जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः

 

चतुर्थोच्छ्वासः

दकुच २,

देव, सो ऽहमप्योभिरेव सुहृद्भिरेककर्मोर्मिमालिनेमिभूमिवलयं परिभ्रमन्नुपासरं कदाचित्काशीपुरीं वाराणसीम् ।

उपस्पृश्य मणिभङ्गनिर्मलाम्भसि मणिकर्णिकायामविमुक्तेश्वरं भगवन्तमन्धकमथनमभिप्रणम्य प्रदक्षिणं परिभ्रमन्पुरुषमेकमायामवन्तमायसपरि घपीवराभ्यां भुजाभ्यामाबध्वमानपरिकरमविरतरुदितोच्छूनताम्रदृष्टिमद्राक्षम् ।

अतर्कयं च-"कर्कशो ऽयं पुरुषः कार्पण्यमिव वर्षपि क्षीणतारं चक्षुः, आरम्भश्च साहसानुवादी, नूनमसौ प्राणनिःस्पृहः किमपि कृच्छ्रं प्रियजनव्यसनमूलं प्रतिपत्स्यते ।

तत्पृच्छेयमेनम् ।

अस्ति चेन्ममापि को ऽपि साहाय्यदानावकाशस्तमेनमभ्युपेत्येत्यपृच्छम्-"भद्र, संनाहो ऽयं साहसमवगमयति ।

न चेद्गोप्यमिच्छामि श्रोतुं शोकहेतुम्ऽ इति ।

स मां सबहुमानं निर्वर्ण्य "को दोषः, श्रूयताम्ऽ इति ।

क्वचित्करवीरतले मया सह निषण्णः कथामकारषित्-"महाभाग, सो ऽहमस्मि पूर्वेषु कामचरः पूर्णभद्रो नाम गृहपतिपुत्रः ।

प्रयत्नसंवर्धितो ऽपि पित्रा दैवच्छन्दानुवर्ती चौर्यवृत्तिरासम् ।

अथास्यां काशीपुर्यामर्यवर्यस्य कस्यचिद्गृहे चोरयित्वा रूपाभिग्राहितो बद्धः ।

वध्ये च मयि मत्तहस्ती मृत्युविजयो नाम हिंसाविहारी राजगोपुरोपरितलाधिरूढस्य पश्यतः कामपालनाम्न उत्तमामात्यस्य शासनाज्जनकण्ठरवद्विगुणितघण्टारवो मण्डलितहस्तकाण्डं समभ्यधावत् ।

अभिपत्य च मया निभयन निर्भर्त्सितः परिणमन्दारुखण्डसुषिरानुप्रविष्टोभयभुजदण्डघटितप्रतिमानो भीतवन्न्यवर्तिष्ट ।

भूयश्च नेत्रा जातसंरम्भेण निकामदारुणैर्वागङ्कुशपादपातैरभिमुखीकृतः ।

मयापि द्विगुणाबद्धमन्युना निर्भर्त्स्याभिहतो निवृत्यापाद्रवत् ।

अथ मयोपेत्य सरभसमाक्रुष्टो रुष्टश्च यन्ता "हन्त, मृतो ऽसि कुञ्जरापसदऽ इति निशितेन वारणेन वारणं मुहुर्मुहुरभिघ्नन्निर्याणभागे कथमपि मदभिमुखमकरोत् ।

अथावोच्यम्--"अपसरतु द्विककीट एषः ।

अन्यः कश्चिन्मातङ्गफतिरानीयताम् ।

येनाहं मुहूर्तं विहृत्य गच्छामि गन्तव्यां गतिम्ऽ इति ।

दृष्टैव स मां रुष्टमुद्गर्जन्तमुत्क्रान्तयन्तृनिष्ठुराज्ञः पलायिष्ट ।

मन्त्रिणा पुनरहमाहूयाभ्यधायिषि--"भद्र, मृत्युरेवैष मृत्युविजयो नाम हिंसाविहारी ।

सो ऽयमपि तावत्त्वयैवंभूतः कृतः ।

तद्विरम् कर्मणो ऽस्मान्मलीमसात्किमलमसि प्रतिपद्यास्मानार्यवृत्त्या वर्तितुम्ऽ इति ।

"यथाज्ञापितो ऽस्मिऽ इति विज्ञापितो ऽयं मया मित्रवन्मय्यवर्तिष्ट ।

पृष्टश्च मयैकदा रहसि जातविश्रम्भेणाभाषत स्वचरितम्--"आसीत्कुसुमपुरे राज्ञो रिपुञ्जयस्य मन्त्री धर्मपालो नाम विश्रुतधीः श्रुतऋषिः ।

अमुष्य पुत्रः सुमित्रो नाम पित्रैव समः प्रज्ञागुणेषु ।

तस्यास्मि द्वैमातुरः कनीयन्भ्राताहम् ।

वेशेषु विलसन्तं मामसौ विनयरुचिरवारयत् ।

अवार्यदुर्नयश्चाहमपसृत्य दिङ्मुखेषु भ्रमन्यदृच्छयास्यां वारणस्यां प्रमदवने मदनदमनाराधनाय निर्गत्य सहसखीभिः कन्दुकेनानुक्रीडमानां काशीभर्तुश्चण्डसिंहस्य कन्यां कान्तिमतीं नाम चकमे ।

कथमपि समगच्छे च ।

अथ छन्नं च विहरता कुमारीपुरे सा मयासीदापन्नसत्त्वा ।

कञ्चित्सुतं च प्रसूतवती ।

मृतजात इति सो ऽपविद्धो रहस्यनिर्भेदभयात्परिजनेन क्रीडाशैले ।

शबर्या च स्मशानाभयाशं नीतः ।

तयैव निवर्तमानया निशीथे राज्यविध्यमारक्षिकपुरुषैरभिगृहंय तर्जितया दण्डपारुप्यभीतया निर्भिन्नप्रायं रहस्यम् ।

राजज्ञया निशीथे ऽहमाक्रीजनगिरिदरीगृहे विश्रब्धप्रसुप्तस्तयोपदरशितो यथोपपन्नरज्जुबद्धः श्मशानमुपनीय मातङ्गोद्यतेन कृपाणेन प्राजिहीर्ष्ये नियतिबलाल्लूनबन्धस्तमसिमाच्छिद्यान्त्यजं तमन्यांश्च कांश्चित्प्रहृत्यापासरम् ।

अशरण्श्च भ्रमन्नटव्यामेकदाश्रुमुख्या कयापि दिव्याकारया सपरिचारया कन्ययोपास्थायिपि ।

सा मामञ्जलिकिसलयोत्तंसितेन मुखविलोलकुन्तलेन मूर्ध्ना प्रणम्य मया सह वनवटद्रुमस्य कस्यापि महतः प्रच्छायशीतले तले निषण्णा, "कासि वासु, कुतो ऽस्यागता, कस्य हेतोरस्य मे प्रसीदसिऽ इति साभिलाषमाभाषिता मया वाङ्मयं मधुवर्षमवर्षत्-"आर्य, नाथस्य यक्षाणां मणिभद्रस्यास्मि दुहिता तारावली नाम ।

साहं कदाचिदगस्त्यपत्नीं लोपामुद्रां नमस्कृत्यापावर्तमाना मलयगिरेः परेतावासे वाराणस्याः कमपि दारकं रुदन्तमद्राक्षम् ।

आदाय चैनं तीव्रस्नेहान्ममपित्रोः संनिधिमनैषम् ।

अनैपीच्च मे पिता देवस्यालकेश्वरस्यास्थानीम् ।

अथाहमाहूयाज्ञप्ता हरसखेन, "बाले बाले ऽस्मिन्कीदृशस्ते भावःऽ इति ।

"औरस इवास्मिन्वत्से वत्सलताऽ इति मया विज्ञापितः "सत्यमाह वराकीऽ इति तन्मूलामतिमहतीं कथामकरोत् ।

तत्रैतावन्मयावगतम् "त्वं किल शौनकः शूद्रकः कामपालश्चाभिन्नः ।

बन्धुमती विनयवती कान्तिमती चाभिन्ना ।

वेदिमत्यार्यदासी सोमदेवी वैकैव ।

हंसावली शूरसेना सुलोचना चानन्या ।

नन्दिनी रङ्गपताकेन्द्रसेना चापृथग्भूता ।

या किल शौनकावस्थायामग्निसाक्षिकमात्मसात्कृता गोपकन्या सैव किलार्यदासी पुनश्चाद्य तारावलीत्यभूवम् ।

बालश्च किलशूद्रकावस्थे त्वय्यार्यदास्यवस्थायां मय्युदभूत् ।

अवर्ध्यत च विनयवत्या स्नेहवासनया ।

स तु तस्यां कान्तिमत्यवस्थायामद्योदभूत् ।

एवमनेकमृत्युमुखपरिभ्रष्टं दैवान्मयोपलब्धं तमेकपिङ्गादेशाद्वने तपस्यतो राजहंसस्य देव्यै वसुमत्यै तत्सुतस्य भाविचक्रवर्तिनो राजवाहनस्य परिचर्यार्थं समर्प्य गुरुभिरभ्यनुज्ञाता कृतान्तयोगात्कृतान्तमुखभ्रष्टस्य ते पादपद्मशुश्रूषार्थमागतास्मिऽ इति ।

श्रुत्वा तामनेकजन्मरमणीमसकृदाश्लिष्य हर्षाश्रुमुखो मुहुर्मुहुः सान्त्वयित्वा तत्प्रभावदर्शिते महति मन्दिरे ऽहर्निशं भूमिदुर्लभान्भोगानन्वभूवम् ।

द्वित्राणि दनान्यतिक्रम्य मत्तकाशिनीं तामवादिषम्-"प्रिये, प्रत्यपकृत्य मत्प्राणद्गोहिणश्चण्डसिंहस्य वैरनिर्यातनसुखमनुबुभूषामिऽ इति तया सस्मितमभिहितम्-"एहि कान्त, कान्तिमतीदर्शनाय नयामि त्वाम्ऽ इति ।

स्थितेर्ऽधरात्रे राज्ञो वासगृहनीये ।

ततस्तच्छिरोभागवर्तिनीमादायासियष्टिं प्रबोध्यैनं प्रस्फुरन्तमब्रवम्--"अहमस्मि भवज्जामाता ।

भवदनुमत्या विना तव कन्याभिमर्शी ।

तमपराधमनुवृत्त्या प्रमार्ष्टुमागतःऽ इति ।

सो ऽतिभीतोमामभिप्रणम्याह-"अहमेव मूढो ऽपराद्धः यस्तव दुहितृसंसर्गानुग्राहिणो ग्रहग्रस्त इवोत्क्रान्तसीमा भवदधीनम्ऽ इत्यवादीत् ।

अथापरेद्युः प्रकृतिण्डलं संनिपात्य विधिवदात्मजायाः पाणिमग्राहयत् ।

अश्रावयच्च तनयवार्तां तारावली कान्तिमत्यै, सोमदेवीसुलोचनेन्द्रसेनाभ्यश्च पूर्वजातिवृत्तान्तम् ।

इत्थमहं मन्त्रिपदापदेशं यौवराज्यमनुभवन्विहरामि विलासिनीभिःऽ इति ।

स एवं मादृशे ऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्वभूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्डघोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं सिहघोषनामानं पैशुन्यवादिनां दुर्मन्त्रिणः कतिचिदासन्नन्तरङ्गभूताः ।

तैः किलासावित्थमग्राह्यत-"प्रसङ्यैव स्वसा तवामुना भुजङ्गेन संगृहीता ।

पुनः प्रसुप्ते राजनि प्राहर्तुमद्युतासिरासीत् ।

तेनास्मै तल्क्षणप्रवृद्धेन भीत्यानुनीय दत्ता कन्या ।

तं च देवज्येष्ठं चण्डघोषं विषेण हत्वा बालो ऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपेक्षितः ।

क्षिणोति च पुरा स कृतघ्नो भवन्तम् ।

तमेवान्तकपुरमभिगमयितुं यतस्वऽ इति ।

स तथा दूषितो ऽपि यक्षिणीभयान्नामुष्मिन्पापमाचरितुमशकत् ।

एषु किल दिवसेष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत्-"देवि, नाहमायथातथ्येन विप्रलम्भनीया ।

कथय तथ्यं केनेदमयथापूर्वमाननारविन्दे तवैषु वासरेषुऽ इति ।

सा त्ववदीत्-"भद्रे, स्मरसि किमद्याप्यायथातथ्येन किञ्चिन्मयोक्तपूर्वम् ।

सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्मभिरुपोढमत्सरा प्रावसत् ।

अवसीदति च नः पतिः ।

अतो मे दौर्मनत्यम्ऽ इति ।

तत्प्रायेणैकान्ते सुलक्षणया कान्ताय कथितम् ।

"अथासौ निर्भयो ऽद्य प्रियतमाविरहपाण्डुभिरवयैर्घैर्यस्तम्भिताश्रुपर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिवानतिपेशलाभिर्वाग्भिर्वियोगं दर्शयन्तम्, कथमपि राजकुले कार्याणि कारयन्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्धयत् ।

तस्य किल स्थाने स्थाने दोषानुद्धोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं भवेत्ऽ इति ।

अतो ऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्ऽ इति ।

मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सो ऽभिहितः-"सौम्य, किं तव गोपायित्वा ।

यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या हस्तन्यासः कृतः सो ऽहमस्मि ।

शक्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् ।

अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मानि हुतमिव भवेत्ऽ इति ।

अनवसितवचन एव मयि महानाशीविषः प्राकाररन्ध्रेणोदैरयच्छिरः ।

तमहं मन्त्रौषधबलेनाभिगृह्य पूर्णभद्रमब्रवम्-"भद्र, सिद्धं नः समीहितम् ।

अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पतितेन नाम दंशयित्वा तथा विषं स्तम्भवेवं यथा मृत इत्युदास्येत ।

त्वया तु मुक्तसाध्वसेन माता मे बोधयितव्या-" या यक्ष्या वने देव्या वसुमत्या हस्तार्पितो युष्मत्सूनुः सो ऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थामाचरिष्यति ।

त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम्-"एष खलु क्षात्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निर्ग्राह्य इति ।

स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति ।

तदहममुनैव सह चिताग्निमारोक्ष्यामि ।

युवतिजनानुकूलः पश्चिमो विधिरनुज्ञातव्यःऽ इति ।

स एव निवेदितो नियतमनुज्ञास्यति ।

ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते विविक्तोद्देर्शे दर्भसस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् ।

अहं च बाह्यकक्षागतस्त्वया प्रवेशयिष्ये ।

ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्यामहेऽ इति ।

स "तथाऽ इति हृष्टतरस्तूर्णमगमत् ।

अहं तु घोषणस्थाने चिञ्चावृक्षं घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।

आरूढश्च लोको यथायथमुच्चैस्थानानि ।

उच्चावचप्रलापाः प्रस्तुताः ।

तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनि महाजनानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत्-"एष मन्त्री कामपालो राज्यलोभद्भर्तारं चण्डसिंहम्, युवराजं चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवो ऽपि सिंहघोषः पूर्णयौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामिभक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो न्याय्य इति प्राङ्विवाकवाक्यादक्ष्युद्धरणाय नीयते ।

पुनरन्यो ऽपि यदि स्यादन्यायवृत्तिस्तमष्येवमेव यथार्हेण दण्डेन योजयिष्यति देवःऽ इति ।

श्रुत्वैतद्भद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरसमाशीविषं व्यक्षिपम् ।

अहं च भीतो नामावप्लुत्य तत्रैव जनादनुलीनः क्रुद्ध्वयालदष्टस्य तातस्य विहितजीवरक्षो विषक्षणादस्तम्भयम् ।

अपतच्चैष भूमौ मृतकल्पः ।

प्रालपं च "सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति ।

यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिनाऽ इति ।

मदुक्तं च केचिदन्वमन्यन्त, अपरे पुनर्निनिन्दुः ।

दर्वीकरस्तु तमपि चण्डालं दष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।

अथ मदम्बा पूर्णभद्रबोधितार्था तादृशे ऽपि व्यसने नातिविह्वला कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत्-"एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति ।

न मे ऽनयास्ति चिन्तया फलम् ।

अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं कलङ्कयेयम्ऽ अतो ऽनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय माम्ऽ इति ।

श्रुत्वा चैतत्प्रीतियुक्तः समादिक्षत्क्षितीश्वरः-"क्रियतां कुलोचितः संस्कारः ।

उत्सवो त्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिःऽ इति चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते "कामपालो ऽपि कालदष्ट एवऽ इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त ।

आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितो ऽभूत् ।

अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य, मुहुरभिप्राणम्य भव नदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे शयनस्थानमेकाकिनी प्राविक्षत् ।

तत्र च पूर्वमेव पूर्णभद्रोपस्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।

हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्नुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत्-"पुत्र, यो ऽसि जातमात्रः पापया मया परित्यक्तः, स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि ।

अथवैपनिरपराध एव ते जगयिता ।

युक्तमस्य प्रत्यानयनमन्तकाननात् ।

क्रूरा खलु तारावली या त्वासुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै सैव वा सदृशकारिणी ।

नहि तादृशाद्भाग्यराशेर्विना मादृशो जनो ऽल्पपुण्यस्तवर्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् ।

एहि, परिष्वजस्वऽ इति भूयोभूयः शिरसि जिघ्रन्यङ्कमारोपयन्ती, तारावलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चती चोत्कम्पिताङ्गयष्टिरन्यादृशीव क्षणमजनिष्ट ।

जनयितापिमे नरकादिव स्वर्गम्, तादृशादव्यसनात्तथाबूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथाव-त्तान्तमावेदितो भगवतो मघवतो ऽपि भाग्यवन्तमात्मानमजीगणत् ।

मनगिव च मत्संबन्धमाख्याय हर्पविस्मितात्मनोः पित्रोरकथयम्-"आज्ञापयतं काद्य नः प्रितपत्तिःऽ इति ।

पिता मे प्राब्रवीत्-"वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकारबलयमक्षय्यानुधस्थानम् ।

अलङ्घ्यतमा च गुप्तिः ।

उपकृताश्चमयातिबहवः सन्ति सामन्ताः ।

प्रकृतयश्च भूयस्यो न मे व्यसनमनुरुध्यन्ते ।

सुभटानां चानेकसहस्रमस्त्येव समुहृत्पुत्रदारम् ।

अतो ऽत्रैव कतपयान्यहानि स्थित्वा बाह्यभ्यन्तरङ्गान्कोपानुत्पादयिष्यामः ।

कुपितांशञ्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामःऽ इति ।

"को दोषः, तथास्तुऽ इति तातस्य मतमन्वमंसि ।

तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारप्रामिकान्प्रयोगान्प्रायः प्रायुङ्क ।

ते चास्माभिः प्रत्यहमहन्यन्त ।

अस्मिन्नेवावकाश पूर्णभद्रमुखाच्च राज्ञः शय्यास्थानमवगस्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकार्षम् ।

गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् ।

अव्यथिष्ट च दृष्टैव स मां नारीजनः ।

तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारांनह्नुवाना विग्रहिणीव देवी विश्वंभराःहरगृहिणीवासुरविजयायावतीर्णा, पातालमागता गृहिणीव भगवतः कुसुमधन्वनः गतलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवावदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनोद्रकम्पत्र ।

तथा भूते च तस्मिन्नङ्गनासमाजे, कुसुमितेव काशयष्टिः, पाण्डुशिरसिज्ञा न्यविगकाचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-"दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय ।

किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलंविविक्षुः ।

आज्ञापयको ऽसि ।

कस्य हेतोरागतो ऽसिऽ इति ।

सातु मया प्रत्यवादि--"सुदत्यः, मास्म भवत्यो भैषुः ।

अहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्ऽथ पालो नाम ।

सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरसन्निहान्तरे वो दृष्टवान् ।

कथयत क स्थ यूयम् ।

कथमिह निवसथऽ इति ।

सोदञ्जलिरुदीरितवती-"भर्तृदारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।

श्रूयताम् ।

यस्तवमातामहश्चणअडसिहः, तेनास्यां देव्यां लीलावतयां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि ।

चण्डघोपस्तु युवराजो ऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारवत्याम् ।

अमुया चेयं मणिकर्णिका नाम कन्या प्रसृता ।

अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् ।

अथ देवश्चण्डसिहो मामाहूयोपह्वरे समाज्ञापयत्-"ऋद्धिमति, कन्यकेयं कल्याणलक्षणा ।

तामिमां मालवेन्द्रनन्दनाय दर्षसाराय विधिवद्वर्धयित्वा दित्सामि ।

बिभेमि च कान्तिमतीबृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् ।

अत इयमरातिवयसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामणअडपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् ।

अस्त्यतिर भोग्यवस्तु वर्पशतेनाप्यक्षय्यम्ऽ इति ।

स तथोक्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण त्थानाभिदमस्मानवीविशत् ।

इह च नो वसन्तीनां द्वादशसमाः समत्ययुः ।

इयं च वत्सा तरुणीबूता ।

न चाद्यापि स्मरति राजा ।

काममियं पितामहेन दर्पसाराय संकगल्पिता ।

त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यृतजिता स्वमात्रातवैव जायात्वेन समकल्प्यत ।

"तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैवऽ इति ।

तां पुनरवोचम्-"अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्येऽ इति ।

तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेर्ऽधरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिहघोषं जीवग्राहमग्रहीषम् ।

आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् ।

आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामितमलिनवनमश्रुबहुलरक्तचक्षुषमेकान्ते जनयित्रोरदर्शयम् ।

अकथयं च बिलकथाम् ।

अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् ।

अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् ।

प्रकृतिकोपभयात्तु मन्मात्रा मुमुक्षितो ऽपि न मुक्त एव सिंहघोषः ।

तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम ।

अभूवं च भवत्पादपङ्कजरजो ऽनुग्राह्याः स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषःऽ इत्यर्थपालः प्राञ्जलिः प्रणनाम ।

देवो ऽपि राजवाहनः "बहु पराक्रान्तम् ।

बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत् ।। दकुच_,४ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरितेर्ऽथपालचरितं नाम चतुर्थ उच्छ्वासः


एक टिप्पणी भेजें

0 टिप्पणियाँ