कठ उपनिषद्
ॐ
तत्सद्ब्रह्मणे नम: ।
अथ
कठोपनिषद्
ॐ स ह
नाववतु । स ह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु । मा
विद्विषावहै । ॐ शान्ति: शान्ति: शान्ति: ॥
ॐ नमो भगवते वैवस्वताय
मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।
अथ
काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थमल्पग्रन्था वृत्तिरारभ्यते ।
सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपम्
उपनिषदिति ।
उपनिषच्छब्देन
च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्या उच्यते । पुन: केन
अर्थयोगेन उपनिषच्छब्देन विद्या उच्यते...इति उच्यते ।
दृष्टानुश्रविकविषयवितृष्णा: सन्त: ये मुमुक्षव: उपनिषच्छब्दवाच्यां
वक्ष्यमाणलक्षणां विद्याम् उपसद्य-उपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषाम्
अविद्यादे: संसारबीजस्य विशरणात् विसशनाद् विनाशनाद् इत्यनेन अर्थयोगेन विद्या
उपनिषद् इति उच्यते । तथा च वक्ष्यति-“निचाय्य तं
मृत्युमुखात्प्रमुच्यते” इति ।
पूर्वोक्तविशेषणात् वा मुमूक्षून् परं
ब्रह्म गमयति इति ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्या उपनिषद् । तथा च
वक्ष्यति-“
ब्रह्म प्राप्तो विरजोऽभूद्विमृत्यु:” इति ।
लोकादिर्ब्रह्मजज्ञ: य: अग्नि: द्वितीयेन वरेण प्रार्थ्यमानाया: तद् विषयाया:
विद्याया: लोकान्तरे पौन: पुन्येन प्रवृत्तस्य गर्भवासजन्मजराद्युपद्रववृन्दस्य
अवसादयितृत्वेन-शैथिल्यापादनेन धात्वर्थयोगात् अग्निविद्या अपि उपनिषद् उच्यते ।
ॐ उशन्ह वै वाजश्रवस:
सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥
१'१'१ ॥
अन्वयक्रम:
ॐ उशन् ह वै वाजश्रवस:
सर्ववेदसं ददौ,
तस्य ह नचिकेता नाम पुत्र आस ।
शब्दार्थ:
ॐ उशन्=कामना करते हुए,(विश्वजित यज्ञ के फल की)
ह वै
वाजश्रवस:=वाजश्रवस् ने,
सर्ववेदसं=सर्वस्व धन,
ददौ=दे दिया,
तस्य=उस यजमान का,
ह
नचिकेता नाम=नचिकेता नाम का,
पुत्र =पुत्र,
आस=था ।
सान्वयं भाष्यम्
तत्राऽऽख्यायिका
विद्या स्तुत्यर्था । उशन्-कामयमान: ‘ह वा इति
वृत्तार्थस्मरणार्थौ निपातौ’ वाजम् -अन्नं तद्
दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा, वा रूढित: (वाजश्रवा
इति नाम) तस्य अपत्यं वाजश्रवस: तत् फलं कामयमान: सर्वमेधेन किल विश्वजिता एजे ।
स: तस्मिन् क्रतौ सर्ववेदसं-सर्वस्वं धनं ददौ-दत्तवान् । तस्य यजमानस्य किल ह
नचिकेता नाम पुत्र आस-बभूव ।
शब्दार्थः
तत्राऽऽख्यायिका=यह
आख्यायिका,
विद्यास्तुत्यर्था=विद्या की स्तुति केलिए है,।
उशन्-कामयमान:=कामना करते हुये, ‘ह वा इति
वृत्तार्थस्मरणार्थौ निपातौ’=ह वा यह दोनों ही पद निपात हैं
वृत्तार्थ स्मरण केलिये, वाजम् -अन्नं=अन्न, तद् दानादिनिमित्तं=उसके अन्नदानादि के निमित्त, श्रव:
यस्य स: वाजश्रवा=कीर्ति,यश है जिसका वह वाजश्रवा, वा=अथवा, रूढित:=रूढि से प्राप्त, (वाजश्रवा इति नाम=वाजश्रवा नाम) तस्य=उनकी, अपत्यं=सन्तान,वाजश्रवस:=वाजश्रवस, तत् फलं कामयमान:=विश्वजीत फलकी
कामना करते हुए, सर्वमेधेन=सर्वसम्पत्ति के दान से, किल=निश्चय ही, विश्वजिता=विश्वजीत यज्ञ द्वारा,
एजे=यज्ञ किया । स:=उन्होंने, तस्मिन्
क्रतौ=उस यज्ञ में, सर्ववेदसं-सर्वस्वं=सर्वस्व, धनं=सम्पत्ति, ददौ-दत्तवान्=दान कर दिया, । तस्य यजमानस्य=उस यजमान वाजश्रवा को, किल=वस्तुतः,
ह नचिकेता नाम पुत्र=नचिकेता नाम का पुत्र, आस-बभूव=था
।
पृष्ठसंख्या ७
त˘ ह कुमार˘ सन्तं दक्षिणासु नीयमानासु ।
श्रद्धाऽऽविवेश सोऽमन्यत ॥
१'१'२ ॥
अन्वयः
दक्षिणासु नीयमानासु तं ह
कुमारं सन्तं श्रद्धा आविवेश,सः अमन्यत्।
सान्वयं भाष्यम्
कुमारं प्रथमवयसम्
अप्राप्तप्रजननशक्तिं बालं सन्तमेव तं ह नचिकेतसं श्रद्धा पितुः हितकामप्रयुक्ता
आस्तिक्यबुद्धिः आविवेश प्रविष्टवती । कस्मिन् काले इत्याह- ऋत्विग्भ्यः
सदस्येभ्यः दक्षिणासु नीयमानासु विभागोपनीयमानासु दक्षिणार्थासु गोषु सः
आविष्टश्रद्धः नचिकेता अमन्यत आलोचितवान् ।
पृष्ठसंख्या ७,८
पीतोदका जग्धतृणा
दुग्धदोहा निरिन्द्रिया: ।
अनन्दा नाम ते लोकास्तान्स
गच्छति ता ददत् ॥ १'१'३॥
पृष्ठसंख्या ८,९
स होवाच पितरं तत कस्मै
मां दास्यसीति ।
व्दितीयं तृतीयं त˘ होवाच मृत्यवे त्वा ददामीति ॥ १'१'४ ॥
पृष्ठसंख्या ९
बहूनामेमि प्रथमो बहूनामेमि
मध्यमः ।
कि˘स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ १'१'५ ॥
अन्वयक्रम:
बहूनां प्रथम: एमि, बहूनाम् मध्यम: एमि, यमस्य किंस्वित् कर्तव्यं?
यत् अद्य मया करिष्यति ।
पृष्ठसंख्या १०
तथापि तत्पितु: वच: मृषा मा
भूत् इत्येवं मत्वा “मया किम् उक्तम् इति शोकाविष्टं पितरं परिदेवनापूर्वकम् आह--
अनुपश्य यथा पूर्वे प्रतिपश्य
तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते
सस्यमिवाऽऽजायते पुनः ॥ १'१'६ ॥
अन्वयक्रम:
यथा पूर्वे अनुपश्य तथा अपरे
प्रतिपश्य,मर्त्य: सस्यम् इव पच्यते पुन: सस्यम् इव आजायते ।
सान्वयं भाष्यम्
यथा येन प्रकारेण पूर्वे
अतिक्रान्ता: तव पितृपितामहादय: वृत्ता: अनुपश्य अनु क्रमेण आलोचय निभालय । तान्
दृष्ट्वा च तेषां वृत्तम् आस्थातुम् अर्हसि । वर्तमानाश्च अपरे साधव: यथा वर्तन्ते
तान् च तथा प्रतिपश्य आलोचय तेषु च मृषाकरणं न वृत्तं वर्तमानं वा अस्ति ।
तद्विपरीतम् असतां च वृत्तं मृषाकरणम् । न च कश्चित् जन: मृषा कृत्वा अजर: अमर:
भवति ।
यत:
मर्त्य: मनुष्य: सस्यम् इव पच्यते जीर्ण: म्रियते, मृत्वा च
सस्यमिव आजायते आविर्भवति, पुन: एवम् अनित्ये जीवलोके किं
मृषाकरणेन । आत्मन: सत्यं पालय । मां यमाय प्रेषय इति अभिप्राय: ।
पृष्ठसंख्या ११
वैश्वानरः
प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैता˘ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ १'१'७ ॥
अन्वयक्रम:
अतिथि: ब्राह्मण: वैश्वानरः
(सन्) गृहान् प्रविशति,
तस्य एतां शान्तिं कुर्वन्ति, हे वैवस्वत !
उदकं हर ।
सङ्गति:
एवम् उक्त: स: पिता आत्मन; सत्यतायै प्रेषयामास । स: (नचिकेता:) च यमभवनं गत्वा यमे प्रोषिते तिस्र: रात्री:
उवास ।
पृष्ठसंख्या १२
आशाप्रतीक्षे संगत˘ सूनृतां चेष्टापूर्ते पुत्रपशू˘श्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ १'१'८ ॥
अन्वयक्रम:
यस्य गृहे ब्राह्मण: अनश्नन्
वसति (तस्य) अल्पमेधस: पुरुषस्य आशाप्रतीक्षे संगतं - सूनृतां इष्टापूर्तेच
पुत्रपशूञ्श्च सर्वान् एतत् वृङ्ते ।
पृष्ठसंख्या १३
तिस्रो रात्रीर्यदवात्सीर्गृहे
मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति
मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ १'१'९ ॥
अन्वयक्रमः-
(हे) ब्रह्मन् ! नमस्ते
अस्तु ! स्वस्ति मे अस्तु ! ब्रह्मन्! अतिथिः नमस्यः (सन्) अनश्नन् मे गृहे यत्
तिस्रः रात्रीः अवात्सीः तस्मात् प्रति त्रीन् वरान् वृणीष्व ।
शब्दार्थः-
(हे) ब्रह्मन् != हे
ब्राह्मणदेवता ,
नमस्ते अस्तु != आपको
नमस्कार है ,
मे =मेरा ,
स्वस्ति =कल्याण ,
अस्तु !=हो ,
ब्रह्मन्!= हे ब्राह्मणदेव!,
अतिथिः=आप अतिथि हैं,
नमस्यः सन्=नमस्करणीय होते
हुए ,
अनश्नन् =अन्न ग्रहण किये
विना ,
मे गृहे=मरे घर में ,
यत्=जो ,
तिस्रः रात्रीः=तीन रात्रि
तक ,
अवात्सीः=निवास किए ,( वस-निवासे,सकर्म.,अनि.,परस्मै.,लुङ्,म.पु.एकव.)अदादि
गण:।
तस्मात् =इसलिए ,
प्रति =उसके लिए (प्रति
रात्रि अर्थात् एक रात्रि के लिए एक इसप्रकार तीन रात्रि के लिए तीन वर ),
त्रीन् वरान्=वरदानों को ,
वृणीष्व =मांगें ।(वॄञ्-वरणे,सकर्म.,सेट,उभय.,लोटि,म.पु.,एकव.)क्र्यादिगण:।
सान्वयं भाष्यम्-
एवम् उक्तः मृत्युः
नचिकेतसम् उपगम्य पूजापुरस्सरम् उवाच ।
हे ब्रह्मन्! अतिथिः नमस्यः
सन् नमस्कारार्हश्च यत् यस्मात् तिस्रः रात्रीः अनश्नन् मे मम गृहे अवात्सीः
उसितवान् असि तस्मात् तुभ्यं नमस्ते अस्तु भवतु । हे ब्रह्मन् ! भवतः अनशनेन
तस्माद् मद्गृहवासनिमित्तात् दोषात् प्राप्त्युपशमेन मे स्वस्ति भद्रम् अस्तु ।
यद्यपि भवदनुग्रहेण मम सर्वं स्वस्ति स्यात् तथापि त्वदधिकप्रसादनार्थम् अनशनेन
उषिताम् एकैकां रात्रिं प्रति त्रीन् वरान् मत्तः वृणीष्व अभिप्रेतार्थविशेषान्
प्रार्थयस्व । ॥९॥
नमस्य: (वि.)नमस्+यत्, १,अभिवादन प्राप्त करने का अधिकारी,सम्मानित,आदरणीय,वन्दनीय। २,आदरयुक्त,विनीत।
पृष्ठसंख्या १४
शान्तसंकल्पः सुमना
यथास्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।
त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत
एतत्त्रयाणां प्रथमं वरं वृणे ॥ १'१'१० ॥
अन्वयक्रमः-
हे मृत्यो ! मा अभि (मम पिता
) गौतमः शान्तसङ्कल्पः सुमना: वीतमन्युः यथा स्यात्, त्वत्प्रसृष्टं
(च) प्रतीत: मा अभिवदेत्, त्रयाणाम् एतत् प्रथमं वरं वृणे ।
पदार्थः-
हे मृत्यो !=हे यमराज !,
मां प्रति =मेरे प्रति,
(मम पिता) गौतमः=(मेरे पिता)
गौतम,
शान्तसङ्कल्पः=शान्त संकल्प
वाले,
सुमना: =प्रसन्न चित,
वीतमन्युः=क्रोध रहित,
यथा स्यात्,=जैसे हों,
त्वत्प्रसृष्टं (च)=आपके
द्वारा भेजे जाने के बाद,
प्रतीत =पहचान कर,
माम्=मुझे,मेरे साथ,
अभिवदेत्=वार्तालाप करें,
त्रयाणाम् =तीनों मेंसे,
एतत् प्रथमं =यह पहला,
वरम् =वर,
(अस्ति)=है।
सान्वयं भाष्यम्-
नचिकेता: तु आह- हे भगवन् !
यदि वरान् दित्सुः (तर्हि)-
शान्तसङ्कल्पः-उपशान्तः
सङ्कल्पः यस्य,
मम पुत्र: यमं प्राप्य
किन्नु करिष्यति?
इति मां प्रति स: मम पिता गौतम: शान्तसङ्कल्प:,
सुमना:-प्रसन्नमनाश्च
हे मृत्यो! माम् अभि-मां
प्रति...
वीतमन्यु:-विगतरोषश्च यथा
स्यात् ।
किञ्च-त्वत्प्रसृष्टं-त्वया
विनिर्मुक्तं गृहं प्रति प्रेषितं मा-मां प्रतीत:-लब्धस्मृति:, “स: एव अयं मम पुत्र: आगत:” इत्येवं प्रत्यभिजानन्
अभिवदेत् इत्यर्थ: । एतत् प्रयोजनं यत् पितु: परितोषणं, त्रयाणां
वराणां प्रथमम् - आद्यं वरं वृणे प्रार्थये । ॥१०॥
शब्दार्थ:
नचिकेता:=नचिकेता, तु=तो, आह=बोले, हे भगवन् !=हे
भगवन् !, श्रीमन् !, यदि=जो,
वरान् =वरदान,दित्सुः=देना चाहते हैं, (तर्हि)=तो,
शान्तसङ्कल्पः-उपशान्तः
सङ्कल्पः यस्य,=जिसका सङ्कल्प उपशान्त हो गया हो वह,
मम=मेरा, पुत्र:=पुत्र, यमं प्राप्य=मृत्यु(यमराज)को प्राप्त
होकर, किन्नु करिष्यति?=क्या करेगा?अर्थात् मृत्युदेव का सामना कैसे करेगा?, इति=इस
प्रकार, मां प्रति=मेरे विषय में,
स: मम पिता गौतम:=वे मेरे
पिता गौतम,
शान्तसङ्कल्प:=आश्वस्त मन वाले हों,
सुमना:-प्रसन्नमनाश्च
=प्रसन्न मन वाले हों,
हे मृत्यो!=हे यमदेव!, माम् अभि-मां प्रति...=मेरे बारे में (मेरे पिता)
वीतमन्यु:-विगतरोषश्च=क्रोध
रहित भी,
यथा स्यात्=जैसे हों (वैसा आप करें) ।
किञ्च=और फिर, त्वत्प्रसृष्टं-त्वया विनिर्मुक्तं गृहं प्रति प्रेषितं=आपके द्वारा घर को
भेजा हुआ, मा-मां=मुझे, प्रतीत:-लब्धस्मृति:=पहचानकर,
“स: एव=वही, अयं=यह, मम
पुत्र:=मेरा पुत्र, आगत:”=वापस आ गया
है, इत्येवं=इसप्रकार, प्रत्यभिजानन्=पहचानते
हुए, अभिवदेत्=वात-चीत करें, इत्यर्थ:=तात्पर्य,
। एतत् प्रयोजनं=यह प्रयोजन (है) यत्=कि, पितु:
परितोषणं=पिता की प्रसन्नता,अर्थात् पिता की प्रसन्नता ही इस
तीसरे वरदान का प्रयोजन है।, त्रयाणां वराणां=तीनों वरदानों
में से यह, प्रथमम् - आद्यं=प्रथम, वरं=वरदान,
वृणे=मैं वरण कर रहा हुं, प्रार्थये= मांग रहा
हुं, प्रार्थना कर रहा हुं । ॥१०॥
पृष्ठसंख्या १५,१६
यथा पुरस्ताद्भविता प्रतीत
औद्दालकिरारुणिर्मत्प्रष्टः ।
सुख˘ रात्रीः शयिता
वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥ १'१'११ ॥
अन्वयक्रम:
मत्प्रसृष्ट: त्वां
ददृशिवान् मृत्युमुखात् प्रमुक्तं प्रतीत: औद्दालकि: आरुणि: यथा पुरस्ताद् भविता
वीतमन्यु: रात्री: सुखं शयिता ।
सान्वयं भाष्यम्
तत: मृत्यु: उवाच ।
तव पितुः बुद्धि: त्वयि यथा
पुरस्तात्-पूर्वं स्नेहसमन्विता आसीत् (तथैव) भविता, प्रीतिसमन्वित:
सन् तव पिता उद्दालकि: आरुणि: तथैव प्रतीतः प्रतीतवान् । उद्दालक: एव औद्दालकि: ।
अरुणस्य अपत्यम् आरुणि: । वा द्व्यामुष्यायण: । मत्प्रसृष्ट:- मया अनुज्ञात: सन्
त्वां पुत्रं मृत्युमुखात्-मृत्युगोचरात् प्रमुक्तं सन्तं ददृशिवान् दृष्टवान् सन्
इतरा अपि रात्री: सुखं प्रसन्नमना: शयिता स्वप्ता, वीतमन्यु:
विगतमन्युश्च भविता-स्यात् ।
पृष्ठसंख्या १६
स्वर्गे लोके न भयं किंचनास्ति न तत्र
त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो
मोदते स्वर्गलोके ॥ १'१'१२ ॥
अन्वयक्रम:
(हे मृत्यो !) स्वर्गे लोके
किञ्चन भयं नास्ति तत्र न त्वं न जरया बिभेति | अशनायापिपासे उभे
तीर्त्वा शोकातिगः स्वर्गलोके मोदते ।
सान्वयं भाष्यम्
नचिकेता उवाच ।
स्वर्गे लोके रोगादिनिमित्तं
किञ्चन्-किञ्चिदपि भयं नास्ति । हे मृत्यो ! न च तत्र त्वं सहसा प्रभवसि अत: तत्र
त्वत्त: जरया युक्त: इह लोकवत् न कश्चित् बिभेति ।
किञ्च उभे अशनायापिपासे
तीर्त्वा -अतिक्रम्य,
शोकमतीत्य गच्छति इति शोकातिग: सन् मानसेन दु:खेन च वर्जित:,
मोदते-हृष्यति दिव्ये स्वर्गलोके ।
पृष्ठसंख्या १७
सत्वमग्नि˘ स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त˘ श्रद्दधानाय
मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त
एतद्वितीयेन वृणे वरेण ॥१'१'१३॥
अन्वयक्रम:
हे मृत्यो ! स: त्वं
स्वर्ग्यम् अग्निम् अध्येषि, तं श्रद्दधानाय मह्यं प्रब्रूहि
। (येन) स्वर्गलोका: अमृतत्वं भजन्ते, द्वितीयेन वरेण एतद्
वृणे ।
सान्वयं भाष्यम्
स: त्वं मृत्यु: एवं
गुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतम् अग्निं स्वर्ग्यम् अध्येषि स्मरसि
जानासि इत्यर्थ: । हे मृत्यो ! यत: (स्वर्ग्यम्) (अत:) स्वर्गार्थिने
श्रद्दधानाय-श्रद्धावते मह्यं तं प्रब्रूहि-कथय, येन चितेन अग्निना
स्वर्गलोका:-स्वर्ग: लोक: येषां ते स्वर्गलोका: यजमाना: अमृतत्वम्- अमरणतां,
देवत्वं भजन्ते-प्राप्नुवन्ति, तदेतत्
अग्निविज्ञानं द्वितीयेन वरेण वृणे ।
पृष्ठसंख्या १७,१८
प्र ते ब्रवीमि तदु मे निबोध, स्वर्ग्यमग्निं नचिकेत: प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां, विद्धि त्वमेतं निहितं गुहायाम् ॥१'१'१४॥
अन्वयक्रम:
हे नचिकेत: ! स्वर्ग्यम्
अग्निं प्रजानन् ते प्रब्रवीमि, तद् उ मे निबोध । अथो त्वम्
अनन्तलोकाप्तिं, प्रतिष्ठां, गुहायां
निहितं एतं विद्धि ।
सान्वयं भाष्यम्
१-इयं मृत्यो: प्रतिज्ञा ।
प्र ते- तुभ्यं प्रब्रवीमि । हे नचिकेत: त्वया यत् प्रार्थितं तत् उ स्वर्ग्यं-
स्वर्गाय हितं स्वर्गसाधनम् अग्निं एकाग्रचित्तमना: सन् मे-मम वचस: निबोध-बुध्यस्व
अहं प्रजानन्-विज्ञातवान् सन् (अस्मि) इत्यर्थ: ॥१४॥
२-इयं मृत्यो: प्रतिज्ञा ।
प्र ते- तुभ्यं प्रब्रवीमि । हे नचिकेत: स्वर्ग्यं- स्वर्गाय हितं स्वर्गसाधनम्
अग्निं अहं प्रजानन्-विज्ञातवान् सन् यत् त्वया प्रार्थितं तत् उ मे-मम वचस:
एकाग्रचित्तमना: सन् निबोध-बुध्यस्व, इत्यर्थ:।
शिष्यबुद्धिसमानाधानार्थं वचनं प्रब्रवीमि तत् निबोध इति । अधुना अग्निं स्तौति ।
मया उच्यमानं तमेतम् अग्निम् अनन्तलोकाप्तिं - स्वर्गलोकफलप्राप्तिसाधनम् एतत् ,
प्रतिष्ठां-विराड्रूपेण जगत: आश्रयम् अथो-अपि निहितं-स्थितं-विदुषां
बुद्धौ गुहायां निविष्टम् इत्यर्थ: ॥१४॥
पृष्ठसंख्या १८,१९
लोकादिमग्निं तमुवाच तस्मै, या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य
मृत्यु: पुनरेवाऽऽह तुष्ट: ॥१'१'१५॥
अन्वयक्रम:
तं लोकादिम् अग्निं या
इष्टका,
यावती: वा, यथा वा तस्मै उवाच । स: चापि तत्
यथोक्तं प्रत्यवदत् ।अथ अस्य तुष्ट: मृत्यु: पुन: एव आह ।
सान्वयं भाष्यम्
इदं श्रुते: वचनम् । लोकादिं
-लोकानाम् आदिं प्रथमशरीरित्वात्, अग्निं तं -प्रकृतं-नचिकेतसा
प्रार्थितम् (अग्निम्) मृत्यु: तस्मै नचिकेतसे उवाच उक्तवान् । किञ्च (उक्तवान्?)
या: इष्टका: स्वरूपेण चेतव्या:। सङ्ख्यया वा यावती: (चेतव्या:)?
यथा - येन प्रकारेण वा अग्नि: चीयते एतत् सर्वम् उक्तवान् इत्यर्थ:
। स: च नचिकेता: अपि तत्- मृत्युना (यथा) उक्तं (अग्निं) यथावत् प्रत्ययेन
अवदत्-प्रत्युच्चारितवान् । अथ अस्य प्रत्युच्चारणेन तुष्ट: सन् वरत्रयव्यतिरेकेण
अन्यं वरं दित्सु: मृत्यु: पुन: एव आह ॥१५॥
शब्दार्थ:
इदं=यह, श्रुते: वचनम्=श्रुति का वचन है । लोकादिं- लोकानाम् आदिं=लोकों के आदि
कारण रूप, प्रथमशरीरित्वात्=प्रथम शरीरी होनें से आदि,
अग्निं=आदि कारण रूप अग्नि को, तं -प्रकृतं-
नचिकेतसा प्रार्थितम् (अग्निम्)=नचिकेता द्वारा प्रार्थित, मृत्यु:=यमदेव
ने, तस्मै नचिकेतसे=उस नचिकेता के लिए, उवाच- उक्तवान्=कहा । किञ्च (उक्तवान्?)=क्या कहा?,
या: इष्टका:=जिन ईंटों को, स्वरूपेण=रूप से,आकार से, चेतव्या:=चुननीं हैं । सङ्ख्यया वा=अथवा
सङ्ख्या से, यावती:=जितनीं (चेतव्या:)? वा=अथवा, यथा - येन प्रकारेण=जिस प्रकार से, अग्नि: चीयते=अग्नि का चयन किया जाता है, एतत्
सर्वम्=यह सब, उक्तवान्=कहा, इत्यर्थ:
। स: च नचिकेता: अपि=और उस नचिकेता ने भी, तत्- मृत्युना
उक्तं (अग्निं)=यमराज के द्वारा कही गई अग्निविद्या को, यथावत्=ज्यों
की त्यों, प्रत्ययेन=निशचय पूर्वक, अवदत्-प्रत्युच्चारितवान्=यमराज
को कह सुनायी, । अथ अस्य प्रत्युच्चारणेन एव =नचिकेता के
द्वारा अग्निविद्या को यथावत् कहे जाने से ही, तुष्ट:
सन्=प्रसन्न हो, वरत्रयव्यतिरेकेण=तीनों वरदानों के अलावा,
अन्यं वरं दित्सु:=अन्य चौथा वरदान देनें की इच्छा वाले, मृत्यु:=यमराज, पुन: आह=फिर से बोले ॥१५॥
पृष्ठसंख्या १९,२०
तमब्रवीत्प्रीयमाणो महात्मा, वरं तवेहाद्य ददामि भूय: ।
तवैव नाम्ना भवितायमग्नि:, सृङ्कां चेमामनेकरूपां गृहाण ॥१'१'१६॥
अन्वयक्रम:
प्रीयमाण: (महात्मा) यमराज:
तम् अब्रवीत् ,
अद्य तव भूयः इह वरं ददामि, अयम् अग्नि: तव एव
नाम्ना भविता इमाम् अनेकरूपां सृङ्कां च गृहाण ।
पदार्थ:
प्रीयमाण:स्नेहायमान, (महात्मा) यमराज:=महात्मा यमराज, तम्=नचिकेता को,
अब्रवीत्=बोले, अद्य तव भूयः इह वरं=अभी यहां
मैं तुम्हें एक और (चौथा) वरदान, ददामि=देता हुं, अयम् अग्नि:=यह अग्नि (जो मैनें अभी-अभी दूसरे वरदान में दी है) तव एव
नाम्ना भविता=तुम्हारे नाम से ही जानीं जायगी, इमाम् च =और
इस, अनेकरूपां=चित्र-विचित्र, सृङ्कां=मालाको,
गृहाण=ग्रहण करो ।
सान्वयं भाष्यम्
कथम् ?
प्रीयमाण:-शिष्ययोग्यतां
पश्यन् प्रीयमाण: - प्रीतिम् अनुभवन् महात्मा-अक्षुद्रबुद्धि: तं नचिकेतसम्
अब्रवीत् इह - प्रीतिनिमित्तं तव अद्य-इदानीं भूय:-पुन: चतुर्थं वरं
ददामि-प्रयच्छामि । मया उच्यमान: अयम् अग्नि: तव एव नचिकेतस: नाम्ना-अभिधानेन
प्रसिद्ध: भविता । किञ्च शब्दवतीं अनेकरूपां विचित्रां रत्नमयीम् इमां सृङ्कां -
मालां गृहाण-स्वीकुरु । यद्वा सृङ्काम्-अकुत्सितां कर्ममयीं गतिं गृहाण । अन्यदपि
अनेकफलहेतुत्वात् कर्मविज्ञानं स्वीकुरु इत्यर्थ: ॥१६॥
शब्दार्थ:
कथम् ?=किस प्रकार बोले ?
प्रीयमाण:=प्रसन्न होकर, शिष्ययोग्यतां पश्यन्=शिष्य की योग्यता को देखते हुए, प्रीयमाण: - प्रीतिम् अनुभवन्=प्रीति अनुभव करते होए, महात्मा-अक्षुद्रबुद्धि:=न क्षुद्रा बुद्धि: यस्य स:
अक्षुद्रबुद्धि:=विशाल बुद्धि वाले महात्मा, तं नचिकेतसम्=उस
नचिकेता को, अब्रवीत्=कहा, इह - प्रीतिनिमित्तं=अभी
इस विशेष प्रीति के कारण, तव=तुम्हारे लिए, अद्य-इदानीं=इसी समय, भूय:-पुन:, चतुर्थं वरं=चौथा वरदान, ददामि-प्रयच्छामि=दे रहा
हूँ । मया=मेरे द्वारा, उच्यमान:=कहा जा रहा, अयम्=यह, अग्नि:=अग्नि विद्या, तव एव=तुम्हारे ही, नचिकेतस: नाम्ना-अभिधानेन=नचिकेता
नाम से, प्रसिद्ध:=प्रसिद्ध, भविता=होने
वाला है,अर्थात् यह विद्या “नचिकेताग्नि”
मर्त्यलोक में जानी जायगी । किञ्च=और भी, शब्दवतीं=आवाज
करने वाली, अनेकरूपां=अनेक रूपों वाली, विचित्रां=रंग-बिरंगी, रत्नमयीम्=रत्नोंवाली,
इमां=इस, सृङ्कां - मालां=माला को, गृहाण-स्वीकुरु=ग्रहण करो । यद्वा=अथवा, सृङ्काम्-अकुत्सितां=अनिन्दित,
कर्ममयीं गतिं=कर्ममयी गति को, गृहाण=स्वीकार
करो । अन्यदपि=अथवा, अनेकफलहेतुत्वात्=अनेक फल का कारण रूप,
कर्मविज्ञानं=कर्मविषयक विज्ञान को, स्वीकुरु=स्वीकार
करो, इत्यर्थ: ॥१६॥
पृष्ठसंख्या २०,२१
त्रिणाचिकेतस्त्रिभिरेत्य संधिं, त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञं देवमीड्यं विदित्वा, निचाय्येमा˘ शान्तिमत्यन्तमेति ॥१'१'१७॥
अन्वयक्रम:
त्रिकर्मकृत् त्रिभि:
सन्धिम् एत्य त्रिणाचिकेत: जन्ममृत्यू तरति, ईड्यं ब्रह्मजज्ञं
देवं विदित्वा निचाय्य इमाम् अत्यन्तं शान्तिम् एति ।
शब्दार्थ:
त्रिकर्मकृत् =तीन प्रकार के
कर्म “यज्ञ,अध्ययन,और दान करने वाला,
त्रिभि: सन्धिम् एत्य = तीन
प्रकार से सम्बन्ध प्राप्तकर (माता,पिता और गुरु का
अनुशासनात्मक सम्बन्ध प्राप्तकर)
त्रिणाचिकेत:=तीन प्रकार से
अग्नि का चयन करने वाला,
अथवा उस अग्नि को ज्ञात,अधीत और अनुष्ठित,
जन्ममृत्यू=जन्म और मृत्यु को,
तरति=पार कर जाता है।
ईड्यं=स्तुत्य को,
ब्रह्मजज्ञं=ब्रह्मा से उत्पन्न और सर्वज्ञ को,
देवं=देव को,
विदित्वा=जानकर, प्राप्तकर,
निचाय्य=निश्चय करके,
इमाम् अत्यन्तं शान्तिम्=इस अतिशय शान्ति को,
एति =प्राप्त करता है ।
सान्वयं भाष्यम्
त्रिणाचिकेत: - त्रि: कृत्व:
नाचिकेतोऽग्नि: चित: येन स: त्रिणाचिकेत:, वा तद्विज्ञान:,तदध्ययन:,तदनुष्ठानवान् (त्रिणाचिकेत:)।
त्रिभि:- मातृपित्राचार्यै:
सन्धिं-सन्धानं-सम्बन्धम् एत्य-प्राप्य, मात्राद्यनुशासनं
यथावत् प्राप्य इत्येतत् । तत् हि प्रामाण्यकारणं श्रुत्यन्तरात् अवगम्यते “यथा मातृमान्पितृमान्” (बृ.४.१.२) इत्यादे:।
वेदस्मृतिशिष्टै: वा (सन्धिम् एत्य), प्रत्यक्षानुमागमै: वा
(सन्धिम् एत्य)। तेभ्यः हि विशुद्धि: प्रत्यक्षा । (इत्थम्)
त्रिकर्मकृत्-इज्याध्ययनदानानां
कर्ता जन्ममृत्यू तरति-अतिक्रामति । किञ्च ब्रह्मजज्ञं-ब्रह्मण: हिरण्यगर्भात्
जात: ब्रह्मज:,
ब्रह्मजश्च असौ ज्ञश्च इति ब्रह्मजज्ञ: असौ हि सर्वज्ञ:, देवं-द्योतनात् ज्ञानादिगुणवन्तम् ईड्यं-स्तुत्यं तं शास्त्रत:
विदित्वा-गृहीत्वा आत्मभावेन च निचाय्य-दृष्ट्वा अत्यन्तम् एति-अतिशयेन इमां
स्वबुद्धिप्रत्यक्षां शान्तिम्-उपरतिम् एति । ज्ञानकर्मसमुच्चयानुष्ठानेन वैराजं
पदं प्राप्नोति इत्यर्थ: ।
शब्दार्थ:
त्रिणाचिकेत: - त्रि: कृत्व:
नाचिकेतोऽग्नि: चित: येन स: त्रिणाचिकेत:=तीन प्रकार से नचिकेताग्नि का चयन किया
है जिसने वह-त्रिनाचिकेता ।
वा=अथवा,
तद्विज्ञान:,तदध्ययन:,तदनुष्ठान: (त्रिणाचिकेत:)=उसे जानने वाला,
उसका अध्ययन करने वाला और उसका अनुष्ठान करने वाला-त्रिनाचिकेता ।
त्रिभि:=इन तीनों के द्वारा,
मातृपित्राचार्यै:=माता,पिता और आचार्य से,
सन्धिं-सन्धानं-सम्बन्धम्=सम्बन्ध
को,
एत्य-प्राप्य=प्राप्तकर,
मात्राद्यनुशासनं=माता,पिता और आचार्य का अनुशासन,
यथावत् प्राप्य=लालन,पालन और शिक्षा योग्य रूप से प्राप्तकर,
इत्येतत्=इसप्रकार ।
तत् हि=क्योंकि वह,
श्रुत्यन्तरात् प्रामाण्यकारणं
अवगम्यते=अन्य श्रुति के प्रमाण से जाना जाता है,
“यथा
मातृमान्पितृमान्”=“माता,पिता और
आचार्य से शिक्षा प्राप्त पुरुष बोले” (बृ.४.१.२) इत्यादे:।
वा=अथवा,
वेदस्मृतिशिष्टै:=श्रुति,स्मृति और शिष्ट पुरुषों से,
(सन्धिम् एत्य)=सम्बन्ध
प्राप्तकर,
वा=अथवा,
प्रत्यक्षानुमागमै:=प्रत्यक्ष,अनुमान और आगम प्रमाण से,
(सन्धिम् एत्य)=सम्बन्ध
प्राप्तकर,
तेभ्यः हि=क्योंकि उनके
द्वारा,
विशुद्धि:
प्रत्यक्षा=विशुद्धि प्रत्यक्ष है ।
(इत्थम्)=इसप्रकार,
त्रिकर्मकृत्-इज्याध्ययनदानानां
कर्ता=याग,अध्ययन और दान करने वाला त्रिकर्मकृत्,
जन्ममृत्यू=जन्म और मृत्यु
रूप संसार को,
तरति-अतिक्रामति=तर जाता है
।
किञ्च=और,
ब्रह्मजज्ञं-ब्रह्मण:
हिरण्यगर्भात् जात: ब्रह्मज:=ब्रह्म अर्थात् हिरण्यगर्भ से उत्पन्न हुए को ब्रह्मज
कहते हैं,
और-
ब्रह्मजश्च असौ ज्ञश्च इति
ब्रह्मजज्ञ:=जो ब्रह्म से जन्मा है और उसे जानता भी है उसे-ब्रह्मजज्ञ कहते हैं,
असौ हि सर्वज्ञ:=क्योंकि यह
सर्वज्ञ है,
देवं-द्योतनात्
ज्ञानादिगुणवन्तं=प्रकाशमान और ज्ञानादि गुणों से युक्त होनें से उन्हें देव कहते
हैं,
ईड्यं-स्तुत्यं=स्तुत्य,
तं शास्त्रत:=ऐसे देवको
शास्त्र से,
विदित्वा-गृहीत्वा= जानकर,
आत्मभावेन च
निचाय्य-दृष्ट्वा =और आत्मभाव से साक्षात् कर,
अत्यन्तम् एति-अतिशयेन=अतिशय,
इमां बुद्धिप्रत्यक्षां
शान्तिम्=बुद्धिप्रत्यक्ष ऐसी शान्ति को,
एति=प्राप्त करता है ।
ज्ञानकर्मसमुच्चयानुष्ठानेन=उपासना
और कर्म के सम्मिलित अनुष्ठान से,
वैराजं पदं=विराड पदको,
प्राप्नोति=प्राप्त करता है, इत्यर्थ: ।
पृष्ठसंख्या २२
इदानीम् अग्निविज्ञानचयनफलम्
उपसंहरति प्रकरणं च ।
त्रिणाचिकेतस्त्रयमेतद्विदित्वा य
एवं विद्वा˘श्चिनुते नाचिकेतम् ।
स मृत्युपाशान्पुरत:प्रणोद्य
शोकातिगो मोदते स्वर्गलोके ॥१'१'१८॥
अन्वयक्रम:
त्रिणाचिकेत: एतत् त्रयम्
(या: इष्टका: यावतीर्वा यथा वा) एवं विदित्वा च य: विद्वान् नाचिकेतं चिनुते स:
मृत्युपाशान् पुरत: प्रणोद्य शोकातिग: स्वर्गलोके मोदते ।
शब्दार्थ:
त्रिणाचिकेत:=त्रिनाचिकेत
विद्वान् है,
त्रयम्=पूर्वोक्त अग्नित्रय को, (या: इष्टका:
यावतीर्वा यथा वा=यज्ञ के लिए ईंटें,जितनी और जैसी) एतत्=इसे,
एवं=आत्मरूपसे, विदित्वा=जानकर, च य:=जो, विद्वान्=जानने वाला, नाचिकेतं=नाचिकेत अग्नि को, चिनुते=चुनता है,
स:=वह, मृत्युपाशान्=मृत्यु के बन्धनों को,
पुरत:=पहले से,अर्थात् शरीर छोडने से पहले ही,
प्रणोद्य=त्यागकर, शोकातिग:=शोक से पार होकर,
स्वर्गलोके=स्वर्गलोक में, मोदते=आनन्द
प्राप्तकरता है ।
पृष्ठसंख्या २२,२३
एष तेऽग्निर्नचिकेत: स्वर्ग्यो यमवृणीथा
द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति
जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥१'१'१९॥
अन्वयक्रम:
हे नचिकेत:! ते एष:
स्वर्ग्य: अग्नि: यं द्वितीयेन वरेण अवृणीथा:। जनास: एतम् अग्निं तव (नाम्ना) एव
प्रवक्ष्यन्त्ति । हे नचिकेत:! (इदानीं) तृतीयं वरं वृणीष्व ।
सान्वयं भाष्यम्
त्रिणाचिकेत: त्रयं यथोक्तं
या इष्टका यावतीर्वा यथा वा इति एतत् विदित्वा अवगम्य य: च एवम् अग्निम् आत्मरूपेण
विद्वान् नाचिकेतम् अग्निं क्रतुं चिनुते निर्वर्तयति स: मृत्युपाशान्
अधर्म-अज्ञान-राग-द्वैषादिलक्षणान् पुरत: अग्रत: शरीरपातात् पूर्वमेव इत्यर्थ:,प्रणोद्य अपहाय शोकातिग: मानसै: दु:खै: वर्जित: इत्येतत्,स्वर्गलोके वैराजे विराडात्मस्वरूपप्रतिप्त्या मोदते ।
शब्दार्थ:
हे नचिकेत:! ते तुभ्यं एष
स्वर्ग्य: अग्नि: वर: यं अग्निं वरं द्वितीयेन वरेण अवृणीथा: प्रार्थितवान् असि स:
अग्नि: वर: दत्त: इति उपसंहार: उक्त: । किञ्च जनास: जना: एतम् अग्निं तवैव नाम्ना
प्रवक्ष्यन्ति इत्येतत् तुष्टेन मया एष: चतुर्थ: वर: दत्त: । नचिकेत: तृतीयं वरं
वृणीष्व । हि तस्मिन् अदत्ते अहम् ऋणवान् इत्यभिप्राय: ।
पृष्ठसंख्या २३-२६
अग्रिममन्त्रस्य सङ्गति:
एतावत् हि अतिक्रान्तेन विधिप्रतिषेधार्थेन
मन्त्रब्राह्मणेन अवगन्तव्यं यत् वरद्वयसूचितं वस्तु आत्मतत्वविषयं
याथात्म्यविज्ञानं न । अत: विधिप्रतिषेधार्थविषयस्य आत्मनि
क्रियाकारकफलाद्यध्यारोपलक्षणस्य स्वाभाविकस्य अज्ञानस्य संसारबीजस्य निवृत्यर्थं
तद्विपरीतब्रह्मात्मैकत्वविज्ञानं क्रियाकारकफलाध्यारोपलक्षणशून्यं
आत्यन्तिकनि:श्रेयसप्रयोजनं वक्तव्यम् इति उत्तर: ग्रन्थ: आरभ्यते ।
द्वितीयवरप्राप्त्या अपि तृतीयवरगोचरम् आत्मज्ञानमन्तरेण अकृतार्थत्वं, इति तम् एतम् अर्थम् आख्यायिकया प्रपञ्चयति -
यत: पूर्वस्मात् कर्मगोचरात्
साध्यसाधनलक्षणात् अनित्यात् विरक्तस्य आत्मज्ञाने अधिकार: इति तत् निन्दनार्थं
पुत्रादि उपन्यासेन प्रलोभनं क्रियते । हे नचिकेत:! “तृतीयं वरं वृणीष्व” इति उक्त: सन् -नचिकेता उवाच ।
शब्दार्थ:
अतिक्रान्तेन=पूर्ववर्णित, विधिप्रतिषेधार्थेन=विधिनिषेधप्रयोजन वाले, मन्त्रब्राह्मणेन=मन्त्र
ब्राह्मण द्वारा, हि=वस्तुत:, एतावत्=इतना,
अवगन्तव्यं=जानना चाहिए, यत्=कि, वरद्वयसूचितं=दोनों वरदानों से सूचित ज्ञातव्य, वस्तु=तत्व,
आत्मतत्वविषयं=आत्मतत्वविषयक, याथात्म्यविज्ञानं=यथार्थ
ज्ञान, न=नही है । अत:=इसलिए,इस हेतु
से,आत्मज्ञान कृतकृत्यता हेतु, विधिप्रतिषेधार्थविषयस्य=पूर्वकाण्ड
में प्रतिपाद्य, आत्मनि=आत्मा में, क्रियाकारकफलाद्यध्यारोपलक्षणस्य=क्रिया
और उसके लिए आवश्यक कर्ता,कर्म,करण आदि
कारक और उसके फल अध्यारोपित, स्वाभाविकस्य=स्वाभाविक,
अज्ञानस्य=अज्ञान (जो की संसार का बीज है उस), संसारबीजस्य=संसार बीज की, निवृत्यर्थं=निवृत्ति के
लिए, तद्विपरीतब्रह्मात्मैकत्वविज्ञानं=उससे(विधिप्रतिषेधार्थ
विषय से) विपरीत ब्रह्मात्मैकत्व विज्ञान, क्रियाकारकफलाध्यारोपलक्षणशून्यं=क्रिया
कारक और उसके फल के अध्यारोप लक्षण से शून्य, आत्यन्तिकनि:श्रेयसप्रयोजनं=आत्यन्तिक
नि:श्रेयस जिसका प्रयोजन है उसे, वक्तव्यम्=बताना चाहिए,
इति=अत:, उत्तर:=उत्तर, ग्रन्थ:=ग्रन्थ,
आरभ्यते=आरम्भ हो रहा है । द्वितीयवरप्राप्त्या=द्वितीय वर की
प्राप्ति से, अपि=भी, तृतीयवरगोचरम्=तृतीय
वरदान का विषय, आत्मज्ञानमन्तरेण=आत्मज्ञान के विना, अकृतार्थत्वं=कृतार्थत्व नही है, तम् एतम्
अर्थम्=इसी प्रयोजन की सिद्धि के लिए, आख्यायिकया=आख्यायिका
के द्वारा, प्रपञ्चयति=वर्णन किया जा रहा है।
यत: पूर्वस्मात् कर्मगोचरात्
साध्यसाधनलक्षणात् अनित्यात् विरक्तस्य आत्मज्ञाने अधिकार: इति तत् निन्दनार्थं
पुत्रादि उपन्यासेन प्रलोभनं क्रियते । हे नचिकेत:! “तृतीयं वरं वृणीष्व” इति उक्त: सन् -नचिकेता उवाच ।
येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके
नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाऽहं
वराणामेष वरस्तृतीय: ॥१'१'२०॥
अन्वय:
मनुष्ये प्रेते या इयं
विचिकित्सा अयम् अस्ति इति एके, नास्ति इति एके, त्वया अनुशिष्ट: अहम् एतत् विद्याम् । वाराणां एष: तृतीय: वर: ।
सान्वयं भाष्यम्
मनुष्ये प्रेते मृते या इयं
विचिकित्सा संशय: अयम् अस्ति इति एके शरीरेन्द्रियमनोबुद्धिव्यतिरिक्त:
देहान्तरसम्बन्धी आत्मा अस्ति इति एके, नास्ति इति च एके न
अयम् एवंविध: अस्ति इति च एके अत: अस्माकं न प्रत्यक्षेण नापि अनुमानेन वा
निर्णयविज्ञानम्, एतद्विज्ञानाधीन: हि पर: पुरुषार्थ: इत्यत:
त्वया अनुशिष्ट: ज्ञापित: अहम् एतद् विद्याम् विजानीयाम् । एष: वराणां तृतीय: वर:
य: अवशिष्ट: (स: अस्ति इति )।
शब्दार्थ:
मनुष्ये प्रेते मृते=मनुष्य
के मरने पर,
या=जो, इयं=यह, विचिकित्सा
संशय:=संशय,(बना रहता है कि) अयम्=यह आत्मा, अस्ति=है(रहता है) इति एके=इस प्रकार से कुछ लोग मानते हैं, शरीरेन्द्रियमनोबुद्धिव्यतिरिक्त:=शरीर इन्द्रिय मन और बुद्धि से पृथक्,
देहान्तरसम्बन्धी=अन्य देह में गमनागमन करने वाला, आत्मा=जीव, अस्ति इति एके=है ऐसा कुछ लोग कहते हैं,
नास्ति इति च एके=और नहीं है ऐसा कहने वाले कुछ लोग हैं, न अयम् एवंविध: अस्ति इति च एके=शरीर इन्द्रिय और मन से पृथक् अन्य देह
में गमनागमन करने वाला यह नहीं है इसप्रकार कुछ लोग कहते हैं, अत: अस्माकं=अत: हमारे लिए, न प्रत्यक्षेण नापि
अनुमानेन वा=न तो प्रत्यक्ष और न ही अनुमान प्रमाण से इसका, निर्णयविज्ञानम्=
निश्चित ज्ञान हो पाता है, पर: पुरुषार्थ:=परम पुरुषार्थ
मोक्ष, हि=क्योंकि, एतद्विज्ञानाधीन:=इस
आत्मविज्ञान के आधीन है, इत्यत:=इसलिए, त्वया अनुशिष्ट: ज्ञापित:=आपके द्वारा अनुशिक्षित, अहम्=मैं,
एतद् विद्याम्=इस आत्मज्ञान को जानूं । एष:=यह, वराणां तृतीय:=वरदानों में तीसरा, वर:=वरदान है,
य: अवशिष्ट:= जो शेष था । (स: अस्ति इति )।
पृष्ठसंख्या २६,२७
सङ्गति:
किम् अयम् एकान्तत:
नि:श्रेयससाधनात्मज्ञानार्ह: न वा इत्येतत् परीक्षणार्थम् आह -
शब्दार्थ:
किम्=क्या, अयम्=यह नचिकेता, एकान्तत:=पूर्णरूप से, नि:श्रेयससाधनात्मज्ञानार्ह:=मोक्षसाधनरूप आत्मज्ञान के योग्य है?,
न वा= या नहीं, इत्येतत्=इसप्रकार यह, परीक्षणार्थम्=जानने के लिए, इसी की परीक्षा हेतु,
आह=यमराज बोले।
देवैरत्रापि विचिकित्सितं पुरा न हि
सुविज्ञेयमणुरेष धर्म: ।
अन्यं वरं नचिकेतो वृणीष्व मा
मोपरोत्सीरति मा सृजैनम् ॥१'१'२१॥
अन्वय:
पुरा देवै: अपि अत्र
विचिकित्सितम् । अणु: एष: धर्म: न हि सुविज्ञेयम् । हे नचिकेत:! अन्यं वरं वृणीष्व, मा मोपरोत्सी: एनं मा अतिसृज ।
पुरा देवै: अपि अत्र
विचिकित्सितं अणु: एष: धर्म: न हि सुविज्ञेयम् । हे नचिकेत: ! अन्यं वरं वृणीष्व
मा मोपरोत्सी: एनं मा अतिसृज ।
सान्वयं भाष्यम्
पुरा पूर्वं देवै: अपि अत्र
एतस्मिन् वस्तुनि विचिकित्सितं संशयितं, प्राकृतै: जनै:
श्रुतमपि न हि सुविज्ञेयं सुष्ठु विज्ञेयं यत: अणु: सूक्ष्म: एष: आत्माख्य: धर्म:
अत: हे नचिकेत:! अन्यम् असन्धिग्धफलं वरं वृणीष्व, मा मां
उत्तमर्ण: अधर्मणमिव मा उपरोत्सी: उपरोधं मा कार्षी: । एनं वरं मा मां प्रति
अतिसृज विमुञ्च ।
पृष्ठसंख्या २७,२८
एवम् उक्त: नचिकेता: आह-
देवैरत्रापि विचिकित्सितं किल! त्वं च
मृत्यो यन्न सुविज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो
वरस्तुल्य एतस्य कश्चित् ॥१'१'२२॥
अन्वय:
देवै: अपि अत्र विचिकित्सितं
किल! हे मृत्यो ! त्वं च यत् सुविज्ञेयं न आत्थ । त्वादृक् अन्य: वक्ता च अस्य न
लभ्य:,
न कश्चित् अन्य: वर: एतस्य तुल्य: ।
सान्वयं भाष्यम्
देवै: अपि अत्र एतस्मिन्
वस्तुनि विचिकित्सितं किल! इति भवत: एव न: श्रुतम् । त्वं च (हे) मृत्यो ! यत्
यस्मात् न सुविज्ञेयम् आत्मतत्वम् आत्थ कथयसि अत: पण्डितै: उपदेशनीयत्वात् वक्ता च
अस्य धर्मस्य त्वादृक् त्वत्तुल्य: अन्य: पण्डित: च अन्विष्यमाण: अपि न लभ्य: ।
अयं वर: तु नि:श्रेयसप्राप्तिहेतु: अत: न अन्य: वर: तुल्य: सदृश: कश्चिदपि एतस्य
अस्ति,
अन्यस्य सर्वस्य अनित्यफलत्वात् एव इति अभिप्राय: ।
पृष्ठसंख्या २८,२९
एवं उक्त: अपि पुन:
प्रलोभयन् मृत्यु: उवाच-
शतायुष: पुत्रपौत्रान्वृणीष्व
बहून्पशून्हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव
शरदो यावदिच्छसि ॥१'१'२३॥
अन्वय:
(हे नचिकेत:!) शतायुष:
पुत्रपौत्रान् वृणीष्व,
बहून् पशून् हस्तिहिरण्यम् अश्वान् भूमे: महद् आयतनं वृणीष्व,
स्वयं च यावत् इच्छसि शरद: जीव ।
सान्वयं भाष्यम्
शतायुष: शतं वर्षाणि आयूंषि
येषां तान् शतायुष: पुत्र-पौत्रान् वृणीष्व । किञ्च गवादि लक्षणान् बहून् पशून्, हस्ति-हिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम्, अश्वान्
च, किञ्च भूमे: पृथिव्या: महद्-विस्तीर्णम् आयतनम् आश्रयं
मण्डलसाम्राज्यं वृणीष्व । किञ्च स्वयम् अल्पायु: चेत् एतत् सर्वमपि अनर्थकम्
इत्यत: आह-स्वयं च जीव शरद:- वर्षाणि यावत् जीवितुम् इच्छसि जीव त्वं
समग्रेन्द्रियकलापं शरीरं धारय ।
पृष्ठसंख्या २९,३०
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व
वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा
कामभाजं करोमि ॥१'१'२४॥
अन्वय:
यदि एतत्तुल्यं वरं मन्यसे
(तर्हि) वृणीष्व,
वित्तं चिरजीविकां च (वृणीष्व)। हे नचिकेत: ! महाभूमौ त्वम् एधि,
त्वा कामानां कामभाजं करोमि ।
सान्वयं भाष्यम्
एतत्तुल्यम् एतेन
यथोपदिष्टेन सदृशम् अन्यदपि वरं यदि मन्यसे (तर्हि) तमपि वृणीष्व । किञ्च वित्तं
प्रभूतं हिरण्यरत्नादि,
वृत्तेन सह चिरजीविकां च वृणीष्व इत्येतत् । किं बहुना हे नचिकेत:!
महाभूमौ मह्त्यां भूमौ त्वम् राजा एधि भव । किञ्च अन्यत्, त्वा
त्वां कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि,
अहं हि सत्यसंकल्पः देवः।
पृष्ठसंख्या ३०,३१
ये ये कामा दुर्लभा
मर्त्यलोके सर्वान् कामा˘
छन्दत: प्रार्थयस्व ।
इमा रामा: सरथा: सतूर्या नहीदृशा
लम्भनीया मनुष्यै: ।
आभिर्मत्प्रत्ताभि: परिचायस्व नचिकेतो
मरणं माऽनुप्राक्षी:॥१'१'२५॥
अन्वय:
मर्त्यलोके ये ये कामा:
दुर्लभा: (तान्) सर्वान् कामान् छन्दत: प्रार्थयस्व । इमा: सतूर्या: सरथा: रामा:
मनुष्यै: ईदृशा: न हि लम्भनीया:, मत् प्रत्ताभि: आभि: परिचारयस्व
। हे नचिकेत:! मरणं मा अनुप्राक्षी: ।
सान्वयं भाष्यम्
मर्त्यलोके ये ये कामा:
प्रार्थनीया: दुर्लभाश्च तान् सर्वान् कामान् छन्दत: इच्छात: प्रार्थयस्व । किञ्च
इमा: दिव्या: अप्सरस: रमयन्ति पुरुषान् इति रामा: रथै: सह वर्तन्ते इति सरथा:,सतूर्या: सवादित्रा: ताश्च (इति) अस्मादादिप्रसादमन्तरेण मनुष्यै:
मर्त्यै: ईदृशा: एवंविधा: न हि लम्भनीया: प्रापनीया: । मत्प्रत्ताभि: मया दत्ताभि:
आभि: परिचारिणीभि: आत्मानं परिचारयस्व आत्मन: पादप्रक्षालनादि शुश्रूषां कारय
इत्यर्थ: । हे नचिकेत:! मरणं मरणसम्बद्धं प्रश्नं “प्रेतेऽस्ति
नास्तीति” काकदन्तपरीक्षारूपं मा अनुप्राक्षी: मा एवं
प्रष्टुम् अर्हसि ।
पृष्ठसंख्या ३२
सङ्गति:
एवं मृत्युना प्रलोभ्यमान:
अपि नचिकेता महाह्रदवद् अक्षोभ्य: आह-
श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां
जरयन्ति तेज: ।
अपि सर्वं जीवितमल्पमेव तवैव
वाहास्तव नृत्यगीते ॥१'१'२६॥
अन्वय:
मर्त्यस्य अन्तक ! श्वोभावाः
यदेतत् सर्वेन्द्रियाणां तेज: जरयन्ति, सर्वं अपि जीवितम्
अल्पमेव, तव वाहा: नृत्यगीते तव एव ।
सान्वयं भाष्यम्
मर्त्यस्य मनुष्यस्य अन्तक
हे मृत्यो ! त्वया उपन्यस्तानां भोगानां श्वोभावा: श्व: भविष्यन्ति न भविष्यन्ति
वा इति सन्दिह्यमान: एव येषां भावः भवनं ते श्वोभावा:, किञ्च अप्सर: प्रभृतय: हि एते भोगा: अनर्थाय एव यदेतत् सर्वेन्द्रियाणां
तेज: तत् जरयन्ति अपक्षयन्ति । धर्म-वीर्य-प्रज्ञा-तेज:-यशः-प्रभृतीनां
क्षपयितृत्वात् । अपि च यां दीर्घजीविकां त्वं दित्ससि तत्रापि शृणु । सर्वं यद्
ब्रह्मण: अपि जीवितम् आयुः अल्पमेव किमुत अस्मदादिदीर्घजीविका । अतः वाहा: रथादयः
तथा नृत्यगीते च तव एव तिष्ठन्तु ।
पृष्ठसंख्या २७
न वित्तेन तर्पणीयो मनुष्यो
लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे
वरणीय: स एव ॥१'१'२७॥
अन्वय:
मनुष्य: न वित्तेन तर्पणीय:, त्वा अद्राक्ष्म चेत् वित्तं लप्स्यामहे । यावत् त्वम् ईशिष्यसि
जीविष्याम: (अपि), वरस्तु मे स: एव वरणीय: ।
सान्वयं भाष्यम्
किञ्च न प्रभूतेन वित्तेन
मनुष्यः तर्पणीय: । न हि वित्तलाभ: लोके कस्यचित् तृप्तिकर: दृष्टः। यदि नाम
अस्माकं वित्ततृष्णा स्यात् चेत् इत्येतत् वित्तं त्वा त्वाम् अद्राक्ष्म
दृष्टवन्तः वयं लप्स्यामहे प्राप्स्यामहे । जीवितेऽपि तथैव यावत् याम्ये पदे त्वम्
ईशिष्यसि त्वम् ईशिष्यसे प्रभु: स्या: (वयं)जीविष्याम:। मर्त्यः त्वया समेत्य कथं
हि अल्पधनायु: भवेत्?
वरस्तु मे स: एव वरणीय: यद् आत्मविज्ञानम् (अस्ति)।
पृष्ठसंख्या ३४,३५
अजीर्यताममृतानामुपेत्य
जीर्यन्मर्त्य: क्वध:स्थ: प्रजानन् ।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को
रमेत ॥१'१'२८॥
अन्वय:
क्वधस्थ: जीर्यन्मर्त्य: क:
प्रजानन् अजीर्यताम् अमृतानाम् उपेत्य वर्णरतिप्रमोदान् अभिध्यायन् अतिदीर्घे
जीविते
रमेत ?
सान्वयं भाष्यम्
यत: च अजीर्यतां वयोहानिं
अप्राप्नुवताम् अमृतानां सकाशम् उपेत्य उपगम्य तेभ्यः आत्मनः उत्कृष्टं
प्रयोजनान्तरं प्राप्तव्यं प्रजानन् उपलभमानः स्वयं तु जीर्यन्मर्त्य: जरामरणवान्
क्वधस्थः - कु पृथवी,
अधः च अन्तरिक्षादिलोकापेक्षया तस्यां तिष्ठति इति क्वधस्थः सन्
कथम् एवं पुत्रवित्तहिरण्यादि-अस्थिरम् अविवेकिभिः प्रार्थनीयं वृणीते ।
क्व तदास्थः इति वा
पाठान्तरम् । अस्मिन् पक्षे च अक्षरयोजना -
तेषु पुत्रादिषु
आस्था-आस्थितिः तात्पर्येण वर्तनं यस्य सः तदास्थः, ततः अधिकतरं
दुष्पापमपि पुरुषार्थं प्रापिपयिषुः तदास्थः क्व भवेत् ? न
कश्चित् तत् असारज्ञः तदर्थी स्यात् इत्यर्थः। सर्वः हि लोकः उपर्युपरि एव बुभूषति
तस्मात् पुत्रवित्तादिलाभैः नाऽहं प्रलोभ्यः। किञ्च अप्सरःप्रमुखान्
वर्णरतिप्रमोदान् अनवस्थितरूपतया अभिध्यायन् यथावत् निरूपयन् अतिदीर्घे जीविते कः
विवेकी रमेत् ?
पृष्ठसंख्या ३५,३६
सङ्गति:
अतः अनित्यै: कामैः प्रलोभनं
विहाय मया यत् प्रार्थितम्-
यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये
महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो
नान्यं तस्मान्नचिकेता वृणीते ॥१'१'२९॥
अन्वयः
हे मृत्यो ! यस्मिन् इदं
विचिकित्सन्ति यत् सांपराये महति तद् नः ब्रूहि, यः अयं
गूढम् अनुप्रविष्ट: वर: तस्मात् अन्यं नचिकेता न वृणीते ।
सान्वयं भाष्यम्
हे मृत्यो ! यस्मिन् प्रेते
इदं विचिकित्सनं अस्ति नास्तीति एवं प्रकारं विचिकित्सन्ति । यत् सांपराये
परलोकविषये महति महत् प्रयोजननिमित्तः आत्मनः निर्णयविज्ञानं तद् नः अस्मभ्यं
ब्रूहि कथय । किं बहुना यः अयं वरः प्रकृतः आत्मविषयः गूढं गहनं दुर्विवेचनं
प्राप्तः अनुप्रविष्टः तस्मात् वरात् अन्यम् अविवेकिभिः प्रार्थनीयम् अनित्यविषयं
वरं नचिकेता मनसा अपि न वृणीते इति श्रुतेः वचनम् ।
॥ इति प्रथमा वल्ली ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवद्पूज्यपादशिष्यश्रीमदाचार्यश्रीशङ्करभगवतः
कृतौ काठकोपनिषद्भाष्ये प्रथमाध्याये प्रथमवल्लीभाष्यं समाप्तम् ॥१॥
इति
श्रीमत्परमहंसपरिव्राजकाचायश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते
काठकोपनिषद्भाष्यव्याख्याने प्रथमा वल्ली समाप्ता ॥१॥
प्रथमवल्ल्याः सारांशः
नचिकेतसः पिता वाजश्रवसः
विश्वजित् यागं करोति,
तस्मिन् सः सर्वस्वं ब्राह्मणेभ्यः आचार्येभ्यः ऋत्विग्भ्यः
ददाति । दानसमये नचिकेता
पश्यति यत् याः धेनवः दीयमानाः सन्ति ताः वृद्धाः दुग्धदोहनाय अयुक्ताः। तदा सः
विचारयति यत् योग्यतया दानेन विना यज्ञस्य फलं न भवति यतः यज्ञः अपूर्णः इति
मन्यते,पुनश्च विश्वजित्यागे तु सर्वस्वं समर्पणीयम् इति विधानम् अस्ति ।
पुत्रोऽपि पितुः सम्पत्तिरेव इति पितुः हितं कायन् सः पितुः समीपम् उपगम्य “तत कस्मै मां दास्यसीति” द्वित्रिवारम् उक्तवान् ।
तदा कोपेन पिता “मृत्यवे त्वा ददामीति” उक्तवान् । सम्यक् सविमर्शं निर्णीय पितरं च “अनुपश्य
यथापूर्वे प्रति तथापरे” इति बोधयित्वा यमलोकं प्राप्नोति ।
यमश्च प्रवासं गतः तस्मात् त्रीणि दिनानि यावत् “यमाय दत्तः
यमस्य अहम्” इति स्वामिनः अनुज्ञां विना मया न किमपि स्वीकर्तुं
शक्यते प्रतीक्षाम् अकरोत् ।
प्रवासात् प्रत्यागतं यमराजं यमभार्याः
मन्त्रिणः वा सर्वं वृत्तं विनिवेद्य यथाशीघ्रं तस्य आतिथ्याय उपस्थातुम्
उक्तवन्तः। सोऽपि यथाशीघ्रं नचिकेतसं प्राप्य “तिस्रो
रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः” इत्यादिरीत्य
प्रणम्य त्रीन् वरान् वक्तुम् उकतवान् । नचिकेता च प्रथमं वरं पितृपरितोषाय,
द्वितीयञ्च सृष्टिहिताय सर्वमानवानां कण्याणाय याचितवान् । तस्य
मेधया प्रसन्नः यमराजः एषा अग्निविद्या इतःपरं नाचिकेताग्निनाम्ना ख्याता भवेत्
इति अतिरिक्तं वरं प्रदत्तवान् । ततः सः नचिकेता स्वात्मसुखाय यदा तृतीय-वरत्वेन “येयं प्रेते विचिकित्सा मनुष्ये..एतद्विद्यामनुशिष्टस्त्वयाऽहम्” इति आत्मज्ञानम् अभीष्टवान् तदा देवैः अपि विचिकित्सितं पुरा नहि
सुविज्ञेयमणुरेष धर्मः इति उक्त्वा विरम एतस्मात् अन्यत् सुखं वभवं यदिच्छति तत्
स्वीकरोतु, वृथा वरं न नाशयतु इति । देवैः अपि विचिकित्सितं
खलु ! अतः अवश्यमेव एतद् इच्छामीति नचिकेतसः वचनं श्रुत्वा तं परीक्षितुं यमदेवः “शतायुषः पुत्रपौत्रान्...इत्यादीन् अथवा एतत्तुल्यं यदिच्छति तत्
स्वीकरोतु “कामानां कामभाजं करोमि” मृत्युलोके
सर्वथा दुर्लभं तत् सर्वं स्वीकरोतु, “नहीदृशा लम्भनीया
मनुष्यैः” अप्सराः नर्तक्यः “इमा रामाः
सरथाः सतूर्याः” कतिविधं प्रलोभनं दर्शितवान् परन्तु धीरः
नचिकेता “....तवैव वाहास्तव नृत्यगीते” इति उक्त्वा सर्वमपि परित्यक्तवान् । “न वित्तेन
तर्पणीयो मनुष्यः .. ..वरस्तु मे वरणीयः स एव” इति हे मृत्यो
! “यस्मिन्निदं विचिकित्सन्ति, यत्सांपराये
महति तत् नः ब्रूहि इति ।
0 Comments
If you have any Misunderstanding Please let me know