaḥ ha vai
tat sarvam vakṣyati iti - “This is he that shall tell us of that Universal.” । समित्पाणयः - samitpāṇayaḥ - wood in hand । भगवन्तम्
पिप्प्लादम् - bhagavantam pipplādam - to the Lord Pippalada । उपसन्नाः - upasannāḥ - came ।
तान्
ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं
प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्षाम इति ॥ ।।२।।
Transliteration
tān
ha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā saṁvatsaraṁ saṁvatsyatha
yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ sarvaṁ ha vo vakṣāma iti ।।
Anvaya
सः
ऋषिः तान् उवाच ह तपसा ब्रह्मचर्येण श्रद्धया भूयः एव संवत्सरं संवत्स्यथ। अनन्तरं
यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः वः ह सर्वं वक्षामः ॥
Anvaya
Transliteration
saḥ
ṛṣiḥ tān uvāca ha tapasā brahmacaryeṇa śraddhayā bhūyaḥ eva saṁvatsaraṁ saṁvatsyatha। ( anantaraṁ ) yathākāmaṁ praśnān pṛcchata yadi vijñāsyāmaḥ vaḥ
ha sarvaṁ vakṣāmaḥ ।।
Meaning
The
Rishi said to them, “Another year do ye dwell in holiness and faith and
askesis; then ask what ye will, and if I know, surely I will conceal nothing.”
Hindi
Meaning
ऋषि
ने उनसे कहा, ''आप लोग पुनः एक वर्ष ब्रह्मचर्य,
श्रद्धा एवं तपस्यापूर्वक व्यतीत करिये फिर जो चाहें प्रश्न पूछिये,
और मैं यदि उस विषय में जानता होऊँगा तो निःसंदेह बिना कुछ गुप्त
रखे आप लोगों को सब बताऊँगा।''
Glossary
सः
ऋषिः - saḥ
ṛṣiḥ - the Rishi । तान् ह - tān ha - to them । उवाच - uvāca - said । तपसा - tapasā -
with askesis । ब्रह्मचर्येण - brahmacaryeṇa - with holiness
। श्रद्धया - śraddhayā - with faith । भूयः
एव - bhūyaḥ eva - another yet more । संवत्सरम् - saṁvatsaram
- one year । संवत्स्यथ - saṁvatsyatha - do dwell here । यथाकामम् - yathākāmam - what ye will । प्रश्नान्
- praśnān - questions । पृच्छत - pṛcchata - then
ask । यदि - yadi - if । विज्ञास्यामः - vijñāsyāmaḥ
- I know । वः - vaḥ - to you all । सर्वम् ह
- sarvam ha - everything । वक्षामः - vakṣāmaḥ - I
shall tell ।
अथ
कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ ।।३।।
Transliteration
atha
kabandhī kātyāyana upetya papraccha bhagavan kuto ha vā imāḥ prajāḥ prajāyanta
iti ।।
Anvaya
अथ
कात्यायनः कबन्धी उपेत्य पप्रच्छ भगवन् इमाः प्रजाः कुतः ह वै प्रजायन्ते ॥
Anvaya
Transliteration
atha
kātyāyanaḥ kabandhī upetya papraccha bhagavan imāḥ prajāḥ kutaḥ ha vai
prajāyante ।।
Meaning
Then
came Kabandhi, son of Katyayana, to him and asked: “Lord, whence are all these
creatures born?”
Hindi
Meaning
तब
कत्य के पुत्र कबन्धी ने उनके पास जाकर पूछा, ''हे प्रभो!
यह समस्त प्राणिजगत् (प्रजा) कहाँ से उत्पन्न होता है?''
Glossary
अथ
- atha
- then । कात्यायनः कबन्धी - kātyāyanaḥ kabandhī -
Kabandhi, son of Katyayana । उपेत्य - upetya - came to him
। पप्रच्छ - papraccha - asked । भगवन् - bhagavan
- Lord । इमाः प्रजाः - imāḥ prajāḥ - all these creatures । कुतः ह वै - kutaḥ ha vai - whence । प्रजायन्ते -
prajāyante - are born ।
तस्मै
स होवाच - - - प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स
मिथुनमुत्पादयते।
रयिं
च प्राणञ्चेति एतौ मे बहुधा प्रजाः करिष्यत इति ॥ ।।४।।
Transliteration
tasmai
sa hovāca - - - prajākāmo vai prajāpatiḥ sa tapo'tapyata sa tapastaptvā sa
mithunamutpādayate ।
rayiṁ
ca prāṇañceti etau me bahudhā prajāḥ kariṣyata iti ।।
Anvaya
सः
तस्मै उवाच सः प्रजापतिः प्रजाकामः सन् तपः अतप्यत सः तपः तप्त्वा एतौ मे प्रजाः
बहुधा करिष्यतः इति निश्चित्य सः रयिं प्राणं च मिथुनम् उत्पादयते ॥
Anvaya
Transliteration
saḥ
tasmai uvāca saḥ prajāpatiḥ prajākāmaḥ ( san ) tapaḥ atapyata saḥ tapaḥ taptvā
etau me prajāḥ bahudhā kariṣyataḥ iti ( niścitya ) saḥ rayiṁ prāṇaṁ ca mithunam
utpādayate ।।
Meaning
To
him answered the Rishi Pippalada: “The Eternal Father desired children,
therefore he put forth his energy and by the heat of his energy produced twin
creatures, Prana the Life, who is Male, and Rayi the Matter, who is Female.
'These' said he 'shall make for me children of many natures.'
Hindi
Meaning
ऋषि
पिप्पलाद ने उससे कहा, " 'परमपिता' (प्रजापति) ने प्रजा (पुत्रों) की कामना की, अतः
उन्होंने अपनी तपःशक्ति को उत्पन्न किया तथा अपनी तपःशक्ति की ऊर्जा से मिथुन
(प्राणियों के जोड़े) उत्पन्न किये 'प्राण' अर्थात् 'जीवन', जो कि 'पुंसात्त्व' है तथा 'रयि'
अर्थात् 'जड़तत्त्व', जो
कि 'स्त्रीतत्त्व' है, और उन्होंने कहा-'ये मेरे लिए बहुविध प्रजा की
सृष्टि करेंगे।'
Glossary
सः
- saḥ
- he, Rishi Pippalada । तस्मै - tasmai - to him । उवाच - uvāca - answered । सः प्रजापतिः - saḥ
prajāpatiḥ - the Eternal Father । प्रजाकामः - prajākāmaḥ -
desiring children । तपः अतप्यत - tapaḥ atapyata - put
forth his energy । सः - saḥ - he । तपः
तप्त्वा - tapaḥ taptvā - by the heat of his energy । प्राणम्
- prāṇam - Prana the Life, who is Male । रयिम् च - rayim
ca - and Rayi the Matter, who is Female । मिथुनम् - mithunam
- twin creatures । उत्पादयते - utpādayate - produced । एतौ - etau - these । मे - me - for me । प्रजाः - prajāḥ - children । बहुधा - bahudhā
- of many natures । करिष्यतः इति - kariṣyataḥ iti - shall
make ।
आदित्यो
ह वै प्राणो रयिरेव चन्द्रमाः रयिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च
तस्मान्मूर्तिरेव रयिः ॥ ।।५।।
Transliteration
ādityo
ha vai prāṇo rayireva candramāḥ rayirvā etat sarvaṁ yanmūrtaṁ cāmūrtaṁ ca
tasmānmūrtireva rayiḥ ।।
Anvaya
आदित्यः
ह वै प्राणः चन्द्रमा एव रयिः वा यत् मूर्त्तं यत् च अमूर्त्तम् एतत् सर्वं वै
रयिः तस्मात् मूर्तिः एव रयिः ॥
Anvaya
Transliteration
ādityaḥ
ha vai prāṇaḥ candramā eva rayiḥ vā yat mūrttaṁ yat ca amūrttam etat sarvaṁ vai
rayiḥ tasmāt mūrtiḥ eva rayiḥ ।।
Meaning
“The
Sun verily is Life and the Moon is no more than Matter; yet truly all this
Universe formed and formless is Matter; therefore Form and Matter are One.
Hindi
Meaning
''आदित्य (सूर्य) ही 'प्राण' है
तथा चन्द्रमा 'रयि' (जड़तत्त्व) से
अधिक और कुछ नहीं है; तथापि वस्तुतः यह समस्त मूर्त एवं
अमूर्त विश्व 'जड़तत्त्व' ही है अतः 'मूर्त' एवं 'रयि' (जड़तत्त्व) 'एक' ही हैं।
Glossary
आदित्यः
- ādityaḥ
- the Sun । ह वै प्राणः - ha vai prāṇaḥ - verily is Life । चन्द्रमा एव - candramā eva - the Moon । रयिः वा
- rayiḥ vā - is no more than Matter । यत् मूर्त्तम् - yat
mūrttam - formed । यत् च अमूर्त्तम् - yat ca amūrttam -
formless । एतत् सर्वम् वै - etat sarvam vai - truly all
this Universe । रयिः - rayiḥ - is Matter । तस्मात्
- tasmāt - therefore । मूर्तिः एव रयिः - mūrtiḥ eva
rayiḥ - Form and Matter are One ।
अथादित्य
उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते।
यद्दक्षिणां
यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन
सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ।।६।।
Transliteration
athāditya
udayan yat prācīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu sannidhatte ।
yaddakṣiṇāṁ
yat pratīcīṁ yadudīcīṁ yadadho yadūrdhvaṁ yadantarā diśo yatsarvaṁ prakāśayati
tena sarvān prāṇān raśmiṣu sannidhatte ।।
Anvaya
अथ
आदित्यः उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु
सन्निधत्ते यत् दक्षिणां यत् प्रतीचीं यत् उदीचीं यत् अधः यत् ऊर्ध्वं यत् अन्तरा
दिशः यत् अन्यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥
Anvaya
Transliteration
atha
ādityaḥ udayan yat prācīṁ diśaṁ praviśati tena prācyān prāṇān raśmiṣu
sannidhatte yat dakṣiṇāṁ yat pratīcīṁ yat udīcīṁ yat adhaḥ yat ūrdhvaṁ yat
antarā diśaḥ yat ( anyat ) sarvaṁ prakāśayati tena sarvān prāṇān raśmiṣu
sannidhatte ।।
Meaning
“Now
when the Sun rising entereth the East, then absorbeth he the eastern breaths
into his rays. But when he illumineth the south and west and north, and below
and above and all the angles of space, yea, all that is, then he taketh all the
breaths into his rays.
Hindi
Meaning
''अथ, जब उदीयमान सूर्य पूर्व (प्राची) में प्रवेश
करता है, तब प्राची की प्राणावायु (प्राच्यप्राणों) को अपनी
रश्मियों में भर लेता है। किन्तु जब वह दक्षिण दिशा, पश्चिम
दिशा (प्रतीचि) और उत्तर दिशा (उदीचि), अधः तथा ऊर्ध्व
दिशाओं को तथा अन्तरिक्ष के समस्त कोणों को, वस्तुतः जो कुछ
भी है उसे प्रकाशित करता है, तब वह समस्त प्राणों को अपनी
रश्मियों में धारण कर लेता है।
Glossary
अथ
- atha
- now । आदित्यः - ādityaḥ - the Sun । उदयन्
- udayan - rising । यत् प्राचीम् दिशम् - yat prācīm
diśam - the East । प्रविशति - praviśati - entereth । तेन - tena - then । प्राच्यान् प्राणान् - prācyān
prāṇān - the eastern breaths । रश्मिषु - raśmiṣu - into
his rays । सन्निधत्ते - sannidhatte - absorbeth । यत् दक्षिणाम् - yat dakṣiṇām - the south । यत्
प्रतीचीम् - yat pratīcīm - the west । यत् उदीचीम् - yat
udīcīm - the north । यत् अधः - yat adhaḥ - below । यत् ऊर्ध्वम् - yat ūrdhvam - above । यत् अन्तरा
दिशः - yat antarā diśaḥ - all the angles of space । यत्
सर्वम् - yat sarvam - all that is । प्रकाशयति - prakāśayati
- he illumineth । तेन - tena - then । सर्वान्
प्राणान् - sarvān prāṇān - all the breaths । रश्मिषु - raśmiṣu
- into his rays । सन्निधत्ते - sannidhatte - he taketh ।
स
एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते।
तदेतद्
ऋचाऽभ्युक्तम् ॥ ।।७।।
Transliteration
sa
eṣa vaiśvānaro viśvarupaḥ prāṇo'gnirudayate ।
tadetad
ṛcā'bhyuktam ।।
Anvaya
सः
एषः प्राणः विश्वरूपः वैश्वानरः अग्निः उदयते। तत् एतत् ऋचा अभ्युक्तम् ॥
Anvaya
Transliteration
anvayaḥ
-saḥ eṣaḥ prāṇaḥ viśvarūpaḥ vaiśvānaraḥ agniḥ udayate। tat
etat ṛcā abhyuktam ।।
Meaning
“Therefore
is this fire that riseth, this Universal Male, of whom all things are the
bodies, Prana the breath of existence. This is that which was said in the
Rigveda.
Hindi
Meaning
''अतः यह जो अग्नि उदित होता है, यह 'वैश्वानर', सम्पूर्ण विश्व के पदार्थ जिसके मूर्तरूप
हैं, यही है जीवन का 'प्राण'। यही वह सत्य है जो ऋग्वेद में भी कहा गया था।
Glossary
सः
एषः अग्निः - saḥ eṣaḥ agniḥ - this fire । विश्वरूपः - viśvarūpaḥ
- this Universal Male । वैश्वानरः - vaiśvānaraḥ - of whom
all things are the bodies । प्राणः - prāṇaḥ - Prana the
breath of existence । उदयते - udayate - riseth । तत् एतत् - tat etat - this is that । ऋचा - ṛcā
- in the Rigveda । अभ्युक्तम् - abhyuktam - was said ।
विश्वरूपं
हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम्।
सहस्ररश्मिः
शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ।।८।।
Transliteration
viśvarūpaṁ
hariṇaṁ jātavedasaṁ parāyaṇaṁ jyotirekaṁ tapantam ।
sahasraraśmiḥ
śatadhā vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ।।
Anvaya
विश्वरूपं
हरिणं जातवेदसं परायणम् एकं ज्योतिः तपन्तं। सहस्ररश्मिः शतधा वर्त्तमानः प्रजानां
प्राणः एषः सूर्यः उदयति ॥
Anvaya
Transliteration
viśvarūpaṁ
hariṇaṁ jātavedasaṁ parāyaṇam ekaṁ jyotiḥ tapantaṁ।
sahasraraśmiḥ śatadhā varttamānaḥ prajānāṁ prāṇaḥ eṣaḥ sūryaḥ udayati ।।
Meaning
“'Fire
is this burning and radiant Sun, he is the One lustre and all-knowing Light, he
is the highest heaven of spirits. With a thousand rays he burneth and existeth
in a hundred existences; lo this Sun that riseth, he is the Life of all his
creatures.'
Hindi
Meaning
''अग्नि है यह तप्त एवं देदीप्यमान् 'सूर्य', यह है 'एकमेव' ज्योति तथा
सर्वज्ञ 'प्रकाश', यह आत्मचैतन्य का
उच्चतम व्योम है। यह सहस्र रश्मियों से जगमगाता है तथा शतविध अस्तित्वों में
विद्यमान होता है; अहो, यह 'सूर्य' जो उदित हो रहा है, यह
अपनी समस्त प्रज्जाओं का 'प्राण' है।
Glossary
विश्वरूपम्
- viśvarūpam
- variegated । हरिणम् - hariṇam - Light । जातवेदसम्
- jātavedasam - all-knowing । परायणम् - parāyaṇam -
the one who is the highest heaven of spirits । एकम् ज्योतिः - ekam
jyotiḥ - the One lustre । तपन्तम् - tapantam - burning and
radiant । सहस्ररश्मिः - sahasraraśmiḥ - with a thousand
rays । शतधा वर्त्तमानः - śatadhā varttamānaḥ - the one who
burneth and existeth in a hundred existences । प्रजानाम् प्राणः -
prajānām prāṇaḥ - the one who is the Life of all his creatures । एषः सूर्यः - eṣaḥ sūryaḥ - this Sun । उदयति - udayati
- riseth ।
संवत्सरो
वै प्रजापतिः स्तस्यायने दक्षिणञ्चोत्तरं च।
तद्ये
ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते त एव
पुनरावर्तन्ते।
तस्मादेत
ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते। एष ह वै रयिर्यः पितृयाणः ॥ ।।९।।
Transliteration
saṁvatsaro
vai prajāpatiḥ stasyāyane dakṣiṇañcottaraṁ ca ।
tadye
ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva lokamabhijayante ta eva
punarāvartante। tasmādeta ṛṣayaḥ prajākāmā dakṣiṇaṁ
pratipadyante ।
eṣa
ha vai rayiryaḥ pitṛyāṇaḥ ।।
Anvaya
प्रजापतिः
वै संवत्सरः तस्य दक्षिणं च उत्तरं च अयने वर्तेत तत् ये ह वै तत् इष्टापूर्त्ते
कृतं इति उपास्ते ते चान्द्रमसं लोकम् अभिजयन्ते ते एव पुनरावर्त्तन्ते। तस्मात्
एते ऋषयः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते एषः ह वै रयिः यः पितृयाणः ॥
Anvaya
Transliteration
prajāpatiḥ
vai saṁvatsaraḥ tasya dakṣiṇaṁ ca uttaraṁ ca ayane ( varteta ) tat ye ha vai
tat iṣṭāpūrtte kṛtaṁ iti upāste te cāndramasaṁ lokam abhijayante te eva
punarāvarttante। tasmāt ete ṛṣayaḥ prajākāmāḥ dakṣiṇaṁ
pratipadyante eṣaḥ ha vai rayiḥ yaḥ pitṛyāṇaḥ ।।
Meaning
“The
year also is that Eternal Father and of the year there are two paths, the
northern solstice and the southern. Now they who worship God with the well dug
and the oblation offered, deeming these to be righteousness, conquer their
heavens of the Moon; these return again to the world of birth. Therefore do the
souls of sages who have not yet put from them the desire of offspring, take the
way of the southern solstice which is the road of the Fathers. And this also is
Matter, the Female.
Hindi
Meaning
''संवत्सर (वर्ष) भी वह 'परमपिता' (प्रजापति) है तथा संवत्सर के दो अयन अर्थात् दो मार्ग हैं- उत्तरायण एवं
दक्षिणायन। और, जो लोग कूपादि खनन तथा यज्ञों में हवि की
आहुति देकर 'ईश्वर' की उपासना करते हैं,
और इसी सब को सत्कर्म मानते हैं, वे चान्द्रमस
स्वर्ग-लोकों को ही विजित करते हैं; ये ही लोग जन्म के लोक
में पुनः लौटकर आते हैं। इसी कारण वे ऋषिगण जिन्होंने पुत्रप्राप्ति की कामनाओं का
त्याग नहीं किया है, वे दक्षिणायन मार्ग का अनुसरण करते हैं
जो कि पितृयाण (पितरों का मार्ग) है। तथा यह भी 'रयि'
(जड़तत्त्व) 'नारीतत्त्व' है।
Glossary
संवत्सरः
वै - saṁvatsaraḥ
vai - the year also is । प्रजापतिः - prajāpatiḥ - that
Eternal Father । तस्य - tasya - of that (the year) । दक्षिणम् च - dakṣiṇam ca - the southern । उत्तरम्
च - uttaram ca - and the northern solstice । अयने - ayane
- there are two paths । तत् ये ह वै - tat ye ha vai - now
they who । तदिष्टापूर्त्ते कृतम् इति - tadiṣṭāpūrtte kṛtam
iti - with the well dug and the oblation offered, deeming these to be
righteousness । उपास्ते - upāste - worship God । ते - te - they । चान्द्रमसम् लोकम् - cāndramasam
lokam - their heavens of the Moon । अभिजयन्ते - abhijayante
- conquer । ते एव - te eva - these । पुनरावर्त्तन्ते
- punarāvarttante - return again to the world of birth । तस्मात्
- tasmāt - therefore, take the way of the southern solstice which is the
road of the Fathers. And this also is Matter, the Female । एते
प्रजाकामाः ऋषयः - ete prajākāmāḥ ṛṣayaḥ - do the souls of sages who have
not yet put from them the desire of offspring । दक्षिणम् - dakṣiṇam
- the southern solstice । प्रतिपद्यन्ते - pratipadyante -
take the way of । यः - yaḥ - this indeed । पितृयाणः
- pitṛyāṇaḥ - is the road of the Fathers । एषः ह वै रयिः -
eṣaḥ ha vai rayiḥ - this also is Matter, the Female ।
अथोत्तरेण
तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते।
एतद्वै
प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष
श्लोकः ॥ ।।१०।।
Transliteration
athottareṇa
tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante ।
etadvai
prāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartanta ityeṣa
nirodhaḥ। tadeṣa ślokaḥ ।।
Anvaya
अथ
तपसा ब्रह्मचर्येण श्रद्धया विद्यया आत्मानम् अन्विष्य उत्तरेण आदित्यं अभिजयन्ते।
एतत् वै प्राणानाम् आयतनम् एतत् अमृतम् अभयम् एतत् परायणम् एतस्मात् पुनः न
आवर्तन्ते। इति एषः निरोधः। तत् एषः श्लोकः भवति ॥
Anvaya
Transliteration
atha
tapasā brahmacaryeṇa śraddhayā vidyayā ātmānam anviṣya uttareṇa ādityaṁ
abhijayante। etat vai prāṇānām āyatanam etat amṛtam
abhayam etat parāyaṇam etasmāt punaḥ na āvartante। iti eṣaḥ
nirodhaḥ। tat eṣaḥ ślokaḥ ( bhavati ) ।।
Meaning
“But
by the way of the northern solstice go the souls that have sought the Spirit
through holiness and knowledge and faith and askesis; for they conquer their
heavens of the Sun. There is the resting place of the breaths, there
immortality casteth out fear, there is the highest heaven of spirits; thence no
soul returneth; therefore is the wall and barrier.Whereof this is the
Scripture.
Hindi
Meaning
''किन्तु उत्तरायण मार्ग का अनुसरण करते हैं वे महात्माजन जिन्होंने 'आत्मा' का ब्रह्मचर्य, विद्या,
श्रद्धा एवं तपस्या के द्वारा अन्वेषण कर लिया है; क्योंकि वे 'सूर्यलोक' के अपने
स्वर्ग को जीत लेते हैं। वहीं है 'प्राणों' का आयतन (विश्राम स्थल), वहाँ अमृतत्व अभय प्रदान
करता है, वहाँ जीवात्माओं का सर्वोच्च द्युलोक है; वहीं से कोई लौटता नहीं हैं; अतएव यह निरोध तथा यह
अवरोध है। जिसके सम्बन्ध में यह श्लोक (श्रुतिवचन) है।
Glossary
अथ
- atha
- but । तपसा - tapasā - through askesis । ब्रह्मचर्येण
- brahmacaryeṇa - through holiness । श्रद्धया - śraddhayā
- through knowledge । विद्यया - vidyayā - through faith । आत्मानम् - ātmānam - having sought । अन्विष्य - anviṣya
- the Spirit । उत्तरेण - uttareṇa - by the way of the
northern solstice । आदित्यम् - ādityam - heavens of the
Sun । अभिजयन्ते - abhijayante - they conquer । एतत् वै - etat vai - this indeed । प्राणानाम्
आयतनम् - prāṇānām āyatanam - is the resting place of the breaths । एतत् अमृतम् अभयम् - etat amṛtam abhayam - this the immortality
that casteth out fear । एतत् परायणम् - etat parāyaṇam -
this is the highest heaven of spirits । एतस्मात् - etasmāt
- thence । पुनः - further - । न आवर्तन्ते - na
āvartante - no soul returneth । इति एषः निरोधः - iti eṣaḥ
nirodhaḥ - therefore is the wall and barrier । तत् एषः श्लोकः - tat
eṣaḥ ślokaḥ - whereof this is the Scripture ।
पञ्चपादं
पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्।
अथेमे
अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ।।११।।
Transliteration
pañcapādaṁ
pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam ।
atheme
anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ।।
Anvaya
पञ्चपादं
द्वादशाकृतिं पितरं दिवः परे अर्धे पुरीषिणम् आहुः। अथ परे अन्ये इमे विचक्षणं
सप्तचक्रे षडरे अर्पितम् इति आहुः ॥
Anvaya
Transliteration
pañcapādaṁ
dvādaśākṛtiṁ pitaraṁ divaḥ pare ardhe purīṣiṇam āhuḥ। atha
pare anye ime vicakṣaṇaṁ saptacakre ṣaḍare arpitam ( iti ) āhuḥ ।।
Meaning
“'Five-portioned,
some say, is the Father and hath twelve figures and he floweth in the upper
hemisphere beyond the heavens; but others speak of him as the Wisdom who
standeth in a chariot of six spokes and seven wheels.'
Hindi
Meaning
'''कुछ लोग इसे पञ्चपाद अर्थात् पाँच अगोंवाला 'पिता'
कहते हैं, तथा उसकी बारह आकृतियां हैं एवं वह
द्यु-लोकों के परे, परार्ध में प्रवाहित होता है; किन्तु अन्य उसे 'विचक्षण' (विद्वान्)
कहते हैं जो छः अरों एवं सात चक्रों वाले रथ में विराजमान है।'
Glossary
पञ्चपादम्
- pañcapādam
- five-portioned । द्वादशाकृतिम् - dvādaśākṛtim - that has
twelve figures । पितरम् - pitaram - the Father । दिवः परे अर्धे - divaḥ pare ardhe - in the upper hemisphere
beyond the heavens । पुरीषिणम् - purīṣiṇam - that which
inhabits । आहुः - āhuḥ - some say । अथ - atha
- but । परे अन्ये इमे - pare anye ime - others । विचक्षणम् - vicakṣaṇam - as the Wisdom । सप्तचक्रे
षडरे - saptacakre ṣaḍare - in a chariot of six spokes and seven wheels । अर्पितम् - arpitam - who standeth । आहुः - āhuḥ
- speak ।
मासो
वै प्रजापतिस्तस्य कृष्णपक्श एव रयिः शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं
कुर्वन्तीतर इतरस्मिन् ॥ ।।१२।।
Transliteration
māso
vai prajāpatistasya kṛṣṇapakśa eva rayiḥ śuklaḥ praṇastasmādeta ṛṣayaḥ śukla iṣṭaṁ
kurvantītara itarasmin ।।
Anvaya
मासः
वै प्रजापतिः तस्य कॄष्णपक्षः एव रयिः शुक्लः प्राणः तस्मात् एते ऋषयः शुक्ले
इष्टं कुर्वन्ति इतरे इतरस्मिन् ॥
Anvaya
Transliteration
māsaḥ
vai prajāpatiḥ tasya kṝṣṇapakṣaḥ eva rayiḥ śuklaḥ prāṇaḥ tasmāt ete ṛṣayaḥ
śukle iṣṭaṁ kurvanti itare itarasmin ।।
Meaning
“The
month also is that Eternal Father, whereof the dark fortnight is Matter the
Female and the bright fortnight is Life the Male. Therefore do one manner of
sages offer sacrifice in the bright fortnight and another in the dark.
Hindi
Meaning
''मास भी वही 'प्रजापति' है,
जिसका कृष्णपक्ष 'रयि' (जड़तत्त्व)
'स्त्रीतत्त्व' है तथा शुक्लपक्ष 'प्राण' पुंस्तत्त्व है। इसीलिए एक प्रकार के ऋषिगण
शुक्लपक्ष में हवि अर्पण करते हैं तथा अन्य कृष्णपक्ष में।
Glossary
मासः
वै - māsaḥ
vai - the month also । प्रजापतिः - prajāpatiḥ - is that
Eternal Father । तस्य - tasya - of that । कॄष्णपक्षः
एव - kṝṣṇapakṣaḥ eva - the dark fortnight । रयिः - rayiḥ
- is Matter the Female । शुक्लः - śuklaḥ - the bright
fortnight । प्राणः - prāṇaḥ - is Life the Male । तस्मात् - tasmāt - therefore offer sacrifice and another in
the dark । एते ऋषयः - ete ṛṣayaḥ - do one manner of sages । शुक्ले - śukle - in the bright fortnight । इष्टम्
कुर्वन्ति - iṣṭam kurvanti - offer sacrifice । इतरे - itare
- another । इतरस्मिन् - itarasmin - in the other (dark
fortnight) ।
अहोरात्रो
वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः।
प्राणं
वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या
संयुज्यन्ते ॥ ।।१३।।
Transliteration
ahorātro
vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ।
prāṇaṁ
vā ete praskandanti ye divā ratyā saṁyujyante brahmacaryameva tadyadrātrau
ratyā saṁyujyante ।।
Anvaya
अहोरात्रः
वै प्रजापतिः। तस्य अहः एव प्राणः रात्रिः एव रयिः। ये दिवा रत्या संयुज्यन्ते
प्राणं वै एते प्रस्कन्दन्ति। रात्रौ यत् रत्या सयंयन्ते तत् ब्रह्मचर्यम् एव ॥
Anvaya
Transliteration
ahorātraḥ
vai prajāpatiḥ। tasya ahaḥ eva prāṇaḥ rātriḥ eva rayiḥ। ye divā ratyā saṁyujyante prāṇaṁ vai ete praskandanti। rātrau yat ratyā sayaṁyante tat brahmacaryam eva ।।
Meaning
“Day
and night also are the Eternal Father, whereof the day is Life and the night is
Matter. Therefore do they offend against their own life who take joy with woman
by day; by night who take joy, enact holiness.
Hindi
Meaning
''अहोरात्र (दिन तथा रात्रि) भी प्रजापति हैं, जिनमें
से दिन 'प्राण' है तथा रात्रि 'रयि' (जड़तत्त्व) है। अतएव जो दिन में स्त्री-रति
में सुख लेते हैं वे स्वयं ही अपने प्राणों (जीवन) को नष्ट कर देते हैं; जो रात्रि में स्त्री-रति में सुख लेते हैं वे ब्रह्मचर्य का ही पालन करते
हैं।
Glossary
अहोरात्रः
वै - ahorātraḥ
vai - day and night also । प्रजापतिः - prajāpatiḥ - the
Eternal Father । तस्य - tasya - where of । अहः
एव - ahaḥ eva - the day । प्राणः - prāṇaḥ - is Life
। रात्रिः एव - rātriḥ eva - the night । रयिः
- rayiḥ - is Matter । दिवा - divā - by day । रत्या - ratyā - with woman । ये संयुज्यन्ते - ye
saṁyujyante - who take joy । प्राणम् वै - prāṇam vai -
their own life । एते प्रस्कन्दन्ति - ete praskandanti -
therefore do they offend against । रात्रौ - rātrau - by
night । रत्या - ratyā - with woman । यत्
सयंयन्ते - yat sayaṁyante - who take joy । तत्
ब्रह्मचर्यम् एव - tat brahmacaryam eva - enact holiness ।
अन्नं
वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥ ।।१४।।
Transliteration
annaṁ
vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ prajāyanta iti ।।
Anvaya
अन्नं
वै प्रजापतिः ततः तत् रेत जायते तस्मात् इमाः प्रजाः प्रजायन्ते ॥
Anvaya
Transliteration
annaṁ
vai prajāpatiḥ tataḥ tat reta( jāyate ) tasmāt imāḥ prajāḥ prajāyante ।।
Meaning
“Food
is the Eternal Father; for of this came the seed and of the seed is the world
of creatures born .
Hindi
Meaning
"अत्र ही प्रजापति है; उसी से वह बीज (रेतस्) उत्पन्न
हुआ तथा उस बीज सें यह समस्त प्राणिजगत् (प्रजा) उत्पन्न हुआ।
Glossary
अन्नम्
वै - annam
vai - food is । प्रजापतिः - prajāpatiḥ - the Eternal
Father । ततः - tataḥ - from this । तत् रेतः
- tat retaḥ - came the seed । तस्मात् - tasmāt -
from the seed । इमाः प्रजाः - imāḥ prajāḥ - the world of
creatures । प्रजायन्ते - prajāyante - is born ।
तद्ये
ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते।
तेषामेवैष
ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितम् ॥ ।।१५।।
Transliteration
tadye
ha vai tatprajāpativrataṁ caranti te mithunamutpādayante ।
teṣāmevaiṣa
brahmaloko yeṣāṁ tapo brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitam ।।
Anvaya
तत्
ये तत् प्रजापतिव्रतं चरन्ति ते मिथुनम् उत्पादयन्ते। येषां तपः ब्रह्मचर्यं येषु
सत्यं प्रतिष्ठितं तेषाम् एव एषः ब्रह्मलोकः ॥
Anvaya
Transliteration
tat
ye tat prajāpativrataṁ caranti te mithunam utpādayante। yeṣāṁ
tapaḥ brahmacaryaṁ yeṣu satyaṁ pratiṣṭhitaṁ teṣām eva eṣaḥ brahmalokaḥ ।।
Meaning
“They
therefore who perform the vow of the Eternal Father produce the twin creature.
But theirs is the heaven of the spirit in whom are established askesis and
holiness and in whom Truth has her dwelling.
Hindi
Meaning
''अतएव जो प्रजापतिव्रत का पालन करते हैं वे प्राणियों के मिथुन (जोड़े)
उत्पन्न करते हैं। किन्तु ब्रह्मलोक उनका है जिनमें तप तथा ब्रह्मचर्य प्रतिष्ठित
हैं, जिनके अन्तर् में सत्य का निवास है।
Glossary
तत्
ये - tat
ye - therefore they who । तत् प्रजापतिव्रतम् - tat
prajāpativratam - the vow of the Eternal Father । चरन्ति - caranti
- perform । ते - te - they । मिथुनम् - mithunam
- the twin creature । उत्पादयन्ते - utpādayante - produce । येषाम् - yeṣām - in whom । तपः - tapaḥ -
askesis । ब्रह्मचर्यम् - brahmacaryam - holiness । येषु - yeṣu - in whom । सत्यम् प्रतिष्ठितम् - satyam
pratiṣṭhitam - Truth has her dwelling । तेषाम् एव - teṣām
eva - theirs । एषः ब्रह्मलोकः - eṣaḥ brahmalokaḥ - is the
heaven of the spirit and ।
तेषामसौ
विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥ ।।१६।।
Transliteration
teṣāmasau
virajo brahmaloko na yeṣu jihmamanṛtaṁ na māyā ceti ।।
Anvaya
येषु
जिह्मम् अनृतं न माया च न तेषाम् असौ विरजः ब्रह्मलोकः इति ॥
Anvaya
Transliteration
yeṣu
jihmam anṛtaṁ na māyā ca na teṣām asau virajaḥ brahmalokaḥ iti ।।
Meaning
“Theirs
is the heaven of the Spirit, the world all spotless, in whom there is neither
crookedness nor lying nor any illusion.”
Hindi
Meaning
'उन्हीं का है यह निर्मल ब्रह्मलोक जिनमें न कुटिलता है, न मिथ्यात्व (अनृतम्) है, न कोई भान्ति है।''
Glossary
येषु
- yeṣu
- in whom । न जिह्मम् - na jihmam - nor crookedness । न अनृतम् - na anṛtam - nor lying । न माया च - na
māyā ca - and nor any illusion । तेषाम् - teṣām - theirs । असौ विरजः - asau virajaḥ - the world all spotless । ब्रह्मलोकः इति - brahmalokaḥ iti - is the heaven of the Spirit
।
द्वितीयः
प्रश्नः
अथ
हैनं भार्गवो वैदर्भिः पप्रच्छ।
भगवन्
कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठः इति ॥ ।।१।।
Transliteration
atha
hainaṁ bhārgavo vaidarbhiḥ papraccha ।
bhagavan
katyeva devāḥ prajāṁ vidhārayante katara etatprakāśayante kaḥ punareṣāṁ variṣṭhaḥ
iti ।।
Anvaya
अथ
वैदर्भिः भार्गवः एनम् पप्रच्छ भगवन् कति एव देवाः प्रजां विधारयन्ते कतरे एतत्
प्रकाशयन्ते कः पुनः एषां वरिष्ठः ॥
Anvaya
Transliteration
atha
vaidarbhiḥ bhārgavaḥ enam papraccha bhagavan kati eva devāḥ prajāṁ vidhārayante
katare etat prakāśayante kaḥ punaḥ eṣāṁ variṣṭhaḥ ।।
Meaning
Then
the Bhargava, the Vidarbhan, asked him: “Lord, how many Gods maintain this
creature, and how many illumine it, and which of these again is the mightiest?”
Hindi
Meaning
तत्पश्चात्
वैदर्भी (विदर्भदेशीय) भार्गव ने उनसे पूछा, ''हे भगवन्
कितने देवगण इस प्रजा को सम्भालते हैं, कितने इसे प्रकाशित
करते हैं तथा इनमें सें पुनः कौन वरिष्ठ (सर्वाधिक शक्तिशाली) है?"
Glossary
अथ
- atha
- then । वैदर्भिः भार्गवः - vaidarbhiḥ bhārgavaḥ - the
Bhargava, the Vidarbhan । एनम् पप्रच्छ - enam papraccha -
asked him । भगवन् - bhagavan - Lord! । कति
एव - kati eva - how many । देवाः - devāḥ - Gods । प्रजाम् - prajām - this creature । विधारयन्ते - vidhārayante
- maintain । कतरे - katare - and how many । एतत्
प्रकाशयन्ते - etat prakāśayante - illumine it । कः पुनः - kaḥ
punaḥ - and which again । एषाम् वरिष्ठः - eṣām variṣṭhaḥ -
of these is the mightiest ।
तस्मै
स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च।
ते
प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥ ।।२।।
Transliteration
tasmai
sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca ।
te
prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ ।
Anvaya
सः
तस्मै उवाच एषः देवः आकाशः वायुः अग्निः आपः पृथिवी वाक् मनः चक्षुः श्रोत्रम् च ते
प्रकाश्य अभिवदन्ति वयम् एतत् बाणम् अवष्टभ्य विधारयामः॥ २॥
Anvaya
Transliteration
saḥ
tasmai uvāca eṣaḥ devaḥ ākāśaḥ vāyuḥ agniḥ āpaḥ pṛthivī vāk manaḥ cakṣuḥ
śrotram ca te prakāśya abhivadanti vayam etat bāṇam avaṣṭabhya vidhāarayāmaḥ ।।
Meaning
To
him answered the Rishi Pippalada: “These are the Gods, even Ether and Wind and
Fire and Water and Earth and Speech and Mind and Sight and Hearing. These nine
illumine the creature; therefore they vaunted themselves,-We, even we support
this harp of God and we are the preservers
Hindi
Meaning
ऋषि
पिप्पलाद ने उसे उत्तर दिया, ''ये देवगण हैं-'आकाश', 'वायु', 'अग्नि',
'जल' 'पृथ्वि', 'वाक्'
'मन', 'चक्षु' तथा 'श्रोत्र'। ये नौ देव प्रजा को प्रकाशित करते हैं;
इसीलिए उन्होंने अभिमानपूर्वक कहा-'हम',
हम ही भगवान् के वाद्ययन्त्र को सहारा देते हैं तथा हम ही उसके
संरक्षक हैं।
Glossary
सः
- saḥ
- he, the Rishi Pippalada । तस्मै - tasmai - to him । उवाच - uvāca - answered । एषः देवः - eṣaḥ
devaḥ - these are the Gods । आकाशः - ākāśaḥ - Ether । वायुः - vāyuḥ - Wind । अग्निः - agniḥ -
Fire । आपः - āpaḥ - Water । पृथिवी - pṛthivī
- Earth । वाक् - vāk - Speech । मनः - manaḥ
- Mind । चक्षुः - cakṣuḥ - Sight । श्रोत्रम्
च - śrotram ca - and Hearing । ते - te - these nine
। प्रकाश्य - prakaashya - illumine the creature । अभिवदन्ति - abhivadanti - therefore they vaunted themselves । वयम् - vayam - ve । एतत् बाणम् - etat
baaNam - this harp of ġod । अवष्टभ्य - avastabhya - ve
support । विधारयामः - vidhaaarayaamah - ve preserve ।
तान्
वरिष्ठः प्राण उवाच।
मा
मोहमापद्यथ अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति
तेऽश्रद्दधाना बभूवुः ॥ ।।३।।
Transliteration
tān
variṣṭhaḥ prāṇa uvāca ।
mā
mohamāpadyatha ahamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya
vidhārayāmīti te'śraddadhānā babhūvuḥ ।।
Anvaya
वरिष्ठः
प्राणः तान् उवाच मोहं मा आपद्यथ अहम् एव एतत् आत्मानं पञ्चधा प्रविभज्य एतत्
बाणम् अवष्टभ्य विधारयामि। ते अश्रद्धधानाः बभूवुः ॥
Anvaya
Transliteration
variṣṭhaḥ
prāṇaḥ tān uvāca mohaṁ mā āpadyatha aham eva etat ātmānaṁ pañcadhā pravibhajya
etat bāṇam avaṣṭabhya vidhārayāmi। te aśraddhadhānāḥ
babhūvuḥ ।।
Meaning
“Then
answered Breath, their mightiest: 'Yield not unto delusion; I dividing myself
into this fivefold support this harp of God, I am its preserver.' But they
believed him not.
Hindi
Meaning
''उनमें वरिष्ठ (सर्वाधिक शक्तिशाली) 'प्राण' बोला, ''आप मोह- भ्रम में मत पड़िये; मैं स्वयं को ही पंचविध रूप में विभक्त करके भगवान् के इस वाद्ययन्त्र को
सहारा देता हूँ, मैं ही इसका संरक्षक हूँ।'' किन्तु उन्होंने उस पर विश्वास नहीं किया।
Glossary
वरिष्ठः
प्राणः - variṣṭhaḥ prāṇaḥ - Breath, their mightiest । तान् उवाच - tān uvāca - answered to them । मोहम्
- moham - unto delusion । मा आपद्यथ - mā āpadyatha
- yield not । अहम् एव - aham eva - I alone ।
आत्मानम् - ātmānam - myself । एतत् प्रविभज्य पञ्चधा - etat
pravibhajya pañcadhā - dividing into this fivefold । एतत् बाणम् -
etat bāṇam - this harp of God । अवष्टभ्य - avaṣṭabhya
- support । विधारयामि - vidhārayāmi - I am its preserver । ते - te - they । अश्रद्धधानाः बभूवुः - aśraddhadhānāḥ
babhūvuḥ - believed him not ।
सोऽभिमानादूर्ध्वमुत्क्रामत
इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव
प्रतिष्ठन्ते।
तद्यथा
मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व
एव प्रतिष्टन्त एवम् वाङ्मनष्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥ ।।४।।
Transliteration
so'bhimānādūrdhvamutkrāmata
iva tasminnutkrāmatyathetare sarva evotkrāmante tasmiṁśca pratiṣṭhamāne sarva
eva pratiṣṭhante ।
tadyathā
makṣikā madhukararājānamutkrāmantaṁ sarva evotkrāmante tasmiṁśca pratiṣṭhamāne
sarva eva pratiṣṭanta evam vāṅmanaṣcakṣuḥ śrotraṁ ca te prītāḥ prāṇaṁ stunvanti
।।
Anvaya
सः
अभिमानात् ऊर्ध्वम् उत्क्रमते इव तस्मिन् उत्क्रामति अथ इतरे सर्वे एव प्राणाः
उत्क्रामन्ते तस्मिन् च प्रतिष्ठमाने सर्वे एव प्रातिष्ठन्ते। तत् यथा
मधुकरराजानम् उत्क्रामन्तं सर्वाः एव मक्षिकाः उत्क्रामन्ते तस्मिन् प्रतिष्ठमाने
सर्वाः एव प्रतिष्ठन्ते एवं वाक् मनः चक्षुः श्रोत्रं च अकुर्वन् । ते प्रीताः
प्राणं स्तुन्वन्ति ॥
Anvaya
Transliteration
saḥ
abhimānāt ūrdhvam utkramate iva tasmin utkrāmati atha itare sarve eva prāṇāḥ
utkrāmante tasmin ca pratiṣṭhamāne sarve eva prātiṣṭhante।
tat yathā madhukararājānam utkrāmantaṁ sarvāḥ eva makṣikāḥ utkrāmante tasmin
pratiṣṭhamāne sarvāḥ eva pratiṣṭhante evaṁ vāk manaḥ cakṣuḥ śrotraṁ ca (
akurvan )। te prītāḥ prāṇaṁ stunvanti ।।
Meaning
“Therefore
offended he rose up, he was issuing out from the body. But when the Breath
goeth out, then go all the others with him, and when the Breath abideth all the
others abide; therefore as bees with the kingbee: when he goeth out all go out
with him, and when he abideth all abide, even so was it with Speech and Mind
and Sight and Hearing; then were they wellpleased and hymned the Breath to
adore him.
Hindi
Meaning
"अतएव वह क्रुद्ध होकर ऊपर की ओर उठने लगा वह शरीर से बाहर निकलने लगा।
किन्तु जब प्राण शरीर से बाहर निकलता है तब उसके साथ अन्य सब भी बाहर निकलने लगते
हैं, और जब प्राण प्रतिष्ठित (सुस्थिर) रहता है तो अन्य सभी
प्रतिष्ठित सुस्थिर रहते हैं; जिस प्रकार मधुमक्खियाँ
मधुकर-राजा के साथ होती हैं?जब वह बाहर जाता है, सब उसके साथ बाहर निकल जाती हैं तथा जब वह अन्दर बैठ जाता है,सब बैठ जाती हैं, ऐसा ही है 'वाङ्',
'मन', 'चक्षु' तथा 'श्रोत्र' के साथ भी तत्पश्चात् वे सब अतिप्रसन्न हो
गये तथा 'प्राण' का स्तुतिगान करने
लगे।
Glossary
सः
- saḥ
- he । अभिमानात् - abhimānāt - therefore offended । ऊर्ध्वम् उत्क्रमते इव - ūrdhvam utkramate iva - rose up (he
was issuing out from the body) । तस्मिन् उत्क्रामति - tasmin
utkrāmati - when the Breath goeth out । अथ - atha - then । इतरे सर्वे एव प्राणाः - itare sarve eva prāṇāḥ - all the
others । उत्क्रामन्ते - utkrāmante - go out with him । तस्मिन् च प्रतिष्ठमाने - tasmin ca pratiṣṭhamāne - when the
Breath abideth । सर्वे एव - sarve eva - all the others । प्रातिष्ठन्ते - prātiṣṭhante - abide । तत् - tat
- therefore । यथा - yathā - as । मधुकरराजानम्
- madhukararājānam - the kingbee । उत्क्रामन्तम् - utkrāmantam
- when goeth out । सर्वाः एव मक्षिकाः - sarvāḥ eva makṣikāḥ
- all bees and । उत्क्रामन्ते - utkrāmante - go out with
him । तस्मिन् प्रतिष्ठमाने - tasmin pratiṣṭhamāne - when
he abideth । सर्वाः एव - sarvāḥ eva - all । प्रतिष्ठन्ते
- pratiṣṭhante - abide । एवम् - evam - even so was
it with । वाक् - vāk - Speech । मनः - manaḥ
- Mind । चक्षुः - cakṣuḥ - Sight and hymned the Breath to
adore him । श्रोत्रम् च - śrotram ca - and Hearing । ते प्रीताः - te prītāḥ - then were they well pleased । प्राणम् स्तुन्वन्ति - prāṇam stunvanti - hymned the Breath to
adore him ।
एषोऽग्निस्तपत्येष
सूर्य एष पर्जन्यो मघवानेष वायुः।
एष
पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ ।।५।।
Transliteration
eṣo'gnistapatyeṣa
sūrya eṣa parjanyo maghavāneṣa vāyuḥ।
eṣa
pṛthivī rayirdevaḥ sadasaccāmṛtaṁ ca yat ।।
Anvaya
एषः
अग्निः सन् तपति एषः सूर्यः एषः पर्जन्यः एषः मघवान् एषः वायुः एषः देवः पृथिवी
रयिः सत् असत् च अमृतं च यत् ॥
Anvaya
Transliteration
eṣaḥ
agniḥ ( san ) tapati eṣaḥ sūryaḥ eṣaḥ parjanyaḥ ( eṣaḥ ) maghavān eṣaḥ vāyuḥ eṣaḥ
devaḥ pṛthivī rayiḥ sat asat ca amṛtaṁ ca yat ।।
Meaning
“'Lo
this is he that is Fire and the Sun that burneth, Rain and Indra and Earth and
Air, Matter and Deity, Form and Formless, and Immortality.
Hindi
Meaning
"
'देखो यही वह है जो 'अग्नि' है तथा यही 'सूर्य' है जो तपता
है यही 'वर्षा' है तथा यही इन्द्र है
यही 'पृथ्वी' है यही 'वायु' है यही 'रवि' तथा 'देव है 'सत्' तथा 'असत्' एवं 'अमृतत्वं' यही है।
Glossary
एषः
अग्निः - eṣaḥ agniḥ - this is he that is Fire । तपति
- tapati - that burneth । एषः सूर्यः - eṣaḥ sūryaḥ
- this is he that is the Sun । एषः पर्जन्यः - eṣaḥ
parjanyaḥ - this is he that is Rain । मघवान् - maghavān -
this is he that is Indra । एषः वायुः - eṣaḥ vāyuḥ - this
is he that is Air । एषः देवः - eṣaḥ devaḥ - this is he
that is Deity । पृथिवी - pṛthivī - this is he that is
Earth । रयिः - rayiḥ - this is he that is Matter । सत् असत् च - sat asat ca - this is he that is Form and
Formless । अमृतम् च यत् - amṛtam ca yat - and this is he
that is Immortality ।
अरा
इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम्।
ऋचो
यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ ।।६।।
Transliteration
arā
iva rathanābhau prāṇe sarvaṁ pratiṣṭhitam ।
ṛco
yajūṣi sāmāni yajñaḥ kṣatraṁ brahma ca ।।
Anvaya
रथनाभौ
अराः इव प्राणे सर्वं प्रतिष्ठितम्। ऋचः यजूषि सामानि यज्ञः क्षत्रं ब्रह्म च
तस्मिन् प्रतिष्ठितम् ॥
Anvaya
Transliteration
rathanābhau
arāḥ iva prāṇe sarvaṁ pratiṣṭhitam। ṛcaḥ yajūṣi sāmāni
yajñaḥ kṣatraṁ brahma ca ( tasmin pratiṣṭhitam ) ।।
Meaning
“'As
the spokes meet in the nave of a wheel, so are all things in the Breath
established, the Rigveda and the Yajur and the Sama, and Sacrifice and
Brahminhood and Kshatriyahood.
Hindi
Meaning
''
'जिस प्रकार रथ के पहिये की नाभि में उसके सारे अरे मिलते हैं उसी
प्रकार सब कुछ 'प्राण' में प्रतिष्ठित
है, ऋग्वेद तथा यजुर्वेद तथा सामवेद, यज्ञ
तथा ब्राह्मणत्व (ब्रह्म) तथा क्षत्रियत्वं (क्षत्र)।
Glossary
रथनाभौ
- rathanābhau
- in the nave of a wheel । अराः इव - arāḥ iva - as the
spokes । प्राणे - prāṇe - in the Breath । सर्वम्
प्रतिष्ठितम् - sarvam pratiṣṭhitam - so are all things established । ऋचः - ṛcaḥ - the Rigveda । यजूषि - yajūṣi
- the Yajur । सामानि - sāmāni - the Sama । यज्ञः
- yajñaḥ - Sacrifice । क्षत्रम् - kṣatram -
Kshatriyahood । ब्रह्म च - brahma ca - and Brahminhood ।
प्रजापतिश्चरसि
गर्भे त्वमेव प्रतिजायसे।
तुभ्यं
प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥ ।।७।।
Transliteration
prajāpatiścarasi
garbhe tvameva pratijāyase ।
tubhyaṁ
prāṇa prajāstvimā baliṁ haranti yaḥ prāṇaiḥ pratitiṣṭhasi ।।
Anvaya
त्वम्
एव प्रजापतिः सन् गर्भे चरसि प्रतिजायसे। प्राण इमाः प्रजाः तु तुभ्यं बलिं हरन्ति
यः त्वं प्राणैः प्रतितिष्ठसि ॥
Anvaya
Transliteration
tvam
eva prajāpatiḥ ( san ) garbhe carasi pratijāyase। prāṇa
imāḥ prajāḥ tu tubhyaṁ baliṁ haranti yaḥ tvaṁ prāṇaiḥ pratitiṣṭhasi ।।
Meaning
“As
the Eternal Father thou movest in the womb and art born in the likeness of the
parents. To thee, O Life, the world of creatures offer the burnt offering, who
by the breaths abidest.
Hindi
Meaning
'''हे प्राण! आप प्रजापति के समान गर्भ में विचरण करते हैं तथा मातापिता से
साम्य रखते हुए आप जन्म ग्रहण करते हैं। आप, जो प्राणों के
द्वारा निवास करते हैं, यह प्राणिजगत् आपको यज्ञ-हवि अर्पित
करता है।
Glossary
त्वम्
एव - tvam
eva - thou । प्रजापति - prajāpati - the Eternal Father । गर्भे - garbhe - in the womb । चरसि - carasi
- movest । प्रतिजायसे - pratijāyase - art born in the
likeness of the parents । प्राण - prāṇa - O Life! । इमाः प्रजाः तु - imāḥ prajāḥ tu - the world of creatures । तुभ्यम् - tubhyam - to thee । बलिम् - balim
- the burnt offering । हरन्ति - haranti - offer । यः - yaḥ - who । त्वम् - tvam - thou । प्राणैः - prāṇaiḥ - by the breaths । प्रतितिष्ठसि
- pratitiṣṭhasi - abidest ।
देवानामसि
वह्नितमः पितृणां प्रथमा स्वधा।
ऋषीणां
चरितं सत्यमथर्वाङ्गिरसामसि ॥ ।।८।।
Transliteration
devānāmasi
vahnitamaḥ pitṛṇāṁ prathamā svadhā ।
ṛṣīṇāṁ
caritaṁ satyamatharvāṅgirasāmasi ।।
Anvaya
त्वं
देवानां वह्नितमः पितॄणां प्रथमा स्वधा अथर्वाङ्गिरसाम् ऋषीणां सत्यं चरितं असि ॥
Anvaya
Transliteration
(
tvaṁ ) devānāṁ vahnitamaḥ pitṝṇāṁ prathamā svadhā atharvāṅgirasām ṛṣīṇāṁ satyaṁ
caritaṁ asi ।।
Meaning
Of
all the Gods thou art the strongest and fiercest and to the fathers thou art
the first oblation; thou art the truth and virtue of the sages and thou art
Atharvan among the sons of Angiras.
Hindi
Meaning
''
'सकल देवगणों में आप हैं सर्वाधिक बलवान् तथा उग्रतम और पितरों के
लिए आप हैं प्रथम आहुति (स्वधा), आप ही हैं ऋषियों का सत्य
एवं उनका सुचरित और आप हैं अंगिरस के पुत्रों में से अथर्वा।
Glossary
देवानाम्
- devānām
- of all the Gods । वह्नितमः - vahnitamaḥ - thou art the
strongest and fiercest । पितॄणाम् - pitṝṇām - to the
fathers । प्रथमा स्वधा - prathamā svadhā - thou art the
first oblation । अङ्गिरसाम् - aṅgirasām - among the sons
of Angiras । अथर्वा - atharvā - thou art Atharvan । ऋषीणाम् - ṛṣīṇām - of the sages । सत्यम् चरितम्
असि - satyam caritam asi - thou art the truth and virtue ।
इन्द्रस्त्वं
प्राण तेजसा रुद्रोऽसि परिरक्षिता।
त्वमन्तरिक्षे
चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ ।।९।।
Transliteration
indrastvaṁ
prāṇa tejasā rudro'si parirakṣitā ।
tvamantarikṣe
carasi sūryastvaṁ jyotiṣāṁ patiḥ ।।
Anvaya
प्राण
त्वं इन्द्रः तेजसा रुद्रः असि परिरक्षिता त्वं सूर्यः अन्तरिक्षे चरसि त्वं
ज्योतिषां पतिः ॥
Anvaya
Transliteration
prāṇa
tvaṁ indraḥ tejasā rudraḥ asi parirakṣitā tvaṁ sūryaḥ antarikṣe carasi tvaṁ
jyotiṣāṁ patiḥ ।।
Meaning
“'Thou
art Indra, O Breath, by thy splendour and energy and Rudra because thou
preservest; thou walkest in the welkin as the Sun, that imperial lustre.
Hindi
Meaning
'''हे प्राण! आप इन्द्र हैं अपनी तेजस्विता के कारण तथा रुद्र हैं क्योंकि आप
परिरक्षण करते हैं; ज्योतिष्मान् नक्षत्राधिपति के समान आप
सूर्य बनकर अन्तरिक्ष में विचरण करते हैं।
Glossary
प्राण
- prāṇa
- O Breath! । त्वम् इन्द्रः - tvam indraḥ - thou art Indra
। तेजसा - tejasā - by thy splendour and energy । रुद्रः - rudraḥ - Rudra । असि - asi -
thou art । परिरक्षिता - parirakṣitā - thou art the
preserver । त्वम् सूर्यः - tvam sūryaḥ - thou the Sun । अन्तरिक्षे - antarikṣe - in the welkin । चरसि - carasi
- thou walkest । त्वम् - tvam - thou । ज्योतिषाम्
पतिः - jyotiṣām patiḥ - that imperial lustre ।
यदा
त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः।
आनन्दरूपास्तिष्ठन्ति
कामायान्नं भविष्यतीति ॥ ।।१०।।
Transliteration
yadā
tvamabhivarṣasyathemāḥ prāṇa te prajāḥ ।
ānandarūpāstiṣṭhanti
kāmāyānnaṁ bhaviṣyatīti ।।
Anvaya
प्राण
त्वं यदा अभिवर्षसि अथ ते इमाः प्रजाः कामाय अन्नं भविष्यति इति आनन्दरूपाः
तिष्ठन्ति ॥
Anvaya
Transliteration
prāṇa
tvaṁ yadā abhivarṣasi atha te imāḥ prajāḥ kāamāya annaṁ bhaviṣyati iti
ānandarūpāḥ tiṣṭhanti ।।
Meaning
“'When
thou, O Breath, rainest, thy creatures stand all joy because there shall be
grain to the heart's desire.
Hindi
Meaning
'''हे प्राण! जब आप वृष्टि बनकर बरसते हैं तब आपकी यह प्रजा आनन्द सें भर
उठती है क्योंकि अब यथेष्ट अन्न उत्पन्न होगा।
Glossary
प्राण
- prāṇa
- O Breath! । यदा - yadā - when । त्वम्
अभिवर्षसि - tvam abhivarṣasi - thou rainest । अथ - atha
- then । ते - te - thy । इमाः प्रजाः - imāḥ
prajāḥ - creatures । कामाय - kāamāya - to the heart's
desire । अन्नम् - annam - grain । भविष्यति
इति - bhaviṣyati iti - there shall be । आनन्दरूपाः - ānandarūpāḥ
- all joy । तिष्ठन्ति - tiṣṭhanti - stand ।
व्रात्यस्त्वं
प्राणैकर्षरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य
दातारः पिता त्वं मातरिश्व नः ॥ ।।११।।
Transliteration
vrātyastvaṁ
prāṇaikarṣarattā viśvasya satpatiḥ ।
vayamādyasya
dātāraḥ pitā tvaṁ mātariśva naḥ ।।
Anvaya
प्राण
त्वं व्रात्यः एकऋषिः। सन् अत्ता तथा विश्वस्य सत्पतिः असि । वयं तव आद्यस्य
दातारः मातरिश्व त्वं नः पिता ॥
Anvaya
Transliteration
prāṇa
tvaṁ vrātyaḥ ekaṛṣiḥ। san attā ( tathā ) viśvasya satpatiḥ
( asi )। vayaṁ ( tava ) ādyasya dātāraḥ mātariśva tvaṁ naḥ
pitā ।।
Meaning
“'Thou
art, O Breath, the unpurified and thou art Fire, the only purity, the devourer
of all and the lord of existences. We are the givers to thee of thy eating; for
thou, O Matariswun, art our Father.
Hindi
Meaning
'''हे प्राण! आप ही अपरिष्कृत रूपवाले हैं तथा आप ही 'अग्नि'
एकमात्र पवित्रता हैं, आप ही सर्वभोक्ता हैं
तथा सम्पूर्ण विश्व के स्वामी हैं हम आपको आपका भोज्य प्रदान करने वाले हैं
क्योंकि हे मातरिश्वन्, आप हमारे 'पिता'
हैं।
Glossary
प्राण
- prāṇa
- O Breath! । त्वम् - tvam - thou art । व्रात्यः
- vrātyaḥ - the unpurified । एकऋषिः - ekaṛṣiḥ - the
only purity । अत्ता - attā - the devourer of all (the
Fire) । विश्वस्य सत्पतिः - viśvasya satpatiḥ - the lord of
existences । वयम् - vayam - we are । आद्यस्य
दातारः - ādyasya dātāraḥ - the givers to thee of thy eating । मातरिश्व - mātariśva - । त्वम् नः पिता - tvam
naḥ pitā - for thou art our Father ।
या
ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
या
च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥ ।।१२।।
Transliteration
yā
te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi ।
yā
ca manasi santatā śivāṁ tāṁ kurū motkramīḥ ।।
Anvaya
ते
या तनूः वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषी प्रतिष्ठिता या च मनसि सन्तता
तां शिवां कुरु मा उत्क्रमीः ॥
Anvaya
Transliteration
te
yā tanūḥ vāci pratiṣṭhitā yā śrotre yā ca cakṣuṣī ( pratiṣṭhitā ) yā ca manasi
santatā tāṁ śivāṁ kuru mā utkramīḥ ।।
Meaning
“'That
body of thine which is established in the speech, sight and hearing, and in the
mind is extended, that make propitious; O Life, go not out from our midst!
Hindi
Meaning
'''आपका जो देह वाणी में प्रतिष्ठित है, जो श्रोत्र एवं
चक्षु में प्रतिष्ठित है और जो मन में विस्तीर्ण है उसे मंगलमय (शिव) बना दीजिये
हे प्राण! आप हमारे बीच से बाहर निकल कर मत जाइये।
Glossary
ते
या तनूः - te yā tanūḥ - । वाचि - vaaci - in
the speech । प्रतिष्ठिता - pratisthitaa - is establiśed । या श्रोत्रे - yaa shrotre - that in the hearing ।
या च चक्षुषी - yaa ca caksusi - and that in the sight । या
च मनसि - yaa ca manasi - and that in the mind । सन्तता - santataa
- is ekṣtended । तां शिवां कुरु - taam shivaam kuru - that
make propitious । मा उत्क्रमीः - maa utkramiih - ḻife go
not out from our midst ।
प्राणस्येदं
वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम्।
मातेव
पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ ।।१३।।
Transliteration
prāṇasyedaṁ
vaśe sarvaṁ tridive yat pratiṣṭhitam ।
māteva
putrān rakṣasva śrīśca prajñāṁ ca vidhehi na iti ।।
Anvaya
त्रिदिवे
यत् प्रतिष्ठितम् इदं सर्वं प्राणस्य वशे वर्तते । माता पुत्रान् इव अस्मान्
रक्षस्व नः श्रीः प्रज्ञां विधेहि। इति ॥
Anvaya
Transliteration
tridive
yat pratiṣṭhitam idaṁ sarvaṁ prāṇasya vaśe ( vartate )।
mātā putrān iva ( asmān ) rakṣasva naḥ śrīḥ prajñāṁ vidhehi।
iti ।।
Meaning
“'For
all this Universe, yea, all that is established in the heavens to the Breath is
subject; guard us as a mother watches over her little children; give us fortune
and beauty, give us Wisdom.' ”
Hindi
Meaning
''
'यह सम्पूर्ण विश्व, यहाँ तक कि जो कुछ
स्वर्गों में प्रतिष्ठित है, वह सब 'प्राण'
के वश में है; जिस प्रकार माता अपने नन्हें
पुत्रों की रक्षा करती है, उसी प्रकार हमारी रक्षा करिये;
हमें सौभाग्य एवं सौन्दर्य (श्री) प्रदान करिये, हमें प्रज्ञा दीजिये।'''
Glossary
त्रिदिवे
- tridive
- in the heavens । यत् प्रतिष्ठितम् - yat pratiṣṭhitam -
all that is established । इदम् सर्वम् - idam sarvam - all
this Universe । प्राणस्य वशे - prāṇasya vaśe - to the
Breath is subject । माता पुत्रान् इव - mātā putrān iva -
as a mother watches over her little children । रक्षस्व - rakṣasva
- guard us । श्रीः - śrīḥ - fortune and beauty । प्रज्ञाम् - prajñām - Wisdom । नः विधेहि इति - naḥ
vidhehi iti - give us ।
तृतीयः
प्रश्नः
अथ
हैनं कौशल्यश्चाश्वलायनः पप्रच्छ।
भगवन्
कुत एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा प्रविभज्य कथं प्रतिष्ठते
केनोत्क्रमते कथं बह्यमभिधते कथमध्यात्ममिति ॥ ।।१।।
Transliteration
atha
hainaṁ kauśalyaścāśvalāyanaḥ papraccha ।
bhagavan
kuta eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṁ vā pravibhajya kathaṁ
pratiṣṭhate kenotkramate kathaṁ bahyamabhidhate kathamadhyātmamiti ।।
Anvaya
अथ
च आश्वलायनः कौसल्यः एनं पप्रच्छ भगवन् एषः प्राणः कुतः जायते कथम् अस्मिन् शरीरे
आयाति कथम् आत्मानं प्रविभज्य प्रतिष्थते केन उत्क्रमते कथं बाह्यम् अभिधत्ते। कथं
वा अध्यात्मम् इति ॥
Anvaya
Transliteration
atha
ca āśvalāyanaḥ kausalyaḥ enaṁ papraccha bhagavan eṣaḥ prāṇaḥ kutaḥ jāyate
katham asmin śarīre āyāti katham ātmānaṁ pravibhajya pratiṣthate kena utkramate
kathaṁ bāhyam abhidhatte। kathaṁ ( vā ) adhyātmam iti ।।
Meaning
Then
the Koshalan, the son of Ashwala, asked him: “Lord, whence is this Life born?
How comes it in this body or how stands by self-division? By what departeth, or
how maintaineth the outward and how the inward spiritual?”
Hindi
Meaning
तत्पश्चात्
अश्वलपुत्र कौशलन ने उनसे पूछा, ''भगवन्, यह 'प्राण' कहीं से उत्पन्न
होता है? यह इस शरीर में कैसे आता है अथवा स्वयं को विभाजित
करके कैसे स्थित होता है? किसके द्वारा उत्क्रमण (प्रयाण) कर
जाता है, अथवा किस प्रकार बाह्य विषय एवं आन्तरिक अध्यात्म
को धारण करता है?
Glossary
अथ
च - atha
ca - then । आश्वलायनः कौसल्यः - āśvalāyanaḥ kausalyaḥ -
the Koshalan, the son of Ashwala । एनम् पप्रच्छ - enam
papraccha - asked him । भगवन् - bhagavan - Lord! । एषः प्राणः - eṣaḥ prāṇaḥ - this Life । कुतः
जायते - kutaḥ jāyate - whence is born । अस्मिन् शरीरे - asmin
śarīre - in this body । कथम् आयाति - katham āyāti - how
comes । आत्मानम् प्रविभज्य - ātmānam pravibhajya - by
self-division । कथम् प्रतिष्थते - katham pratiṣthate - how
stands । केन उत्क्रमते - kena utkramate - by what
departeth । बाह्यम् - bāhyam - the outward ।
कथम् अभिधत्ते - katham abhidhatte - how maintaineth । कथम्
अध्यात्मम् इति - katham adhyātmam iti - and how the inward spiritual ।
तस्मै
स होवाचातिप्रश्चान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात्तेऽहं ब्रवीमि ॥ ।।२।।
Transliteration
tasmai
sa houvācātipraścān pṛcchasi brahmiṣṭho'sīti tasmātte'haṁ bravīmi ।।
Anvaya
सः
तस्मै उवाच त्वम् अतिप्रश्नान् पृच्छसि। ब्रह्मिष्ठः असि इति तस्मात् अहं ते
ब्रवीमि ॥
Anvaya
Transliteration
saḥ
tasmai uvāca ( tvam ) atipraśnān pṛcchasi। brahmiṣṭhaḥ asi
iti tasmāt ahaṁ te bravīmi ।।
Meaning
To
him answered the Rishi Pippalada: “Many and difficult things thou askest; but
because thou art very holy, therefore will I tell thee.
Hindi
Meaning
ऋषि
पिप्पलाद ने उसे उत्तर दिया, ''तुम बहुत सारे एवं
दुरूह प्रश्न पूछ रहे हो; परन्तु, क्योंकि
तुम अतिपुण्यात्मा (ब्रह्मिष्ठ) हो, इसलिए मैं तुम्हें
बताऊँगा।
Glossary
सः
- saḥ
- he (the Rishi Pippalada) । तस्मै - tasmai - to him । उवाच - uvāca - answered । अतिप्रश्नान् - atipraśnān
- many and difficult things । पृच्छसि - pṛcchasi - thou
askest । ब्रह्मिष्ठः असि इति - brahmiṣṭhaḥ asi iti - but
because thou art very holy । तस्मात् - tasmāt - therefore । अहम् - aham - I । ते - te - to thee । ब्रवीमि - bravīmi - will tell ।
आत्मन
एष प्राणो जायते यथैषा पुरुषे छायैतस्मिन्नेतदाततं मनोकृतेनायात्यस्मिञ्शरीरे ॥ ।।३।।
Transliteration
ātmana
eṣa prāṇo jāyate yathaiṣā puruṣe chāyaitasminnetadātataṁ manokṛtenāyātyasmiñśarīre
।।
Anvaya
एषः
प्राणः आत्मनः जायते। यथा पुरुषे छाया तथा एतत् एतस्मिन् आततं मनोकृतेन अस्मिन्
शरीरे आयाति ॥
Anvaya
Transliteration
eṣaḥ
prāṇaḥ ātmanaḥ jāyate। yathā puruṣe chāyā ( tathā ) etat
etasmin ātataṁ manokṛtena asmin śarīre āyāti ।।
Meaning
“Of
the Spirit is this breath of Life born; even as a shadow is cast by a man, so
is this Life extended in the Spirit and by the action of the Mind it entereth
into this body.
Hindi
Meaning
'''आत्मा' से ही यह 'प्राण'-वायु उत्पन्न होता है; जिस प्रकार पुरुष से ही छाया
उत्पन्न होती है, उसी प्रकार यह 'प्राण'
'आत्मा' में विस्तीर्ण (व्याप्त) है तथा 'मन की प्रक्रिया से यह इस शरीर में प्रवेश करता है।
Glossary
एषः
प्राणः - eṣaḥ prāṇaḥ - this breath of Life । आत्मनः
- ātmanaḥ - of the Spirit । जायते - jāyate - is
born । यथा - yathā - even as । पुरुषे - puruṣe
- by a man । छाया - chāyā - a shadow is cast । एतत् - etat - this, this Life । एतस्मिन् - etasmin
- in this, in the Spirit । आततम् - ātatam - so is extended
। मनोकृतेन - manokṛtena - and by the action of the Mind । अस्मिन् शरीरे - asmin śarīre - into this body । आयाति
- āyāti - it entereth ।
यथा
सम्रादेवाधिकृतान् विनियुङ्क्ते।
एतन्
ग्रामानोतान् ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव
सन्निधत्ते ॥ ।।४।।
Transliteration
yathā
samrādevādhikṛtān viniyuṅkte ।
etan
grāmānotān grāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthakpṛthageva
sannidhatte ।।
Anvaya
यथा
सम्राट् एव अधिकृतान् एतान् ग्रामान् एतान् अधितिष्ठस्व इति विनियुङ्क्ते एवम् एव
एषः इतरान् प्राणान् पृथक् पृथक् एव सन्निधत्ते ॥
Anvaya
Transliteration
yathā
samrāṭ eva adhikṛtān etān grāmān etān adhitiṣṭhasva iti viniyuṅkte evam eva eṣaḥ
itarān prāṇān pṛthak pṛthak eva sannidhatte ।।
Meaning
“As
an Emperor commandeth his officers, and he sayeth to one 'Govern for me these
villages', and to another 'Govern for me these others', so this breath, the
Life, appointeth the other breaths each in his province.
Hindi
Meaning
''जिस प्रकार कोई सम्राट् अपने अधिकारियों को नियुक्त करता है तथा किसी एक
को आदेश देता है-'मेरे लिए इन ग्रामों पर तुम शासन करो',
तथा किसी अन्य को आदेश देता है-'इन दूसरे
ग्रामों पर मेरे लिए तुम शासन करो', इसी प्रकार यह वायु,
यह 'प्राण' अन्य प्राणों
को उनके पृथक्-पृथक् क्षेत्रों में नियुक्त करता है।
Glossary
यथा
सम्राट् एव - yathā samrāṭ eva - as an Emperor । अधिकृतान्
- adhikṛtān - to the officers । एतान् ग्रामान् अधितिष्ठस्व
- etān grāmān adhitiṣṭhasva - govern for me these villages । इति विनियुङ्क्ते - iti viniyuṅkte - appoints and says । एवम् एव - evam eva - so । एषः - eṣaḥ -
this breath, the Life । इतरान् प्राणान् - itarān prāṇān -
the other breaths । पृथक् पृथक् एव - pṛthak pṛthak eva -
each in his province separately । सन्निधत्ते - sannidhatte
- appointeth ।
पायूपस्थेऽपानं
चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः।
एष
ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥ ।।५।।
Transliteration
pāyūpasthe'pānaṁ
cakṣuḥśrotre mukhanāsikābhyāṁ prāṇaḥ svayaṁ prātiṣṭhate madhye tu samānaḥ ।
eṣa
hyetaddhutamannaṁ samaṁ nayati tasmādetāḥ saptārciṣo bhavanti ।।
Anvaya
पायूपस्थे
अपानं मुखनासिकाभ्यां चक्षुःश्रोत्रे स्वयम् प्राणः प्रतिष्ठते। मध्ये तु समानः हि
एषः एतत् हुतम्। अन्नं समं नयति। तस्मात् एताः सप्तार्चिषः भवन्ति ॥
Anvaya
Transliteration
pāyūpasthe
apānaṁ mukhanāsikābhyāṁ cakṣuḥśrotre svayam prāṇaḥ pratiṣṭhate।
madhye tu samānaḥ hi eṣaḥ etat hutam। annaṁ samaṁ nayati। tasmāt etāḥ saptārciṣaḥ bhavanti ।।
Meaning
“In
the anus and the organ of pleasure is the lower breath, and in the eyes and the
ears, the mouth and the nose, the main breath itself is seated; but the medial
breath is in the middle. This is he that equally distributeth the burnt offering
of food; for from this are the seven fires born.
Hindi
Meaning
"वायू एवं उपस्थ में अपान (निम्न वायु) स्थित है, तथा
चक्षु, कर्ण मुख एवं नासिका में स्वयं प्राण (मुख्य वायु)
स्थित है, किन्तु मध्य में स्थित है समान (मध्यवर्ती वायु)।
यही है जो हुतात्र (दग्ध अन्नाहुति) को समान रूप से वितरित करता है; कारण, इसी से सप्त-आग्नियों का जन्म होता है।
Glossary
पायूपस्थे
- pāyūpasthe
- in the anus and the organ of pleasure । अपानम् - apānam
- is the lower breath । मुखनासिकाभ्याम् - mukhanāsikābhyām
- in the mouth and the nose । चक्षुःश्रोत्रे - cakṣuḥśrotre
- in the eyes and the ears । स्वयम् प्राणः - svayam prāṇaḥ
- the main breath itself । प्रतिष्ठते - pratiṣṭhate - is
seated । मध्ये तु - madhye tu - but, in the middle । समानः हि - samānaḥ hi - the medial breath । एषः
एतत् - eṣaḥ etat - this is he that । हुतम् अन्नम् - hutam
annam - the burnt offering of food । समम् नयति - samam
nayati - equally distributeth । तस्मात् - tasmāt - from
this । एताः सप्तार्चिषः भवन्ति - etāḥ saptārciṣaḥ bhavanti
- are the seven fires born ।
हृदि
ह्येष आत्मा।
अत्रैतदेकशतं
नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि
भवन्त्यासु व्यानश्चरति ॥ ।।६।।
Transliteration
hṛdi
hyeṣa ātmā ।
atraitadekaśataṁ
nāḍīnāṁ tāsāṁ śataṁ śatamekaikasyāṁ dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi
bhavantyāsu vyānaścarati ।।
Anvaya
एषः
आत्मा हृदि वसति अत्र नाडीनाम् एतम् एकशतम्। तासाम् एकैकस्यां शतं शतं
प्रतिशाखानाडी सहस्राणि द्वासप्ततिः द्वासप्ततिः भवन्ति आसु व्यानः चरति ॥
Anvaya
Transliteration
eṣaḥ
ātmā hṛdi ( vasati ) atra nāḍīnām etam ekaśatam। tāsām
ekaikasyāṁ śataṁ śataṁ pratiśākhānāḍī sahasrāṇi dvāsaptatiḥ dvāsaptatiḥ
bhavanti āsu vyānaḥ carati ।।
Meaning
“The
Spirit in the heart abideth, and in the heart there are one hundred and one
nerves, and each nerve hath a hundred branch-nerves and each branch-nerve hath
seventy two thousand sub-branch-nerves; through these the breath pervasor
moveth.
Hindi
Meaning
''यह 'आत्मा' हृदय में निवास
करता है, और इस हृदय में एक सौ एक नाड़ियाँ होती हैं,
एवं प्रत्येक नाड़ी में सौ-सौ शाखानाड़ियाँ होती हैं तथा प्रत्येक
शाखा-नाड़ी की बहत्तर हजार उपशाखानाड़ियाँ होती हैं, इन
सबमें संचरण करता है व्यान वायु।
Glossary
एषः
आत्मा - eṣaḥ
ātmā - the Spirit । हृदि - hṛdi - in the heart abideth । अत्र - atra - here in the heart there are । नाडीनाम्
- nāḍīnām - nerves । एतम् एकशतम् - etam ekaśatam -
one hundred and one । तासाम् एकैकस्याम् - tāsām ekaikasyām
- each of these nerves has । शतम् शतम् - śatam śatam - a
hundred । प्रतिशाखानाडी - pratiśākhānāḍī - branch-nerves । द्वासप्ततिः सहस्राणि - dvāsaptatiḥ sahasrāṇi - each
branch-nerve hath seventy two thousand sub-branch-nerves । भवन्ति
- bhavanti - there are । आसु - āsu - through these । व्यानः - vyānaḥ - Vyana, the breath pervasor । चरति
- carati - moves ।
अथैकयोर्ध्व
उदानः पुण्येन पुण्यं लोकं नयति।
पापेन
पापमुभाभ्यामेव मनुष्यलोकम् ॥ ।।७।।
Transliteration
athaikayordhva
udānaḥ puṇyena puṇyaṁ lokaṁ nayati।
pāpena
pāpamubhābhyāmeva manuṣyalokam ।।
Anvaya
अथ
उदानः एकया ऊर्ध्वः पुण्येन पुण्यं लोकं नयति पापेन पापं नयति उभाभ्याम् एव
मनुष्यलोकम् ॥
Anvaya
Transliteration
atha
udānaḥ ekayā ūrdhvaḥ puṇyena puṇyaṁ lokaṁ nayati pāpena pāpaṁ ( nayati )
ubhābhyām eva manuṣyalokam ।।
Meaning
“Of
these many there is one by which the upper breath departeth that by virtue
taketh to the heaven of virtue, by sin to the hell of sin, and by mingled sin
and righteousness back to the world of men restoreth.
Hindi
Meaning
''इन अनेकों में एक है जिससे उदान वायु (ऊपर की ओर) प्रयाण करता है तथा जो
पुण्यों के द्वारा पुण्यलोक में, पापों के द्वारा पापों के
नर्क में और पाप तथा पुण्य के मिश्रित कर्मों से पुनः मनुष्य लोक में वापिस ले आता
है।
Glossary
अथ
- atha
- now । उदानः - udānaḥ - the upper breath । एकया
- ekayā - (of these many nerves and branch-nerves there is) one by which
। ऊर्ध्वः - ūrdhvaḥ - departeth । पुण्येन - puṇyena
- by virtue । पुण्यम् लोकम् - puṇyam lokam - to the heaven
of virtue । नयति - nayati - taketh । पापेन -
pāpena - by sin । पापम् - pāpam - to the hell of
sin । उभाभ्याम् एव - ubhābhyām eva - by mingled sin and
righteousness । मनुष्यलोकम् - manuṣyalokam - back to the
world of men restoreth ।
आदित्यो
ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः।
पृथिव्यां
या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ।।८।।
Transliteration
ādityo
ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṁ cākṣuṣaṁ prāṇamanugṛhṇānaḥ ।
pṛthivyāṁ
yā devatā saiṣā puruṣasyāpānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ।।
Anvaya
आदित्यः
ह वै बाह्यः प्राणः हि एषः एनं चाक्षुषं प्राणम् अनुगृह्णानः उदयति। पृथिव्यां या
देवता सा एषा पुरुषस्य अपानम् अवष्टभ्य अन्तरा आकाशाः सः समानः वायुः व्यानः ॥
Anvaya
Transliteration
ādityaḥ
ha vai bāhyaḥ prāṇaḥ hi eṣaḥ enaṁ cākṣuṣaṁ prāṇam anugṛhṇānaḥ udayati। pṛthivyāṁ yā devatā sā eṣā puruṣasya apānam avaṣṭabhya antarā
ākāśāḥ saḥ samānaḥ vāyuḥ vyānaḥ ।।
Meaning
“The
Sun is the main breath outside this body, for it cherisheth the eye in its
rising. The divinity in the earth, she attracteth the lower breath of man, and
the ether between is the medial breath; air is the breath pervasor.
Hindi
Meaning
"इस शरीर के बाहर सूर्य ही है मुख्य प्राण, कारण यह
उदित होते हुए चक्षुओं को सम्पोषित करता है। पृथ्वी में जो देवत्व है वह मनुष्य के
अपान वायु को आकृष्ट करता है, और जो अन्तरिक्ष है वह
मध्यवर्ती वायु (समान) है; वायु व्यान है।
Glossary
आदित्यः
ह वै - ādityaḥ
ha vai - the Sun, indeed । बाह्यः प्राणः - bāhyaḥ prāṇaḥ -
is the main breath outside this body । हि एषः - hi eṣaḥ -
for it । एनम् चाक्षुषं प्राणम् - enam cākṣuṣaṁ prāṇam -
the breath in the eye । अनुगृह्णानः - anugṛhṇānaḥ -
cherisheth । उदयति - udayati - in its rising । पृथिव्याम् - pṛthivyām - in the earth । या देवता
- yā devatā - the divinity that is । सा एषा - sā eṣā
- she; । पुरुषस्य - puruṣasya - of man । अपानम्
- apānam - the lower breath । अवष्टभ्य - avaṣṭabhya
- attracteth । अन्तरा आकाशाः - antarā ākāśāḥ - the ether
between is । सः समानः - saḥ samānaḥ - the medial breath । वायुः व्यानः - vāyuḥ vyānaḥ - air is the breath pervasor ।
तेजो
ह वाव उदानस्तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ।।९।।
Transliteration
tejo
ha vāva udānastasmādupaśāntatejāḥ punarbhavamindriyairmanasi sampadyamānaiḥ ।।
Anvaya
तेजः
ह वाव उदानः तस्मात् उपशान्ततेजाः मनसि सम्पद्यमानैः इन्द्रियैः पुनर्भवं
प्रतिपद्यन्ते ॥
Anvaya
Transliteration
tejaḥ
ha vāva udānaḥ tasmāt upaśāntatejāḥ manasi sampadyamānaiḥ indriyaiḥ punarbhavaṁ
( pratipadyante) ।।
Meaning
“Light,
the primal energy, is the upper breath; therefore when the light and heat in a
man hath dwindled, his senses retire into themind and with these he departeth
into another birth.
Hindi
Meaning
'''तेज' आदि-ऊर्जा, ही है उदान;
अतः जब मनुष्य में तेज तथा ऊष्मा क्षीण होने लगती हैं, तब उसकी इन्द्रियां मन में सिमट जाती हैं तथा अवस्था में वह पुनर्जन्म के
लिए प्रयाण कर जाता है।
Glossary
तेजः
ह वाव - tejaḥ
ha vāva - Light, the primal energy is । उदानः - udānaḥ -
the upper breath । तस्मात् - tasmāt - therefore । उपशान्ततेजाः - upaśāntatejāḥ - when the light and heat in a
man hath dwindled । मनसि सम्पद्यमानैः इन्द्रियैः - manasi
sampadyamānaiḥ indriyaiḥ - senses retire into the mind and with these । पुनर्भवम् - punarbhavam - he departeth into another birth ।
यच्चित्तस्तेनैष
प्राणमायाति प्राणस्तेजसा युक्तः।
सहात्मना
यथासङ्कल्पितं लोकं नयति ॥ ।।१०।।
Transliteration
yaccittastenaiṣa
prāṇamāyāti prāṇastejasā yuktaḥ।
sahātmanā
yathāsaṅkalpitaṁ lokaṁ nayati ।।
Anvaya
एषः
मरणकाले यच्चितः भवति तेन प्राणम् आयाति। प्राणः तेजसा युक्तः सन् आत्मना सह यथा
संकल्पितं लोकम् नयति ॥
Anvaya
Transliteration
eṣaḥ
( maraṇakāle ) yaccitaḥ ( bhavati ) tena prāṇam āyāti। prāṇaḥ
tejasā yuktaḥ ( san ) ātmanā saha yathā saṁkalpitaṁ lokam nayati ।।
Meaning
“Whatsoever
be the mind of a man, with that mind he seeketh refuge with the breath when he
dieth, and the breath and the upper breath lead him with the Spirit within him
to the world of his imaginings.
Hindi
Meaning
''मनुष्य जब देहत्याग करता है उस समय उसका चित्त (मन) जैसा होता है, उसी चित्त से वह प्राण में आश्रय लेता है, और प्राण
तथा उदान (तेन) संयुक्त होकर 'आत्मा' के
साथ उसे उसके संकल्पित लोक में ले जाते हैं।
Glossary
एषः
यच्चितः - eṣaḥ yaccitaḥ - whatsoever be the mind of a man । तेन - tena - with that mind । प्राणम् आयाति - prāṇam
āyāti - he seeketh refuge with the breath (when he dieth) । प्राणः
तेजसा युक्तः - prāṇaḥ tejasā yuktaḥ - the breath and the upper breath । आत्मना सह - ātmanā saha - with the Spirit within him । यथा संकल्पितम् लोकम् - yathā saṁkalpitam lokam - to the world
of his imaginings । नयति - nayati - lead him ।
य
एवं विद्वान् प्राणं वेद।
न
हास्य प्रजा हीयतेऽमृतो भवति तदेषः श्लोकः ॥ ।।११।।
Transliteration
ya
evaṁ vidvān prāṇaṁ veda।
na
hāsya prajā hīyate'mṛto bhavati tadeṣaḥ ślokaḥ ।।
Anvaya
यः
विद्वान् एवं प्राणं वेद अस्य प्रजाः न ह हीयते सः अमृतः भवति तत् एषः श्लोकः ॥
Anvaya
Transliteration
yaḥ
vidvān evaṁ prāṇaṁ veda asya prajāḥ na ha hīyate ( saḥ ) amṛtaḥ bhavati tat eṣaḥ
ślokaḥ ।।
Meaning
“The
wise man that knoweth thus of the breath, his progeny wasteth not and he
becometh immortal. Whereof this is the Scripture.
Hindi
Meaning
''जो विद्वान् 'प्राण' के
सम्बन्ध में इस प्रकार जानता है, उसका वंश क्षीण (व्यर्थ)
नहीं होता, वह अमर हो जाता है। जिसके लिए यह श्लोक
(श्रुतिवचन) है।
Glossary
यः
विद्वान् - yaḥ vidvān - the wise man that । एवम् - evam
- thus । प्राणम् - prāṇam - of the breath । वेद
- veda - knoweth । अस्य प्रजाः - asya prajāḥ - his
progeny । न ह हीयते - na ha hīyate - wasteth not । अमृतः भवति - amṛtaḥ bhavati - he becometh immortal । तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the
Scripture ।
उत्पत्तिमायतिं
स्थानं विभुत्वं चैव पञ्चधा।
अध्यात्मं
चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ।।१२।।
Transliteration
utpattimāyatiṁ
sthānaṁ vibhutvaṁ caiva pañcadhā ।
adhyātmaṁ
caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti ।।
Anvaya
प्राज्ञः
प्राणस्य उत्पत्तिम् आयतिं स्थानं बिभुत्वं च एव पञ्चधा च एव अध्यात्मं विज्ञाय
अमृतम् अश्नुते इति ॥
Anvaya
Transliteration
(
prājñaḥ ) prāṇasya utpattim āyatiṁ sthānaṁ bibhutvaṁ ca eva pañcadhā ca eva
adhyātmaṁ vijñāya amṛtam aśnute iti ।।
Meaning
“'By
knowing the origin of the Breath, his coming and his staying and his lordship
in the five provinces, likewise his relation to the Spirit, one shall taste
immortality.' ”
Hindi
Meaning
'''प्राण' की उत्पत्ति, उसका आगमन,
उसकी स्थिति, पञ्चविध क्षेत्रों में उसका
विभुत्व (प्रभुत्व) इसी प्रकार 'आत्मा' से उसका सम्बन्ध, सब जानकर मनुष्य अमृतत्व का पान
करता है।'''
Glossary
प्राणस्य
- prāṇasya
- of the Breath । उत्पत्तिम् - utpattim - the origin । आयतिम् - āyatim - his coming । स्थानम् - sthānam
- his staying । पञ्चधा च एव बिभुत्वम् - pañcadhā ca eva
bibhutvam - his lordship in the five provinces । अध्यात्मम् - adhyātmam
- his relation to the Spirit । विज्ञाय - vijñāya - by
knowing । अमृतम् अश्नुते इति - amṛtam aśnute iti - one
shall taste immortality ।
0 Comments
If you have any Misunderstanding Please let me know