जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः

  

 

सप्तमोच्छ्वासः

दकुच २,

राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः कदाचित्कलिङ्गोन ।

कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थानसंसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निपद्य निद्रालीढदृष्टिरशयिषि ।

गलति च कालरात्रिशिखण्डजालकालान्धकारे, चलितरक्षिसि क्षरितनीहारे निजनिलयनिलीननिः शेषजने नितान्तशीते निशीथे घनतरसालशाखान्तरालनिर्ह्रादिनि नेत्रनिंसिनीं निद्रां निगृह्णत्, कर्णदेशं गतं "कथं खलेनानेन दग्धसिद्धेन रिंरसाकाले निदेशं दित्सता जन एष रागेणानर्गलेनार्दित इत्थं खलीकृतः ।

क्रियेताम्याणकनरेन्द्रस्य केनचिदनन्तशक्तिना सिद्ध्यन्तरायऽ इति किङ्करस्य किङ्कर्याश्चातिकारतरं रटितम् ।

तदाकर्ण्य "क एष सिद्धः, किं चानेन किङ्करेण करिष्यतेऽ इति दिदृक्षाक्रान्तहृदयः किङ्करगतया दिशा किञ्चिदन्तरं गतस्तरलतरनरास्थिशकलरचितालङ्काराक्रान्तकायम्, दहनदग्धकाष्ठनिष्ठाङ्गाररजःकृताङ्गरागम्, तडिल्लताकारजटाधरम्, हिरण्यरेतस्यरण्यचक्रान्धकारराक्षसे क्षणगृहीतनानेन्धनग्रासचञ्चदर्चिषि दक्षिणेतरेण करेण तिलसिद्धार्थकादीन्निरन्तरचटचटायितानाकिरन्तं कञ्चिदद्राक्षम् ।

तस्याग्रे स कृताञ्जलिः किङ्करः "किं करणीयम्, दीयतां निदेशःऽ इत्यतिष्ठत् ।

आदिष्टश्चायं तेनातिनिकृष्टाशयेन-"गच्छ, कलिङ्गराजस्य कर्दनस्य कन्यां कनकलेखां कन्यागृहादिहानयऽ इति ।

स च तथाकार्षित् ।

ततश्चैनां त्रासेनालधीयसास्रजर्जरेण च कण्ठेन रणरणिकागृहीतेन च हृदयेन "हा तात, हा जननिऽ ति क्रन्दन्तीं कीर्णग्लानशेखरस्रजि शीर्णनहने शिरसिजानां संचये निगृह्यासिना शिलाशितेन शिरश्चिकर्तिषयाचेष्टत ।

झटिति चाच्छिद्य तस्य हस्तात्तां शस्त्रिकां तया निकृत्य तस्य तच्छिरः सजटाजालम्, निकटस्थस्य कस्यचिज्जीर्णसालस्य स्कन्धरन्ध्रेन्यदधाम् ।

तन्निध्याय हृष्टतरः स राक्षसः क्षीणाधिरकथयत्-"आर्य, कदर्यस्यास्य कदर्थनान्न कदाचिन्निद्रायाति नेत्रे ।

तर्जयति त्रासयति च अकृत्ये चाज्ञां ददाति ।

तदत्र कल्याणराशिना साधीयः कृतम् ।

यदेष नरकाकः कारणानां नारकिणां रसज्ञानाय नीतः शीतेतरदीधितिदेहजस्य नगरम्, तदत्र दयानिधेरनन्ततेजसस्ते ऽयं जनः काञ्चिदाज्ञां चिकीर्षति ।

आदिश, अलं कालहरणेनऽ इत्यनंसीत् ।

आदिशं च तम्-"सखे, सैषा सज्जनाचरिता सरणिः, यदणीयसिकारणे ऽनणीयानादरः संदृश्यते ।

न चेदिदं नेच्छसि सेयं संनताङ्गयष्टिरक्लेशार्हासत्यनेनाकृत्यकारिणात्यर्थं क्लेशिता, तन्नयैनां निजनिलयम् ।

नान्यदितः किञ्चिदस्ति चित्ताराधनं नःऽ इति ।

अथ तदाकर्ण्य कर्णशेखरनिलीननीलनीरजायितां धीरतलतारकां दृशं तिर्यक्किञ्चिदञ्चितां संचारयन्ती, सलिलचरकेतनशरासनानतां चिल्लिकालतां ललाटरङ्गस्थलीनर्तकीं लीलालसं लालयन्ती, कण्टकितरक्तगण्डलखा, रागलज्जान्तरालचारिणी, चरणाग्रेण तिरश्चीननखार्चिश्चन्द्रिकेण धरणितलं साचीकृताननसरसिजं लिखन्ती, दन्तच्छदकिसलयलङ्घिना हर्षास्रसलिलधाराशीकरकणजालक्लेदितस्य स्तनतटचन्दनस्यार्द्रतां निरस्यतास्यान्तरालनिः-सृतेन तनीयसानिलेन हृदयलक्ष्यदलनदक्षिणरतिसहचरशरस्यदायितेन तरङ्गितदशनचन्द्रिकाणि कानिचिदेतान्यक्षराणि कलकण्ठीकलान्यसृजत्-"आर्य, केन कारणेनैनं दासजनं कालहस्तादाच्छिद्यानन्तरं रागानिलचालितरणरणिकातरङ्गिण्यनङ्गसागरे किरसि ।

यथा ते चरणसरसिजरजःकणिका तथाहं चिन्तनीया ।

यद्यस्ति दया ते ऽत्रजने, अनन्यसाधारणः करणीयः स एव चरणाराधनक्रियायाम् ।

यदि च कन्यागाराध्यासनेरहस्यक्षरणादनर्थ आशङ्क्येत, नैतदस्ति ।

रक्ततरा हि नस्तत्रसख्यश्चेट्यश्च ।

यता न कश्चिदेतज्ज्ञास्यति तथा यतिष्यन्तेऽ इति ।

स चाहं देहजेनाकर्णाकृष्टसायकासनेन चेतस्यतिनिर्दयं ताडितस्तत्कटाक्षकालायसनिगडगाढसंयतः किङ्करानननिहितदृष्टिरगादिषम्-"यथेयं रथचरणजघना कथयति तथा चेन्नाचरेयम्, नयेत नक्रकतेनः क्षणेनैकेनाकीर्तनीयां दशाम् ।

जनं चैनं सह नयानया कन्यया कन्यागृहं हरिणनयनयाऽ इति ।

नीतश्चाहं निशाचरेण शारदजलधरजालकान्ति कन्यकानिकेतनम्ष तत्र च काञ्चित्कालकलां चन्द्राननानिदेशाच्चन्द्रशालैकदेशे तद्दर्शनचलितधृतिरतिष्ठम् ।

सा च स्वच्छन्दं शयानाः करतलालससंघटनापनीतनिद्राः काश्चिदधिगतार्थाः सखीरकार्षीत् ।

अथागत्य ताश्चरणनिहितशिरसः क्षरदस्रकरालितेक्षणा निजशेखरकेसराग्रसंलग्नपट्चरणगणरणितसंशयितकलग् इरः शनैरकथयन्-"आर्य, यदत्यादित्यतेजसस्त एषा तयनलक्ष्यतां गता, ततः कृतान्तेन गृहीता ।

दत्ता चेयं चित्तजेन गरीयसा साक्षीकृत्य रागानलम् ।

तदनेनाश्चर्यरत्नेन नलिनाक्षस्य ते रत्नशैलशिलातलस्थिरं रागतरलेनालङ्क्रियातां हृदयम् ।

अस्याश्चरितार्थं स्तनतटं गाढालिंङ्गनैः सदृशतरस्य सहचरस्य चऽ इति ।

ततः सखीजनेनातिदक्षिणेन दृढतरीकृतस्नेहनिगलस्तया संनताङ्ग्या संगत्यारंसि ।

अथ कदाचिदायासितजायारहितचेतसि, लालसालिलङ्घनग्लानघनकेसरे, राजदरण्यस्थलीललाटालीलायिततिलके, ललितानङ्गराजाङ्गीकृतनिर्निद्रकर्णिकारकाञ्चनच्छत्रे, दक्षिणदहनसारथिरयाहृतसहकारचञ्चरीककलिके, कालाण्डजकण्ठरागरक्तरक्ताधरारतिरणाग्रसंनाहशीलिनि, शालिनकन्यकान्तःकरणसंक्रान्तरागलङ्घितलज्जे, दर्दुरगिरितटचन्दनाश्लेषशीतलानिलाचार्यदत्तनानालतानृत्यलीले काले, कलिङ्गराजः सहाङ्गनाजनेन सह च तनयया सकलेन च नगरजनेन दश त्रीणि च दिनादि दिनकरकिरणजाललङ्घनीये, रणदलिसङ्घलङ्घितनतलताग्रकिसलयालीढसैकततटे, तरलतरङ्गशीकरासारसङ्गशीतले सागरतीरकानने क्रीजारसजातासक्तिससीत् ।

अथ संततगीतसंगीतसंगताङ्गनासहस्रशृङ्गारहलानिरर्गलानङ्गसंघर्षहर्षितश्च रागतृष्णैकतन्त्रस्तत्र रन्ध्र आन्ध्रनाथन जयसिंहेनसलिलतरणसाधनानीतेनानेनानेकसंख्येनानीकेन द्रागागत्यागृह्यत सकलत्रः सा द्यानीयत त्रासतरलाक्षी दयिता नः सह सखीजनेन कनकलेखा ।

तदाहं दाहेनानङ्गदहनजनितेनान्तरिताहारचिन्तश्चिन्तयन्दयितां गलितगात्रकान्तिरित्यतर्कयम्-"गता सा कलिङ्गराजतनया जनयित्रा जनयित्र्या च सहारिहस्तम् ।

निरस्तधैर्यस्तां स राजा नियतं संजिघृक्षेत् ।

तदसहा च सा सती गररसादिना सद्यः संतिष्ठेत ।

तस्यां च तादृशीं दशां गतायां जनस्यास्यानन्यजेन हन्येत शरीरधारणा ।

सा का स्याद्गतिःऽ इति ।

अत्रान्तर आन्ध्रनगरादागच्छन्नग्रजः कश्चिदैक्ष्यत ।

तेन चेयं कथा कथिता-"यथा किल जयसिंहेनानेकनिकारदततसंघर्षणजिघांसितः स कर्दनः कनकलेखादर्शनैधितेन रागेणारक्ष्यत ।

सा च दारिका यक्षेण केनचिदधिष्ठिता न तिष्ठत्यग्रे नरान्तरस्य ।

आयस्यति च नरेन्द्रसार्थसंग्रहणेन तन्निराकरिष्यन्नरेन्द्रो न चास्ति सिद्धिःऽ इति ।

तेन चाहं दर्शताशः शङ्करनृत्यरङ्गदेशजातस्य जरत्सालस्यत्कन्धरन्द्रान्तर्जटाजालं निष्कृष्य तेन जटिलतां गतः कन्थाचीरसंचयान्तरितसकलगात्रः कांश्चिच्छिष्यानग्रहीषम् ।

तांश्चनानाश्चर्यक्रियातिसंहिताज्जनादाकृष्टान्नचेलादित्यागान्नित्यहृष्टानकाष्रम् ।

अयासिषं च दिनैः कैश्चिदान्ध्रनगरम् ।

तस्य नात्यासन्ने सलिलराशिसदृशस्य कलहंसगणदलितनलिनदलसंहतिगलिताकिञ्जल्कशकलशारस्य सारसश्रेणिशेखरसय सरसस्तीरकानने कृतानिकेतनः स्थितः शिष्यजनकथितचित्रचेष्टाकृष्टसकलनागरजनाभिसंधानदक्षः सन्दिशिदिशीत्यकीर्त्ये जनेन-"य एष जरदरण्यस्थलीसरस्तीरे स्थण्डिलशायी यतिस्तस्य किल सकलानि सरहस्यानि सषडङ्गानि च छन्दांसिरसनाग्रे संनिहिताति, अन्यानि च शास्त्राणि, येन यानि न ज्ञायन्ते स तेषां तत्सकाशादर्थनिर्णयं करिष्यति ।

असत्येन नास्यास्यं संसृज्यते ।

सशरीरश्चैष दयाराशिः ।

एतत्संग्रहेणाद्य चिरं चरितार्था दीक्षा ।

तच्चरणरजः कणैः कैश्चनशिरसि कीर्णैरनेकस्यानेक आतङ्कश्चिरं चिकित्सकैरसंहार्यः संहृतः तदङ्घिक्षालनसलिलसेकैर्निष्कलङ्कशिरसां नश्यन्ति क्षणेनैकेनाखिलनरेन्द्रयन्त्रलङ्घिनश्चण्डतारा ग्रहाः ।

न तस्य शक्यं शक्तेरियत्ताज्ञानम् ।

न चास्याहङ्कारकणिकाऽ इति ।

सा चेयं कथानेकजनास्यसंचारिणी तस्य कनकलेखाधिष्ठानधनदाज्ञाकरनिराक्रियाक्रियातिसक्तचेतः क्षत्र्रियस्याकर्षणायाशकत् स चाहरहरागत्यादरेणातिगरीयसार्चयन्नर्थैश्च शिष्यान्संगृह्णन्निधिगतक्षणः कदाचित्काङ्क्षितार्थसाधनाय शनरैयाचिष्ट ।

ध्यानधीरः स्थानदर्शितज्ञानसंनिधिश्चैनं निरीक्ष्य निचाय्याकथयम्-"तात् स्थान एष हि यत्नः ।

तस्य हि कन्यारत्नस्य सकलकल्याणलक्षणैकराशेराधिगतिः क्षीरसागररशनालङ्कृताया गङ्गादिनदीसहस्रहारयाष्टिराजिताया धराङ्गनाया एवासादनाय साधनम् ।

न च स यक्षस्तदधिष्ठायी केनचिन्नरेन्द्रेण तस्या लीलाञ्चितनीलनीरजदर्शनाया दर्शनं सहते, तदत्र सह्यतां त्रीण्यहानि, यैरहं यतिष्येर्ऽथस्यास्य साधनायऽ इति ।

तथादिष्टे च हृष्टे क्षितीशे गते निशि निशि निर्निशाकरार्चिषि नीरन्ध्रान्धकारकणनिकरनिगीर्णदशदिशि निद्रानिगडितनिखिलजनदृशि निर्गतय जलतलनिलीनगाहनीयं नीरन्ध्रं कृच्छ्राच्छिद्रीकृतान्तरालं तदेकतः सरस्तटं तीर्थासंनिकृष्टं केनचित्खननसाधनेनाकार्षम् ।

घनशिलेष्टकाच्छन्नच्छिद्राननं तत्तीरदेशं जनैरशङ्कनीयं निश्चित्य, दिनादिस्ना ननिर्णिक्तगात्रश्च नक्षत्रसंतानहारयष्ट्यग्रग्रथितरत्नम् ।

क्षणदान्धकारगन्धहस्तिदारणैककेसारिणम्, कनकशैलशृङ्गरङ्गलास्यलीलानटम्, गगनसागरघनतरङ्गराजिलङ्घनैकनक्रम्, कार्याकार्यसाक्षिणम्, सहस्रार्चिषं सहस्राक्षदिगङ्गनाङ्गरागरागायितकिरणजालम्, रक्तनीरजाञ्जलिनाराध्य निजनिकेतनं न्यशिश्रियम् ।

याते च दिनत्रये, अस्तगिरिशिखरगैरिकतटसाधारणच्छये ।

अचलराजकन्यकाकदर्थनयान्तरिक्षाख्येन शङ्करशरीरेण संसृष्टायाः संध्याङ्गनायाः रक्तचन्दनचर्चितैकस्तनकलशदर्शनीये दिनाधिनाथे, जनाधिनाथः स आगत्य जनस्यास्य धरणिन्यस्तचरणनखकिरणच्छादितकिरीटः कृताञ्जलिरतिष्ठत् ।

आदिष्टश्च-"दिष्ट्या दृष्टेष्टसिद्धिः ।

इह जगति हि न निरीहं देहिनं श्रियः संश्रयन्ते ।

श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि ।

यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृतम्, यथेह ते ऽद्य सिद्धिः स्यात् ।

तदेतस्यां निसि गलादर्दायां गाहनीयम् ।

गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्याकार्या ।

ततश्च तटस्खलितजलस्थगितजलजखण्ढचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किञ्चिदारटितम् ।

शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्दकारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये ।

स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् ।

अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र संशयः ।

तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा च तीरात्र्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया ।

कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्तिऽ इति ।

तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहेरिच्छां च राज्ञा कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः ।

तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत-"राजन्, अत्र ते जनान्ते चिरं स्थितम्, न चैकत्र चिरस्थानं नः शस्तम् ।

कृतकृत्यश्चेह न द्रष्टासि ।

यस्य ते राष्ट्रे ग्रासाद्यासादितं तस्य ते किञ्चिदनाचर्य कार्यं गतिरार्यगर्ह्याऽ इति ।

तत्रैतच्चिरस्थानस्य कारणम् ।

तच्चाद्य सिद्धम् ।

गच्छ गृहान् ।

यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसिद्धये यतेथाःऽ इति ।

स किल कृतज्ञतां दर्शयन्-"असिद्धिरेषा सिद्धिः, यदसंनिधिरिहार्याणाम् ।

कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति ।

न च निषेधनीया गरीयसां गिरःऽ इति स्नानाय गृहानयासीत् ।

अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः ।

स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत ।

गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनतया तं तथा शयानं कन्धरायां कन्यता व्यग्रहीषम् ।

खरतरकालदण्डघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेनाजहात्स चेष्टाम् ।

ततश्चा कृष्य तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम् ।

सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणम् ।

गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्तनिद्रारतिरनैषम् ।

नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धधिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेर्ऽकचक्रे कृतकरणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्संनिधिनिषादिनः सहायानगाहिषम्-"दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयरयेन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतरदर्शनयिन्याकारान्तरस्य सिद्धिरासीत् ।

अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः ।

तदिदानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्यादररचितनृत्यगीताराधनानि क्रियन्ताम् ।

ह्नियन्तां च गृहादितः क्लेशनिरसनसहान्यर्थिसार्थैर्धनानिऽ इति ।

आश्चर्यरसीतिरेकहृष्टदृष्टयस्ते जय जगदीश, जयेन सातिशयं दश दिशः स्थगयन्निजेन यशसादिराजयशांसिऽ इत्यसकृदाशास्यारचयन्यथादिष्टाः क्रियाः ।

स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षि-"कच्चिदयं जनः कदाचिदासीद्दृष्टःऽ इति ।

अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा, रचिताञ्जलिः "नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशम् ।

कथं चैतत् ।

कथय, इति स्नेहनिर्यन्त्रणं शनैरगादीत् ।

अहं चास्यै कार्त्स्न्येनाख्याय, तदाननसंक्रान्तेन संदेशेन संजनय्यसहचर्या निरतिशयं हृदयाह्लादम्, ततश्चैतया दयितया निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्ध्रकलिङ्गराजराज्यशासी तस्यास्यारिणा लिलङ्खयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलङ्घितचेता जातःऽ इति ।

तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य "चित्रमिदं महामुनेर्वृत्तम् ।

अत्रैव खलु फलितमतिकष्टं तपः तिष्ठतु तावन्नर्म ।

हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम्ऽ इत्यभिधाय, पुनः "अवतरतु भवान्ऽ इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः ।। दकुच_,७ ।।

 

 

इति श्रीदण्डिनः कृतौ दशकुमारचरिते मन्त्रगुप्तचरितं नाम सप्तम उच्छ्वासः


एक टिप्पणी भेजें

0 टिप्पणियाँ