जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः

 

 

षष्ठोच्छ्वासः

दकुच २,

सो ऽप्याचचक्षे-देव, सो ऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वयस्य नगरस्य बाह्मोद्याने महान्तमुत्सवसमाजमालोकयम् ।

तत्र क्वचिदतिमुक्तकलतामण्डपे कमपि वीणावादेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षम् ।

अप्राक्षं च-"भद्र, को नामायमुत्सवः, किमर्थं वा समारब्धः, "केन वा निमित्तेनोत्सवमनादृत्यैकान्ते भवानुत्कण्ठित इव परिवादिनीद्वितीयस्तिष्ठतिऽ इति ।

सो ऽभ्यधत्त-"सौम्य, सुह्यपतिस्तुङ्गधन्वनामानपत्यः पार्थितवानमुष्मिन्नायतने विस्मृतविन्ध्यवासरागं वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्ऽ ।

अनया च किलास्मै प्रतिशयिताय स्वप्ने समादिष्टम्-"समुत्पत्स्यते तवैकः पुत्रः, जनिष्यते चैका दुहिता ।

स तु तस्याः पाणिग्राहकमनुजीविष्यति ।

सा तु सप्तमाद्वर्षादरभ्यापरिणयनात्प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तृलाभाय मां समाराधयतु ।

यं चाभिलषेत्सामुष्मै देया ।

स चोत्सवः कन्दुकोत्सवनामास्तुऽ इति ।

ततो ऽल्पीयसा कालेन राज्ञः प्रियमहिषी मेदिनी नामैकं पुत्रमसूत ।

समुत्पन्ना चैका दुहिता ।

साद्य नाम कन्या कन्दुकावती सोमापीडां देवीं कन्दुकविहारेणाराधयिष्यति ।

तस्यास्तु सखी चन्द्रसेना नाम धात्रेयिका मम प्रियासीत् ।

सा चैषु दिवसेषु राजपुत्रेण भीमधन्वना बलवदनुरुद्धा ।

तदहमुत्कण्ठितो मन्मथशरशल्यदुः खोद्विग्नचेताः कलेन वीणारवेमात्मानं किञ्चिदाश्वासयन्विविक्तमध्यासेऽ इति ।

अस्मिन्नेव च क्षणे किमपि नूपुरक्वणितमुपातिष्ठत् ।

आगता च काचिदङ्गना दृष्टैव स एनामुत्फुल्लदृष्टिरुत्थायोपगूढकण्ठश्च तया तत्रैवोपाविशत् ।

अशंसच्च-"सैषा मे प्राणसमा, यद्विरहो दहन इव दहति माम् ।

इदं च मे जीवितमपहरता राजपुत्रेण मृत्युनेव निरुष्मतां नीतः ।

न च शक्ष्यामि राजसूनुरित्यमुष्मिन् पापमाचरितुम् ।

अतो ऽनयात्मानं सुदृष्टं कारयित्वा त्यक्ष्यामि निष्प्रतिक्रियान् प्राणान्ऽ इति ।

सा तु पर्यश्रुमुखी समभ्यधात्-"मा स्म नाथ, मत्कृते ऽध्यवस्यः साहसम् ।

यस्त्वमुत्तमात्सार्थवाहादर्थदासादुत्पद्य कोशदास इति गुरुभिरभिहितनामधेयः पुनर्मदत्यासङ्गाद्वेशदास इति द्विषद्भिः प्रख्यापितो ऽसु, तस्मिंस्त्वय्युपरते यद्यहं जीवेयं नृशंसो वेश इति समर्थयेयं लोकवादम् ।

अतो ऽद्यैव नय मामीप्सितं देशम्ऽ इति ।

स तु मामभ्यधत्त-"भद्र, भवद्दृष्टेषु राष्ट्रेषु कतमत्समृद्धं संपन्नसस्यं सत्पुरुषभूयिष्टं चऽ इति ।

तमहमीषद्विहस्याब्रवम्-"भद्र, विस्तीर्णेयमर्णवाम्बरा ।

न पर्यन्तो ऽस्ति स्थानस्थानेषु रम्याणां जनपदानाम् ।

अपितु न चेहिदे युवयोः सुखनिवासकारणं कमष्युपायमुत्पादयितुं शक्नुयाम् ।

ततो ऽहमेव भवेयमध्वदर्शी ।

तावतोदैरत रणितानि मणिनूपुराणाम् ।

अथासौ जातसंभ्रमा "प्राप्तैवेयं भर्तृदारिका कन्दुकावती कन्दुकक्रीडितेन देवीं विन्ध्यवासिनीमाराधयितुम् ।

अनिषिद्धदर्शना चेयमस्मिन्कन्दुकोत्सवे ।

सफलमस्तु युष्मच्चक्षुः ।

आगच्छतं द्रष्टुम् ।

अहमस्याः सकाशवर्तिनी भवेयम्ऽ इत्ययासीत् ।

तामन्वयाव चावाम् ।

महति रत्नरङ्गपीठे स्थितां प्रथमं ताम्रोष्ठीमपश्यम् ।

अतिष्ठच्च सा सद्य एव मम हृदये ।

न मयान्येन वान्तराले दृष्टा ।

चित्रीयाविष्ठचित्तश्चाचिन्तयम्-"किमियं लक्ष्मीः ।

नहि नहि ।

तस्याः किल हस्ते विन्यस्तं कमलम्, अस्यास्तु हस्त एव कमलम् ।

अभुक्तपूर्वा चासौ पुरातनेन पुंसा पूर्वराजैश्च, अस्याः पुनरनवद्यमयातयामं च यौवनम्ऽ इति चिन्तयत्येव मयि, सानघसर्वगात्री व्यत्यस्तहस्तपल्लवाग्रस्पृष्टभूमिरालोलनीलकुटिलालका सविभ्रमं भगवतीमभिवन्द्य कन्दुकममन्दरागरूषिताक्षमनङ्गमिवालम्बत ।

लीलाशिथिलं च भूमौ मुक्तवती ।

मन्दोत्थितं च किञ्चित्कुञ्चिताङ्गुष्ठेन प्रसृतकोमलाङ्गुलिना पाणिपल्लवेन समाहतय हस्तपृष्टेन चोन्नीय, चटुलदृष्टिलाञ्छतं स्तबकमिव भ्रमरमालानुविद्धमवपतन्तमाकाश एवाग्रहीत् ।

अमुञ्चच्च ।

मध्यविलम्बितद्रुतलये मृदुमुदु च प्रहरन्ती तत्क्षणं चूर्णपदमदर्शयत् ।

प्रशान्तं च तं निर्दयप्रहारैरुदपातयत् ।

विपर्ययेण च प्राशमयत् ।

पक्षमृज्वागतं च वामदक्षिणाभ्यां कराभ्यां पर्यायेणाभिघ्नती शकुन्तमिवोदस्थापयत् ।

दूरोत्थितं च प्रपतन्तमाहृत्य गीतमार्गमारचयत् ।

प्रतिदिशं च गमयित्वा प्रत्यागमयत् ।

एवमनेककरणमधुरं विहरन्ती रङ्गगतस्य रक्तचेतसो जनस्य प्रतिक्षणमुच्चावचाः प्रशंसावाचः प्रतिगृह्णती, प्रतिक्षणारूढविभ्रमं कोशदासमंसे ऽवलम्ब्य कण्टकितगण्डमुत्फुल्लेक्षणं च मय्यभिमुखीभूय तिष्ठति तत्प्रथमावतीर्णकन्दर्पकारितकटाक्षदृष्टिस्तदनुमार्गविलसितलीलाञ्चितभ्रूलता, श्वासानिलवेगान्दोलितैर्दन्तच्छदरश्मिजालैर्लीलापल्लवैरिव मुखकमलपरिमलग्रहणलोलानलिनस्ताडयन्ती, मण्डलभ्रमणेषु कन्दुकस्यातिशीघ्रप्रचारतया विशन्तीव मद्दर्शनलज्जया पुष्पमय पञ्जरम्, पञ्चबिन्दुप्रसृतेषु पञ्चापि पञ्चबाणबाणआन्युगपदिवाभिपततस्त्रासेनावघट्टयन्ती, गोमूत्रिकाप्रचारषु घनदर्शितरागविभ्रमा विद्युल्लतामिव विडम्बयन्ती, भूषणमणिरणितदत्तलसंवादिपादचारम्, अपदेशस्मितप्रभानिषिक्तबिम्बाधरम्, अंसस्रंसितप्रतिसमाहितशिखण्ढभारम्, समाघट्टितक्वणितरत्नमेखलागुणम्, अञ्चितोत्थितपृथुनितम्बविलम्बितविचलदंशुकोज्ज्वलम्, आकुञ्चितप्रसृतवेल्लितभुजलताभिहतललितकन्दुकम्, आवर्जितबाहुपाशम्, उपरिपरिवर्तितत्रिकविलग्नलोलकुन्तलम्, अवगलितकर्णपूरकनकपत्रप्रतिसमाधानशीघ्रतानतिक्रमितप्रकृतक्रीडनम्, असकृदुत्क्षिष्यमाणहस्तपादबाह्माभ्यन्तरभ्रान्तकन्दुकम्, अवनमनोन्नमननैरन्तर्यनष्टदृष्टमध्ययष्टिकम्, अवपतनोत्पतननिर्व्यवस्थमुक्ताहारम्, अङ्कुरितघर्मसलिलदूषितकपोलपत्रभङ्गशोषणाधिकृतश्रवणपल्लवानिलम्, आगलितस्तनतटांशुकनियमनव्यापृतैकपाणिपल्लवं च निषद्योत्थाय निमील्योन्मील्य स्थित्वा गत्वा चैवातिचित्रं पर्यक्रीडत राजकन्या ।

अभिहत्य भूतलाकाशयोरपि क्रीजान्तराणि दर्शनीयान्येकेनैव वानेकेनैव कन्दुकेनादर्शयत् ।

चन्द्रसेनादिभिश्च प्रियसखीभिः सह विहृत्य विहृतान्ते चाभिवन्द्य देवीं मनसा मे सानुरागेणेव परिजनेनानुगम्यमाना, कुवलयशरमिव कुसुमशरस्य मय्यपाङ्गं समर्पयन्ती, सापदेशमसकृदार्त्यमानवदनचन्द्रमण्डलतया स्वहृदयमिव मत्समीपे प्रेरितं प्रतिनिवृत्तं न वेत्यालोकयन्ती, सह सखीभिः कुमारीपुरमगमत् ।

अहं चानङ्गविह्वलः स्ववेश्म गत्वा कोशदासेन यत्नवदत्युदारं स्नानभोजनादिकमनुभावितो ऽस्मि ।

सायं चोपसृत्य चन्द्रसेना रहसि मां प्रणिपत्य पत्युरंसमंसेन प्रणयपेशलमाघट्टयन्त्युपाविशत् ।

आचष्ट च हृष्टः कोशदासः-"भूयासमेवं यावदायुरायताक्षि, त्वत्प्रसादस्य पात्रम्ऽ इति ।

मया तु सस्मितमभिहितम्--"सखे, किमेतदाशास्यम् ।

अस्ति किञ्चिदञ्जनम् ।

अनया तदक्तनेत्रया राजसूनुरुपस्थितो वानरीमिवैनां द्रक्ष्यति, विरुक्तश्चैनां पुनस्त्यक्ष्यतिऽ इति ।

तया तु स्मेरयास्मि कथितः-"सो ऽयमार्येणाज्ञाकरो जनो ऽत्यर्थमनुगृहीतः, यदस्मिन्मन्नेव जन्मनि मानुषं वपुरपनीय वानरीकरिष्यते ।

तदास्तामिदम् ।

अन्यथापि सिद्धं नः समीहितम् ।

अद्य खलु कन्दुकोत्सवे भवन्तमपहसितमनोभवाकारमभिलषन्ती रोषादिव शम्बरद्विषातिमात्रमायास्यते राजपुत्री ।

सो ऽयमर्थो विदितभावया मया स्वमात्रे तया च तन्मात्रे, महिष्या च मनुजेन्द्राय, निवेदयिष्यते ।

विदितार्थस्तु पार्थिवस्त्वया दुहितुः पाणिं ग्राहयिष्यति ।

ततश्च त्वदनुजीविना राजपुत्रेण भवितव्यम् ।

एष हि देवतासमादिष्टो विधिः ।

त्वदायत्ते च राज्ये नालमेव त्वामतिक्रम्य मामवरोद्धुं भीमधन्वा ।

तत्सहतामयं त्रिचतुराणि दिनानिऽ इति मामामन्त्र्य प्रियं चोपगूह्य प्रत्ययासीत् ।

मम च कोशदासस्य च तदुक्तानुसारेण बहुविकल्पयतोः कथञ्चिदक्षीयत क्षपा ।

क्षपान्ते च कृतयथोचितनियमस्तमेव प्रियादर्शनसुभगमुद्यानोद्देशमुपागतो ऽस्मि ।

तत्रैव चोपसृत्य राजपुत्रो निरभिमानमनुकूलाभिः कथाभिर्मामनुवर्तमानो मुहूर्तमास्त ।

नीत्वा चोपकार्यामात्मसमेन स्नानबोजनशयनादिव्यतिकरेणोपाचरम् ।

तल्पगतं च स्वप्नेनानुभूयमानप्रियादर्शनालिङ्गनसुखमायसेन निगडेनातिबलवद्बहुपुरुषैः पीवरभुजदण्डोपरुद्धमबन्धयन्माम् ।

प्रतिबुद्धं च सहसा समभ्यधात्--"अयि दुर्मते, श्रुतमालपितं हतायाश्चन्द्रसेनाया जालरन्ध्रनिःसृतं तच्चेष्टावबोधप्रयुक्तयानया कुब्जया त्वं किलाभिलषितो वराक्या कन्दुकावत्या तव किलानुजीविना मया स्थधेयम्, त्वद्वचः किलानतिक्रमता मया चन्द्रसेना कोशदासाय दास्यतेऽ इत्युक्त्वा पार्श्वचरं पुरुषमेकमालोक्याकथयत्--"प्रक्षिपैनं सागरेऽ इति ।

स तु लब्धराज्य इवातिहृष्टः "देव, यदाज्ञापयसिऽ इति यथादिष्टमकरोत् ।

अहं तु निरालम्बनो भुजाभ्यामितस्ततः स्पन्दमानः किमपि काष्टं दैवदत्तमुरसोपश्लिष्य तावदप्लोषि, यावदपासरद्वासरः शर्वरी च सर्वा ।

प्रत्युषस्यदृस्यत किमपि वहित्रम् ।

अमुत्रासन्यवनाः ते मामुद्धृत्य रामेषुनाम्रे नाविकानायकाय कथितवन्तः-"को ऽष्ययमायसनिगलबद्ध एव जले लब्धः पुरुषः ।

सो ऽयमपि सिञ्चेत्सहसरं द्राक्षाणां क्षणेनैकेनऽ इति ।

अस्मिन्नेव क्षणे नैकनौकापरिवृतः को ऽपि मद्गुरभ्यधावत् ।

अभिभयुर्यवनाः ।

तावदतिजवानौकाः श्वान इव वराहमस्मत्पोतं पर्यरुत्सत ।

प्रावर्तत संप्रहारः ।

पराजयिषत यवनाः ।

तानहमगतीनवसीदतः समाश्वास्यालपिषम्-"अपनयत मे निगलबन्धनम् ।

अयमहमवसादयामि वः सपत्नान्ऽ इति ।

अमी तथाकुर्वन् सर्वांश्च तान्प्रतिभटान्भल्लवर्षिणा भीमटङ्कृतेन शार्ङ्गेण लवलवीकृताङ्गानकार्षम् ।

अवप्लुत्य हतविध्वस्तयोधमस्मत्पोतसंसक्तपोतममुत्र नाविकनायकमनभिसरमभिपत्य जीवग्राहमग्रहीषम् ।

असौ चासीत्स एव भीमधन्वा ।

तं चाहमवबुध्य जातव्रीडमब्रवम्-"तात, किं दृष्टानि कृतान्तविलसितानिऽ इति ।

ते तु सांयात्रिका मदीयेनैव शृङ्खलेन तमतिगाढं बद्ध्वा हर्षिकलकिलारवमकुर्वन्मां चापूजयन् ।

दुर्वारा तु सा नौरननुकूलवातनुन्ना दूरमभिपत्य कमपि द्वीपं निबिढमाश्लिष्टवती ।

तत्र च स्वादु पानीयमेधांसि कन्दमूलफलानि संजिघृक्षवो गाढपातितशिलावलयमबातराम ।

तत्र चसीन्महाशैलः ।

सो ऽहम् "अहो रमणीयो ऽयं पर्वतनितम्बभागः, कान्ततरेयं गन्धपाषाणवत्युपत्यका, शिशिरमिदमिन्दीवरारविन्दमकरन्दबिन्दुचन्द्रकोत्तरं गोत्रवारि, रम्यो ऽयमनेकवर्णकुसुममञ्जरीभरस्तरुवनाभोगःऽ इत्यतृप्ततरया दृशा बहुबहु पश्यन्नलक्षिताध्यारूढक्षोणीधरशिखरः शोणीभूतमुत्प्रभाभिः पद्मरागसोपानशिलाभिः किमपि नालीकपरागधूसरं सरः समध्यगाम् ।

स्नातश्च कांश्चिदमृतस्वादून्बिसभङ्गानास्वाद्य, अंसलग्नकह्लारस्तीरवर्तिना केनापि भीमरूपेण ब्रह्माराक्षसेनाभिपत्य "को ऽसि, कुतस्त्यो ऽसिऽ इति निर्भर्त्सयताभ्यधीये ।

निर्भयेन च मया सो ऽब्यधीयत-"सौम्य, सो ऽहमस्मि द्विजन्मा ।

शुत्रहस्तादर्णवम्, अर्णवाद्यवननावम्, यवननावश्चित्रग्रावाणमेनं पर्वतप्रवरं गतः, यदृच्छयास्मिन्सरसि विश्रान्तः, भद्रं तवऽ इति ।

सो ऽब्रूत-"न चेद्ब्रवीषि प्रश्नान्, अश्नामित्वाम्ऽ इति ।

मयोक्तम्-"पृच्छ तावत् ।

भवतुऽ इति ।

अथावयोरेकयार्ययासीत्संलाप- "किं क्रूरं स्त्रीहृदयं किं गृहिणः प्रियहिताय दारगुणाः ।

कः कामः संकल्पः किं दुष्करसाधनं प्रज्ञा ।। तत्र धूमिनीगोमिनीनिम्बवतीनितम्बवत्यः प्रामाणम्ऽ इत्युपदिष्टो मया सो ऽब्रूत-"कथय, कीदृश्यस्ताःऽ इति ।

अत्रोदाहरणम्-"अस्ति त्रिगर्तो नाम जनपदः ।

तत्रासन्गृहिणस्त्रयःऽ स्फीतसारधनाः सोदर्या धनकधान्यकधन्यकाख्याः ।

तेषु जीवत्सु न ववर्ष वर्षाणि द्वादश दशशताक्षः, क्षीणसारं सस्यम्, ओषध्यो बन्ध्याः, न फलवन्तो वनस्पतयः, क्लीवा मेधाः क्षीणस्रोतसः स्रवन्त्यः, पङ्कशेषाणि पल्वलानि, निर्निस्यन्दान्युत्समण्डलानि, विरलीभूतं कन्दमूलफलम्, अवहीनाः कथाः, गलिताः कल्याणोत्सवक्रियाः, बहुलीभूतानि तस्करकुलानि, अन्योन्यमभक्षयन्प्रजाः, पर्यलुठन्नितस्ततो बलाकापाण्डुराणि नरशिरःकपालानि, पर्यहिण्डन्त शुष्काः काकमण्डल्यः, शून्यीभूतानि नगरग्रामखर्वटपुटभेदनादीनि ।

त एते गृहपतयः सर्वधान्यनिचयमुपयुज्याजाविकटं गवलगणं गवां वृथं दासीदासजनमपत्यानि ज्येष्ठमध्यमभार्ये च क्रमेण भयित्वा "कनिष्ठभार्या धूमिना श्वो भक्षणीयाऽ इति समकल्पयन् ।

अथ कनिष्ठो धन्यकः प्रियां स्वामत्तुमक्षमस्तया सह तस्यामेव निश्यपासरत् ।

मार्गक्लान्तां चोद्वहन्वनं जगाहे ।

स्वमांसासृगपनीतक्षुत्पिपासां तां नयन्नन्तरे कमपि निकृत्तपाणिपादकर्णनासिकमवनिपृष्टे विचेष्टमानं पुरुषमद्राक्षीत् ।

तमप्यार्द्राशयः स्कन्धेनोद्वहन्कन्दमूलमृगबहुले गहनोद्देशे यत्नरचितपर्णशालश्चिरमवसत् ।

अमुं च रोपितव्रणमिगुदीतैलादिभिरामिषेण शाकेनात्मनिर्विशेषं पुपोष ।

पुष्टं च तमुद्रिक्तधातुमेकदामृगान्वेषणाय च प्रयाते धन्यके सा धूमिनी रिरंसयोपातिष्ठत ।

भर्त्सितापि तेन बलात्कारमरीरमत् ।

निवृत्तं च पतिमुदकाभ्यर्थिनम् "उद्धृत्य कूपात्पिब, रुजाति मे शिरः शिरोरोगःऽ इत्युदञ्चनं सरज्जुं पुरश्चिक्षेप ।

उदञ्चयन्तं च तं कूपादपः, क्षणात्पृष्ठतो गत्वा प्रणुनोद ।

तं च विकलं स्कन्धेनोदुह्य देशाद्देशान्तरं परिभ्रमन्ती पतिव्रताप्रतीतिं लेभे, बहुविधाश्च पूजाः ।

पुनरवन्तिराजानुग्रहादतिमहत्या भूत्या न्यवसत् ।

अथ पानीयार्थिसार्थजनसमापत्तिदृष्टोद्धृतमवन्तिषु भ्रमन्तमाहारार्थिनं भर्तारमुपलभ्य सा धूमिनी येन मे पतिर्विकलीकृतः स दुरात्मायम्ऽ इति तस्य साधोश्चित्रवधमज्ञेन राज्ञा समादेशयाञ्चकार ।

धन्यकस्तु दत्तपश्चाद्बन्दो बध्यभूमिं नीयमानः सशेषत्वादायुषः "यो मया विकलीकृतो ऽभिमतो भिक्षुः, स चेन्मे पापमाचक्षीत, युक्तो मे दण्डऽ इत्यदीनमधिकृतं जगाद ।

"को दोषःऽ इत्युपनीय दर्शिते ऽमुष्मिन्स विकलः पर्यश्रुः पादपतितस्ततस्य सादोस्तत्सुकृतमसत्याश्च तस्यास्तथाभूतं दुश्चरितमार्यबुद्धिराचचक्षे ।

कुपितेन राज्ञा विरूपितमुखी सा दुष्कृतकारिमी कृता श्वभ्यः पाचिका ।

कृतश्च धन्यकः प्रसादभूमिः तद्ब्रवीमि-"स्त्रीहृदयं क्रूरम्ऽ इति ।

पिनरनुयुक्तो गोमिनीवृत्तान्तमाख्यातवान्-"अस्ति द्रविडेषु काञ्चो नामनगरी ।

तस्यामनेककोटिसारः श्रेष्ठिपुत्रः शक्तिकुमारो नामासीत् ।

सो ऽष्टादशवर्षदेशीयश्चिन्तामापेदे-"नास्त्यदाराणामनुगुणदाराणां वा सुखं नाम ।

तत्कथं नु गुणवद्विन्देयं कलत्रम्ऽ ति ।

अथ वरप्रत्ययाहृतेषु दारेषु यादृच्छिकीं संपत्तिमनभिसमीक्ष्य कार्तान्तिको नाम भूत्वा वस्त्रान्तपिनद्धशालिप्रस्थो भुवं बभ्राम ।

"लक्षणज्ञो ऽयम्ऽ इत्यमुष्मै कन्याः कन्यावन्तः प्रदर्शयांबभूवुः ।

यां काचिल्लक्षणवतीं सवर्णां कन्यां दृष्ट्वा स किल स्म ब्रवीति-"भद्रे, शक्नोपि किमनेन शालिप्रस्थेन गुणवदन्नमस्मानभ्यवहारयितुम्ऽ इति ।

स हसितावधूतो गृहाद्गृहं प्रविश्याभ्रमत् ।

एकदा तु शिबिषु पट्टने सह पितृब्यामवसितमहर्धिमवशीर्णभवनसारां धात्र्या प्रदर्श्यमानां काचन विरलभूषणां कुमारीं ददर्श ।

अस्यां संसक्तचक्षुश्चातर्कयत्-"अस्याः खलु कन्यकायाः सर्व एवावयवा नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्घा न विकटा मृजावन्तश्च ।

रक्ततलाङ्गुलीयवमत्स्यकमलकलशाद्यनेकपुण्यलेखालाञ्छितौ करौ, समगुल्फसंधी मांसलावशिरालौ चाङ्घ्री, जङ्घे चानुपूर्ववृत्ते, पीवरोरुग्रस्ते इव दुरुपलक्ष्ये जानुनी, सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः तनुतरमीषन्निम्नं गम्बीरं नाभिमण्डलम्, वलित्रयेण चालङ्कृतमुदरम्, उरोभागव्यापिनावुन्मग्नचूचुकौ विशालारम्भशोभिनौ पयोधरौ, धनधान्यपुत्रभूयस्त्वचिह्नलेखालाञ्छिततले स्निग्धोदग्रकोमलनखमणी ऋज्वनुपूर्ववृत्तताम्राङ्गुली संन्नतांसदेशेसौकुमार्यवत्यौ निमग्नपर्वसंधी च बाहुलते, तन्वी कम्बुवृत्तबन्धुरा च कन्धरा, वृत्तमध्यविभक्तरागाधरम्, असंक्षिप्तचारुचिबुकम्, आपूर्णकठिनगण्डमण्डलम्, संगतानुवक्रनीलस्निग्धभ्रूलतम्, अनतिप्रौढतिलकुसुमसदृशनासिकम्, अत्यसितधवलरक्तत्रिभागभासुरमधुराधीरसंचारमन्थरायतेक्षणम्, इन्दुशकलसुन्दरललाटम्, इन्द्रनीलशिलाकाररम्यालकपङ्क्ति द्विगुणकुण्डलितम्लाननालीकनालललितलम्बश्रवणपाशयुगलमाननकमलम्, अनतिभङ्गुरो बहुलः पर्यन्ते ऽप्यकपिलरुचिरायामवानेकैकनिसर्गसमस्निग्धनीलो गन्धग्राही च मूर्धजकलापः ।

सेयमाकृतिर्न व्यबिचरति शीलम् ।

आसज्जति च मे हृदयमस्यामेव ।

तत्परीक्ष्यैनामुद्वहेयम् ।

अविमृश्यकारिणां हि नियतमनेकाः पतन्त्यनुशयपरम्पराःऽ इति स्निग्धदृष्टिराचष्ट-"भद्रे, कच्चिदस्ति कौशलं शालिप्रस्थेनानेन संपन्नमाहारमस्मानभ्यबहारयितुम्ऽ इति ।

ततस्तया वृद्धदासी साकूतमालोकिता ।

तस्य हस्तात्प्रस्थमात्रं धान्यमादाय क्वचिदलिन्दोद्देशे सुसिक्तसंमृष्टे दत्तपादशौचमुपावेशयत् ।

साकन्या तान् गन्धशालीन्संक्षुद्य मात्रया विशोष्यातपे मुहुर्मुहुः परिवर्त्य स्थिरसमाया भूमौ नालीपृष्टेन मृदुमृदु घट्टयन्ती तुषैरखण्डैस्तण्डुलान्पृथक्चकार ।

जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।

जगाद च धात्रीम्-"मातः, एभिस्तुषैरर्थिनो भूषणमृजाक्रियाक्षमैः स्वर्णकाराः ।

तेभ्य इमान्दत्त्वा लब्धाभिः काकिणीभिः स्थिरतराण्यनत्यार्द्राणि नातिशुष्काणि काष्ठानि मितंपचां स्थालीमुभे शरावे चाहरऽ इति ।

तथाकृते तया तांस्तण्डुलाननतिनिम्नोत्तानविस्तीर्णकुक्षौ ककुभोलूखले लोहपत्रवेष्टितमुखेन समशरीरेण विभाव्यमानमध्यतानवेन व्यायतेन गुरुणा खादिरेण मुसलेन चतुरललितक्षेपपणोत्क्षेपणायासितभुजमसकृदङ्गुलीभिरुद्धृत्योद्धृत्यावहत्य शूर्पशोधितकणकिंशारुकांस्तण्डुलानसकृदद्भिः प्रक्षाल्य क्वथितपञ्चगुणे जले दत्तचुल्लीपूजा प्राक्षिपत् ।

प्रश्लथावयवेषु प्रस्फुरत्सु तण्डुलेषु मुकुलावस्थामतिवरतमानेषु संक्षिप्यानलमुपहितमुखपिधानया स्थाल्यान्नमण्डमगालयत् ।

दर्व्या चावघट्य मात्रया परिवर्त्य समपक्वेषु सिक्थेषु तां स्थालीमधोमुखीमवातिष्ठिपत् ।

इन्धनान्यन्तःसाराण्यम्भसा समभ्युक्ष्य प्रशमिताग्नीनि कृष्णाङ्गारीकृत्य तदर्थिभ्यः प्राहिणोत् ।

"एभिर्लब्धाः काकिणीर्दत्त्वा शाकं धृतं दधि तैलमामकलं चिञ्चाफलं च यथालाभमानयऽ इति ।

तथानुष्ठिते च तया द्वित्रानुपदंशानुपपाद्य तदन्नमण्डमार्द्र वालुकोपहितनवशरावगतमिति मृदुना तालवृन्तानिलेन शीतलीकृत्य सलवणसंभारं दत्ताङ्गारधूपवासं च संपाद्य, तदप्यामलकं श्लक्ष्णपिष्टमुत्पलगन्धि कृत्वा धात्रीमुखेन स्नानाय तमचोदयत् ।

तया च स्नानशुद्धया दत्ततैलामलकः क्रमेण सस्नौ ।

स्नातः सिक्तमृष्टे कुट्टिमे फलकमारुह्य पाण्डुहरतस्य त्रिभागशेषलूनस्याङ्गणकदलीपलाशस्योपरि दत्तशरावद्वयमार्द्रमभिमृशन्नतिष्ठत् ।

सा तु तां पेयामेवाग्रे समुपाहरत् ।

पीत्वा चापनीताध्वक्लमः प्रहृष्टः प्रक्लिन्नसकलगात्रः स्थितो ऽभूत् ।

ततस्तस्य शाल्योदनस्य दर्वीद्वयं दत्त्वा सर्पिर्मात्रां सूपमुपदंशं चोपजहार ।

इमं च दध्ना च त्रिजातकावचूर्णितेन सुरभिशीतलाभ्यां च कालशेयकाञ्जिकाभ्यां शेषमन्नमभोजयत् ।

सशेष एवान्धस्यसावतृष्यत् ।

अयाचत च पानीयम् ।

अथ नवभृङ्गारसंभृतमगुरुधूपधूपितमभिनवपाटलाकुसुमवसितमुत्फुल्लोत्पलग्रथितसौरभं वारि नालीधारात्मना पातयांबभूव ।

सो ऽपि मुखोपहितशरावेण हिमशिशिरकणकरालितारुणायमानाक्षिपक्ष्मा धारारवाभिनन्दितश्रवणः स्पर्शसुखोद्भिन्नरोमाञ्चकर्कशकपोलः प्रवालोत्पीडपरिमलफुल्लघ्राणारन्ध्रो माधुर्यप्रकर्षावर्जितरसनेन्द्रियस्तदच्छं पानीयमाकण्ठं पपौ ।

शिरःकम्पसंज्ञावारिता च पुनरपरकरकेणाचमनमदत्त कन्या ।

वृद्धया तु तदुच्छिष्टमपोह्य हरितगोमयोपलिप्ते कुट्टिमे स्वमेवोत्तरीयकर्पटं व्यवधाय क्षणमशेत ।

परितुष्टश्च विधिवदुपयम्य कन्यां निन्ये ।

नीत्वैतदनपेक्षः कामपि गणिकामवरोधमकरोत् ।

तामपयसौ प्रियसखीमिवोपाचरत् ।

पतिं च दैवतमिव मुक्ततनद्रा पर्यचरत् ।

गृहकार्याणि चाहीनमन्वतिष्ठत् ।

परिजनं च दाक्षिण्यनिधिरात्माधीनमकरोत् ।

तद्गुणवशीकृतश्च भर्ता सर्वमेव कुटुम्बं तदायत्तमेव कृत्वा तदेकाधीनजीवितशरीरस्त्रिवर्गं निर्ववेश ।

तद्ब्रवीमि-"गृहिणः प्रियहिताय दारगुणाःऽ इति ।

ततस्तेनानुयुक्तो निम्बवतवृत्तमाख्यातवान्-"अस्ति सौराष्ट्रेषु वलभी नाम नगरी ।

तस्यां गुहगुप्तनाम्नो गुह्यकेन्द्रतुल्यविभवस्य नाविकपतेर्दुहिता रतनवती नाम ।

तां किल मधुमत्याः समुपागम्य बलभद्रो नाम सार्थवाहपुत्रः पर्यणैषीत् ।

तयापि नववध्वा रहसि रभसविघ्नितसुरतसुखो झटिति द्वेषमल्पेतरं बबन्ध ।

न तां पुनर्द्रष्टुमिष्टवान् ।

तद्गृहागमनमपि सुहृद्वाक्यशतातिवर्ती लज्जया परिजहार ।

तां च दुर्भगां तदाप्रभृत्येव "नेयं रत्नवती, निम्बवती चेयम्ऽ इति स्वजनः परिजनश्च परिबभूव ।

गते च कस्मिंश्चित्कालान्तरे सा त्वनुतप्यमाना "का मे गतिःऽ इति विमृशन्ती कामपि वृद्धप्रव्राजिकां मातृस्थानीयां देवशेषकुसुमैरुपस्थितामपश्यत् ।

तस्याः पुरो रहसि सकरुणं रुरोद ।

तयाप्यश्रुमुख्या बहुप्रकारमनुनीय रुदितकारणं पृष्टा त्रपमाणापि कार्यगौरवात्कथंविव्रवीत्-"अम्ब, किं ब्रवीमि दौर्भाग्यं नाम जीवन्मरणमेवाङ्गनानाम्, विशेषतश्च कुलवधूनाम् ।

तस्याहमस्म्युदाहरणभूता ।

मातृप्रमुखो ऽपि ज्ञातिवर्गो मामवज्ञयैव पश्यति ।

तेन सुदृष्टां मां कुरु ।

न चेत्त्यजेयमद्यैव निष्प्रयोजनान्प्राणान् ।

आविरामाच्च मे रहस्यं नाश्राव्यम्ऽ इति पादयोः पपात ।

सैनामुत्थाप्योद्वाष्पोवाच-"वत्से, माध्यवस्य साहसम् ।

इयमस्मि त्वन्निदेशवर्तिनी ।

यावति मयोपयोगस्तावति भवाम्यनन्याधीना ।

यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पाललौकिकाय कल्याणाय ।

नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन शीलेन जात्या चैवंभूतया समनुगता सती अस्मादेव भर्तृद्वेष्यतां गतासि ।

यदि कश्चिदस्त्युपायः पतद्रोहप्रतिक्रियायै दर्शयामुम्, मतिर्हि ते पटीयसीऽ इति ।

अथासौ कथञ्चित्क्षणमधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्वमवोचत्-"भगवति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानाम् ।

अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किञ्चिदाचरणीयम् ।

अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते ।

तस्य कन्या कनकवती नाम मत्समानरूपावयवया ममातिस्निग्धा सखी ।

तया सह तद्विमानहर्म्यतले ततो ऽपि द्विगुणमण्डिता विहरिष्यामि ।

त्वया तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनावेयः ।

समीपगतेषु च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम् ।

अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि-"पुत्र, तवेयं भार्यासखी निधिपतिदत्तस्य सर्वश्रेष्ठिमुख्यस्य कन्या कनकवती नाम ।

त्वामियमनवस्थो निष्करुणश्चेति रत्नवतीनिमित्तमत्यर्थं निन्दति ।

तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्ऽ इति ।

स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मां बद्धाञ्जलि याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति ।

"तेन रन्ध्रेणोपश्लिष्य रागमुज्ज्वलीकृत्य यथासा कृतसङ्केतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयम्ऽ इति ।

हर्षाभ्युतेपया चानया तथैव संपादितम् ।

अथैतां कनकवतीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीरन्ध्रे तमसि प्रावसत् ।

सा तु तापसी वार्तामापादयत्-"मन्देन मया निर्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः ।

तदत्रैव संसृष्टो जिवितुं जिह्नेमीति बलभद्रः पूर्वेद्युर्मामकथयत् ।

नूनमसौ तेन नीता व्यक्तिश्चाचिराद्भविष्यतिऽ इति ।

तच्छ्रुत्वा तद्बान्धवास्तदन्वेषणां प्रति शिथिलयत्नास्तस्थुः ।

रत्नवती तु मार्गे काञ्चित्पण्यदासीं संगृह्य तयोह्यमानपाथेयाद्युपस्करा खटकपुरमगमत् ।

अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्वनमुपार्जयत् ।

पौराग्रगण्यश्चासीत् ।

परिजनश्च भूयानर्थवशात्समाजगाम ।

ततस्तां प्रथमदासीम् "न कर्म करोषि, दृष्टं मुष्णासि, अप्रियं ब्रवीषिऽ इति परुषमुक्त्वा बह्वताडयत् ।

चेटी तु प्रसादकालोपाख्यातरहस्यस्य वृत्तान्तैकदेशमात्तरोषा निर्बिभेद ।

तच्छुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसंनिधौ निधिपतिदत्तस्य कन्यां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः ।

तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्ऽ इति नितरामभर्त्स्यत ।

भीतं च बलभद्रमभिजगाद रत्नवती-"न भेतव्यम् ।

ब्रूहि, नेयं निधिपतिदत्तकन्या कनकवती ।

बलभ्यामेव गृहगुपतदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा ।

न चेत्प्रतीथ प्रणिधिं प्रहिणुतास्या बन्धुपार्शवम्ऽ इति ।

बलभद्रस्तु तथोक्त्वा श्रेणीप्रातिभाव्येन तावदवातिष्ठत यावत्तत्पुरवृद्धलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहितरमतिप्रीतः प्रत्यनैषीत् ।

तथा दृष्ट्वा रत्नवतीं कनकवतीति भावयतस्तस्यैव बलभद्रस्यातिवल्लभा जाता ।

तद्व्रवीमि-"कामो नाम संकल्पःऽ इति ।

तदनन्तरमसौ नितम्बवतवृत्तान्तमप्राक्षीत् ।

सो ऽहमब्रवम्-"अस्ति शूरसेनेषु मथुरा नाम नगरी ।

तत्र कश्चित्कुलपुत्रः कलासु गणिकासु चातिरक्तः मित्रार्थं स्वभुजमात्रनिर्व्यूढानेककलहः, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्यवात्सीत् ।

स चैकदा कस्यचिदागन्तोश्चित्रकरस्य हस्ते चित्रपटं ददर्श ।

तत्र काचिदलेख्यगता युवतिरालोकमात्रेणैव कलहकण्ठकस्य कामातुरं चेतश्चकार ।

स च तमब्रवीत्-"भद्र, विरुद्धमिवैतत्प्रतिभाति यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नम्रता, पाणअडुरा च मुखच्छविः, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः ।

न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य वेण्यादेरदर्शनात् ।

लक्ष्म चैतद्दक्षिणपार्श्ववर्ति ।

तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुमर्हतिऽ इति ।

स तमभिप्रशस्याशंसत्-"सत्यमिदम् ।

अवन्तिपुर्यामुज्जयिन्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा सौन्दर्यविस्मितेन मयैवमालिखिताऽ इति ।

स तदैवोन्मनायमानसतदर्शनाय परिवव्राजोज्जयिनीम् ।

भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श ।

दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्येः श्मशानरक्षामयाचत ।

अलभत च ।

तत्र लब्धैश्च शवावगुण्ठनपटादिभिः कामप्यर्हन्तिकां नाम श्रमणिकामुपासांचक्रे ।

तन्मुखेन च नितम्बवतीमुपांशु मन्त्रयामास ।

सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे ।

श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि दूतिकामशिक्षयत्-"भूयो ऽप्युपतिष्ठ सार्वाहभार्याम् ।

ब्रूहि चोपह्वरे संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क्व घटते ।

एतदपि त्वामष्युदारया समृद्ध्या रूपेणातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापल स्पृष्टं न वेति परीक्षा कृता ।

तुष्टास्मि तथैवमदुष्टभावतया ।

त्वामिदानीमुत्पन्नापत्यां द्रष्टुमिच्छामि ।

भर्ता तु भवत्याः केनचिद्ग्रहेणाधिष्ठितः पाण्डुरोगदुर्बलो भोगे चासमर्थः स्थितो ऽभूत् ।

न च शक्यं तस्य विघ्नमप्रतिकृत्यापत्यमस्माल्लब्धुम् ।

अतः प्रसीद ।

वृक्षवाटिकामेकाकिनी प्रविश्य मदुपनीतस्य कस्याचिन्मन्त्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रितेन प्रणयुकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि ।

उपर्यसावुत्तमधातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति ।

अनुवर्तिष्यते देवीमिवात्र भवतीम् ।

नात्र शङ्का कार्याऽ इति ।

सा तथोक्ता व्यक्तमभ्युपैष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्ऽ इति ।

सा तथैवोपग्राहितवती ।

सो ऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पाद परामृशन्निव हेमनूपुरमेकमाक्षिप्य छुरिकयोरुमूले किञ्चिदालिख्य द्रुततरमपासरत् ।

सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिधांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनमामयापदेशादपरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये ।

स धूर्तः "निक्रेष्येऽ इति तेन नूपुरेण तमनन्तकीर्तिमुपाससद ।

स दृष्ट्वा " मम गृहिण्या एवैष नूपुरः, कथमयमुपलब्धस्त्वयाऽ इति तमब्रुवाणं निर्बन्धेन पप्रच्छ ।

स तु "वणिग्ग्रमस्याग्रे वक्ष्यामिऽ इति स्थितो ऽभूत् ।

पुनरसौ गृहिण्यै "स्वनूपुरयुगलं प्रेषयऽ इति संदिदेश ।

स च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रभ्रष्टो ममैकः प्रशिथिलबन्धो नूपुरः ।

सो ऽद्याप्यन्विष्टो न दृष्टः स पुनरयं द्वितीय इत्यपरं प्राहिणोत् ।

अनया च वार्तयामुं पुरस्कृत्य स वणिक् वणिग्जनसमाजमाजगाम ।

स चानुयुक्तो धूर्तः सविनयमावेदयत्--"विदितमेव खलु वः, यथाहं युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि ।

लुब्धाश्च कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपिश्मशानमधिशये ।

अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्ती श्यामाकारां नारीमपश्यम् ।

अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया किञ्चिदुल्लिखितम् ।

एव च नूपुरश्चरणादाक्षिप्तः ।

तावत्येव द्रुतगतिः सा पलायिष्ट ।

सो ऽयमस्यागमः ।

परं भवन्तः प्रमाणम्ऽ इति ।

विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् ।

भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य कर्तुकामा तेन धूर्तेन नक्तमगृह्यत ।

अनुनीता च सुन्दरि, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः ।

तत्प्रसीदानन्यशरणायास्मै दासजनायऽ इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् ।

तदिदमुक्तम्-"दुष्करसाधनं प्रज्ञाऽ इति ।

इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् ।

अस्मन्नेव क्षणे नातिप्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् ।

अहं तु "किं न्विदम्ऽ इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् ।

कथमपहरत्यकामामपि स्त्रियमनाचारो नैरृतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये ।

स तु मत्संबन्धी ब्रह्माराक्षसः "तिष्ठ तिष्ठ पाप, क्वापहरसिऽ इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत ।

तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहषिम् ।

उपगृह्य च वेषमानां संमीलिताक्षीं मदङ्गस्पर्शसुखोनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतरयन्नतिष्ठम् ।

तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् ।

पुनरहमतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरे ऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् ।

सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्रत्यभिज्ञा सकरुमरोदीत् ।

अवादीच्च-"नाथ, त्वद्दर्शनादुषोढरागा तस्मिन्कन्दुकोत्सवे पुनःसख्या चन्द्रसेनाय त्वत्कथाभिरेव समाश्वासितास्मि ।

त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भात्रा भीमधन्वनाऽ इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमम् ।

तत्र च मामचकमत कामरूप एष राक्षसाधम ।

सो ऽयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् ।

अत्रैवमवसितो ऽभूत् ।

"अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता ।

भद्रं तवऽ इति ।

श्रुत्वा च तया सहावरुह्य, नावमध्यारोहम् ।

मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् ।

अवरूढाश्च वयमश्रमेण "तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्यपतिर्निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु प्रतिष्ठते ।

सह तेन मर्तुमिच्छत्यनन्यनाथो ऽनुरक्तः पौरवृद्धलोकःऽ इत्यश्रुमुखीनां प्रजानामाक्रन्दमशृणुम् ।

अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पितवान् ।

प्रीतेन तेन जामाता कृतो ऽस्मि दामालिप्तेश्वरेण ।

तत्पुत्रो मदनुजीवा जातः ।

मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् ।

ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्यं भर्तुरतव दर्शनोत्सवसुखमनुभवामिऽ इति ।

श्रुत्वा "चित्रेयं दैवगतिः ।

अवसरेषु पुष्कलः पुरुषकार-ऽ इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर्निरोष्ठ्यवर्णमात्मचरितमाचचक्षे ।। दकुच_,६ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः



एक टिप्पणी भेजें

0 टिप्पणियाँ