Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्छ्वासः

 

श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्छ्वासः

 



 

तृतीयोच्छ्वासः

दकुच १,३.१

देव, भवच्चरणकमलसेवाभिलाषीभूतो ऽहं भ्रमन्नेकस्यां वनावनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षम् ।

तदादाय गत्वा कञ्चनाध्वानमम्बरमणेरत्युष्णतया गन्तुमक्षमो वने ऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरमेकमवलोक्य कुशलमुदितदयो ऽहमपृच्छम् ।। दकुच_,३.१ ।।

 

 

 

दकुच १,३.२

कार्पण्यविवर्णवदनो मदाशापूर्णमानसो ऽवोचदग्रजन्मा-"महाभाग सुतानेतान्मातृहीनाननेकैरुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं संपाद्य दददेतेभ्यो वसामि शिवालये ऽस्मिन्ऽिति ।। दकुच_,३.२ ।।

 

 

 

दकुच १,३.३

भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः, किमत्रागमनकारणमस्यऽ इति पृष्टो ऽभाषत महीसुरः-"सौम्य, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरुणीरत्नमसमानलावण्यां श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौत्सीत् ।

वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् ।

तरुणीलाभहृष्टचेता लाटपतिः "परिणेया निजपुर एवऽ इति निश्चित्य गच्छन्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् ।। दकुच_,३.३ ।।

 

 

 

दकुच १,३.४

कन्यासारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधनश्च्तुरङ्गबल समन्वितो ऽन्यत्र रचितशिबिरस्तं निजनाथावमानखिन्नमानसो ऽन्तर्बिभेद इति ।। दकुच_,३.४ ।।

 

 

 

दकुच १,३.५

विप्रो ऽसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदाम् ।

परमाह्लादविकसिताननो ऽभिहितानेकाशीः कुत्रचिदग्रजन्मा जगाम ।

अध्वश्रमखिन्नेन मया तत्र निरवेशि निद्रासुखम् ।

तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नितगात्रो ऽनेकनैस्त्रिंशिकानुयातो ऽभ्येत्य माम् "असौ दस्युःऽ इत्यदर्शयत् ।। दकुच_,३.५ ।।

 

 

 

दकुच १,३.६

परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भयरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारम् "एते तव सखायःऽ इति निगडितान्कांश्चिन्निर्दिष्टवन्तो मामपि निगडितचरणयुगलमकार्षुः ।

किड्कर्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया-"ननु पुरुषा वीर्यपरुषाः, निमित्तेन केन निविशथ कारावासदुःखं दुस्तरम् ।

यूयं वयस्या इति निर्दिष्टमेतैः, किमिदम् इति ।। दकुच_,३.६ ।।

 

 

 

दकुच १,३.७

तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्याख्याय चोरवीराः पुनरवोचन्-"महाभाग! वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयम् ।

तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरङ्गद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम ।

अपरेद्युश्च पदान्वेषिणो राजानुचरा बहवो ऽभ्येत्य धृतधनचयानस्मान्परितः परिवृत्य दृढतरं बद्ध्वा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्यानर्घ्यरत्नस्याभावेनास्मद्वधाय माणिक्यादानादस्मान् किलाशृङ्खलयन् इति ।। दकुच_,३.७ ।।

 

 

 

दकुच १,३.८

श्रुतरत्नरत्नावलोकस्थानो ऽहम् "इदं तदेव माणिक्यम्ऽ इति निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नामधेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाष्य समयोचितैः संलापैर्मैत्रीमकार्षम् ।

ततोर्ऽधरात्रे तेषां मम च शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगणस्यायुधजालमादाय पुररक्षान्पुरतो ऽभिमुखागतान्पटुपराक्रमलीलयाभिद्राव्य मानपालशिबिरं प्राविशम् ।

मानपालो निजकिङ्करेभ्यो मम कुलाभिमानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।। दकुच_,३.८ ।।

 

 

 

दकुच १,३.९

परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य "मन्त्रिन्, मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्राविशन् तानर्पय ।

नो चेन्महाननर्थः भविष्यति इति क्रूरतरं वाक्यमब्रुवन् ।

तदाकर्ण्य रोषारुणितनेत्रो मन्त्री लाटपतिः कः, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यम् इति तान्निरभर्त्सयत्, ते च मानपालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् ।

कुपितो ऽपि लाटपतिर्देर्वीर्यगर्वेणाल्पसैनिकसमेतो योद्धुमभ्यगात् ।

पूर्वमेव कृतरणनिश्चयो मानी मानपालः संनद्धयोधो युद्धकामो भूत्वा निःशङ्कं निरगात् ।

अहमपि सबहुमानं मन्त्रिदत्तानि बहुलतुरङ्गमोपेतं चतुरसारथिं रथं दृढतरं कवचं मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायुधानि गृहीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगाम् ।

परस्परमत्सरेण तुमुलसङ्गरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन् प्राहरम् ।। दकुच_,३.९ ।।

 

 

 

दकुच १,३.१०

ततो ऽतिरयतुरङ्गमं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेततदीयरथो ऽहमरातेः शिरःकर्तनमकार्षम् ।

तस्मिन्पतिते तदवशिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसंभृतो मन्त्री ममानेकविधां संभावनामकार्षीत् ।। दकुच_,३.१० ।।

 

 

 

दकुच १,३.११

मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमाकर्ण्य सन्तुष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्यबान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् ।

ततो यौवराज्याभिषिक्तो ऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधं सौख्यमनुभवन्भवद्विरहवेदनाशल्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृज्जनावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतो ऽस्मि ।

भक्तवत्सलस्य गौरीपतेः कारुण्येन त्वत्पदारविन्दसंदर्शनानन्दसंदोहो मया लब्धःऽ इति ।। दकुच_,३.११ ।।

 

 

 

दकुच १,३.१२

तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास ।

तस्मिन्नवसरे पुरतः पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं गाढमालिङ्ग्यानन्दबाष्पसंकुलसंफुल्ललोचनः "सौम्य सोमदत्त, अयं सः पुष्पोद्भवःऽ इति तस्मै तं दर्शयामास ।। दकुच_,३.१२ ।।

 

 

 

दकुच १,३.१३

तौ च चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूताम् ।

ततस्तस्यैव महीरुहस्य छायायामुपविश्य राजा सादरहासमभाषत-"वयस्य, भूसुरकार्यं करिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करिष्यतीति निद्रितान्भवतः परित्यज्य निरगाम् ।

तदनु प्रबुद्धो वयस्यवर्गः किमिति निश्चित्य मदन्वेषणाय कुत्र गतवान् ।

भवानेकाकी कुत्र गतःऽ इति ।

सो ऽपि ललाटतटचुम्बदञ्जलिपुटः सविनयमलपत् ।। दकुच_,३.१३ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरिते सोमदत्तचरितं नाम तृतीय उच्छ्वासः

एक टिप्पणी भेजें

0 टिप्पणियाँ