Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

महाभारते आदिपर्वम्




          ||१ महाभारते आदिपर्वम् ||

              अनुक्रमणीपर्व

                  १


नारायणं नमस्कृत्य नरं चैव नरोत्तमम् |

देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ||०||

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे | ००१ |

समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान् |

विनयावनतो भूत्वा कदाचित्सूतनन्दनः ||२||

तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः |

चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ||३||

अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः |

अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ||४||

अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु |

निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ||५||

सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च |

अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ||६||

कुत आगम्यते सौते क्व चायं विहृतस्त्वया |

कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ||७||


सूत उवाच||

जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः |

समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ||८||

कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः |

कथिताश्चापि विधिवद्या वैशम्पायनेन वै ||९||

श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः |

बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ||१०||

समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम् |

गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ||११||

पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ||११||

दिदृक्षुरागतस्तस्मात्समीपं भवतामिह |

आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ||१२||

अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः |

कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ||१३||

भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ||१३||

पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः |

इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ||१४||


ऋषय ऊचुः||

द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा |

सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ||१५||

तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः |

सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ||१६||

भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम् |

संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ||१७||

जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान् |

यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ||१८||

वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः |

संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ||१९||


सूत उवाच||

आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् |

ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ||२०||

असच्च सच्चैव च यद्विश्वं सदसतः परम् |

परावराणां स्रष्टारं पुराणं परमव्ययम् ||२१||

मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम् |

नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ||२२||

महर्षेः पूजितस्येह सर्वलोके महात्मनः |

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२३||

आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे |

आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ||२४||

इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम् |

विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ||२५||

अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः |

छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ||२६||

निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते |

बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ||२७||

युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते |

यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ||२८||

अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम् |

अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ||२९||

यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः |

ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ||३०||

प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये |

ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ||३१||

पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः |

विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ||३२||

यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा |

ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ||३३||

राजर्षयश्च बहवः सर्वैः समुदिता गुणैः |

आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ||३४||

संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात् |

यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ||३५||

यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम् |

पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ||३६||

यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये |

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ||३७||

एवमेतदनाद्यन्तं भूतसंहारकारकम् |

अनादिनिधनं लोके चक्रं सम्परिवर्तते ||३८||

त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च |

त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ||३९||

दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः |

सविता च ऋचीकोऽर्को भानुराशावहो रविः ||४०||

पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः |

देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ||४१||

सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः |

दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ||४२||

दश पुत्रसहस्राणि दशज्योतेर्महात्मनः |

ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ||४३||

भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः |

तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ||४४||

ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः |

सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ||४५||

भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् |

वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ||४६||

धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च |

लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ||४७||

इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च |

इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ||४८||

विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत् |

इष्टं हि विदुषां लोके समासव्यासधारणम् ||४९||

मन्वादि भारतं केचिदास्तीकादि तथापरे |

तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ||५०||

विविधं संहिताज्ञानं दीपयन्ति मनीषिणः |

व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ||५१||

तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम् |

इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ||५२||

पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः |

मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ||५३||

क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा |

त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ||५४||

उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च |

जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ||५५||

तेषु जातेषु वृद्धेषु गतेषु परमां गतिम् |

अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ||५६||

जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः |

शशास शिष्यमासीनं वैशम्पायनमन्तिके ||५७||

स सदस्यैः सहासीनः श्रावयामास भारतम् |

कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ||५८||

विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम् |

क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ||५९||

वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम् |

दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ||६०||

चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम् |

उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ||६१||

ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः |

अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ||६२||

इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम् |

ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ||६३||

नारदोऽश्रावयद्देवानसितो देवलः पितृन् |

गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ||६४||

दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः |

दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ||६५||

युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः |

माद्रीसुतौ पुष्पफले समृद्धे; मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ||६६||

पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च |

अरण्ये मृगयाशीलो न्यवसत्सजनस्तदा ||६७||

मृगव्यवायनिधने कृच्छ्रां प्राप स आपदम् |

जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः ||६८||

मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति |

धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ||६९||

तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः |

मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ||७०||

ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम् |

शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ||७१||

पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः |

पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ||७२||

तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा |

शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ||७३||

आहुः केचिन्न तस्यैते तस्यैत इति चापरे |

यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ||७४||

स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम् |

उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ||७५||

तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन् |

अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ||७६||

पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः |

आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ||७७||

तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः |

शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ||७८||

तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च |

न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ||७९||

युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन् |

धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ||८०||

गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च |

तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ||८१||

समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम् |

प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ||८२||

ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम् |

आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ||८३||

स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान् |

आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ||८४||

अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः |

युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ||८५||

सुनयाद्वासुदेवस्य भीमार्जुनबलेन च |

घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ||८६||

दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः |

मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ||८७||

समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम् |

ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ||८८||

विमानप्रतिमां चापि मयेन सुकृतां सभाम् |

पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ||८९||

यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात् |

प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ||९०||

स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च |

कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ||९१||

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः |

तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ||९२||

नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत |

द्यूतादीननयान्घोरान्प्रवृद्धांश्चाप्युपैक्षत ||९३||

निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम् |

विग्रहे तुमुले तस्मिन्नहन्क्षत्रं परस्परम् ||९४||

जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम् |

दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा ||९५||

धृतराष्ट्रश्चिरं ध्यात्वा सञ्जयं वाक्यमब्रवीत् ||९५||

शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि |

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ||९६||

न विग्रहे मम मतिर्न च प्रीये कुरुक्षये |

न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ||९७||

वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः |

अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत् ||९८||

मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम् ||९८||

राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः |

तच्चावहसनं प्राप्य सभारोहणदर्शने ||९९||

अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे |

निरुत्साहश्च सम्प्राप्तुं श्रियमक्षत्रियो यथा ||१००||

गान्धारराजसहितश्छद्मद्यूतममन्त्रयत् ||१००||

तत्र यद्यद्यथा ज्ञातं मया सञ्जय तच्छृणु |

श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ||१०१||

ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुषमित्युत ||१०१||

यदाश्रौषं धनुरायम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम् |

कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय सञ्जय ||१०२||

यदाश्रौषं द्वारकायां सुभद्रां; प्रसह्योढां माधवीमर्जुनेन |

इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ||१०३||

यदाश्रौषं देवराजं प्रवृष्टं; शरैर्दिव्यैर्वारितं चार्जुनेन |

अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ||१०४||

यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम् |

अन्वागतं भ्रातृभिरप्रमेयै; स्तदा नाशंसे विजयाय सञ्जय ||१०५||

यदाश्रौषं द्रौपदीमश्रुकण्ठीं; सभां नीतां दुःखितामेकवस्त्राम् |

रजस्वलां नाथवतीमनाथव; त्तदा नाशंसे विजयाय सञ्जय ||१०६||

यदाश्रौषं विविधास्तात चेष्टा; धर्मात्मनां प्रस्थितानां वनाय |

ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१०७||

यदाश्रौषं स्नातकानां सहस्रै; रन्वागतं धर्मराजं वनस्थम् |

भिक्षाभुजां ब्राह्मणानां महात्मनां; तदा नाशंसे विजयाय सञ्जय ||१०८||

यदाश्रौषमर्जुनो देवदेवं; किरातरूपं त्र्यम्बकं तोष्य युद्धे |

अवाप तत्पाशुपतं महास्त्रं; तदा नाशंसे विजयाय सञ्जय ||१०९||

यदाश्रौषं त्रिदिवस्थं धनञ्जयं; शक्रात्साक्षाद्दिव्यमस्त्रं यथावत् |

अधीयानं शंसितं सत्यसन्धं; तदा नाशंसे विजयाय सञ्जय ||११०||

यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान् |

तस्मिन्देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ||१११||

यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन |

स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ||११२||

यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत |

प्रश्नानुक्तान्विब्रुवन्तं च सम्य; क्तदा नाशंसे विजयाय सञ्जय ||११३||

यदाश्रौषं मामकानां वरिष्ठा; न्धनञ्जयेनैकरथेन भग्नान् |

विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ||११४||

यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्तामुत्तरामर्जुनाय |

तां चार्जुनः प्रत्यगृह्णात्सुतार्थे; तदा नाशंसे विजयाय सञ्जय ||११५||

यदाश्रौषं निर्जितस्याधनस्य; प्रव्राजितस्य स्वजनात्प्रच्युतस्य |

अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ||११६||

यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतो नारदस्य |

अहं द्रष्टा ब्रह्मलोके सदेति; तदा नाशंसे विजयाय सञ्जय ||११७||

यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम् |

यस्येमां गां विक्रममेकमाहु; स्तदा नाशंसे विजयाय सञ्जय ||११८||

यदाश्रौषं कर्णदुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य |

तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ||११९||

यदाश्रौषं वासुदेवे प्रयाते; रथस्यैकामग्रतस्तिष्ठमानाम् |

आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ||१२०||

यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम् |

भारद्वाजं चाशिषोऽनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ||१२१||

यदाश्रौषं कर्ण उवाच भीष्मं; नाहं योत्स्ये युध्यमाने त्वयीति |

हित्वा सेनामपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ||१२२||

यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर्गाण्डिवमप्रमेयम् |

त्रीण्युग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ||१२३||

यदाश्रौषं कश्मलेनाभिपन्ने; रथोपस्थे सीदमानेऽर्जुने वै |

कृष्णं लोकान्दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ||१२४||

यदाश्रौषं भीष्मममित्रकर्शनं; निघ्नन्तमाजावयुतं रथानाम् |

नैषां कश्चिद्वध्यते दृश्यरूप; स्तदा नाशंसे विजयाय सञ्जय ||१२५||

यदाश्रौषं भीष्ममत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |

शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ||१२६||

यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः |

भीष्मं कृत्वा सोमकानल्पशेषां; स्तदा नाशंसे विजयाय सञ्जय ||१२७||

यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेनार्जुनेन |

भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ||१२८||

यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानामनुलोमौ जयाय |

नित्यं चास्माञ्श्वापदा व्याभषन्त; स्तदा नाशंसे विजयाय सञ्जय ||१२९||

यदा द्रोणो विविधानस्त्रमार्गा; न्विदर्शयन्समरे चित्रयोधी |

न पाण्डवाञ्श्रेष्ठतमान्निहन्ति; तदा नाशंसे विजयाय सञ्जय ||१३०||

यदाश्रौषं चास्मदीयान्महारथा; न्व्यवस्थितानर्जुनस्यान्तकाय |

संशप्तकान्निहतानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३१||

यदाश्रौषं व्यूहमभेद्यमन्यै; र्भारद्वाजेनात्तशस्त्रेण गुप्तम् |

भित्त्वा सौभद्रं वीरमेकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ||१३२||

यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः |

महारथाः पार्थमशक्नुवन्त; स्तदा नाशंसे विजयाय सञ्जय ||१३३||

यदाश्रौषमभिमन्युं निहत्य; हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान् |

क्रोधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३४||

यदाश्रौषं सैन्धवार्थे प्रतिज्ञां; प्रतिज्ञातां तद्वधायार्जुनेन |

सत्यां निस्तीर्णां शत्रुमध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ||१३५||

यदाश्रौषं श्रान्तहये धनञ्जये; मुक्त्वा हयान्पाययित्वोपवृत्तान् |

पुनर्युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ||१३६||

यदाश्रौषं वाहनेष्वाश्वसत्सु; रथोपस्थे तिष्ठता गाण्डिवेन |

सर्वान्योधान्वारितानर्जुनेन; तदा नाशंसे विजयाय सञ्जय ||१३७||

यदाश्रौषं नागबलैर्दुरुत्सहं; द्रोणानीकं युयुधानं प्रमथ्य |

यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ; तदा नाशंसे विजयाय सञ्जय ||१३८||

यदाश्रौषं कर्णमासाद्य मुक्तं; वधाद्भीमं कुत्सयित्वा वचोभिः |

धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ||१३९||

यदा द्रोणः कृतवर्मा कृपश्च; कर्णो द्रौणिर्मद्रराजश्च शूरः |

अमर्षयन्सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४०||

यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन |

घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ||१४१||

यदाश्रौषं कर्णघटोत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम् |

यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ||१४२||

यदाश्रौषं द्रोणमाचार्यमेकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् |

रथोपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ||१४३||

यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये |

समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ||१४४||

यदा द्रोणे निहते द्रोणपुत्रो; नारायणं दिव्यमस्त्रं विकुर्वन् |

नैषामन्तं गतवान्पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ||१४५||

यदाश्रौषं कर्णमत्यन्तशूरं; हतं पार्थेनाहवेष्वप्रधृष्यम् |

तस्मिन्भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ||१४६||

यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणमुग्रम् |

युधिष्ठिरं शून्यमधर्षयन्तं; तदा नाशंसे विजयाय सञ्जय ||१४७||

यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत |

सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ||१४८||

यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन |

हतं सङ्ग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय सञ्जय ||१४९||

यदाश्रौषं श्रान्तमेकं शयानं; ह्रदं गत्वा स्तम्भयित्वा तदम्भः |

दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ||१५०||

यदाश्रौषं पाण्डवांस्तिष्ठमाना; न्गङ्गाह्रदे वासुदेवेन सार्धम् |

अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ||१५१||

यदाश्रौषं विविधांस्तात मार्गा; न्गदायुद्धे मण्डलं सञ्चरन्तम् |

मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ||१५२||

यदाश्रौषं द्रोणपुत्रादिभिस्तै; र्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् |

कृतं बीभत्समयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ||१५३||

यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम् |

क्रुद्धेनैषीकमवधीद्येन गर्भं; तदा नाशंसे विजयाय सञ्जय ||१५४||

यदाश्रौषं ब्रह्मशिरोऽर्जुनेन; मुक्तं स्वस्तीत्यस्त्रमस्त्रेण शान्तम् |

अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय सञ्जय ||१५५||

यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे |

द्वैपायनः केशवो द्रोणपुत्रं; परस्परेणाभिशापैः शशाप ||१५६||

शोच्या गान्धारी पुत्रपौत्रैर्विहीना; तथा वध्वः पितृभिर्भ्रातृभिश्च |

कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यमसपत्नं पुनस्तैः ||१५७||

कष्टं युद्धे दश शेषाः श्रुता मे; त्रयोऽस्माकं पाण्डवानां च सप्त |

द्व्यूना विंशतिराहताक्षौहिणीनां; तस्मिन्सङ्ग्रामे विग्रहे क्षत्रियाणाम् ||१५८||

तमसा त्वभ्यवस्तीर्णो मोह आविशतीव माम् |

सञ्ज्ञां नोपलभे सूत मनो विह्वलतीव मे ||१५९||

इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहुदुःखितः |

मूर्च्छितः पुनराश्वस्तः सञ्जयं वाक्यमब्रवीत् ||१६०||

सञ्जयैवङ्गते प्राणांस्त्यक्तुमिच्छामि माचिरम् |

स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे ||१६१||

तं तथावादिनं दीनं विलपन्तं महीपतिम् |

गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत् ||१६२||

श्रुतवानसि वै राज्ञो महोत्साहान्महाबलान् |

द्वैपायनस्य वदतो नारदस्य च धीमतः ||१६३||

महत्सु राजवंशेषु गुणैः समुदितेषु च |

जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः ||१६४||

धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः |

अस्मिँल्लोके यशः प्राप्य ततः कालवशं गताः ||१६५||

वैन्यं महारथं वीरं सृञ्जयं जयतां वरम् |

सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथौशिजम् ||१६६||

बाह्लीकं दमनं शैब्यं शर्यातिमजितं जितम् |

विश्वामित्रममित्रघ्नमम्बरीषं महाबलम् ||१६७||

मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च |

रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ||१६८||

ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम् |

चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा ||१६९||

इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा |

पुत्रशोकाभितप्ताय पुरा शैब्याय कीर्तिताः ||१७०||

तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः |

महारथा महात्मानः सर्वैः समुदिता गुणैः ||१७१||

पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाधृतिः |

अनेना युवनाश्वश्च ककुत्स्थो विक्रमी रघुः ||१७२||

विजिती वीतिहोत्रश्च भवः श्वेतो बृहद्गुरुः |

उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः ||१७३||

दम्भोद्भवः परो वेनः सगरः सङ्कृतिर्निमिः |

अजेयः परशुः पुण्ड्रः शम्भुर्देवावृधोऽनघः ||१७४||

देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः |

महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः ||१७५||

सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः |

जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुभव्रतः ||१७६||

बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः |

धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ||१७७||

अविक्षित्प्रबलो धूर्तः कृतबन्धुर्दृढेषुधिः |

महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ||१७८||

एते चान्ये च बहवः शतशोऽथ सहस्रशः |

श्रूयन्तेऽयुतशश्चान्ये सङ्ख्याताश्चापि पद्मशः ||१७९||

हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः |

राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तमाः ||१८०||

येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च |

माहात्म्यमपि चास्तिक्यं सत्यता शौचमार्जवम् ||१८१||

विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः |

सर्वर्द्धिगुणसम्पन्नास्ते चापि निधनं गताः ||१८२||

तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना |

लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्शोचितुमर्हसि ||१८३||

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः |

येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ||१८४||

निग्रहानुग्रहौ चापि विदितौ ते नराधिप |

नात्यन्तमेवानुवृत्तिः श्रूयते पुत्ररक्षणे ||१८५||

भवितव्यं तथा तच्च नातः शोचितुमर्हसि |

दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ||१८६||

विधातृविहितं मार्गं न कश्चिदतिवर्तते |

कालमूलमिदं सर्वं भावाभावौ सुखासुखे ||१८७||

कालः पचति भूतानि कालः संहरति प्रजाः |

निर्दहन्तं प्रजाः कालं कालः शमयते पुनः ||१८८||

कालो विकुरुते भावान्सर्वाँल्लोके शुभाशुभान् |

कालः सङ्क्षिपते सर्वाः प्रजा विसृजते पुनः ||१८९||

कालः सर्वेषु भूतेषु चरत्यविधृतः समः ||१८९||

अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् |

तान्कालनिर्मितान्बुद्ध्वा न सञ्ज्ञां हातुमर्हसि ||१९०||


सूत उवाच||

अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत् |

भारताध्ययनात्पुण्यादपि पादमधीयतः ||१९१||

श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः ||१९१||

देवर्षयो ह्यत्र पुण्या ब्रह्मराजर्षयस्तथा |

कीर्त्यन्ते शुभकर्माणस्तथा यक्षमहोरगाः ||१९२||

भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः |

स हि सत्यमृतं चैव पवित्रं पुण्यमेव च ||१९३||

शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम् |

यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ||१९४||

असत्सत्सदसच्चैव यस्माद्देवात्प्रवर्तते |

सन्ततिश्च प्रवृत्तिश्च जन्म मृत्युः पुनर्भवः ||१९५||

अध्यात्मं श्रूयते यच्च पञ्चभूतगुणात्मकम् |

अव्यक्तादि परं यच्च स एव परिगीयते ||१९६||

यत्तद्यतिवरा युक्ता ध्यानयोगबलान्विताः |

प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम् ||१९७||

श्रद्दधानः सदोद्युक्तः सत्यधर्मपरायणः |

आसेवन्निममध्यायं नरः पापात्प्रमुच्यते ||१९८||

अनुक्रमणिमध्यायं भारतस्येममादितः |

आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति ||१९९||

उभे सन्ध्ये जपन्किञ्चित्सद्यो मुच्येत किल्बिषात् |

अनुक्रमण्या यावत्स्यादह्ना रात्र्या च सञ्चितम् ||२००||

भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च |

नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा ||२०१||

ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् |

यथैतानि वरिष्ठानि तथा भारतमुच्यते ||२०२||

यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः |

अक्षय्यमन्नपानं तत्पितृंस्तस्योपतिष्ठति ||२०३||

इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् |

बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ||२०४||

कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते |

भ्रूणहत्याकृतं चापि पापं जह्यान्न संशयः ||२०५||

य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि |

अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ||२०६||

यश्चेमं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः |

स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः ||२०७||

चत्वार एकतो वेदा भारतं चैकमेकतः |

समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ||२०८||

महत्त्वे च गुरुत्वे च ध्रियमाणं ततोऽधिकम् ||२०८||

महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते |

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ||२०९||

तपो न कल्कोऽध्ययनं न कल्कः; स्वाभाविको वेदविधिर्न कल्कः |

प्रसह्य वित्ताहरणं न कल्क; स्तान्येव भावोपहतानि कल्कः ||२१०||


              पर्वसंग्रहपर्व

                  २

ऋषय ऊचुः||

समन्तपञ्चकमिति यदुक्तं सूतनन्दन |

एतत्सर्वं यथान्यायं श्रोतुमिच्छामहे वयम् ||१||


सूत उवाच||

शुश्रूषा यदि वो विप्रा ब्रुवतश्च कथाः शुभाः |

समन्तपञ्चकाख्यं च श्रोतुमर्हथ सत्तमाः ||२||

त्रेताद्वापरयोः सन्धौ रामः शस्त्रभृतां वरः |

असकृत्पार्थिवं क्षत्रं जघानामर्षचोदितः ||३||

स सर्वं क्षत्रमुत्साद्य स्ववीर्येणानलद्युतिः |

समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ||४||

स तेषु रुधिराम्भस्सु ह्रदेषु क्रोधमूर्च्छितः |

पितृन्सन्तर्पयामास रुधिरेणेति नः श्रुतम् ||५||

अथर्चीकादयोऽभ्येत्य पितरो ब्राह्मणर्षभम् |

तं क्षमस्वेति सिषिधुस्ततः स विरराम ह ||६||

तेषां समीपे यो देशो ह्रदानां रुधिराम्भसाम् |

समन्तपञ्चकमिति पुण्यं तत्परिकीर्तितम् ||७||

येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते |

तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः ||८||

अन्तरे चैव सम्प्राप्ते कलिद्वापरयोरभूत् |

समन्तपञ्चके युद्धं कुरुपाण्डवसेनयोः ||९||

तस्मिन्परमधर्मिष्ठे देशे भूदोषवर्जिते |

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||१०||

एवं नामाभिनिर्वृत्तं तस्य देशस्य वै द्विजाः |

पुण्यश्च रमणीयश्च स देशो वः प्रकीर्तितः ||११||

तदेतत्कथितं सर्वं मया वो मुनिसत्तमाः |

यथा देशः स विख्यातस्त्रिषु लोकेषु विश्रुतः ||१२||


ऋषय ऊचुः||

अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन |

एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ||१३||

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् |

यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ||१४||


सूत उवाच||

एको रथो गजश्चैको नराः पञ्च पदातयः |

त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ||१५||

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः |

त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ||१६||

त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः |

स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणैः ||१७||

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी |

अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ||१८||

अक्षौहिण्याः प्रसङ्ख्यानं रथानां द्विजसत्तमाः |

सङ्ख्यागणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ||१९||

शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः |

गजानां तु परीमाणमेतदेवात्र निर्दिशेत् ||२०||

ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव |

नराणामपि पञ्चाशच्छतानि त्रीणि चानघाः ||२१||

पञ्चषष्टिसहस्राणि तथाश्वानां शतानि च |

दशोत्तराणि षट्प्राहुर्यथावदिह सङ्ख्यया ||२२||

एतामक्षौहिणीं प्राहुः सङ्ख्यातत्त्वविदो जनाः |

यां वः कथितवानस्मि विस्तरेण द्विजोत्तमाः ||२३||

एतया सङ्ख्यया ह्यासन्कुरुपाण्डवसेनयोः |

अक्षौहिण्यो द्विजश्रेष्ठाः पिण्डेनाष्टादशैव ताः ||२४||

समेतास्तत्र वै देशे तत्रैव निधनं गताः |

कौरवान्कारणं कृत्वा कालेनाद्भुतकर्मणा ||२५||

अहानि युयुधे भीष्मो दशैव परमास्त्रवित् |

अहानि पञ्च द्रोणस्तु ररक्ष कुरुवाहिनीम् ||२६||

अहनी युयुधे द्वे तु कर्णः परबलार्दनः |

शल्योऽर्धदिवसं त्वासीद्गदायुद्धमतः परम् ||२७||

तस्यैव तु दिनस्यान्ते हार्दिक्यद्रौणिगौतमाः |

प्रसुप्तं निशि विश्वस्तं जघ्नुर्यौधिष्ठिरं बलम् ||२८||

यत्तु शौनकसत्रे ते भारताख्यानविस्तरम् |

आख्यास्ये तत्र पौलोममाख्यानं चादितः परम् ||२९||

विचित्रार्थपदाख्यानमनेकसमयान्वितम् |

अभिपन्नं नरैः प्राज्ञैर्वैराग्यमिव मोक्षिभिः ||३०||

आत्मेव वेदितव्येषु प्रियेष्विव च जीवितम् |

इतिहासः प्रधानार्थः श्रेष्ठः सर्वागमेष्वयम् ||३१||

इतिहासोत्तमे ह्यस्मिन्नर्पिता बुद्धिरुत्तमा |

स्वरव्यञ्जनयोः कृत्स्ना लोकवेदाश्रयेव वाक् ||३२||

अस्य प्रज्ञाभिपन्नस्य विचित्रपदपर्वणः |

भारतस्येतिहासस्य श्रूयतां पर्वसङ्ग्रहः ||३३||

पर्वानुक्रमणी पूर्वं द्वितीयं पर्वसङ्ग्रहः |

पौष्यं पौलोममास्तीकमादिवंशावतारणम् ||३४||

ततः सम्भवपर्वोक्तमद्भुतं देवनिर्मितम् |

दाहो जतुगृहस्यात्र हैडिम्बं पर्व चोच्यते ||३५||

ततो बकवधः पर्व पर्व चैत्ररथं ततः |

ततः स्वयंवरं देव्याः पाञ्चाल्याः पर्व चोच्यते ||३६||

क्षत्रधर्मेण निर्जित्य ततो वैवाहिकं स्मृतम् |

विदुरागमनं पर्व राज्यलम्भस्तथैव च ||३७||

अर्जुनस्य वने वासः सुभद्राहरणं ततः |

सुभद्राहरणादूर्ध्वं ज्ञेयं हरणहारिकम् ||३८||

ततः खाण्डवदाहाख्यं तत्रैव मयदर्शनम् |

सभापर्व ततः प्रोक्तं मन्त्रपर्व ततः परम् ||३९||

जरासन्धवधः पर्व पर्व दिग्विजयस्तथा |

पर्व दिग्विजयादूर्ध्वं राजसूयिकमुच्यते ||४०||

ततश्चार्घाभिहरणं शिशुपालवधस्ततः |

द्यूतपर्व ततः प्रोक्तमनुद्यूतमतः परम् ||४१||

तत आरण्यकं पर्व किर्मीरवध एव च |

ईश्वरार्जुनयोर्युद्धं पर्व कैरातसञ्ज्ञितम् ||४२||

इन्द्रलोकाभिगमनं पर्व ज्ञेयमतः परम् |

तीर्थयात्रा ततः पर्व कुरुराजस्य धीमतः ||४३||

जटासुरवधः पर्व यक्षयुद्धमतः परम् |

तथैवाजगरं पर्व विज्ञेयं तदनन्तरम् ||४४||

मार्कण्डेयसमस्या च पर्वोक्तं तदनन्तरम् |

संवादश्च ततः पर्व द्रौपदीसत्यभामयोः ||४५||

घोषयात्रा ततः पर्व मृगस्वप्नभयं ततः |

व्रीहिद्रौणिकमाख्यानं ततोऽनन्तरमुच्यते ||४६||

द्रौपदीहरणं पर्व सैन्धवेन वनात्ततः |

कुण्डलाहरणं पर्व ततः परमिहोच्यते ||४७||

आरणेयं ततः पर्व वैराटं तदनन्तरम् |

कीचकानां वधः पर्व पर्व गोग्रहणं ततः ||४८||

अभिमन्युना च वैराट्याः पर्व वैवाहिकं स्मृतम् |

उद्योगपर्व विज्ञेयमत ऊर्ध्वं महाद्भुतम् ||४९||

ततः सञ्जययानाख्यं पर्व ज्ञेयमतः परम् |

प्रजागरं ततः पर्व धृतराष्ट्रस्य चिन्तया ||५०||

पर्व सानत्सुजातं च गुह्यमध्यात्मदर्शनम् |

यानसन्धिस्ततः पर्व भगवद्यानमेव च ||५१||

ज्ञेयं विवादपर्वात्र कर्णस्यापि महात्मनः |

निर्याणं पर्व च ततः कुरुपाण्डवसेनयोः ||५२||

रथातिरथसङ्ख्या च पर्वोक्तं तदनन्तरम् |

उलूकदूतागमनं पर्वामर्षविवर्धनम् ||५३||

अम्बोपाख्यानमपि च पर्व ज्ञेयमतः परम् |

भीष्माभिषेचनं पर्व ज्ञेयमद्भुतकारणम् ||५४||

जम्बूखण्डविनिर्माणं पर्वोक्तं तदनन्तरम् |

भूमिपर्व ततो ज्ञेयं द्वीपविस्तरकीर्तनम् ||५५||

पर्वोक्तं भगवद्गीता पर्व भीष्मवधस्ततः |

द्रोणाभिषेकः पर्वोक्तं संशप्तकवधस्ततः ||५६||

अभिमन्युवधः पर्व प्रतिज्ञापर्व चोच्यते |

जयद्रथवधः पर्व घटोत्कचवधस्ततः ||५७||

ततो द्रोणवधः पर्व विज्ञेयं लोमहर्षणम् |

मोक्षो नारायणास्त्रस्य पर्वानन्तरमुच्यते ||५८||

कर्णपर्व ततो ज्ञेयं शल्यपर्व ततः परम् |

ह्रदप्रवेशनं पर्व गदायुद्धमतः परम् ||५९||

सारस्वतं ततः पर्व तीर्थवंशगुणान्वितम् |

अत ऊर्ध्वं तु बीभत्सं पर्व सौप्तिकमुच्यते ||६०||

ऐषीकं पर्व निर्दिष्टमत ऊर्ध्वं सुदारुणम् |

जलप्रदानिकं पर्व स्त्रीपर्व च ततः परम् ||६१||

श्राद्धपर्व ततो ज्ञेयं कुरूणामौर्ध्वदेहिकम् |

आभिषेचनिकं पर्व धर्मराजस्य धीमतः ||६२||

चार्वाकनिग्रहः पर्व रक्षसो ब्रह्मरूपिणः |

प्रविभागो गृहाणां च पर्वोक्तं तदनन्तरम् ||६३||

शान्तिपर्व ततो यत्र राजधर्मानुकीर्तनम् |

आपद्धर्मश्च पर्वोक्तं मोक्षधर्मस्ततः परम् ||६४||

ततः पर्व परिज्ञेयमानुशासनिकं परम् |

स्वर्गारोहणिकं पर्व ततो भीष्मस्य धीमतः ||६५||

ततोऽश्वमेधिकं पर्व सर्वपापप्रणाशनम् |

अनुगीता ततः पर्व ज्ञेयमध्यात्मवाचकम् ||६६||

पर्व चाश्रमवासाख्यं पुत्रदर्शनमेव च |

नारदागमनं पर्व ततः परमिहोच्यते ||६७||

मौसलं पर्व च ततो घोरं समनुवर्ण्यते |

महाप्रस्थानिकं पर्व स्वर्गारोहणिकं ततः ||६८||

हरिवंशस्ततः पर्व पुराणं खिलसञ्ज्ञितम् |

भविष्यत्पर्व चाप्युक्तं खिलेष्वेवाद्भुतं महत् ||६९||

एतत्पर्वशतं पूर्णं व्यासेनोक्तं महात्मना |

यथावत्सूतपुत्रेण लोमहर्षणिना पुनः ||७०||

कथितं नैमिषारण्ये पर्वाण्यष्टादशैव तु |

समासो भारतस्यायं तत्रोक्तः पर्वसङ्ग्रहः ||७१||

पौष्ये पर्वणि माहात्म्यमुत्तङ्कस्योपवर्णितम् |

पौलोमे भृगुवंशस्य विस्तारः परिकीर्तितः ||७२||

आस्तीके सर्वनागानां गरुडस्य च सम्भवः |

क्षीरोदमथनं चैव जन्मोच्छैःश्रवसस्तथा ||७३||

यजतः सर्पसत्रेण राज्ञः पारिक्षितस्य च |

कथेयमभिनिर्वृत्ता भारतानां महात्मनाम् ||७४||

विविधाः सम्भवा राज्ञामुक्ताः सम्भवपर्वणि |

अन्येषां चैव विप्राणामृषेर्द्वैपायनस्य च ||७५||

अंशावतरणं चात्र देवानां परिकीर्तितम् |

दैत्यानां दानवानां च यक्षाणां च महौजसाम् ||७६||

नागानामथ सर्पाणां गन्धर्वाणां पतत्रिणाम् |

अन्येषां चैव भूतानां विविधानां समुद्भवः ||७७||

वसूनां पुनरुत्पत्तिर्भागीरथ्यां महात्मनाम् |

शन्तनोर्वेश्मनि पुनस्तेषां चारोहणं दिवि ||७८||

तेजोंशानां च सङ्घाताद्भीष्मस्याप्यत्र सम्भवः |

राज्यान्निवर्तनं चैव ब्रह्मचर्यव्रते स्थितिः ||७९||

प्रतिज्ञापालनं चैव रक्षा चित्राङ्गदस्य च |

हते चित्राङ्गदे चैव रक्षा भ्रातुर्यवीयसः ||८०||

विचित्रवीर्यस्य तथा राज्ये सम्प्रतिपादनम् |

धर्मस्य नृषु सम्भूतिरणीमाण्डव्यशापजा ||८१||

कृष्णद्वैपायनाच्चैव प्रसूतिर्वरदानजा |

धृतराष्ट्रस्य पाण्डोश्च पाण्डवानां च सम्भवः ||८२||

वारणावतयात्रा च मन्त्रो दुर्योधनस्य च |

विदुरस्य च वाक्येन सुरुङ्गोपक्रमक्रिया ||८३||

पाण्डवानां वने घोरे हिडिम्बायाश्च दर्शनम् |

घटोत्कचस्य चोत्पत्तिरत्रैव परिकीर्तिता ||८४||

अज्ञातचर्या पाण्डूनां वासो ब्राह्मणवेश्मनि |

बकस्य निधनं चैव नागराणां च विस्मयः ||८५||

अङ्गारपर्णं निर्जित्य गङ्गाकूलेऽर्जुनस्तदा |

भ्रातृभिः सहितः सर्वैः पाञ्चालानभितो ययौ ||८६||

तापत्यमथ वासिष्ठमौर्वं चाख्यानमुत्तमम् |

पञ्चेन्द्राणामुपाख्यानमत्रैवाद्भुतमुच्यते ||८७||

पञ्चानामेकपत्नीत्वे विमर्शो द्रुपदस्य च |

द्रौपद्या देवविहितो विवाहश्चाप्यमानुषः ||८८||

विदुरस्य च सम्प्राप्तिर्दर्शनं केशवस्य च |

खाण्डवप्रस्थवासश्च तथा राज्यार्धशासनम् ||८९||

नारदस्याज्ञया चैव द्रौपद्याः समयक्रिया |

सुन्दोपसुन्दयोस्तत्र उपाख्यानं प्रकीर्तितम् ||९०||

पार्थस्य वनवासश्च उलूप्या पथि सङ्गमः |

पुण्यतीर्थानुसंयानं बभ्रुवाहनजन्म च ||९१||

द्वारकायां सुभद्रा च कामयानेन कामिनी |

वासुदेवस्यानुमते प्राप्ता चैव किरीटिना ||९२||

हरणं गृह्य सम्प्राप्ते कृष्णे देवकिनन्दने |

सम्प्राप्तिश्चक्रधनुषोः खाण्डवस्य च दाहनम् ||९३||

अभिमन्योः सुभद्रायां जन्म चोत्तमतेजसः |

मयस्य मोक्षो ज्वलनाद्भुजङ्गस्य च मोक्षणम् ||९४||

महर्षेर्मन्दपालस्य शार्ङ्ग्यं तनयसम्भवः ||९४||

इत्येतदाधिपर्वोक्तं प्रथमं बहुविस्तरम् |

अध्यायानां शते द्वे तु सङ्ख्याते परमर्षिणा ||९५||

अष्टादशैव चाध्याया व्यासेनोत्तमतेजसा ||९५||

सप्त श्लोकसहस्राणि तथा नव शतानि च |

श्लोकाश्च चतुराशीतिर्दृष्टो ग्रन्थो महात्मना ||९६||

द्वितीयं तु सभापर्व बहुवृत्तान्तमुच्यते |

सभाक्रिया पाण्डवानां किङ्कराणां च दर्शनम् ||९७||

लोकपालसभाख्यानं नारदाद्देवदर्शनात् |

राजसूयस्य चारम्भो जरासन्धवधस्तथा ||९८||

गिरिव्रजे निरुद्धानां राज्ञां कृष्णेन मोक्षणम् |

राजसूयेऽर्घसंवादे शिशुपालवधस्तथा ||९९||

यज्ञे विभूतिं तां दृष्ट्वा दुःखामर्षान्वितस्य च |

दुर्योधनस्यावहासो भीमेन च सभातले ||१००||

यत्रास्य मन्युरुद्भूतो येन द्यूतमकारयत् |

यत्र धर्मसुतं द्यूते शकुनिः कितवोऽजयत् ||१०१||

यत्र द्यूतार्णवे मग्नान्द्रौपदी नौरिवार्णवात् |

तारयामास तांस्तीर्णाञ्ज्ञात्वा दुर्योधनो नृपः ||१०२||

पुनरेव ततो द्यूते समाह्वयत पाण्डवान् ||१०२||

एतत्सर्वं सभापर्व समाख्यातं महात्मना |

अध्यायाः सप्ततिर्ज्ञेयास्तथा द्वौ चात्र सङ्ख्यया ||१०३||

श्लोकानां द्वे सहस्रे तु पञ्च श्लोकशतानि च |

श्लोकाश्चैकादश ज्ञेयाः पर्वण्यस्मिन्प्रकीर्तिताः ||१०४||

अतः परं तृतीयं तु ज्ञेयमारण्यकं महत् |

पौरानुगमनं चैव धर्मपुत्रस्य धीमतः ||१०५||

वृष्णीनामागमो यत्र पाञ्चालानां च सर्वशः |

यत्र सौभवधाख्यानं किर्मीरवध एव च ||१०६||

अस्त्रहेतोर्विवासश्च पार्थस्यामिततेजसः ||१०६||

महादेवेन युद्धं च किरातवपुषा सह |

दर्शनं लोकपालानां स्वर्गारोहणमेव च ||१०७||

दर्शनं बृहदश्वस्य महर्षेर्भावितात्मनः |

युधिष्ठिरस्य चार्तस्य व्यसने परिदेवनम् ||१०८||

नलोपाख्यानमत्रैव धर्मिष्ठं करुणोदयम् |

दमयन्त्याः स्थितिर्यत्र नलस्य व्यसनागमे ||१०९||

वनवासगतानां च पाण्डवानां महात्मनाम् |

स्वर्गे प्रवृत्तिराख्याता लोमशेनार्जुनस्य वै ||११०||

तीर्थयात्रा तथैवात्र पाण्डवानां महात्मनाम् |

जटासुरस्य तत्रैव वधः समुपवर्ण्यते ||१११||

नियुक्तो भीमसेनश्च द्रौपद्या गन्धमादने |

यत्र मन्दारपुष्पार्थं नलिनीं तामधर्षयत् ||११२||

यत्रास्य सुमहद्युद्धमभवत्सह राक्षसैः |

यक्षैश्चापि महावीर्यैर्मणिमत्प्रमुखैस्तथा ||११३||

आगस्त्यमपि चाख्यानं यत्र वातापिभक्षणम् |

लोपामुद्राभिगमनमपत्यार्थमृषेरपि ||११४||

ततः श्येनकपोतीयमुपाख्यानमनन्तरम् |

इन्द्रोऽग्निर्यत्र धर्मश्च अजिज्ञासञ्शिबिं नृपम् ||११५||

ऋश्यशृङ्गस्य चरितं कौमारब्रह्मचारिणः |

जामदग्न्यस्य रामस्य चरितं भूरितेजसः ||११६||

कार्तवीर्यवधो यत्र हैहयानां च वर्ण्यते |

सौकन्यमपि चाख्यानं च्यवनो यत्र भार्गवः ||११७||

शर्यातियज्ञे नासत्यौ कृतवान्सोमपीथिनौ |

ताभ्यां च यत्र स मुनिर्यौवनं प्रतिपादितः ||११८||

जन्तूपाख्यानमत्रैव यत्र पुत्रेण सोमकः |

पुत्रार्थमयजद्राजा लेभे पुत्रशतं च सः ||११९||

अष्टावक्रीयमत्रैव विवादे यत्र बन्दिनम् |

विजित्य सागरं प्राप्तं पितरं लब्धवानृषिः ||१२०||

अवाप्य दिव्यान्यस्त्राणि गुर्वर्थे सव्यसाचिना |

निवातकवचैर्युद्धं हिरण्यपुरवासिभिः ||१२१||

समागमश्च पार्थस्य भ्रातृभिर्गन्धमादने |

घोषयात्रा च गन्धर्वैर्यत्र युद्धं किरीटिनः ||१२२||

पुनरागमनं चैव तेषां द्वैतवनं सरः |

जयद्रथेनापहारो द्रौपद्याश्चाश्रमान्तरात् ||१२३||

यत्रैनमन्वयाद्भीमो वायुवेगसमो जवे |

मार्कण्डेयसमस्यायामुपाख्यानानि भागशः ||१२४||

संदर्शनं च कृष्णस्य संवादश्चैव सत्यया |

व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नं तथैव च ||१२५||

सावित्र्यौद्दालकीयं च वैन्योपाख्यानमेव च |

रामायणमुपाख्यानमत्रैव बहुविस्तरम् ||१२६||

कर्णस्य परिमोषोऽत्र कुण्डलाभ्यां पुरंदरात् |

आरणेयमुपाख्यानं यत्र धर्मोऽन्वशात्सुतम् ||१२७||

जग्मुर्लब्धवरा यत्र पाण्डवाः पश्चिमां दिशम् ||१२७||

एतदारण्यकं पर्व तृतीयं परिकीर्तितम् |

अत्राध्यायशते द्वे तु सङ्ख्याते परमर्षिणा ||१२८||

एकोनसप्ततिश्चैव तथाध्यायाः प्रकीर्तिताः ||१२८||

एकादश सहस्राणि श्लोकानां षट्शतानि च |

चतुःषष्टिस्तथा श्लोकाः पर्वैतत्परिकीर्तितम् ||१२९||

अतः परं निबोधेदं वैराटं पर्वविस्तरम् |

विराटनगरं गत्वा श्मशाने विपुलां शमीम् ||१३०||

दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ||१३०||

यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते |

दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ||१३१||

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि |

गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ||१३२||

विराटेनोत्तरा दत्ता स्नुषा यत्र किरीटिनः |

अभिमन्युं समुद्दिश्य सौभद्रमरिघातिनम् ||१३३||

चतुर्थमेतद्विपुलं वैराटं पर्व वर्णितम् |

अत्रापि परिसङ्ख्यातमध्यायानां महात्मना ||१३४||

सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु |

श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ||१३५||

पर्वण्यस्मिन्समाख्याताः सङ्ख्यया परमर्षिणा ||१३५||

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् |

उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ||१३६||

दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ||१३६||

साहाय्यमस्मिन्समरे भवान्नौ कर्तुमर्हति |

इत्युक्ते वचने कृष्णो यत्रोवाच महामतिः ||१३७||

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ |

अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ||१३८||

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः |

अयुध्यमानं सचिवं वव्रे कृष्णं धनञ्जयः ||१३९||

सञ्जयं प्रेषयामास शमार्थं पाण्डवान्प्रति |

यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ||१४०||

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् |

प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया ||१४१||

विदुरो यत्र वाक्यानि विचित्राणि हितानि च |

श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ||१४२||

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् |

मनस्तापान्वितो राजा श्रावितः शोकलालसः ||१४३||

प्रभाते राजसमितौ सञ्जयो यत्र चाभिभोः |

ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ||१४४||

यत्र कृष्णो दयापन्नः सन्धिमिच्छन्महायशाः |

स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ||१४५||

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै |

शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ||१४६||

कर्णदुर्योधनादीनां दुष्टं विज्ञाय मन्त्रितम् |

योगेश्वरत्वं कृष्णेन यत्र राजसु दर्शितम् ||१४७||

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः |

उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ||१४८||

ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् |

नगराद्धास्तिनपुराद्बलसङ्ख्यानमेव च ||१४९||

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति |

श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ||१५०||

रथातिरथसङ्ख्यानमम्बोपाख्यानमेव च ||१५०||

एतत्सुबहुवृत्तान्तं पञ्चमं पर्व भारते |

उद्योगपर्व निर्दिष्टं सन्धिविग्रहसंश्रितम् ||१५१||

अध्यायाः सङ्ख्यया त्वत्र षडशीतिशतं स्मृतम् |

श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ||१५२||

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना |

व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ||१५३||

अत ऊर्ध्वं विचित्रार्थं भीष्मपर्व प्रचक्षते |

जम्बूखण्डविनिर्माणं यत्रोक्तं सञ्जयेन ह ||१५४||

यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् |

यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ||१५५||

कश्मलं यत्र पार्थस्य वासुदेवो महामतिः |

मोहजं नाशयामास हेतुभिर्मोक्षदर्शनैः ||१५६||

शिखण्डिनं पुरस्कृत्य यत्र पार्थो महाधनुः |

विनिघ्नन्निशितैर्बाणै रथाद्भीष्ममपातयत् ||१५७||

षष्ठमेतन्महापर्व भारते परिकीर्तितम् |

अध्यायानां शतं प्रोक्तं सप्तदश तथापरे ||१५८||

पञ्च श्लोकसहस्राणि सङ्ख्ययाष्टौ शतानि च |

श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ||१५९||

व्यासेन वेदविदुषा सङ्ख्याता भीष्मपर्वणि ||१५९||

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते |

यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ||१६०||

भगदत्तो महाराजो यत्र शक्रसमो युधि |

सुप्रतीकेन नागेन सह शस्तः किरीटिना ||१६१||

यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः |

जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ||१६२||

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे |

अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ||१६३||

संशप्तकावशेषं च कृतं निःशेषमाहवे ||१६३||

अलम्बुसः श्रुतायुश्च जलसन्धश्च वीर्यवान् |

सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ||१६४||

घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ||१६४||

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते |

अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ||१६५||

सप्तमं भारते पर्व महदेतदुदाहृतम् |

अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ||१६६||

द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ||१६६||

अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा |

अष्टौ श्लोकसहस्राणि तथा नव शतानि च ||१६७||

श्लोका नव तथैवात्र सङ्ख्यातास्तत्त्वदर्शिना |

पाराशर्येण मुनिना सञ्चिन्त्य द्रोणपर्वणि ||१६८||

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् |

सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ||१६९||

आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ||१६९||

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः |

हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ||१७०||

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः |

द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ||१७१||

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः |

एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ||१७२||

चत्वार्येव सहस्राणि नव श्लोकशतानि च ||१७२||

अतः परं विचित्रार्थं शल्यपर्व प्रकीर्तितम् |

हतप्रवीरे सैन्ये तु नेता मद्रेश्वरोऽभवत् ||१७३||

वृत्तानि रथयुद्धानि कीर्त्यन्ते यत्र भागशः |

विनाशः कुरुमुख्यानां शल्यपर्वणि कीर्त्यते ||१७४||

शल्यस्य निधनं चात्र धर्मराजान्महारथात् |

गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ||१७५||

सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ||१७५||

नवमं पर्व निर्दिष्टमेतदद्भुतमर्थवत् |

एकोनषष्टिरध्यायास्तत्र सङ्ख्याविशारदैः ||१७६||

सङ्ख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते |

त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ||१७७||

मुनिना सम्प्रणीतानि कौरवाणां यशोभृताम् ||१७७||

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् |

भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ||१७८||

व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः |

कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ||१७९||

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः |

अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ||१८०||

पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ||१८०||

प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः |

पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ||१८१||

यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् |

सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ||१८२||

द्रौपदी पुत्रशोकार्ता पितृभ्रातृवधार्दिता |

कृतानशनसङ्कल्पा यत्र भर्तृनुपाविशत् ||१८३||

द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः |

अन्वधावत सङ्क्रुद्धो भारद्वाजं गुरोः सुतम् ||१८४||

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः |

अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ||१८५||

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः |

यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ||१८६||

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः |

तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ||१८७||

गूढोत्पन्नस्य चाख्यानं कर्णस्य पृथयात्मनः |

सुतस्यैतदिह प्रोक्तं दशमं पर्व सौप्तिकम् ||१८८||

अष्टादशास्मिन्नध्यायाः पर्वण्युक्ता महात्मना |

श्लोकाग्रमत्र कथितं शतान्यष्टौ तथैव च ||१८९||

श्लोकाश्च सप्ततिः प्रोक्ता यथावदभिसङ्ख्यया |

सौप्तिकैषीकसम्बन्धे पर्वण्यमितबुद्धिना ||१९०||

अत ऊर्ध्वमिदं प्राहुः स्त्रीपर्व करुणोदयम् |

विलापो वीरपत्नीनां यत्रातिकरुणः स्मृतः ||१९१||

क्रोधावेशः प्रसादश्च गान्धारीधृतराष्ट्रयोः ||१९१||

यत्र तान्क्षत्रियाञ्शूरान्दिष्टान्ताननिवर्तिनः |

पुत्रान्भ्रातृन्पितृंश्चैव ददृशुर्निहतान्रणे ||१९२||

यत्र राजा महाप्राज्ञः सर्वधर्मभृतां वरः |

राज्ञां तानि शरीराणि दाहयामास शास्त्रतः ||१९३||

एतदेकादशं प्रोक्तं पर्वातिकरुणं महत् |

सप्तविंशतिरध्यायाः पर्वण्यस्मिन्नुदाहृताः ||१९४||

श्लोकाः सप्तशतं चात्र पञ्चसप्ततिरुच्यते |

सङ्ख्यया भारताख्यानं कर्त्रा ह्यत्र महात्मना ||१९५||

प्रणीतं सज्जनमनोवैक्लव्याश्रुप्रवर्तकम् ||१९५||

अतः परं शान्तिपर्व द्वादशं बुद्धिवर्धनम् |

यत्र निर्वेदमापन्नो धर्मराजो युधिष्ठिरः ||१९६||

घातयित्वा पितृन्भ्रातृन्पुत्रान्सम्बन्धिबान्धवान् ||१९६||

शान्तिपर्वणि धर्माश्च व्याख्याताः शरतल्पिकाः |

राजभिर्वेदितव्या ये सम्यङ्नयबुभुत्सुभिः ||१९७||

आपद्धर्माश्च तत्रैव कालहेतुप्रदर्शकाः |

यान्बुद्ध्वा पुरुषः सम्यक्सर्वज्ञत्वमवाप्नुयात् ||१९८||

मोक्षधर्माश्च कथिता विचित्रा बहुविस्तराः ||१९८||

द्वादशं पर्व निर्दिष्टमेतत्प्राज्ञजनप्रियम् |

पर्वण्यत्र परिज्ञेयमध्यायानां शतत्रयम् ||१९९||

त्रिंशच्चैव तथाध्याया नव चैव तपोधनाः ||१९९||

श्लोकानां तु सहस्राणि कीर्तितानि चतुर्दश |

पञ्च चैव शतान्याहुः पञ्चविंशतिसङ्ख्यया ||२००||

अत ऊर्ध्वं तु विज्ञेयमानुशासनमुत्तमम् |

यत्र प्रकृतिमापन्नः श्रुत्वा धर्मविनिश्चयम् ||२०१||

भीष्माद्भागीरथीपुत्रात्कुरुराजो युधिष्ठिरः ||२०१||

व्यवहारोऽत्र कार्त्स्न्येन धर्मार्थीयो निदर्शितः |

विविधानां च दानानां फलयोगाः पृथग्विधाः ||२०२||

तथा पात्रविशेषाश्च दानानां च परो विधिः |

आचारविधियोगश्च सत्यस्य च परा गतिः ||२०३||

एतत्सुबहुवृत्तान्तमुत्तमं चानुशासनम् |

भीष्मस्यात्रैव सम्प्राप्तिः स्वर्गस्य परिकीर्तिता ||२०४||

एतत्त्रयोदशं पर्व धर्मनिश्चयकारकम् |

अध्यायानां शतं चात्र षट्चत्वारिंशदेव च ||२०५||

श्लोकानां तु सहस्राणि षट्सप्तैव शतानि च ||२०५||

ततोऽश्वमेधिकं नाम पर्व प्रोक्तं चतुर्दशम् |

तत्संवर्तमरुत्तीयं यत्राख्यानमनुत्तमम् ||२०६||

सुवर्णकोशसम्प्राप्तिर्जन्म चोक्तं परिक्षितः |

दग्धस्यास्त्राग्निना पूर्वं कृष्णात्सञ्जीवनं पुनः ||२०७||

चर्यायां हयमुत्सृष्टं पाण्डवस्यानुगच्छतः |

तत्र तत्र च युद्धानि राजपुत्रैरमर्षणैः ||२०८||

चित्राङ्गदायाः पुत्रेण पुत्रिकाया धनञ्जयः |

सङ्ग्रामे बभ्रुवाहेन संशयं चात्र दर्शितः ||२०९||

अश्वमेधे महायज्ञे नकुलाख्यानमेव च ||२०९||

इत्याश्वमेधिकं पर्व प्रोक्तमेतन्महाद्भुतम् |

अत्राध्यायशतं त्रिंशत्त्रयोऽध्यायाश्च शब्दिताः ||२१०||

त्रीणि श्लोकसहस्राणि तावन्त्येव शतानि च |

विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२११||

तत आश्रमवासाक्यं पर्व पञ्चदशं स्मृतम् |

यत्र राज्यं परित्यज्य गान्धारीसहितो नृपः ||२१२||

धृतराष्ट्राश्रमपदं विदुरश्च जगाम ह ||२१२||

यं दृष्ट्वा प्रस्थितं साध्वी पृथाप्यनुययौ तदा |

पुत्रराज्यं परित्यज्य गुरुशुश्रूषणे रता ||२१३||

यत्र राजा हतान्पुत्रान्पौत्रानन्यांश्च पार्थिवान् |

लोकान्तरगतान्वीरानपश्यत्पुनरागतान् ||२१४||

ऋषेः प्रसादात्कृष्णस्य दृष्ट्वाश्चर्यमनुत्तमम् |

त्यक्त्वा शोकं सदारश्च सिद्धिं परमिकां गतः ||२१५||

यत्र धर्मं समाश्रित्य विदुरः सुगतिं गतः |

सञ्जयश्च महामात्रो विद्वान्गावल्गणिर्वशी ||२१६||

ददर्श नारदं यत्र धर्मराजो युधिष्ठिरः |

नारदाच्चैव शुश्राव वृष्णीनां कदनं महत् ||२१७||

एतदाश्रमवासाख्यं पूर्वोक्तं सुमहाद्भुतम् |

द्विचत्वारिंशदध्यायाः पर्वैतदभिसङ्ख्यया ||२१८||

सहस्रमेकं श्लोकानां पञ्च श्लोकशतानि च |

षडेव च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२१९||

अतः परं निबोधेदं मौसलं पर्व दारुणम् |

यत्र ते पुरुषव्याघ्राः शस्त्रस्पर्शसहा युधि ||२२०||

ब्रह्मदण्डविनिष्पिष्टाः समीपे लवणाम्भसः ||२२०||

आपाने पानगलिता दैवेनाभिप्रचोदिताः |

एरकारूपिभिर्वज्रैर्निजघ्नुरितरेतरम् ||२२१||

यत्र सर्वक्षयं कृत्वा तावुभौ रामकेशवौ |

नातिचक्रमतुः कालं प्राप्तं सर्वहरं समम् ||२२२||

यत्रार्जुनो द्वारवतीमेत्य वृष्णिविनाकृताम् |

दृष्ट्वा विषादमगमत्परां चार्तिं नरर्षभः ||२२३||

स सत्कृत्य यदुश्रेष्ठं मातुलं शौरिमात्मनः |

ददर्श यदुवीराणामापाने वैशसं महत् ||२२४||

शरीरं वासुदेवस्य रामस्य च महात्मनः |

संस्कारं लम्भयामास वृष्णीनां च प्रधानतः ||२२५||

स वृद्धबालमादाय द्वारवत्यास्ततो जनम् |

ददर्शापदि कष्टायां गाण्डीवस्य पराभवम् ||२२६||

सर्वेषां चैव दिव्यानामस्त्राणामप्रसन्नताम् |

नाशं वृष्णिकलत्राणां प्रभावानामनित्यताम् ||२२७||

दृष्ट्वा निर्वेदमापन्नो व्यासवाक्यप्रचोदितः |

धर्मराजं समासाद्य संन्यासं समरोचयेत् ||२२८||

इत्येतन्मौसलं पर्व षोडशं परिकीर्तितम् |

अध्यायाष्टौ समाख्याताः श्लोकानां च शतत्रयम् ||२२९||

महाप्रस्थानिकं तस्मादूर्ध्वं सप्तदशं स्मृतम् |

यत्र राज्यं परित्यज्य पाण्डवाः पुरुषर्षभाः ||२३०||

द्रौपद्या सहिता देव्या सिद्धिं परमिकां गताः ||२३०||

अत्राध्यायास्त्रयः प्रोक्ताः श्लोकानां च शतं तथा |

विंशतिश्च तथा श्लोकाः सङ्ख्यातास्तत्त्वदर्शिना ||२३१||

स्वर्गपर्व ततो ज्ञेयं दिव्यं यत्तदमानुषम् |

अध्यायाः पञ्च सङ्ख्याताः पर्वैतदभिसङ्ख्यया ||२३२||

श्लोकानां द्वे शते चैव प्रसङ्ख्याते तपोधनाः ||२३२||

अष्टादशैवमेतानि पर्वाण्युक्तान्यशेषतः |

खिलेषु हरिवंशश्च भविष्यच्च प्रकीर्तितम् ||२३३||

एतदखिलमाख्यातं भारतं पर्वसङ्ग्रहात् |

अष्टादश समाजग्मुरक्षौहिण्यो युयुत्सया ||२३४||

तन्महद्दारुणं युद्धमहान्यष्टादशाभवत् ||२३४||

यो विद्याच्चतुरो वेदान्साङ्गोपनिषदान्द्विजः |

न चाख्यानमिदं विद्यान्नैव स स्याद्विचक्षणः ||२३५||

श्रुत्वा त्विदमुपाख्यानं श्राव्यमन्यन्न रोचते |

पुंस्कोकिलरुतं श्रुत्वा रूक्षा ध्वाङ्क्षस्य वागिव ||२३६||

इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः |

पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ||२३७||

अस्याख्यानस्य विषये पुराणं वर्तते द्विजाः |

अन्तरिक्षस्य विषये प्रजा इव चतुर्विधाः ||२३८||

क्रियागुणानां सर्वेषामिदमाख्यानमाश्रयः |

इन्द्रियाणां समस्तानां चित्रा इव मनःक्रियाः ||२३९||

अनाश्रित्यैतदाख्यानं कथा भुवि न विद्यते |

आहारमनपाश्रित्य शरीरस्येव धारणम् ||२४०||

इदं सर्वैः कविवरैराख्यानमुपजीव्यते |

उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ||२४१||

द्वैपायनौष्ठपुटनिःसृतमप्रमेयं; पुण्यं पवित्रमथ पापहरं शिवं च |

यो भारतं समधिगच्छति वाच्यमानं; किं तस्य पुष्करजलैरभिषेचनेन ||२४२||

आख्यानं तदिदमनुत्तमं महार्थं; विन्यस्तं महदिह पर्वसङ्ग्रहेण |

श्रुत्वादौ भवति नृणां सुखावगाहं; विस्तीर्णं लवणजलं यथा प्लवेन ||२४३||


              पौष्यपर्व

                  ३

सूत उवाच||

जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते |

तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति | ००१ |

तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः |

स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् | ००२ |

तं माता रोरूयमाणमुवाच |

किं रोदिषि |

केनास्यभिहत इति | ००३ |

स एवमुक्तो मातरं प्रत्युवाच |

जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति | ००४ |

तं माता प्रत्युवाच |

व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति | ००५ |

स तां पुनरुवाच |

नापराध्यामि किञ्चित् |

नावेक्षे हवींषि नावलिह इति | ००६ |

तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते | ००७ |

स तया क्रुद्धया तत्रोक्तः |

अयं मे पुत्रो न किञ्चिदपराध्यति |

किमर्थमभिहत इति |

यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति | ००८ |

स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् | ००९ |

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति | ०१० |

स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् | ०११ |

तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम |

तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम | ०१२ |

तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे | ०१३ |

स नमस्कृत्य तमृषिमुवाच |

भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति | ०१४ |

स एवमुक्तः प्रत्युवाच |

भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः |

महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः |

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् |

अस्य त्वेकमुपांशुव्रतम् |

यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् |

यद्येतदुत्सहसे ततो नयस्वैनमिति | ०१५ |

तेनैवमुत्को जनमेजयस्तं प्रत्युवाच |

भगवंस्तथा भविष्यतीति | ०१६ |

स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच |

मयायं वृत उपाध्यायः |

यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति | ०१७ |

तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः |

स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे |

तं च देशं वशे स्थापयामास | ०१८ |

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः |

तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति | ०१९ |

स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास |

गच्छ केदारखण्डं बधानेति | ०२० |

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् | ०२१ |

स क्लिश्यमानोऽपश्यदुपायम् |

भवत्वेवं करिष्यामीति | ०२२ |

स तत्र संविवेश केदारखण्डे |

शयाने तस्मिंस्तदुदकं तस्थौ | ०२३ |

ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् |

क्व आरुणिः पाञ्चाल्यो गत इति | ०२४ |

ते प्रत्यूचुः |

भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति | ०२५ |

स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच |

तस्मात्सर्वे तत्र गच्छामो यत्र स इति | ०२६ |

स तत्र गत्वा तस्याह्वानाय शब्दं चकार |

भो आरुणे पाञ्चाल्य क्वासि |

वत्सैहीति | ०२७ |

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे |

प्रोवाच चैनम् |

अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः |

तदभिवादये भगवन्तम् |

आज्ञापयतु भवान् |

किं करवाणीति | ०२८ |

तमुपाध्यायोऽब्रवीत् |

यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति | ०२९ |

स उपाध्यायेनानुगृहीतः |

यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति |

सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति | ०३० |

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम | ०३१ |

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम | ०३२ |

तमुपाध्यायः प्रेषयामास |

वत्सोपमन्यो गा रक्षस्वेति | ०३३ |

स उपाध्यायवचनादरक्षद्गाः |

स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३४ |

तमुपाध्यायः पीवानमपश्यत् |

उवाच चैनम् |

वत्सोपमन्यो केन वृत्तिं कल्पयसि |

पीवानसि दृढमिति | ०३५ |

स उपाध्यायं प्रत्युवाच |

भैक्षेण वृत्तिं कल्पयामीति | ०३६ |

तमुपाध्यायः प्रत्युवाच |

ममानिवेद्य भैक्षं नोपयोक्तव्यमिति | ०३७ |

स तथेत्युक्त्वा पुनररक्षद्गाः |

रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०३८ |

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच |

वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि |

केनेदानीं वृत्तिं कल्पयसीति | ०३९ |

स एवमुक्त उपाध्यायेन प्रत्युवाच |

भगवते निवेद्य पूर्वमपरं चरामि |

तेन वृत्तिं कल्पयामीति | ०४० |

तमुपाध्यायः प्रत्युवाच |

नैषा न्याय्या गुरुवृत्तिः |

अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः |

लुब्धोऽसीति | ०४१ |

स तथेत्युक्त्वा गा अरक्षत् |

रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे | ०४२ |

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच |

अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि |

पीवानसि |

केन वृत्तिं कल्पयसीति | ०४३ |

स उपाध्यायं प्रत्युवाच |

भो एतासां गवां पयसा वृत्तिं कल्पयामीति | ०४४ |

तमुपाध्यायः प्रत्युवाच |

नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति | ०४५ |

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे | ०४६ |

तमुपाध्यायः पीवानमेवापश्यत् |

उवाच चैनम् |

भैक्षं नाश्नासि न चान्यच्चरसि |

पयो न पिबसि |

पीवानसि |

केन वृत्तिं कल्पयसीति | ०४७ |

स एवमुक्त उपाध्यायं प्रत्युवाच |

भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति | ०४८ |

तमुपाध्यायः प्रत्युवाच |

एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति |

तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः |

फेनमपि भवान्न पातुमर्हतीति | ०४९ |

स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् |

तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति |

पयो न पिबति |

फेनं नोपयुङ्क्ते | ०५० |

स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् | ०५१ |

स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् |

सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् | ०५२ |

अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् |

मयोपमन्युः सर्वतः प्रतिषिद्धः |

स नियतं कुपितः |

ततो नागच्छति चिरगतश्चेति | ०५३ |

स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे |

भो उपमन्यो क्वासि |

वत्सैहीति | ०५४ |

स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः |

अयमस्मि भो उपाध्याय कूपे पतित इति | ०५५ |

तमुपाध्यायः प्रत्युवाच |

कथमसि कूपे पतित इति | ०५६ |

स तं प्रत्युवाच |

अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि |

अतः कूपे पतित इति | ०५७ |

तमुपाध्यायः प्रत्युवाच |

अश्विनौ स्तुहि |

तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति | ०५८ |

स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः | ०५९ |

प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ |

दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ||६०||

हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ |

शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ||६१||

ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय |

तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ||६२||

षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति |

नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ||६३||

एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः |

अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ||६४||

एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् |

यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ||६५||

अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी |

भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ||६६||

युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति |

तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६७||

युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा |

ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ||६८||

तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य |

तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ||६९||

मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते |

सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ||७०||

एवं तेनाभिष्टुतावश्विनावाजग्मतुः |

आहतुश्चैनम् |

प्रीतौ स्वः |

एष तेऽपूपः |

अशानैनमिति | ०७१ |

स एवमुक्तः प्रत्युवाच |

नानृतमूचतुर्भवन्तौ |

न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति | ०७२ |

ततस्तमश्विनावूचतुः |

आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः |

उपयुक्तश्च स तेनानिवेद्य गुरवे |

त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति | ०७३ |

स एवमुक्तः पुनरेव प्रत्युवाचैतौ |

प्रत्यनुनये भवन्तावश्विनौ |

नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति | ०७४ |

तमश्विनावाहतुः |

प्रीतौ स्वस्तवानया गुरुवृत्त्या |

उपाध्यायस्य ते कार्ष्णायसा दन्ताः |

भवतो हिरण्मया भविष्यन्ति |

चक्षुष्मांश्च भविष्यसि |

श्रेयश्चावाप्स्यसीति | ०७५ |

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे |

स चास्य प्रीतिमानभूत् | ०७६ |

आह चैनम् |

यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति |

सर्वे च ते वेदाः प्रतिभास्यन्तीति | ०७७ |

एषा तस्यापि परीक्षोपमन्योः | ०७८ |

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम | ०७९ |

तमुपाध्यायः संदिदेश |

वत्स वेद इहास्यताम् |

भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् |

श्रेयस्ते भविष्यतीति | ०८० |

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् |

गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः | ०८१ |

तस्य महता कालेन गुरुः परितोषं जगाम |

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप |

एषा तस्यापि परीक्षा वेदस्य | ०८२ |

स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत |

तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः | ०८३ |

स शिष्यान्न किञ्चिदुवाच |

कर्म वा क्रियतां गुरुशुश्रूषा वेति |

दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष | ०८४ |

अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः | ०८५ |

स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास |

भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति | ०८६ |

स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम | ०८७ |

अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म | ०८८ |

स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः |

उपाध्यायिनी ते ऋतुमती |

उपाध्यायश्च प्रोषितः |

अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् |

एतद्विषीदतीति | ०८९ |

स एवमुक्तस्ताः स्त्रियः प्रत्युवाच |

न मया स्त्रीणां वचनादिदमकार्यं कार्यम् |

न ह्यहमुपाध्यायेन संदिष्टः |

अकार्यमपि त्वया कार्यमिति | ०९० |

तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् |

स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् | ०९१ |

उवाच चैनम् |

वत्सोत्तङ्क किं ते प्रियं करवाणीति |

धर्मतो हि शुश्रूषितोऽस्मि भवता |

तेन प्रीतिः परस्परेण नौ संवृद्धा |

तदनुजाने भवन्तम् |

सर्वामेव सिद्धिं प्राप्स्यसि |

गम्यतामिति | ०९२ |

स एवमुक्तः प्रत्युवाच |

किं ते प्रियं करवाणीति |

एवं ह्याहुः | ०९३ |

यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति | ०९४ |

तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति |

सोऽहमनुज्ञातो भवता इच्छामीष्टं ते गुर्वर्थमुपहर्तुमिति | ०९५ |

तेनैवमुक्त उपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क उष्यतां तावदिति | ०९६ |

स कदाचित्तमुपाध्यायमाहोत्तङ्कः |

आज्ञापयतु भवान् |

किं ते प्रियमुपहरामि गुर्वर्थमिति | ०९७ |

तमुपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति |

तद्गच्छ |

एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति |

एषा यद्ब्रवीति तदुपहरस्वेति | ०९८ |

स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् |

भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् |

तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् |

तदाज्ञापयतु भवती |

किमुपहरामि गुर्वर्थमिति | ०९९ |

सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच |

गच्छ पौष्यं राजानम् |

भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले |

ते आनयस्व |

इतश्चतुर्थेऽहनि पुण्यकं भविता |

ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि |

शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व |

श्रेयो हि ते स्यात्क्षणं कुर्वत इति | १०० |

स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः |

स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव | १०१ |

स पुरुष उत्तङ्कमभ्यभाषत |

उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति | १०२ |

स एवमुक्तो नैच्छत् | १०३ |

तमाह पुरुषो भूयः |

भक्षयस्वोत्तङ्क |

मा विचारय |

उपाध्यायेनापि ते भक्षितं पूर्वमिति | १०४ |

स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः | १०५ |

तमुपेत्यापश्यदुत्तङ्क आसीनम् |

स तमुपेत्याशीर्भिरभिनन्द्योवाच |

अर्थी भवन्तमुपगतोऽस्मीति | १०६ |

स एनमभिवाद्योवाच |

भगवन्पौष्यः खल्वहम् |

किं करवाणीति | १०७ |

तमुवाचोत्तङ्कः |

गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति | १०८ |

तं पौष्यः प्रत्युवाच |

प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति | १०९ |

स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् | ११० |

स पौष्यं पुनरुवाच |

न युक्तं भवता वयमनृतेनोपचरितुम् |

न हि ते क्षत्रियान्तःपुरे संनिहिता |

नैनां पश्यामीति | १११ |

स एवमुक्तः पौष्यस्तं प्रत्युवाच |

सम्प्रति भवानुच्छिष्टः |

स्मर तावत् |

न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् |

पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति | ११२ |

अथैवमुक्त उत्तङ्कः स्मृत्वोवाच |

अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति | ११३ |

तं पौष्यः प्रत्युवाच |

एतत्तदेवं हि |

न गच्छतोपस्पृष्टं भवति न स्थितेनेति | ११४ |

अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् | ११५ |

सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच |

स्वागतं ते भगवन् |

आज्ञापय किं करवाणीति | ११६ |

स तामुवाच |

एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति | ११७ |

सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् | ११८ |

आह चैनम् |

एते कुण्डले तक्षको नागराजः प्रार्थयति |

अप्रमत्तो नेतुमर्हसीति | ११९ |

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच |

भवति सुनिर्वृता भव |

न मां शक्तस्तक्षको नागराजो धर्षयितुमिति | १२० |

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् | १२१ |

स तं दृष्ट्वोवाच |

भोः पौष्य प्रीतोऽस्मीति | १२२ |

तं पौष्यः प्रत्युवाच |

भगवंश्चिरस्य पात्रमासाद्यते |

भवांश्च गुणवानतिथिः |

तत्करिष्ये श्राद्धम् |

क्षणः क्रियतामिति | १२३ |

तमुत्तङ्कः प्रत्युवाच |

कृतक्षण एवास्मि |

शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति | १२४ |

स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास | १२५ |

अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच |

यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति | १२६ |

तं पौष्यः प्रत्युवाच |

यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति | १२७ |

सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास | १२८ |

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास |

भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च |

तत्क्षामये भवन्तम् |

न भवेयमन्ध इति | १२९ |

तमुत्तङ्कः प्रत्युवाच |

न मृषा ब्रवीमि |

भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति |

ममापि शापो न भवेद्भवता दत्त इति | १३० |

तं पौष्यः प्रत्युवाच |

नाहं शक्तः शापं प्रत्यादातुम् |

न हि मे मन्युरद्याप्युपशमं गच्छति |

किं चैतद्भवता न ज्ञायते यथा | १३१ |

नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः |

विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ||१३२||

इति |

तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् |

गम्यतामिति | १३३ |

तमुत्तङ्कः प्रत्युवाच |

भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः |

प्राक्च तेऽभिहितम् |

यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति |

दुष्टे चान्ने नैष मम शापो भविष्यतीति | १३४ |

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा | १३५ |

सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च |

अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे | १३६ |

एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् |

तमुत्तङ्कोऽभिसृत्य जग्राह |

स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश | १३७ |

प्रविश्य च नागलोकं स्वभवनमगच्छत् |

तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन |

प्रविश्य च नागानस्तुवदेभिः श्लोकैः | १३८ |

य ऐरावतराजानः सर्पाः समितिशोभनाः |

वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ||१३९||

सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः |

आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ||१४०||

बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे |

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ||१४१||

शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः |

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ||१४२||

ये चैनमुपसर्पन्ति ये च दूरं परं गताः |

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ||१४३||

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा |

तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ||१४४||

तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ |

कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ||१४५||

जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः |

अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ||१४६||

करवाणि सदा चाहं नमस्तस्मै महात्मने ||१४६||

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ | १४७ |

तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |

चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् |

पुरुषं चापश्यद्दर्शनीयम् | १४८ |

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः | १४९ |

त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् |

चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ||१५०||

तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ |

कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ||१५१||

वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता |

कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ||१५२||

यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः |

नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ||१५३||

ततः स एनं पुरुषः प्राह |

प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण |

किं ते प्रियं करवाणीति | १५४ |

स तमुवाच |

नागा मे वशमीयुरिति | १५५ |

स एनं पुरुषः पुनरुवाच |

एतमश्वमपाने धमस्वेति | १५६ |

स तमश्वमपानेऽधमत् |

अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः | १५७ |

ताभिर्नागलोको धूपितः | १५८ |

अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच |

एते कुण्डले प्रतिगृह्णातु भवानिति | १५९ |

स ते प्रतिजग्राहोत्तङ्कः |

कुण्डले प्रतिगृह्याचिन्तयत् |

अद्य तत्पुण्यकमुपाध्यायिन्याः |

दूरं चाहमभ्यागतः |

कथं नु खलु सम्भावयेयमिति | १६० |

तत एनं चिन्तयानमेव स पुरुष उवाच |

उत्तङ्क एनमश्वमधिरोह |

एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति | १६१ |

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् |

उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे | १६२ |

अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् |

ते चास्यै कुण्डले प्रायच्छत् | १६३ |

सा चैनं प्रत्युवाच |

उत्तङ्क देशे कालेऽभ्यागतः |

स्वागतं ते वत्स |

मनागसि मया न शप्तः |

श्रेयस्तवोपस्थितम् |

सिद्धिमाप्नुहीति | १६४ |

अथोत्तङ्क उपाध्यायमभ्यवादयत् |

तमुपाध्यायः प्रत्युवाच |

वत्सोत्तङ्क स्वागतं ते |

किं चिरं कृतमिति | १६५ |

तमुत्तङ्क उपाध्यायं प्रत्युवाच |

भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि |

तेनास्मि नागलोकं नीतः | १६६ |

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ |

तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः |

किं तत् | १६७ |

तत्र च मया चक्रं दृष्टं द्वादशारम् |

षट्चैनं कुमाराः परिवर्तयन्ति |

तदपि किम् | १६८ |

पुरुषश्चापि मया दृष्टः |

स पुनः कः | १६९ |

अश्वश्चातिप्रमाणयुक्तः |

स चापि कः | १७० |

पथि गच्छता मया ऋषभो दृष्टः |

तं च पुरुषोऽधिरूढः |

तेनास्मि सोपचारमुक्तः |

उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय |

उपाध्यायेनापि ते भक्षितमिति |

ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् |

तदिच्छामि भवतोपदिष्टं किं तदिति | १७१ |

तेनैवमुक्त उपाध्यायः प्रत्युवाच |

ये ते स्त्रियौ धाता विधाता च |

ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी | १७२ |

यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् |

यः पुरुषः स पर्जन्यः |

योऽश्वः सोऽग्निः | १७३ |

य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः |

यश्चैनमधिरूढः स इन्द्रः |

यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् | १७४ |

तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने |

स चापि मम सखा इन्द्रः | १७५ |

तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि |

तत्सौम्य गम्यताम् |

अनुजाने भवन्तम् |

श्रेयोऽवाप्स्यसीति | १७६ |

स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे | १७७ |

स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः |

समागच्छत राजानमुत्तङ्को जनमेजयम् ||१७८||

पुरा तक्षशिलातस्तं निवृत्तमपराजितम् |

सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ||१७९||

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः |

उवाचैनं वचः काले शब्दसम्पन्नया गिरा ||१८०||

अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम |

बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ||१८१||

एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह |

जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ||१८२||

आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि |

प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ||१८३||

स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः |

उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ||१८४||

तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता |

तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ||१८५||

कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः |

तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ||१८६||

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना |

पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ||१८७||

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः |

अकार्यं कृतवान्पापो योऽदशत्पितरं तव ||१८८||

राजर्षिवंशगोप्तारममरप्रतिमं नृपम् |

जघान काश्यपं चैव न्यवर्तयत पापकृत् ||१८९||

दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने |

सर्पसत्रे महाराज त्वयि तद्धि विधीयते ||१९०||

एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि |

मम प्रियं च सुमहत्कृतं राजन्भविष्यति ||१९१||

कर्मणः पृथिवीपाल मम येन दुरात्मना |

विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ||१९२||

एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह |

उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ||१९३||

अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः |

उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ||१९४||

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् |

यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ||१९५||


              पौलोमपर्व

                  ४

लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे | ००१ |

पौराणिकः पुराणे कृतश्रमः स तान्कृताञ्जलिरुवाच |

किं भवन्तः श्रोतुमिच्छन्ति |

किमहं ब्रुवाणीति | ००२ |

तमृषय ऊचुः |

परमं लोमहर्षणे प्रक्ष्यामस्त्वां वक्ष्यसि च नः शुश्रूषतां कथायोगम् |

तद्भगवांस्तु तावच्छौनकोऽग्निशरणमध्यास्ते | ००३ |

योऽसौ दिव्याः कथा वेद देवतासुरसङ्कथाः |

मनुष्योरगगन्धर्वकथा वेद च सर्वशः ||४||

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः |

दक्षो धृतव्रतो धीमाञ्शास्त्रे चारण्यके गुरुः ||५||

सत्यवादी शमपरस्तपस्वी नियतव्रतः |

सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम् ||६||

तस्मिन्नध्यासति गुरावासनं परमार्चितम् |

ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तमः ||७||


सूत उवाच||

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि |

तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः ||८||

सोऽथ विप्रर्षभः कार्यं कृत्वा सर्वं यथाक्रमम् |

देवान्वाग्भिः पितृनद्भिस्तर्पयित्वाजगाम ह ||९||

यत्र ब्रह्मर्षयः सिद्धास्त आसीना यतव्रताः |

यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः ||१०||

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्ततः |

उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम् ||११||


                  ५

शौनक उवाच||

पुराणमखिलं तात पिता तेऽधीतवान्पुरा |

कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१||

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् |

कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२||

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् |

कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३||


सूत उवाच||

यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः |

वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४||

यदधीतं च पित्रा मे सम्यक्चैव ततो मया |

तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ||५||

पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ||५||

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने |

निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ||६||

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः |

च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ||७||

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ||७||

रुरोरपि सुतो जज्ञे शुनको वेदपारगः |

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ||८||

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः |

धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ||९||


शौनक उवाच||

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः |

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ||१०||


सूत उवाच||

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता |

तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ||११||

तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह |

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ||१२||

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे |

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ||१३||

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् |

हृच्छयेन समाविष्टो विचेताः समपद्यत ||१४||

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना |

न्यमन्त्रयत वन्येन फलमूलादिना तदा ||१५||

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् |

दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ||१६||

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् |

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ||१७||

शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै |

सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ||१८||

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी |

पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ||१९||

सेयं यदि वरारोहा भृगोर्भार्या रहोगता |

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ||२०||

मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति |

मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ||२१||

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् |

शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ||२२||

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा |

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ||२३||

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा |

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ||२४||

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् |

जातवेदः पश्यतस्ते वद सत्यां गिरं मम ||२५||

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् |

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ||२६||

                  ६

सूत उवाच||

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् |

ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ||१||

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह |

रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ||२||

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् |

तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ||३||

सा तमादाय सुश्रोणी ससार भृगुनन्दनम् |

च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ||४||

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः |

रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ||५||

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ||५||

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी |

अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ||६||

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा |

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ||७||

वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ||७||

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् |

तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ||८||

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः |

केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ||९||

न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ||९||

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा |

बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ||१०||


पुलोमोवाच||

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता |

ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ||११||

साहं तव सुतस्यास्य तेजसा परिमोक्षिता |

भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ||१२||


सूत उवाच||

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् |

शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ||१३||

                  ७

सूत उवाच||

शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् |

किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ||१||

धर्मे प्रयतमानस्य सत्यं च वदतः समम् |

पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ||२||

पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् |

स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ||३||

यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते |

सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ||४||

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम |

जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ||५||

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु |

अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ||६||

वेदोक्तेन विधानेन मयि यद्धूयते हविः |

देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ||७||

आपो देवगणाः सर्वे आपः पितृगणास्तथा |

दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ||८||

देवताः पितरस्तस्मात्पितरश्चापि देवताः |

एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ||९||

देवताः पितरश्चैव जुह्वते मयि यत्सदा |

त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ||१०||

अमावास्यां च पितरः पौर्णमास्यां च देवताः |

मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ||११||

सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ||११||

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः |

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ||१२||

निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः |

विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ||१३||

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः |

अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ||१४||

विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ||१४||

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु |

अग्नेरावेदयञ्शापं क्रियासंहारमेव च ||१५||

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे |

कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ||१६||

हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ||१६||

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् |

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ||१७||

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च |

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ||१८||

स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ||१८||

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः |

त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ||१९||

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि |

उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ||२०||

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते |

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ||२१||

तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् |

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ||२२||

देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ||२२||

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् |

जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ||२३||

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् |

ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ||२४||

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः |

अग्निश्च परमां प्रीतिमवाप हतकल्मषः ||२५||

एवमेष पुरावृत्त इतिहासोऽग्निशापजः |

पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ||२६||

                  ८

सूत उवाच||

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् |

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ||१||

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् |

रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ||२||

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः |

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ||३||

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः |

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ||४||

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् |

गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ||५||

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन |

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ||६||

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह |

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ||७||

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः |

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ||८||

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः |

जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ||९||

ववृधे सा वरारोहा तस्याश्रमपदे शुभा ||९||

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता |

ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ||१०||

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् |

बभूव किल धर्मात्मा मदनानुगतात्मवान् ||११||

पितरं सखिभिः सोऽथ वाचयामास भार्गवः |

प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ||१२||

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् |

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ||१३||

ततः कतिपयाहस्य विवाहे समुपस्थिते |

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ||१४||

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् |

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ||१५||

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा |

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ||१६||

सा दष्टा सहसा भूमौ पतिता गतचेतना |

व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ||१७||

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता |

भूयो मनोहरतरा बभूव तनुमध्यमा ||१८||

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः |

विचेष्टमानां पतितां भूतले पद्मवर्चसम् ||१९||

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः |

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ||२०||

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः |

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ||२१||

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् |

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ||२२||

                  ९


सूत उवाच||

तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः |

रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ||१||

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु |

अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ||२||

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी |

बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ||३||

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि |

सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ||४||

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः |

प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ||५||


देवदूत उवाच||

अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा |

न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ||६||

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता |

तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ||७||

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः |

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ||८||


रुरुरुवाच||

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर |

करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ||९||


देवदूत उवाच||

आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन |

एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ||१०||


रुरुरुवाच||

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम |

शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ||११||


सूत उवाच||

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ |

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ||१२||

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा |

समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ||१३||


धर्मराज उवाच||

प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि |

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ||१४||


सूत उवाच||

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा |

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ||१५||

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः |

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ||१६||

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा |

विवाहं तौ च रेमाते परस्परहितैषिणौ ||१७||

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् |

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ||१८||

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः |

अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ||१९||

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् |

शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ||२०||

तत उद्यम्य दण्डं स कालदण्डोपमं तदा |

अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ||२१||

नापराध्यामि ते किञ्चिदहमद्य तपोधन |

संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ||२२||


                  १०


रुरुरुवाच||

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह |

तत्र मे समयो घोर आत्मनोरग वै कृतः ||१||

हन्यां सदैव भुजगं यं यं पश्येयमित्युत |

ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ||२||


डुण्डुभ उवाच||

अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् |

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ||३||

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् |

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ||४||


सूत उवाच||

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा |

नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ||५||

उवाच चैनं भगवान्रुरुः संशमयन्निव |

कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ||६||


डुण्डुभ उवाच||

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् |

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ||७||


रुरुरुवाच||

किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम |

कियन्तं चैव कालं ते वपुरेतद्भविष्यति ||८||


                  ११

डुण्डुभ उवाच||

सखा बभूव मे पूर्वं खगमो नाम वै द्विजः |

भृशं संशितवाक्तात तपोबलसमन्वितः ||१||

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् |

अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||२||

लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः |

निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||३||

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया |

तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||४||

तस्याहं तपसो वीर्यं जानमानस्तपोधन |

भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ||५||

प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः |

सखेति हसतेदं ते नर्मार्थं वै कृतं मया ||६||

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् |

सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||७||

मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः |

नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ||८||

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत |

श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||९||

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः |

तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||१०||

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः |

स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||११||

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः |

तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ||१२||

ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः |

वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ||१३||

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् |

ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ||१४||

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव |

दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||१५||

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो |

जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||१६||

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि |

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ||१७||

आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||१७||

                  १२

रुरुरुवाच||

कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः |

सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||१||

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे |

आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||२||


ऋषिरुवाच||

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् |

ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ||३||


सूत उवाच||

रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः |

तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||४||

लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा |

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ||५||


              आस्तीकपर्व

                  १३

शौनक उवाच||

किमर्थं राजशार्दूलः स राजा जनमेजयः |

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||१||

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः |

मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||२||

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् |

स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||३||


सूत उवाच||

महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज |

सर्वमेतदशेषेण शृणु मे वदतां वर ||४||


शौनक उवाच||

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् |

आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ||५||


सूत उवाच||

इतिहासमिमं वृद्धाः पुराणं परिचक्षते |

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ||६||

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः |

शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ||७||

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् |

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||८||

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः |

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||९||

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः |

यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ||१०||

अटमानः कदाचित्स स्वान्ददर्श पितामहान् |

लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||११||

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् |

के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ||१२||

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते |

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||१३||


पितर ऊचुः||

यायावरा नाम वयमृषयः संशितव्रताः |

सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ||१४||

अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः |

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||१५||

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति |

तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ||१६||

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा |

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ||१७||

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः |

किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||१८||


जरत्कारुरुवाच||

मम पूर्वे भवन्तो वै पितरः सपितामहाः |

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ||१९||


पितर ऊचुः||

यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः |

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||२०||

न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः |

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||२१||

तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु |

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ||२२||


जरत्कारुरुवाच||

न दारान्वै करिष्यामि सदा मे भावितं मनः |

भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ||२३||

समयेन च कर्ताहमनेन विधिपूर्वकम् |

तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||२४||

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः |

भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ||२५||

दरिद्राय हि मे भार्यां को दास्यति विशेषतः |

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||२६||

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः |

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||२७||

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै |

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||२८||


सूत उवाच||

ततो निवेशाय तदा स विप्रः संशितव्रतः |

महीं चचार दारार्थी न च दारानविन्दत ||२९||

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् |

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||३०||

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा |

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ||३१||

सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि |

मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||३२||

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः |

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ||३३||


वासुकिरुवाच||

जरत्कारो जरत्कारुः स्वसेयमनुजा मम |

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||३४||


सूत उवाच||

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर |

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||३५||

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः |

स्वसारमृषये तस्मै सुव्रताय तपस्विने ||३६||

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा |

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||३७||

तपस्वी च महात्मा च वेदवेदाङ्गपारगः |

समः सर्वस्य लोकस्य पितृमातृभयापहः ||३८||

अथ कालस्य महतः पाण्डवेयो नराधिपः |

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ||३९||

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै |

मोचयामास तं शापमास्तीकः सुमहायशाः ||४०||

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् |

पितृंश्च तारयामास सन्तत्या तपसा तथा ||४१||

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ||४१||

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः |

ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ||४२||

अपहृत्य गुरुं भारं पितृणां संशितव्रतः |

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||४३||

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः |

जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ||४४||

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया |

प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ||४५||

                  १४

शौनक उवाच||


सौते कथय तामेतां विस्तरेण कथां पुनः |

आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ||१||

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया |

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ||२||

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव |

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ||३||


सूत उवाच||

आयुष्यमिदमाख्यानमास्तीकं कथयामि ते |

यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ||४||

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे |

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ||५||

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह |

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ||६||

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ||६||

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते |

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ||७||

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः |

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ||८||

ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ||८||

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् |

एवमस्त्विति तं चाह कश्यपं विनता तदा ||९||

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ |

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ||१०||

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः |

ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ||११||

कालेन महता कद्रूरण्डानां दशतीर्दश |

जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ||१२||

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः |

सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ||१३||

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः |

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ||१४||

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी |

अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ||१५||

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता |

स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ||१६||

योऽहमेवं कृतो मातस्त्वया लोभपरीतया |

शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ||१७||

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह |

एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ||१८||

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् |

न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ||१९||

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया |

विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ||२०||

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः |

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ||२१||

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः |

स जातमात्रो विनतां परित्यज्य खमाविशत् ||२२||

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् |

विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ||२३||

                  १५

सूत उवाच||

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन |

अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ||१||

यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् |

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ||२||

महौघबलमश्वानामुत्तमं जवतां वरम् |

श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ||३||

शौनक उवाच||

कथं तदमृतं देवैर्मथितं क्व च शंस मे |

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ||४||

सूत उवाच||

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् |

आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ||५||

काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् |

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ||६||

व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् |

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ||७||

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् |

नानापतगसङ्घैश्च नादितं सुमनोहरैः ||८||

तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् |

अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ||९||

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः |

अमृतार्थे समागम्य तपोनियमसंस्थिताः ||१०||

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् |

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ||११||

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः |

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ||१२||

सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि |

मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ||१३||

                  १६

सूत उवाच||

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् |

मन्दरं पर्वतवरं लताजालसमावृतम् ||१||

नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् |

किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ||२||

एकादश सहस्राणि योजनानां समुच्छ्रितम् |

अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ||३||

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा |

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ||४||

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् |

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ||५||

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव |

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ||६||

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ||६||

अथ पर्वतराजानं तमनन्तो महाबलः |

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ||७||

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे |

तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ||८||

अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः |

सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ||९||

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः |

गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ||१०||

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् |

तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ||११||

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् |

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ||१२||

अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ||१२||

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः |

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ||१३||

अनन्तो भगवान्देवो यतो नारायणस्ततः |

शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ||१४||

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः |

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ||१५||

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः |

अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ||१६||

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः |

सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ||१७||

बभूवात्र महाघोषो महामेघरवोपमः |

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ||१८||

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा |

विलयं समुपाजग्मुः शतशो लवणाम्भसि ||१९||

वारुणानि च भूतानि विविधानि महीधरः |

पातालतलवासीनि विलयं समुपानयत् ||२०||

तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् |

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ||२१||

तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः |

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ||२२||

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् |

विगतासूनि सर्वाणि सत्त्वानि विविधानि च ||२३||

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः |

वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ||२४||

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि |

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ||२५||

तेषाममृतवीर्याणां रसानां पयसैव च |

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ||२६||

अथ तस्य समुद्रस्य तज्जातमुदकं पयः |

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ||२७||

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् |

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ||२८||

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा |

चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ||२९||

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् |

विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ||३०||


विष्णुरुवाच||

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः |

क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ||३१||


सूत उवाच||

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः |

तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ||३२||

ततः शतसहस्रांशुः समान इव सागरात् |

प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ||३३||

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी |

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ||३४||

कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः |

मरीचिविकचः श्रीमान्नारायण उरोगतः ||३५||

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः |

यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ||३६||

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत |

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ||३७||

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः |

अमृतार्थे महान्नादो ममेदमिति जल्पताम् ||३८||

ततो नारायणो मायामास्थितो मोहिनीं प्रभुः |

स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ||३९||

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः |

स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ||४०||


                  १७

सूत उवाच||

अथावरणमुख्यानि नानाप्रहरणानि च |

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ||१||

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् |

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ||२||

ततो देवगणाः सर्वे पपुस्तदमृतं तदा |

विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ||३||

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् |

राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ||४||

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा |

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ||५||

ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् |

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ||६||

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् |

चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ||७||

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै |

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ||८||

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः |

नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ||९||

ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः |

सुराणामसुराणां च सर्वघोरतरो महान् ||१०||

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः |

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ||११||

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु |

असिशक्तिगदारुग्णा निपेतुर्धरणीतले ||१२||

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे |

तप्तकाञ्चनजालानि निपेतुरनिशं तदा ||१३||

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः |

अद्रीणामिव कूटानि धातुरक्तानि शेरते ||१४||

हाहाकारः समभवत्तत्र तत्र सहस्रशः |

अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ||१५||

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः |

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ||१६||

छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च |

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ||१७||

एवं सुतुमुले युद्धे वर्तमाने भयावहे |

नरनारायणौ देवौ समाजग्मतुराहवम् ||१८||

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि |

चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ||१९||

ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् |

विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ||२०||

तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः |

मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ||२१||

तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा |

विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ||२२||

दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत |

प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ||२३||

अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा |

महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ||२४||

अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः |

महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ||२५||

ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः |

परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ||२६||

नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् |

विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ||२७||

ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः |

वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ||२८||

ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः |

विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ||२९||

ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् |

ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ||३०||

                  १८

सूत उवाच||

एतत्ते सर्वमाख्यातममृतं मथितं यथा |

यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ||१||

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् |

उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ||२||


विनतोवाच||

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे |

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ||३||


कद्रूरुवाच||

कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते |

एहि सार्धं मया दीव्य दासीभावाय भामिनि ||४||


सूत उवाच||

एवं ते समयं कृत्वा दासीभावाय वै मिथः |

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ||५||

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती |

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ||६||

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा |

तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ||७||

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति |

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ||८||

शापमेनं तु शुश्राव स्वयमेव पितामहः |

अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ||९||

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत |

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ||१०||

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः |

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ||११||

प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ||११||

१९


सूत उवाच||

ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ |

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ||१||

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा |

जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ||२||

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् |

तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ||३||

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् |

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ||४||

आकरं सर्वरत्नानामालयं वरुणस्य च |

नागानामालयं रम्यमुत्तमं सरितां पतिम् ||५||

पातालज्वलनावासमसुराणां च बन्धनम् |

भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ||६||

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् |

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ||७||

घोरं जलचरारावरौद्रं भैरवनिस्वनम् |

गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ||८||

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् |

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ||९||

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् |

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ||१०||

गां विन्दता भगवता गोविन्देनामितौजसा |

वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ||११||

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा |

अनासादितगाधं च पातालतलमव्ययम् ||१२||

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः |

युगादिकालशयनं विष्णोरमिततेजसः ||१३||

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् |

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ||१४||

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः |

अभिसार्यमाणमनिशं ददृशाते महार्णवम् ||१५||

गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः |

विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ||१६||

इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् |

पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ||१७||

                  २०

सूत उवाच||

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह |

न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ||१||

निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् |

विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ||२||

ततः सा विनता तस्मिन्पणितेन पराजिता |

अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ||३||

एतस्मिन्नन्तरे चैव गरुडः काल आगते |

विना मात्रा महातेजा विदार्याण्डमजायत ||४||

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः |

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ||५||

तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् |

प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ||६||

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि |

असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ||७||


अग्निरुवाच||

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः |

गरुडो बलवानेष मम तुल्यः स्वतेजसा ||८||


सूत उवाच||

एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् |

अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ||९||

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः |

त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ||१०||

बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव |

तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ||११||

त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे |

समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ||१२||

दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ |

भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ||१३||

खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् |

महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ||१४||

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा |

तेजसः प्रतिसंहारमात्मनः स चकार ह ||१५||






एक टिप्पणी भेजें

0 टिप्पणियाँ