==सप्तमोऽध्यायः==
७,१.१
अधीहि भगव इति होपससाद सनत्कुमारं नारदः ।
तं होवाच यद्वेत्थ तेन मोपसीद ।
ततस्त ऊर्ध्वं वक्ष्यामीति ।
स होवाच ॥ ७,१.१ ॥
__________
भाष्य ७,१.१
परमार्थन्तत्त्वोपदेशप्रधानपरः षष्ठोऽध्यायः सदात्मैकत्वनिर्णयपरतयैवोपयुक्तः ।
न सतोर्ऽवाग्विकारलक्षणानि तत्त्वानि निर्दिष्टानीत्यतस्तानि नामादीनि प्राणान्तानि क्रमेण निर्दिश्य तद्द्वारेणापि भूमाख्यं निरतिशयं तत्त्वं निर्देक्ष्यामीति शाखाचन्द्रदर्शनवदितीनं सप्तमं प्रपाठकमारभते ।
अनिर्दिष्टेषु हि सतोर्ऽवाक्तत्त्वेषु सन्मात्रे च निर्दिष्टेऽन्यदप्यविज्ञातं स्यादित्याशङ्का कस्यचित्स्यात्सा मा भूदिति वा तानि निर्दिदिक्षति ।
अथवा सोपानारोहणवत्स्थूलादारभ्य सूक्ष्मं सूक्षमतं च बुद्धिविषयं ज्ञापयित्वा तदतिरिक्ते स्वाराज्येऽभिषेक्ष्यामीति नामादीनि निर्दिदिक्षति ।
अथवा नामाद्युत्तरोत्तरविशिष्टानि तत्त्वान्यतितरां च तेषामुत्कृष्टतमं भूमाख्यं तत्त्वमिति तत्स्तुत्यर्थं नामादीनां क्रमेणोपन्यासः ।
आख्यायिका तु परविद्यास्तुत्यर्था ।
कथम् ।
नारदो देवर्षिः कृतकर्तव्यः सर्वविद्योऽपि सन्ननात्मज्ञत्वाच्छुशोचैव किमु वक्तव्यमन्योऽल्पविज्जन्तुरकृतपुण्यातिशयोऽकृतार्थ इति ।
अथवा नान्यदात्मज्ञानान्निरतिशयश्रेयः साधनमस्तीत्येतत्प्रदर्शनार्थं सनत्कुमारनारदाख्यायिकाऽरभ्यते ।
येन सर्वविज्ञानसाधनशक्तिसम्पन्नस्यापि नारदस्य देवर्षेः श्रेयो न बभूव येनोत्तमाभिजनविद्यावृत्तसाधनशक्तिसम्पत्तिनिमित्ताभि मानं हित्वा प्राकृतपुरुषवत्सनत्कुमारमुपससाद श्रेयःसाधनप्राप्तयेऽतः प्रख्यापितं भवति निरतिशयप्राप्तिसाधनत्वमात्मविद्याया इति ।
अधीह्यधीष्व भगवा भ विन्निति किलोपससाद ।
अधीहि भगव इति मन्त्रः ।
सनत्कुमारं योगीश्वरं ब्रह्मिष्ठं नारद उपसन्नवान् ।
तं न्यायत उपसन्नं होवाच यदात्मविषये किञ्चिद्वेत्थ तेन तत्प्रख्यापनेन मामुपसीदेदमहं जान इति ततोऽहं भवतो विज्ञानात्ते तुब्यमूर्ध्वं वक्ष्यामीत्युक्तवति स होवाच नारदः ॥१ ॥
_______________________________________________________________________
७,१.२
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७,१.२ ॥
__________
भाष्य ७,१.२ ऋग्वेदं भगवोऽध्येमि स्मरामि यद्वेत्थेति विज्ञानस्य पृष्टत्वात् ।
तथा यजुर्वेदं सामवेदमाथर्वणं चतुर्थं वेदं वेदशब्दस्य प्रकृतत्वादितिहासपुराणं पञ्चमं वेदं वेदानां भारतपञ्चमानां वेदं व्याकरणमित्यर्थः ।
व्याकरणेन हि पदादिविभागश ऋग्वेदादयो ज्ञायन्ते ।
पित्र्यं श्राद्धकल्पम् ।
काशिं गणितम् ।
दैवमुत्पातज्ञानम् ।
निधिं महाकालादिनिधिशास्त्रम् ।
वाकोवाक्यं तर्कशास्रम् ।
एकायनं नीतिशास्रम् ।
देवविद्यां निरुक्तम् ।
ब्रह्मण ऋग्यजुःसामाख्यस्य विद्यां ब्रह्मविद्यां शिक्षाकल्पच्छन्दोविचितयः ।
भूतविद्यां भूततन्त्रम् ।
क्षत्त्रविद्यां धनुर्वेदम् ।
नक्षत्रविद्यां ज्यौतिषम् ।
सर्पदेवजनविद्यां सर्पविद्यां गारुडं देवजनविद्यां गन्धयुक्तिनृत्यगीतवाद्यिशिल्पादिविज्ञानानि ।
एतत्सर्वं हे भगवोऽध्येमि ॥२ ॥
_______________________________________________________________________
७,१.३
सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् ।
श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति ।
सोऽहं भगवः शोचामि ।
तं मा भगवाञ्छोकस्य पारं तारयत्विति ।
तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७,१.३ ॥
__________
भाष्य ७,१.३ सोऽहं भगव एतत्सर्वं जानन्नपि मन्त्रविदेवास्मि शब्दार्थमात्रविज्ञानवानेवास्मीत्यर्थः ।
सर्वो हि शब्दोऽभिधानमात्रमभिधानं च सर्वं मन्त्रेष्वन्तर्भवति ।
मन्त्रविदेवास्मि मन्त्रवित्कर्मविदित्यर्थः ।
ऽमन्त्रेषु कर्माणीऽति हि वक्ष्यति नाऽत्मविन्नाऽत्मानं वेद्भि ।
नन्वात्मापि मन्त्रैः प्रकाश्यत एवेति कथं मन्त्रविच्चेन्नाऽत्मवित् ।
न ।
अभिधानाभिधेयभेदस्य विकारत्वात् ।
न च विकार आत्मेष्यते ।
नन्वात्माप्यात्मशब्देनाभिधीयते ।
न"यतो वाचो निवर्तन्ते" ।
"यत्र नान्य पश्यति"इत्यादिश्रुतेः ।
कथं तर्ह्याऽत्मैवाधस्तात्ऽऽस आत्मेऽत्यादिशब्दा आत्मानं प्रत्याययन्ति ।
नैष दोषः ।
देहवति प्रत्यगात्मनि भेदविषये प्रयुज्यमानः शब्दो देहादीनामात्मत्वे प्रत्याख्यायमाने यत्परिशिष्टं सदवाच्यमपि प्रत्याययति ।
यथा सराजिकायां दृश्यमानायां सेनायां छत्रध्वजपताकादिव्यवहितेऽदृश्यमानेऽपि राजन्येष राजा दृश्यत इति भवति शब्दप्रयोगस्तत्र कोऽसौ राजेति राजविशेषनिरूपणायां दृश्यमानेतरप्रत्याख्यानेऽन्यस्मिन्नदृश्यमानेऽपि राजनि राजप्रतीतिर्भवेत्तद्वत् ।
तस्मात्सोहं मन्त्रवित्कर्मविदेवास्मि कर्मकार्यं च सर्वं विकार इति विकारज्ञ एवास्मि नाऽत्मविन्नाऽत्मप्रकृतिस्वरूपज्ञ इत्यर्थः ।
अत एवोक्त"माचार्यवान्पुरुषो वेदे"ति ।
"यतो वाचो निवर्तन्ते"इत्यादिश्रुतिभ्यश्च ।
श्रुतमागमज्ञानमस्त्येव हि यस्मान्मे मम भगवद्दृशेभ्यो युष्मत्सदृशेभ्यस्तरत्यतिक्रामति शोकं मनस्तापमकृतार्थबुद्धितामात्मविदित्यतः ।
सोऽहमनात्मवित्त्वाद्धे भगवः शोचाम्यकृतार्थबुद्ध्या सन्तप्ये सर्वदा तं मा मां शोकस्य शोकसागरस्य पारमन्तं भगवांस्तारयत्वात्मज्ञानोडुपेन कृतार्थबुद्धिमापादयत्वभयं गमयत्वित्यर्थः ।
तमेवमुक्तवन्तं होवाच यद्वै किञ्चैतदध्यगीष्ठा अधीतवानसि ।
अध्ययनेन तदर्थज्ञानमुपलक्ष्यते ज्ञातवानसीत्येतन्नामैवैतत् ।
"वाचाऽरम्भणं विकारो नामधेयम्"इति श्रुतेः ॥३ ॥
_______________________________________________________________________
७,१.४
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या ।
नामैवैतत् ।
नामोपास्स्वेति ॥ ७,१.४ ॥
__________
भाष्य ७,१.४ नाम वा ऋग्वेदो यजुर्वेद इत्यादि नामैवैतत् ।
नामोपाःस्व ब्रह्मेति ब्रह्मबुद्ध्या ।
यथा प्रतिमां विष्णुबुद्ध्योपास्ते तद्वत् ॥४ ॥
_______________________________________________________________________
७,१.५
स यो नाम ब्रह्मेत्युपास्ते ।
यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्ते ।
अस्ति भगवो नाम्नो भूय इति ।
नाम्नो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१.५ ॥
__________
भाष्य ७,१.५ स यस्तु नाम ब्रह्मेत्युपास्ते तस्य यत्फलं भवति तच्छृणु यावन्नाम्नो गतं नाम्नो गोचरं तत्र तस्मिन्नामविषयेऽस्य यथाकामचारः कामचरणं राज्ञ इव स्वविषये भवति ।
यो नाम ब्रह्मेत्युपास्त इत्युपसंहारः ।
किमस्ति भगवो नाम्नो भूयोऽधिकतरं यद्ब्रह्मदृष्ट्यर्हमन्यदित्यभिप्रायः ।
सनत्कुमार आह नाम्नो वाव भूयोऽस्त्येवेत्युक्त आह यद्यस्ति तन्मे भगवान्ब्रवीत्विति ॥५॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य प्रथमः खण्डः
=======================================================================
७,२.१
वाग्वाव नाम्नो भूयसी ।
वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मम् ।
च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च ।
यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञः ।
वागेवैतद्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ ७,२.१ ॥
__________
भाष्य ७,२.१ वाग्वाव ।
वागितीन्द्रियं जिह्वाभूलादिष्वष्टसु स्थानेषु स्थितं वर्णानामभिव्यञ्जकम् ।
वर्णाश्च नामेति नाम्नो वाग्भूयसीत्युच्यते ।
कार्यद्धि कारणं भूयो दृष्टं लोके यथा पुत्रात्पिता तद्वत् ।
कथं च वाङ्नाम्नो भूयसीत्याहवाग्वा ऋग्वेदं विज्ञापयत्ययमृग्वेद इति ।
तथा यजुर्वेदमित्यादि समानम् ।
हृदयज्ञं हृदयप्रियम् ।
तद्विपरीतमहृदयज्ञम् ।
यद्यदि वाङ्नाभविष्यद्धर्मादि न व्यज्ञापयिष्यद्वागभावेऽध्ययनाभावे तदर्थश्रवणाभावस्तच्छ्रवणाभावे धर्मादि न व्यज्ञापयिष्यन्न विज्ञातमभविष्यदित्यर्थः ।
तस्माद्वागेवैतच्छब्दोच्चारणेन सर्वं विज्ञापयत्यतो भूयसी वाङ्नाम्नस्तस्माद्वाचं ब्रह्मेत्युपाःस्व ॥१ ॥
_______________________________________________________________________
७,२.२
स यो वाचं ब्रह्मेत्युपास्ते ।
यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्ते ।
अस्ति भगवो वाचो भूय इति ।
वाचो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,२.२ ॥
__________
भाष्य ७,२.२ समानमन्यत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वितीयः खण्डः
=======================================================================
७,३.१
मनो वाव वाचो भूयः ।
यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति ।
स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते ।
कर्माणि कुर्वीयेत्यथ कुरुते ।
पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छते ।
इमं च लोकममुं चेच्छेयेत्यथेच्छते ।
मनो ह्यात्मा ।
मनो हि लोकः ।
मनो हि ब्रह्म ।
मन उपास्स्वेति ॥ ७,३.१ ॥
__________
भाष्य ७,३.१ मनो मनस्यनविशिष्टमन्तःकरणं वाचो भूयः ।
तद्धि मनस्यनव्यापारवद्वाचं वक्तव्ये प्रेरयति ।
तेन वाङ्मनस्यन्तर्भवति ।
यच्च यस्मिन्नन्तर्भवति तत्तस्य व्यापकत्वात्ततो भूयो भवति ।
यथा वै लोके द्वे वाऽमलके फले द्वे वा कोले बदरफले द्वौ वाक्षौ विभीतकफले मुष्टिरनुभवति मुष्टिस्ते फले व्याप्नोति मुष्टौ हि ते अन्तर्भवतः ।
एवं वाचं च नाम चाऽमलकादिवन्मनोऽनुभवति ।
स यदा पुरुषे यस्मिन्काले मनसान्तःकरणेन मनस्यति मनस्यनं विवक्षाबुद्धिः कथं?मन्त्रानधीयीयोच्चारयेयमित्येवं विवक्षां कृत्वाथाधीते तथा कर्माणि कुर्वीयेति चिकीर्षाबुद्धिं कृत्वाथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेति प्राप्तीच्छां कृत्वा तत्प्राप्त्युपायानुष्ठानेनाथेच्छते पुत्रादीन्प्राप्नोतीत्यर्थः ।
तथेमं च लोकममुं चोपायेनेच्छेयेति तत्प्रप्त्युपायानुष्ठानेनाथेच्छचे प्राप्नोति ।
मनो ह्यात्माऽत्मनः कर्तृत्वं भोक्तृत्वं च सति मनसि नान्यथेति मनो ह्यात्मेत्युच्यते ।
मनो हि लोकः सत्येव हि मनसि लोको भवति तत्प्राप्त्युपायानुष्ठानं चेति मनो हि लोको यस्मात्तस्मान्मनो हि ब्रह्म ।
यत एवं तस्मान्मन उपाःस्वेति ॥१ ॥
_______________________________________________________________________
७,३.२
स यो मनो ब्रह्मेत्युपास्ते ।
यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्ते ।
अस्ति भगवो मनसो भूय इति ।
मनसो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,३.२ ॥
__________
भाष्य ७,३.२ स यो इत्यादि समानम् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य तृतीयः खण्डः
=======================================================================
७,४.१
संकल्पो वाव मनसो भूयान् ।
यदा वै संकल्पयतेऽथ मनस्यति ।
अथ वाचमीरयति ।
तामु नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि ॥ ७,४.१ ॥
__________
भाष्य ७,४.१ संकल्पो वाव मनसो भूयान् ।
संकल्पोऽपि मनस्यनवदन्तःकरणवृत्तिः कर्तव्याकर्तव्यविषयविभागेन समर्थनम् ।
विभागेन हि समर्थिते विषये चिकीर्षाबुद्धिर्मनस्यनानन्तरं भवति ।
कथम् ।
यदा वै संकल्पयते कर्तव्यादिविषयान्विभजत इदं कर्तुं युक्तमिति, अथ मनस्यति मन्त्रानधीयीयेत्यादि ।
अथानन्तरं वाचमीरयति मन्त्राद्युच्चारणे ।
तां च वाचमु नाम्नि नामोच्चारणनिमित्तं विवक्षां कृत्वेरयति नाम्नि नामसामान्ये मन्त्राः शब्दविशेषाः सन्त एकं भवन्त्यन्तर्भवन्तीत्यर्थः ।
सामान्ये हि विशेषोऽन्तभवति ।
मन्त्रेषु कर्माण्येकं भवन्ति ।
मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्रकमस्ति कर्म ।
यद्धि मन्त्रप्रकाशनेन लब्धसत्ताकं सत्कर्म ब्राह्मणेनेदं कर्तव्यमस्मै फलायेति विधीयते ।
याप्युत्पत्तिर्ब्राह्मणेषु कर्मणां दृश्यते सापि मन्त्रेषु लब्धसत्ताकानामेव कर्मणां स्पष्टीकरणम् ।
न हि मन्त्राप्रकाशितं कर्म किञ्चिद्ब्राह्मण उत्पन्नं दृश्यते ।
त्रयीविहितं कर्मेति प्रसिद्धं लोके ।
त्रयीशब्दश्च ॠग्यजुःसामसमाख्या ।
मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति चाऽथर्वणे ।
तस्माद्युक्तं मन्त्रेषु कर्माण्येकं भवन्तीति ॥१ ॥
_______________________________________________________________________
७,४.२
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि ।
समकॢपतां द्यावापृथिवी ।
समकल्पेतां वायुश्चाकाशं च ।
समकल्पन्तापश्च तेजश्च ।
तेषां संकॢप्त्यै वर्षं संकल्पते ।
वर्षस्य संकॢप्त्या अन्नं संकल्पते ।
अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते ।
प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते ।
मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते ।
कर्मणां संकॢप्त्यै लोकः संकल्पते ।
लोकस्य संकॢप्त्यै सर्वं संकल्पते ।
स एष संकल्पः ।
संकल्पमुपास्स्वेति ॥ ७,४.२ ॥
__________
भाष्य ७,४.२ तानि ह वा एतानि मन आदीनि संकल्पैकायनानि संकल्प एकोऽयनं गमनं प्रलयो येषां तानि संकल्पैकायनानि संकल्पात्मकान्युत्पत्तौ संकल्पे प्रतिष्ठितानि स्थितौ समकॢपतां संकल्पं कृतवत्याविव हि द्यौश्च पृथिवी च द्यावापृथिव्यौ निश्चले लक्ष्येते ।
तथा समकल्पेतां वायुश्चाऽकाशं चैतावपि संकल्पं कृतवन्ताविव तथा समकल्पन्तामापश्च तेजश्च स्वेन रूपेम निश्चलानि लक्ष्यन्ते ।
यतस्तेषां द्यावापृथिव्यादीनां संकॢप्त्यै संकल्पनिमित्तं वर्षं संकल्पन्ते ।
अन्नमया हि प्राणा अन्नोपष्टम्भकाः ।
"अन्नं दाम"इति हि श्रुतिः ।
तेषां संकॢप्त्यै मन्त्राः संकल्पन्ते ।
प्राणावान्हि मन्त्रानधीते नाबलः ।
मन्त्राणां हि संकॢप्त्यै कर्माण्यग्निहोत्रादीनि संकल्पन्तेऽनुष्ठीयमानानि मन्त्रप्रकाशितानि समर्थीभवन्ति फलाय ।
ततो लोकः फलं संकल्पते कर्मकर्तृसमवायितया समर्थीभवतीत्यर्थः ।
लोकस्य संकॢप्त्यै सर्वं जगत्संकल्पते स्वरूपावैकल्याय ।
एतद्धीदं सर्वं जगद्यत्फलावसानं तत्सर्वं संकल्पमूलम् ।
अतो विशिष्टः स एष संकल्पः ।
अतः संकल्पमुपाःस्वेत्युक्त्वा फलमाह तदुपासकस्य ॥२ ॥
_______________________________________________________________________
७,४.३
स यः संकल्पं ब्रह्मेत्युपास्ते ।
कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति ।
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्युपास्ते ।
अस्ति भगवः संकल्पाद्भूय इति ।
संकल्पाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,४.३ ॥
__________
भाष्य ७,४.३ स यः संकल्पं ब्रह्मेति ब्रह्मबुद्ध्योपास्तेकॢप्तान्वै धात्रास्येमे लोकाः फलमिति कॢप्तान्समर्थितान्संकल्पितान्स विद्वान्ध्रुवान्नित्यानत्यन्ताध्रुवापेक्षया ध्रुवश्च स्वयम् ।
लोकिनो ह्यध्रुवत्वे लोके ध्रुवकॢप्तिव्यर्थेति ध्रुवः सन्प्रतिष्ठितानुपकरणसंपन्नानित्यर्थः ।
पशुपुत्रादिभिः प्रतितिष्ठतीति दर्शनात्स्वयं च प्रतिष्ठित आत्मीयोपकरणसंपन्नोऽव्यथमानानमित्रादित्रासरहितानव्यथमानश्च स्वयमभिसिध्यत्यभिप्राप्नोतीत्यर्थः ।
यावत्संकल्पस्य गतं संकल्पगोचरस्तत्रास्य यथाकामचारो भवति आत्मनः संकल्पस्य न तु सर्वेषां संकल्पस्येति ।
उत्तरफलविरोधात् ।
यः संकल्पं ब्रह्मेत्युपास्त इत्यादि पूर्ववत् ॥३॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्थः खण्डः
=======================================================================
७,५.१
चित्तं वाव संकल्पाद्भूयः ।
यदा वै चेतयतेऽथ संकल्पयते ।
अथ मनस्यति ।
अथ वाचमीरयति ।
तामु नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि ॥ ७,५.१ ॥
__________
भाष्य ७,५.१ चित्तं वाव संकल्पाद्भूयः ।
चित्तं चेतयितृत्वं प्राप्तकालानुरूपबोधवत्त्वमतीतान गतविषयप्रयोजननिरूपणसामर्थ्यं च तत्संकल्पादपि भूयः ।
कथम् ।
यदा वै प्राप्तमिति चेतयते तदा दानाय वापोहाय वाथ संकल्पयतेऽथ मनस्यतीत्यादि पूर्ववत् ॥१ ॥
_______________________________________________________________________
७,५.२
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि ।
तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुः ।
यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादिति ।
अथ यद्यल्पविच्चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते ।
चित्तं ह्येवैषामेकायनम् ।
चित्तमात्मा ।
चित्तं प्रतिष्ठा ।
चित्तमुपास्स्वेति ॥ ७,५.२ ॥
__________
भाष्य ७,५.२ तानि संकल्पादीनि कर्मफलान्तानि चित्तैकायनानि चित्तात्मानि चित्तोत्पत्तीनि चित्ते प्रतिष्ठितानि चित्तस्थितानीत्यपि पूर्ववत् ।
किञ्च चित्तस्य माहात्म्यम् ।
यस्माच्चित्तं संकल्पादिमूलं तस्माद्यद्यपि बहुविद्बहुशास्रादिपरिज्ञानवान्सन्नचित्तो भवति प्राप्तादिचेतयितृत्वसामर्थ्यविरहितो भवति तं निपुणा लौकिकानायमस्ति विद्यमानोऽप्यसत्सम एवेत्येनमाहुः ।
यच्चायं किञ्चिच्छास्रादि वेद श्रुतवांस्तदप्यस्य वृथैवेति कथयन्ति ।
कस्मात् ।
यद्ययं विद्वान्स्यादित्थमेवमचित्तो न स्यात्तस्मादस्य श्रुतमप्यश्रुतमेवेत्याहुरित्यर्थः ।
अथाल्पविदपि यदि चित्तवान्भवति तस्मा एतस्मै तदुक्तार्थग्रहणायैवोतापि शुश्रूषन्ते श्रोतुमिच्छन्ति ।
तस्माच्च चित्तं ह्येवैषां संकल्पादीनामेकायनमित्यादि पूर्ववत् ॥२ ॥
_______________________________________________________________________
७,५.३
स यश्चित्तं ब्रह्मेत्युपास्ते ।
चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति ।
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्ते ।
अस्ति भगवश्चित्ताद्भूय इति ।
चित्ताद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,५.३ ॥
__________
भाष्य ७,५.३ चित्तानुपचितान्हुद्धिमद्गुणैः स चित्तोपासको ध्रुवानित्यादि चोक्तार्थम् ॥३॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चमः खण्डः
=======================================================================
७,६.१२
ध्यानं वाव चित्ताद्भूयः ।
ध्यायतीव पृथिवी ।
ध्यायतीवान्तरिक्षम् ।
ध्यायतीव द्यौः ।
ध्यायन्तीवापः ।
ध्यायन्तीव पर्वताः ।
ध्यायन्तीव देवमनुष्याः ।
तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्ति ।
अथ येऽल्पाः कलहिनः पिशुना उपवादिनस्ते ।
अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ।
ध्यानमुपास्स्वेति ॥ ७,६.१ ॥
स यो ध्यानं ब्रह्मेत्युपास्ते ।
यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्ते ।
अस्ति भगवो द्यानाद्भूय इति ।
ध्यानाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,६.२ ॥
__________
भाष्य ७,६.१२ ध्यानं वाव चित्ताद्भूयः ।
ध्यानं नाम शास्रोक्तदेवताद्यालम्बनेष्वचलो भिन्नजातीयैरनन्तरितः प्रत्ययसंतानः ।
एकाग्रतेति यमाहुः ।
दृश्यते च ध्यानस्य माहात्म्यं फलतः ।
कथम् ।
यथा योगी ध्यायन्निश्चलो भवति ध्यानफललाभे ।
एवं ध्यायतीव निश्चला दृश्यते पृथिवी ।
ध्यायतीवान्तरिक्षमित्यादि समानमन्यत् ।
देवाश्च मनुष्याश्च देवमनुष्या मनुष्या एव वा देवसमा देवमनुष्याः शमादिगुणसंपन्ना मनुष्या देवस्वरूपं न जहतीत्यर्थः ।
यस्मादेवं विशिष्टं ध्यानं तस्माद्य इह लोके मनुष्याणामेव धनैर्विद्यया गुणैर्वा महत्तां महत्त्वं प्राप्नुवन्ति धनादिमहत्त्वहेतुं लभन्त इत्यर्थः ।
ध्यानापादांशा इव ध्यानस्याऽपादनमापादो ध्यानफललाभ इत्येतत्तस्यांशोऽवयवः कला काचिद्ध्यानफललाभकलावन्त इवैवेत्यर्थः ।
ते भवन्ति निश्चला इव लक्ष्यन्ते न क्षुद्रा इव ।
अथ ये पुनरल्पाः क्षुद्राः किञ्चिदपि धनादिमहत्त्वैकदेशमप्राप्तास्ते पूर्वोक्तविपरीताः कलहिनः कलहशीलाः पिशुनाः परदोषोद्भासका उपवादिनः परदोषं सामीप्ययुक्तमेव वदितुं शीलं योषां त उपवादिनश्च भवन्ति ।
अथ ये महत्त्वं प्राप्ता धनादिनिमित्तं तेऽन्यान्प्रति प्रभवन्तीति प्रभवो विद्याचार्यराजेश्वरादयो ध्यानापादांशा इवेत्याद्युक्तार्थम् ।
अतो दृश्यते ध्यानस्य महत्त्वं फलतोऽतो भूयश्चित्तादतस्तदुपाःस्वेत्याद्युक्तार्थम् ॥१२ ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षष्ठः खण्डः
=======================================================================
७,७.१
विज्ञानं वाव ध्यानाद्भूयः ।
विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकम् ।
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति ।
विज्ञानमुपास्स्वेति ॥ ७,७.१ ॥
__________
भाष्य ७,७.१ विज्ञानं वाव ध्यानाद्भूयः ।
विज्ञानं शास्रार्थविषयं ज्ञानं तस्य ध्यानकारणत्वाद्ध्यानाद्भूयस्त्वम् ।
कथं च तस्य भूयस्त्वमित्याहविज्ञानेन वा ऋग्वेदं विजानात्ययमृग्वेद इति प्रमाणतया यस्यार्थज्ञानं ध्यानकारणम् ।
तथा यजुर्वेदमित्यादि ।
किञ्च पश्वादींश्च धर्माधर्मौ शास्रसिद्धौ ।
साध्वसाधुनी लोकतः सिद्धे, स्मार्ते वा दृष्टादृष्टाविषयं च सर्वं विज्ञानेनैव विजानातीत्यर्थः ।
तस्माद्युक्तं ध्यानादिज्ञानस्य भूयस्त्वमतो विज्ञानमुपाःस्वेति ॥१ ॥
_______________________________________________________________________
७,७.२
स यो विज्ञानं ब्रह्मेत्युपास्ते ।
विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति ।
यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्ते ।
अस्ति भगवो विज्ञानाद्भूय इति ।
विज्ञानाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,७.२ ॥
__________
भाष्य ७,७.२ शृणूपासनफलं विज्ञानवतो विज्ञानं येषु लोकेषु तान्विज्ञानवतो लोकाञ्ज्ञानवतश्चाभिसिध्यत्यभिप्राप्नोति ।
विज्ञानं शास्रार्थविषयं ज्ञानमन्यविषयं नैपुण्यं तद्वद्भिर्युक्तांल्लोकान्नाप्राप्नोतीत्यर्थः ।
यावद्विज्ञानस्येत्यादि पूर्ववत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तमः खण्डः
=======================================================================
७,८.१२
बलं वाव विज्ञानाद्भूयः ।
अपि ह शतं विज्ञानवतामेको बलवानाकम्पयते ।
स यदा बली भवत्यथोत्थाता भवति ।
उत्तिष्ठन् परिचरिता भवति ।
परिचरन्नुपसत्ता भवति ।
उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकम् ।
बलेन लोकस्तिष्ठति ।
बलमुपास्स्वेति ॥ ७,८.१ ॥
स यो बलमुपास्ते ।
यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्ते ।
अस्ति भगवो बलाद्भूय इति ।
बलाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,८.२ ॥
__________
भाष्य ७,८.१२ बलं वाव विज्ञानाद्भूयः ।
बलमित्यन्नोपयोगजनितं मनसो विज्ञेये प्रतिभानसामर्थ्यम् ।
अनशनादृगादीनि न वै मा प्रतिभान्ति भो इति श्रुतेः ।
शरीरेऽपि तदेवोत्थानादिसामर्थ्यं यस्माद्विज्ञानवतां शतमप्येकः प्राणी बलवाना कम्पयते यथा हस्ती मत्तो मनुष्याणां शतं समुदितमपि ।
यस्मादेवमन्नाद्युपयोगनिमित्तं बलं तस्मात्स पुरुषो यदा बली बलेन तद्वान्भवत्यथोत्थातोत्थानस्य कर्तोत्तिष्ठंश्च गुरूणामाचार्यस्य च परिचरिता परिचरणस्य शुश्रूषायाः कर्ता भवति परिचरन्नुपसत्ता तेषां समीपगोऽन्तरङ्गः प्रयो भवतीत्यर्थः ।
उपसीदंश्च समीप्यं गच्छन्नेकाग्रतयाऽचार्यस्यान्यस्य चोपदेष्टुर्गुरोर्द्रष्टा भवति ।
ततस्तदुक्तस्य श्रोता भवति ।
तत इदमेभिरुक्तमेवमुपपद्यत इत्युपपत्तितो मन्ता भवति मन्वानश्च बोद्धा भवत्येवमेवेदमिति ।
तत एवं निश्चित्य तदुक्तार्थस्य कर्तानुष्ठाता भवति विज्ञातानुष्ठानफलस्यानुभविता भवतीत्यर्थः ।
किञ्च बलस्य माहात्म्यं बलेन वै पृथिवी तिष्ठतीत्याद्युज्वर्थम् ॥१२ ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्याष्टमः खण्डः
=======================================================================
७,९.१
अन्नं वाव बलाद्भूयः ।
तस्माद्यद्यपि दश रात्रीर्नाश्नीयात् ।
यद्यु ह जीवेत् ।
अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति ।
अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
अन्नमुपास्स्वेति ॥ ७,९.१ ॥
__________
भाष्य ७,९.१ अन्नं वाव बलाद्भूयः ।
बलहेतुत्वात् ।
कथमन्नस्य बलहेतुत्वमित्युच्यते ।
यस्माद्बलकारणमन्नं तस्माद्यद्यपि कश्चिद्दश रात्रीर्नाश्नीयात्सोऽन्नोपयोगानिमित्तस्य बलस्य हान्या म्रियते न चेन्म्रियते यद्यु ह जीवेत् ।
दृश्यन्ते हि मासमप्यनश्नन्तो जीवन्तः ।
अथवा स जीवन्नप्यद्रष्टा भवति गुरोरपि तत एवाश्रोतेत्यादि पूर्वविपरीतं सर्वं भवति ।
अथ यदा बहून्यहान्यनशितो दर्शनादिक्रियास्वसमर्थः सन्नन्नस्याऽयी ।
आगमनमायोऽन्नस्य प्राप्तिरित्यर्थः ।
सा यस्य विद्यते सोऽन्नस्याऽयी ।
आय इत्येतद्वर्णव्यत्ययेन ।
अथान्नस्याऽया इत्यपि पाठ एवमेवार्थः ।
द्रष्टेत्यादिकार्यश्रवणात् ।
दृश्यते ह्यन्नोपयोगे दर्शनादिसामर्थ्यं न तदप्राप्तावतोऽन्नमुपाःस्वेति ॥१ ॥
_______________________________________________________________________
७,९.२
स योऽन्नं ब्रह्मेत्युपास्ते ।
अन्नवतो वै स लोकान् पानवतोऽभिसिध्यति ।
यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्ते ।
अस्ति भगवोऽन्नाद्भूय इति ।
अन्नाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,९.२ ॥
__________
भाष्य ७,९.२ फलं चान्नवतः प्रभूतान्नान्वै स लोकान्पानवतः प्रभूतोदकांश्चान्नपानयोर्नित्यसंबन्धाल्लोकानभिसि ध्यति ।
समानमन्यत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य नवमः खण्डः
=======================================================================
७,१०.१
आपो वावान्नाद्भूयस्यः ।
तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीति ।
अथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीति ।
आप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकम् ।
आप एवेमा मूर्ताः ।
अप उपास्स्वेति ॥ ७,१०.१ ॥
__________
भाष्य ७,१०.१ आपो वावान्नाद्भूयस्योऽन्नकारणत्वात् ।
यस्मादेवं तस्माद्यदा यस्मिन्काले सुवृष्टिः सस्यहिता शोभना वृष्टिर्न भवति तदा व्याधीयन्ते प्राणा दुःखिनो भवन्ति ।
किंनिमित्तमित्याहान्नमस्मिन्संवत्सरे नः कनीयोऽल्पतरं भविष्यतीति ।
अथ पुनर्यदा सुवृष्टिर्भवति तदाऽनन्दिनः सुखिनो हृष्टाः प्राणाः प्राणिनो भवन्त्यन्तं बहु प्रभूतं भविष्यतीति ।
अप्संभवत्वान्मूर्तस्यान्नस्याऽप एवेमा मूर्तामृर्तभेदाकारपरिणता इति मूर्ता येयं पृथिवी यदन्तरिक्षमित्यादि ।
आप एवेमा मूर्ता अतोऽप उपाःस्वेति ॥१ ॥
_______________________________________________________________________
७,१०.२
स योऽपो ब्रह्मेत्युपास्ते ।
आप्नोति सर्वान् कामांस्तृप्तिमान् भवति ।
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्ते ।
अस्ति भगवोऽद्भ्यो भूय इति ।
अद्भ्यो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१०.२ ॥
__________
भाष्य ७,१०.२ फलंस योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामान्काम्यान्मूर्तिमतो विषयानित्यर्थः ।
अप्संभवत्वाच्च तृप्तेरम्बुपासनात्तृप्तिमांश्च भवति ।
समानमन्यत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य दशमः खण्डः
=======================================================================
७,११.१
तेजो वावाद्भ्यो भूयः ।
तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तेज उपास्स्वेति ॥ ७,११.१ ॥
__________
भाष्य ७,११.१ तेजो वावाद्भ्यो भूयः ।
तेजसोऽपकारणत्वात् ।
कथमप्कारणत्वमित्याह ।
यस्मादब्योनिस्तेजस्तस्मात्तद्वा एतत्तेजो वायुमागृह्यावष्टभ्य स्वात्मना निश्चलीकृत्य वायुमाकाशमभितपत्याकाशमभिव्याप्नुवत्तपति यदा तदाऽहुर्लौकिका निशोचति संतपति सामान्येन जगन्नितपति देहानतो वर्षिष्यति वा इति ।
प्रसिद्धं हि लोके कारणमभ्युद्यतं दृष्टवतः कार्य भविष्यतीति विज्ञानम् ।
तेज एव तत्पूर्वमात्मानमुद्भूतं दर्शयित्वाथानन्तरमपः सृजतेऽतोऽप्स्रष्टृत्वाद्भून्योऽद्भ्यस्तेजः ।
किञ्चान्यत्तदेतत्तेज एव स्तनयित्नुरूपेण वर्षहेतुर्भवति ।
कथम् ।
ऊर्ध्वाभिश्चोर्ध्वगाभिर्विद्युद्भिस्तिरश्चीभिश्च तिर्यग्गताभिश्च सहाऽह्रादाः स्तननशब्दाश्चरन्ति ।
तस्मात्तद्दर्शनादाहुर्लौकिका विद्योतते स्तनयति वर्षिष्यति वा इत्याद्युक्तार्थम् ।
अतस्तेज उपाःस्वेति ॥१ ॥
_______________________________________________________________________
७,११.२
स यस्तेजो ब्रह्मेत्युपास्ते ।
तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिध्यति ।
यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्ते ।
अस्ति भगवस्तेजसो भूय इति ।
तेजसो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,११.२ ॥
__________
भाष्य ७,११.२ तस्य तेजस उपासनफलंतेजस्वी वै भवति ।
तेजस्वत एव च लोकान्भास्वतः प्रकाशवतोऽपहततमस्कान्बाह्याध्यात्मिकाज्ञानाद्यपनीततमस्कानभिसिध्यति ।
ऋज्वर्थमन्यत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकादशः खण्डः
=======================================================================
७,१२.१
आकाशो वाव तेजसो भूयान् ।
आकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निः ।
आकाशेनाह्वायति ।
आकाशेन सृणोति ।
आकाशेन प्रतिसृणोति ।
आकाशे रमते ।
आकाशे न रमते ।
आकाशे जायते ।
आकाशमभिजायते ।
आकाशमुपास्स्वेति ॥ ७,१२.१ ॥
__________
भाष्य ७,१२.१ आकाशो वाव तेजसो भूयान् ।
वायुसहितस्य तेजसः कारणत्वाद्व्योम्नो वायुमागृह्येति तेजसा सहोक्तो वायुरिति पृथगिह नोक्तस्तेजसः ।
कारणं हि लोके कार्याद्भूयो दृष्टम् ।
यथा घटादिभ्यो मृत्तथाऽकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् ।
कथम् ।
आकाशो वै सूर्याचन्द्रमसावुभौ तेजोरूपौ विद्युन्नक्षत्राण्यग्निश्च तेजोरूपाण्याकाशेऽन्तः ।
यच्च यस्यान्तर्वर्ति तदल्पं भूय इतरत् ।
किञ्चाऽकाशेनाऽह्वयति चान्यमन्य आहूतश्चेतर आकाशेन शृणोत्यन्योक्तं च शब्दमन्यः प्रतिशृणोत्याकाशे रमते क्रीडत्यन्योन्यं सर्वस्तथा न रमते चाऽकाशे वध्वादिवियोग आकाशे जायते न मूर्तेनावष्टब्धे ।
तथाऽकाशमभिलक्ष्याङ्कुरादि जायते न प्रतिलोमम् ।
अत आकाशमुपाःस्व ॥१ ॥
_______________________________________________________________________
७,१२.२
स य आकाशं ब्रह्मेत्युपास्ते ।
आकाशवतो वै स लोकान् प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति ।
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्ते ।
अस्ति भगव आकाशाद्भूय इति ।
आकाशद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१२.२ ॥
__________
भाष्य ७,१२.२ फलं शृण्वाकाशवतो वै विस्तारयुक्तान्स विद्वांल्लोकान्प्रकाशवतः ।
प्रकाशाकाशयोर्नित्यसंबन्धात्प्रकाशवतश्च लोकानसंबाधान्संबाधनं संबाधः संबाधोऽन्योन्यपीडा तद्रहितानसंबाधानुरुगायवतो विस्तीर्णगतीन्विस्तीर्णप्रचारांल्लोकानभिसिध्यति ।
यावदाकाशस्येत्याद्युक्तार्थम् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वादशः खण्डः
=======================================================================
७,१३.१२
स्मरो वावाकाशाद्भूयः ।
तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन् ।
यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् ।
स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् ।
स्मरमुपास्स्वेति ॥ ७,१३.१ ॥
स यः स्मरं ब्रह्मेत्युपास्ते ।
यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्ते ।
अस्ति भगवः स्मराद्भूय इति ।
स्मराद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१३.२ ॥
__________
भाष्य ७,१३.१२ स्मरो वावाऽकाकाशाद्भूयः ।
स्मरणं स्मरोऽन्तःकरणधर्मः ।
स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन स्मर्तुः स्मरणे हि सत्याकाशादि सर्वमर्थवत्स्मरणवतो भोग्यत्वात् ।
असति तु स्मरमे सदप्यसदेव ।
सत्त्वकार्याभावात् ।
नापि सत्त्वं स्मृत्यभावे शक्यमाकाशादीनामवगन्तुमित्यतः स्मरणस्याऽकाशाद्भृयस्त्वम् ।
दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मात्तस्माद्यद्यपि समुदिता बहव एकस्मिन्नासीरन्नुपविशेयुस्ते तत्राऽसीना अन्योन्यभाषितमपि न स्मरन्तश्चेत्स्युर्नैव ते कञ्चन शब्दं शृणुयुस्तथा न मन्वीरन्मन्तव्यं चेत्स्मरेयुस्तदा मन्वीरन्स्मृत्यभावान्न मन्वीरंस्तथा न विजानीरन् ।
यदा वाव ते स्मरेयुर्मन्तव्यं विज्ञातव्यं श्रोतव्यं चाथ शृणुयुरथ मन्वीरन्नथ विजानीरन् ।
तथा स्मरेण वै मम पुत्रा एत इति पुत्रान्विजानाति स्मरेण पशून् ।
अतो भूयस्त्वात्स्मरमुपाःस्वेति ।
उक्तार्थमन्यत् ॥१२ ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोदशः खण्डः
=======================================================================
७,१४.१
आशा वाव स्मराद्भूयसी ।
आशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकं अमुं चेच्छते ।
आशामुपास्स्वेति ॥ ७,१४.१ ॥
__________
भाष्य ७,१४.१ आशा वाव स्मराद्भूयसी ।
आशाप्राप्तवस्त्वाकाङ्क्षाऽशा तृष्णा काम इति यामाहुः पर्यायैः सा च स्मराद्भूयसी ।
कथम् ।
आशया ।
ह्यन्तःकरणस्थया स्मरति स्मर्तव्यम् ।
आशाविषयरूपं स्मरन्नसौ स्मरो भवत्यत आशेद्ध आशयाभिवर्धितः स्मरभूतः स्मरन्नृगादीन्मन्त्रानधीतेऽधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशयैव पुत्रांश्च कर्मफलभूतानिच्छतेऽभिवाञ्छत्याशयैव तत्साधनान्यनुतिष्ठति ।
इमं च लोकमाशेद्ध एव स्मरंल्लोकसंग्रहहेतुभिरिच्छते ।
अमुं च लोकमाशेद्धः स्मरंस्तत्साधनानुष्ठानेनेच्छतेऽत आशारशानावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि ।
अत्र आश आयाः स्मरादपि भूयस्त्वमित्यत आशामुपाःस्व ॥१ ॥
_______________________________________________________________________
७,१४.२
स य आशां ब्रह्मेत्युपास्ते ।
आशयास्य सर्वे कामाः समृध्यन्ति ।
अमोघा हास्याशिषो भवन्ति ।
यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्ते ।
अस्ति भगव आशाया भूय इति ।
आशाया भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१४.२ ॥
__________
भाष्य ७,१४.२ यस्त्वाशां ब्रह्मेत्युपास्ते शृणु तस्य फलम् ।
आशया सदोपासितयास्योपासकस्य सर्वे कामाः समृध्यन्ति समृद्धिं गच्छन्ति ।
अमोघा हास्याऽशिषः प्रार्थनाः सर्वा भवन्ति यत्प्रार्थितं सर्वं तदवश्यं भवतीत्यर्थः ।
यावदाशाया गतमित्यादि पूर्ववत् ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्दश खण्डः
=======================================================================
७,१५.१
प्राणो वाव आशाया भूयान् ।
यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम् ।
प्राणः प्राणेन याति ।
प्राणः प्राणं ददाति ।
प्राणाय ददाति ।
प्राणो ह पिता ।
प्राणो माता ।
प्राणो भ्राता ।
प्राणः स्वसा ।
प्राण आचार्यः ।
प्राणो ब्राह्मणः ॥ ७,१५.१ ॥
__________
भाष्य ७,१५.१ नामोपक्रममाशान्तं कार्यकारणत्वेन निमित्तनैमित्तिकत्वेन चोत्तरोत्तरभूयस्तयावस्थितं स्मृतिनिमित्तसद्भावमाशारशनापाशैर्विपाशितं सर्वं सर्वतो बिसमिव तन्तुभिर्यस्मिन्प्राणे समर्पितम् ।
येन च सर्वतो व्यापिनान्तर्बहिर्गतेन सूत्रे मणिगणा इव सूत्रेण ग्रथितं विधृतं च ।
स एष प्राणो वा आशाया भूयान् ।
कथमस्य भूयस्त्वमित्याह दृष्टान्तेन समर्थयंस्तद्भूयस्त्वम् ।
यथा वै लोके रथचक्रस्यारा रथनाभौ समर्पिताः संप्रोताः संप्रवेशिता इत्येतत् ।
एवमस्मिंल्लिङ्गसंघातरूपे प्राणे प्रज्ञात्मनि देहिके मुख्ये यस्मिन्परा देवता नामरूपव्याकरणायाऽदर्शादौ प्रतिबिम्बिवज्जीवेनाऽत्मनानुप्रतिष्टा ।
यश्च महाराजस्येव सर्वाधिकारीश्वरस्य ।
"कस्मिन्नन्न्वहमुत्क्रान्त उत्क्रान्तो बविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजत"इति श्रुतेः यस्तु च्छायेवानुगत ईश्वरम् ।
"तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः ।
" "स एष प्राण एव प्रज्ञात्मा"इति कौषीतकिनाम् ।
अत एवमस्मिन्प्राणे सर्वं यथोक्तं समर्पितम् ।
अतः स एष प्राणोऽपरतन्त्रः प्राणेन स्वशक्त्यैव याति नान्यकृतं गमनादिक्रियास्वस्य सामर्थ्यमित्यर्थः ।
सर्वं क्रियाकारकफलभेदजातं प्राण एव न प्राणाद्बहिर्भूतमस्तीति प्रकरणार्थः ।
प्राणः प्राणं ददाति यद्ददाति तत्स्वीत्मभूतमेव ।
यस्मै ददाति तदपि प्राणायैव ।
अतः पित्राद्याख्योऽपि प्राण एव ॥१ ॥
_______________________________________________________________________
७,१५.२
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह ।
धिक्त्वास्त्वित्येवैनमाहुः ।
पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७,१५.२ ॥
__________
भाष्य ७,१५.२ कथं पित्रादिशब्दानां प्रसिद्धार्थोत्सर्गेण प्राणविषयत्वमिति ।
उच्यते सति प्राणे पित्रादिषु पित्रादिशब्दप्रयोगात्तदुत्क्रान्तौ च प्रयोगाभावात् ।
कथं तदित्याह ।
स यः कश्चित्पित्रादीनामन्यतमं यदि तं भृशमिव तदननुरूपमिव किञ्चिद्वचनं त्वङ्कारादियुक्तं प्रत्याह तदैनं पार्श्वस्था आहुर्विवेकिनो धिक्त्वास्तु धिगस्तु त्वामित्येवम् ।
पितृहा वै त्वं पितुर्हन्तेत्यादि ॥२ ॥
_______________________________________________________________________
७,१५.३
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेत् ।
नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ७,१५.३ ॥
__________
भाष्य ७,१५.३ अथैनानेवोत्क्रान्तप्राणांस्त्यक्तदेहानथ यद्यपि शूलेन समासं समस्य व्यतिदहेद्व्यत्यस्य संदहेदेवमप्यतिक्रूरं कर्म समासव्यत्यासादिप्रकारेण दहनलक्षणं तद्देहसंबद्धमेव कुर्वाणं नैवैनं ब्रूयुः पितृहेत्यादि ।
तस्मादन्वयव्यतिरेकाभ्यामवगम्यत एतत्पित्राद्याख्योऽपि प्राण एवेति ॥३ ॥
_______________________________________________________________________
७,१५.४
प्राणो ह्येवैतानि सर्वाणि भवति ।
स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति ।
तं चेद्ब्रूयुरतिवाद्यसीति ।
अतिवाद्यस्मीति ब्रूयात् ।
नापह्नुवीत ॥ ७,१५.४ ॥
__________
भाष्य ७,१५.४ तस्मात्प्राणो ह्येवैतानि पित्रादीनि सर्वाणि भवति चलानि स्थिराणि च ।
स वा एष प्राणविदेवं यथोक्तप्रकारेण पश्यन्फलतोऽनुभवन्नेवं मन्वान उपपत्तिभिश्चिन्तयन्नेवं विजानन्नुपपत्तिभिः संयोज्यैवमेवेति निश्चयं कुर्वन्नित्यर्थः ।
मननविज्ञानाभ्यां हि संभूतः शास्रार्थो निश्चितो दृष्टो भवेत् ।
अत एवं पश्यन्नतिवादी भवति नामाद्याशान्तमतीत्य वदनशीलो भवतीत्यर्थः ।
तं चेद्ब्रूयुस्तं यद्येवमतिवादिनं सर्वदा सर्वैः शब्दैर्नामाद्याशान्तमतीत्य वर्तमानं प्राणमेवं वदन्तमेवं पश्यन्तमतिवदनशीलमतिवादिनं ब्रह्मादिस्तम्बपर्यन्तस्य हि जगतः प्राण आत्माहमिति ब्रुवाणं यदि ब्रूयुरतिवाद्यसीति ।
बाढमतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ।
कस्माद्ध्यसावपह्नुवीत ।
यत्प्राणं सर्वेश्वरमयमहमस्मीत्यात्मत्वेनोपगतः ॥४॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चदशः खण्डः
७.१६.१
एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनाति वदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ॥१॥
__________
भाष्य ७,१६.१ स एष नारदः सर्वातिशयं प्राणं स्वमात्मानं सर्वात्मानं श्रुत्वा नातः परमस्तीत्युपरराम ।
न पूर्ववत्किमस्ति भगवः प्राणाद्भूय इति पप्रच्छ ।
यतस्तमेवं विकारानृतब्रह्मविज्ञानेन परितुष्टमकृतार्थं परमार्थसत्यातिवादिनमात्मानं मन्यमानं योग्यं शिष्यं मिथ्याग्रहविशेषाद्विप्रच्यावयन्नाह भगवान्सनत्कुमारः ।
एष तु वा अतिवदति यमहं वक्ष्यामि न प्राणविदतिवादी परमार्थतः ।
नामाद्यपेक्षं तु तस्यातिवादित्वम् ।
यस्तु भूमाख्यं सर्वातिक्रान्तं तत्त्वं परमार्थसत्यं वेद सोऽतिवादीत्यत आहएष तु वा अतिवदति यः सतेयन परमार्थसत्यविज्ञानवत्तयातिवदति ।
सोऽहं त्वां प्रपन्नो भगवन्सत्येनातिवदानि तथामां नियुनक्तु भगवान्यथाहं सत्येनातिवदानीत्यभिप्रायः ।
यद्येवं सत्येनातिवदितुमिच्छसि सत्यमेव तु तावद्विजिज्ञासितव्यमित्युक्त आह नारदः ।
तथास्तु तर्हि सत्य भगवो विजिज्ञासे विशेषेण ज्ञातुमिच्छेयं त्वत्तोऽहमिति ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षोडशः खण्डः
_______________________________________________________________________
७,१७.१
यदा वै विजानात्यथ सत्यं वदति ।
नाविजानन् सत्यं वदति ।
विजानन्नेव सत्यं वदति ।
विज्ञानं त्वेव विजिज्ञासितव्यमिति ।
विज्ञानं भगवो विजिज्ञास इति ॥ ७,१७.१ ॥
__________
भाष्य ७,१७.१ यदा वै सत्यं परमार्थतो विजानातीदं परमार्थः सत्यमिति, ततोऽनृतं विकारजातं वाचारम्भणं हित्वा सर्वविकारावस्थं सदेवैकं सत्यमिति तदेवाथ वदति यद्वदति ।
ननु विकारोऽपि सत्यमेव ।
"नामरूपे सत्यं ताभ्य मयं प्राणश्छन्नः" ।
"प्राणा वै सत्यं तेषामेष सत्यम्"इति श्रुत्यन्तरात् ।
सत्यमुक्तं सत्यत्वं श्रुत्यन्तरे विकारस्य न तु परमार्थापेक्षमुक्तं किं तर्हीन्द्रियविषयत्वापेक्षं सच्च त्यच्चेति सत्यमित्युक्तं तद्द्वारेण च परमार्थसत्यस्योपलब्धिर्विवक्षितेति ।
प्राणा वै सत्यं तेषामेष सत्यमिति चोक्तम् ।
इहापि तदिष्टमेव ।
इह तु प्रणविषयात्परमार्थसत्यविज्ञानाभिमानाद्व्युत्थाप्य नारदं यत्सदेव सत्यं परमार्थतो भूमाख्यं तद्विज्ञापयिष्यामीत्येष विशेषतो विवक्षितोर्ऽथः ।
नाविजानन्सत्यं वदति यस्त्वविजानन्वदति सोऽग्न्यादिशब्देनाग्न्यदीन्परमार्थसद्रूपान्मन्यमानो वदति न तु ते रूपत्रयव्यतिरेकेण परमार्थः सन्ति ।
तथा तान्यपि रूपाणि सदपेक्षया नैव सन्तीत्यतो नाविजानन्सत्यं वदति ।
विजानन्नेव सत्यं वदति ।
न च तत्सत्यविज्ञानमविजिज्ञासितमप्रार्थितं ज्ञायत इत्याहविज्ञानं त्वेव विजिज्ञासितव्यमिति ।
यद्येवं विज्ञानं भगवो विजिज्ञास इति ।
एवं सत्यादीनां चोत्तरोत्तराणां करोत्यन्तानां पूर्वपूर्वहेतुत्वं व्याख्येयम् ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य सप्तदशः खण्डः
_______________________________________________________________________
७,१८.१
यदा वै मनुतेऽथ विजानाति ।
नामत्वा विजानाति ।
मत्वैव विजानाति ।
मतिस्त्वेव विजिज्ञासितव्येति ।
मतिं भगवो विजिज्ञास इति ॥ ७,१८.१ ॥
__________
भाष्य ७,१८.१ यदा वै मनुत इति ।
मतिर्मननं तर्को मन्तव्यविषय आदरः ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्याष्टदशः खण्डः
_______________________________________________________________________
७,१९.१
यदा वै श्रद्दधात्यथ मनुते ।
नाश्रद्दधन्मनुते ।
श्रद्दधदेव मनुते ।
श्रद्धा त्वेव विजिज्ञासितव्येति ।
श्रद्धां भगवो विजिज्ञास इति ॥ ७,१९.१ ॥
__________
भाष्य ७,१९.१ आस्तिक्यबुद्धिः श्रद्धा ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकोनविंशः खण्डः
_______________________________________________________________________
७,२०.१
यदा वै निस्तिष्ठत्यथ श्रद्दधाति ।
नानिस्तिष्ठञ्छ्रद्दधाति ।
निस्तिष्ठन्नेव श्रद्दधाति ।
निष्ठा त्वेव विजिज्ञासितव्येति ।
निष्ठां भगवो विजिज्ञास इति ॥ ७,२०.१ ॥
__________
भाष्य ७,२०.१ निष्ठा गुरुशुश्रूषादिस्तत्परत्वं ब्रह्मविज्ञानाय ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य विंशः खण्डः
_______________________________________________________________________
७,२१.१
यदा वै करोत्यथ निस्तिष्ठति ।
नाकृत्वा निस्तिष्ठति ।
कृत्वैव निस्तिष्ठति ।
कृतिस्त्वेव विजिज्ञासितव्येति ।
कृतिं भगवो विजिज्ञास इति ॥ ७,२१.१ ॥
__________
भाष्य ७,२१.१ यदा वै करोति ।
कृतिरिन्द्रियसंयमश्चित्तैकाग्रताकरणं च ।
सत्यां हि तस्यां निष्ठादीनि यथोक्तानि भवन्ति विज्ञानावसानानि ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्यैकविंशः खण्डः
_______________________________________________________________________
७,२२.१
यदा वै सुखं लभतेऽथ करोति ।
नासुखं लब्ध्वा करोति ।
सुखमेव लब्ध्वा करोति ।
सुखं त्वेव विजिज्ञासितव्यमिति ।
सुखं भगवो विजिज्ञास इति ॥ ७,२२.१ ॥
__________
भाष्य ७,२२.१ सापि कृतिर्यदा सुखं लभते सुखं निरतिशयं वक्ष्यमाणं लब्धव्यं मयेति मन्यते तदा भवतीत्यर्थः ।
यथा दृष्टफलसुखा कृतिस्तथेहापि नासुखं लब्ध्वा करोति ।
भविष्यदपि फलं लब्ध्वेत्युच्यते ।
तदुद्दिश्य प्रवृत्त्युपपत्तेः ।
अथेदानीं कृत्यादिषूत्तरोत्तरेषु सत्सु सत्यं स्वयमेव प्रतिभासत इति न तद्विज्ञानाय पृथग्यत्नः कार्य इति प्राप्तं तत इदमुच्यते ।
सुखं त्वेव विजिज्ञासितव्यमित्यादि ।
सुखं भगवो विजिज्ञास इत्यभिमुखीभूतायाऽह ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य द्वाविंशः खण्डः
_______________________________________________________________________
७,२३.१
यो वै भूमा तत्सुखम् ।
नाल्पे सुखमस्ति ।
भूमैव सुखम् ।
भूमा त्वेव विजिज्ञासितव्य इति ।
भूमानं भगवो विजिज्ञास इति ॥ ७,२३.१ ॥
__________
भाष्य ७,२३.१ यो वै भूमा महन्निरतिशयं बह्विति पर्यायास्तत्सुखम् ।
ततोर्ऽवाक्सातिशयत्वादल्पम् ।
अतस्तस्मिन्नल्पे सुखं नास्ति ।
अल्पस्याधिकतृष्णाहेतुत्वात् ।
तृष्णा च दुःखबीजम् ।
न हि दुःखबीजं सुखं दृष्टं ज्वरादि लोके ।
तस्माद्युक्तं नाल्पे सुखमस्तीति ।
अतो भूमैव सुखम् ।
तृष्णादिदुःखबीजत्वासंभवाद्भूम्नः ॥१॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य त्रयोविंशः खण्डः
_______________________________________________________________________
७,२४.१
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ।
अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् ।
यो वै भूमा तदमृतम् ।
अथ यदल्पं तन्मर्त्यम् ।
स भगवः कस्मिन् प्रतिष्ठित इति ।
स्वे महिम्नि यदि वा न महिम्नीति ॥ ७,२४.१ ॥
__________
भाष्य ७,२४.१ किंलक्षणोऽसौ भूमेत्याहयत्र यस्मिन्भूम्नि तत्त्वे नान्यद्द्रष्टव्यमन्येन करणेन द्रष्टान्यो विभक्तो दृश्यात्पश्यति ।
तथा नान्यच्छृणोति ।
नामरूपयोरेवान्तर्भावाद्विषयभेदस्य तद्ग्राहकयोरेवेह दर्शनश्रवणयोर्ग्रहणमन्येषां चोपलक्षणार्थत्वेन ।
मननं चात्रोक्तं द्रष्टव्यं नान्यन्मनुत इति ।
प्रायशो मननपूर्वकत्वाद्विज्ञानस्य ।
तथा नान्यद्विजानाति ।
एवंलक्षणो यः स भूमा ।
किमत्र प्रसिद्रान्यदर्शनाभावो भूम्न्युच्यते नान्यत्पश्यतीत्यादिना, अथान्यन्न पश्यत्यात्मानं पश्यतीत्येतत् ।
किञ्चातः ।
यद्यन्यदर्शनाद्यभावमात्रमित्युच्यते तदा द्वैतसंव्यवहारविलक्षणो भूमेत्युक्तं भवति ।
अथान्यद्रशनविशेषप्रतिषेधेनाऽत्मानं पश्यतीत्युच्यते तदैकस्मिन्नेव क्रियाकारकफलभेदोऽभ्युपगतो भवेत् ।
यद्येवं को दोषः स्यात् ।
नन्वयमेव दोषः संसारानिवृत्तिः ।
क्रियाकारकफलभेदो हि संसार इति ।
आत्मैकत्व एव क्रियाकारकफलभेदः संसारविलक्षण इति चेत् ।
न ।
आत्मनो निर्विशेषैकत्वाभ्युपगमे दर्शनादिक्रियाकारकफलभेदाभ्युपगमस्य शब्दमात्रत्वात् ।
अन्यदर्शनाद्यभावोक्तिपक्षेऽपि यत्रेत्यन्यन्न पश्यतीति च विशेषणे अनर्थके स्यातामिति चेत् ।
दृश्यते हि लोके यत्र शून्ये गृहेऽन्यन्न पश्यतीत्युक्ते स्तम्भादीनात्मानं च न न पश्यतीति गम्यते ।
एवमिहापीति चेत् ।
न ।
तत्त्वमसीत्येकत्वोपदेशादधिकरणाधिकर्तव्यभेदानुपपत्तेः ।
तथा सदेकमेवाद्वितीयं सत्यमिति षष्ठे निर्धारितत्वात् ।
"अदृश्येऽनात्म्ये" "न संदृशे तिष्ठति रूपमस्य" "विज्ञातारमरे केन विजानीयात्"इत्यादिश्रुतिभ्यः स्वात्मनि दर्शनाद्यनुपपत्तिः ।
यत्रेति विशेषणमनर्थकं प्राप्तमिति चेत् ।
न ।
अविद्याकृतभेदापेक्षत्वात् ।
यथा सत्येकत्वाद्वितीयत्वबुद्धिं प्रकृतामपेक्ष्य सदेकमेवाद्वितीयमिति संख्याद्यनर्हमप्युच्यते ।
एवं भूम्न्येकस्मिन्नेव यत्रेति विशेषणम् ।
अविद्यावस्थायामन्यदर्शनानुवादेन च भूम्नस्तदभावत्वलक्षणस्य विवक्षितत्वान्नान्यत्पश्यतीति विशेषणम् ।
तस्मात्संसारव्यवहारो भूम्नि नास्तीति समुदायार्थः ।
अथ यत्राविद्याविषयेऽन्योऽन्येनान्यत्पश्यतीति तदल्पमविद्याकालभावीत्यर्थः ।
यथा स्वप्नदृश्यं वस्तु प्राक्प्रबोधात्तत्कालभावीति तद्वत् ।
तत एव तन्मर्त्यं विनाशि स्वप्नवस्तुवदेव तद्विपरोतो भूमा यस्तदमृतम् ।
तच्छब्दोऽमृतत्वपरः ।
स तर्ह्येवंलक्षणो भूमा हे भगवन्कस्मिन्प्रतिष्ठित इत्युक्तवन्तं नारदं प्रत्याह सनत्किमारः ।
स्वे महिम्नीति स्व आत्मीये महिम्नि माहात्म्ये विभूतौ प्रतिष्ठितो भूमा ।
यदि प्रतिष्ठामिच्छसि क्वचिद्यदि वा परमार्थमेव पृच्छसि न महिम्न्यपि प्रतिष्ठित इति ब्रूमः ।
अप्रतिष्ठितोऽनाश्रितो भूमा क्वचिदपीत्यर्थः ॥१ ॥
_______________________________________________________________________
७,२४.२
गोऽश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति ।
नाहमेवं ब्रवीमि ।
ब्रवीमीति होवाच ।
अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ ७,२४.२ ॥
__________
भाष्य ७,२४.२ यदि स्वमहिम्नि प्रतिष्ठितो भूमा कथं तर्ह्यप्रतिष्ठ उच्यते ।
शृणु ।
गोऽश्वादीह महिमेत्याचक्षते ।
गावश्चाश्वाश्च गोऽश्वं द्वन्द्वैकवद्भावः ।
सर्वत्र गवाश्वादि महिमेति प्रसिद्धं तदाश्रितस्तत्प्रतिष्ठश्चैत्रो भवति, यथा नाहमेवं स्वतोऽन्यं महिमानमाश्रितो भूमा चैत्रवदिति ब्रवीम्यत्र हेतुत्वेनान्यो ह्यन्यस्मिन्प्रतिष्ठित इति व्यवहितेन सम्बन्धः ।
किन्त्वेवं ब्रवीमीति होवाचस एवेत्यादि ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य चतुर्विंशः खण्डः
=======================================================================
७,२५.१
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः ।
स एवेदं सर्वमिति ।
अथातोऽहंकारादेश एव ।
अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ ७,२५.१ ॥
__________
भाष्य ७,२५.१ कस्मात्पुनः क्वचिन्न प्रतिष्ठित इत्युच्यते ।
यस्मात्स एव भूमाधस्तान्न तद्व्यतिरेकेणान्यद्विद्यते यस्मिन्प्रतिष्ठितः स्यात् ।
तथोपरिष्टादित्यादि समानम् ।
सति भूम्नोऽन्यस्मिन्भूमा हि प्रतिष्ठितः स्यान्न तु तदस्ति ।
स एव तु सर्वम् ।
अतस्तस्मादसौ न क्वचित्प्रतिष्ठितः ।
यत्र नान्यत्पश्यतीत्यधिकरणाधिकर्तव्यतानिर्देशात्स एवाधस्तादिति च परोक्षनिर्देशाद्द्रष्टर्जीवादन्योभूमा स्यादित्याशङ्का कस्यचिन्मा भूदित्यथातोऽनन्तरमहङ्कारादेशोऽहङ्कारेणाऽदिश्यत इत्यहङ्कारादेशः ।
द्रष्टुरनन्यत्वदर्शनार्थं भूमैव निर्दिश्यतेऽहङ्का
रेणाहमेवाधस्तादित्यादिना ॥१ ॥
_______________________________________________________________________
७,२५.२
अथात आत्मादेश एव ।
आत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति ।
स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति ।
तस्य सर्वेषु लोकेषु कामचारो भवति ।
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति ।
तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ७,२५.२ ॥
__________
भाष्य ७,२५.२ अहङ्कारेण देहादिसंघातोऽप्यादिश्यतेऽविवेकिभिरित्यतस्तदाशङ्का मा भूदित्यथानन्तरमात्मादेश आत्मनैव केवलेन सत्स्वरूपेण शुद्धेनाऽदिश्यते ।
आत्मैव सर्वतः सर्वमित्येवमेकमजं सर्वतो व्योमवत्पूर्णमन्यशून्यं पश्यन्स वा एष विद्वान्मननविज्ञानाभ्यामात्मरतिरात्मन्येव रती रमणं यस्य सोऽयमात्मरतिः ।
तथाऽत्मक्रीडः ।
देहमात्रसाधना रतिर्बाह्यसाधना क्रीडा ।
लोके स्रीभिः सखिभिश्च क्रीडतीति दर्शनात्न तथा विदुषः किं तर्ह्यात्मविज्ञाननिमित्तमेवोभयं भवतीत्यर्थः ।
मिथुनं द्वंन्द्वजनितं सुखं तदपि द्वन्द्वनिरपेक्षं यस्य विदुषः ।
तथाऽत्मानन्दः शब्दादिनिमित्त आनन्दोऽविदुषां न तथास्य विदुषः किं तर्ह्यात्मनिमित्तमेव सर्वं सर्वदा सर्वप्रकारेण च देहजीवितभोगादिनिमित्तबाह्यवस्तुनिरपेक्ष इत्यर्थः ।
स एवंलक्षणो विद्वाञ्जीवन्नेव स्वाराज्येऽभिषिक्तः पतितेऽपि देहे स्वराडेव भवति ।
यत एवं भवति तत एव तस्य सर्वेषु लोकेषु कामचारो भवति ।
प्राणादिषु पूर्वभूमिषु तत्रास्येति तावन्मात्रपरिच्छिन्नकामचारत्वमुक्तमन्राजत्वं चार्थप्राप्तं सातिशयत्वाद्यथाप्राप्तस्वाराज्यकामचारत्वानुवादेन ततन्निवृत्तिरिहोच्यते स स्वराडित्यादिना ।
अथ पुनर्येऽन्यथात उक्तदर्शनादन्यथा वैपरीत्येन यथोक्तमेव वा सम्यङ्न विदुस्तेऽन्यराजानो भवन्ति अन्यः परो राजा स्वामी येषां तेऽन्यराजानस्ते ।
किञ्च क्षय्यो लोको येषां ते क्षय्य्लोकाः ।
भेददर्शनस्याल्पविषयत्वादल्पं च तन्मर्त्यमित्यवोचाम ।
तस्माद्ये द्वैतदर्शिनस्ते क्षय्यलोकाः स्वदर्शनानुरूप्येणैव भवन्त्यत एव तेषां सर्वेषु लोकेष्वकामचारो भवति ॥२॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य पञ्चविंशः खण्डः
=======================================================================
७,२६.१
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ ७,२६.१ ॥
__________
भाष्य ७,२६.१ तस्य ह वा एतस्येत्यादि स्वाराज्यं प्राप्तस्य प्रकृतस्य विदुष इत्यर्थः ।
प्राक्सदात्मविज्ञानात्स्वात्मनोऽन्यस्मात्सतः प्राणादेर्नामान्तस्योत्पत्तिप्रलयावभूतां सदात्माविज्ञाने तु सतीदानीं स्वात्मत एव संवृत्तौ तथा सर्वोऽप्यन्यो व्यवहार आत्मत एव विदुषः ॥१ ॥
_______________________________________________________________________
७,२६.२
तदेष श्लोकः ।
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।
इति ।
स एकधा भवति त्रिधा भवति पञ्चधा ।
सप्तधा नवधा चैव पुनश्चैकादश स्मृतः ।
शतं च दश चैकश्च सहस्राणि च विंशतिः ।
आहारशुद्धौ सत्त्वशुद्धिः ।
सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ।
तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारः ।
तं स्कन्द इत्याचक्षते ॥ ७,२६.२ ॥
__________
भाष्य ७,२६.२ किञ्च तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽपि भवति ।
न पश्यः पश्यतीति पश्यो यथोक्तदर्शी विद्वानित्यर्थः ।
मृत्युं मरणं रोगं ज्वरादि दुःखतां दुःखभावं चापि न पश्यति ।
सर्वं ह सर्वमेव स पश्यः पश्यत्यात्मानमेव सर्वं ततः सर्वमाप्नोति सर्वशः सर्वप्रकारैरिति ।
किञ्च स विद्वान्प्राक्सृष्टिप्रभेदादेकधैव भवत्येकधैव च संस्रिधादिभेदैरनन्तभेदप्रकारो भवति सृष्टिकाले ।
पुनः संहारकाले मूलमेव स्वं पारमार्थकमेकधाभावं प्रतिपद्यते स्वतन्त्र एवेति विद्यां फलेन प्ररोचयन्स्तौति ।
अथेदानीं यथोक्ताया विद्यायाः सम्यगवभासकारणं मुखावभासकारणस्येवाऽदर्शस्य विशुद्धिकारणं साधनमुपदिश्यतेआहारशुद्धौ ।
आह्रियत इत्याहारः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते विशुद्धिकारणं साधनमुपदिश्यतेआहारशुद्धौ ।
आह्रियत इत्याहरः शब्दादिविषयविज्ञानं भोक्तुर्भोगायाऽह्रियते तस्य विषयोपलब्धिलक्षणस्य विज्ञानस्य शुद्धिराहारशुद्धी रागद्वेषमोहदोषैरसंसृष्टं विषयविज्ञानमित्यर्थः ।
तस्यामाहाराशुद्धौ सत्यां तद्वतोऽन्तःकरणस्य सत्त्वस्य शुद्धिर्नैर्मल्यं भवति ।
सत्त्वशुद्धौ च सत्यां यथावगते भूमात्मनि ध्रुवाविच्छिन्ना स्मृतिरविस्मरमं भवति ।
तस्यां च लब्धायां स्मृतिलम्भे सति सर्वेषामविद्याकृतानर्थपाशरूपाणामनेकजन्मान्तरानुभवभावनाकठिनीकृतानां हृदयाक्षयाणां ग्रन्थीनां विप्रमोक्षो विशेषेण प्रमोक्षणं विनाशो भवतीति ।
यत एतदुत्तरोत्तरं यथोक्तमाहारशुद्धिमूलं तस्मात्सा कार्येत्यर्थः ।
सर्वं शास्रार्थमशेषत उक्त्वाऽख्यायिकामुपसंहरति श्रुतिःतस्मै मृदितकषायाय वार्क्षादिरिव कषायो रागद्वेषादिदोषः सत्त्वस्य रञ्जनारूपत्वात्स ज्ञानवैराग्याभ्यासरूपक्षारेण क्षालितो मृदितो विनाशितो यस्य नारदस्य तस्मै योग्याय मृदितकषायाय तमसोऽविद्यालक्षणात्पारं परमार्थतत्त्वं दर्शयति दर्शितवानित्यर्थः ।
कोऽसौ, भगवान्"उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
" एवन्धर्मा सनत्कुमारः ।
तमेव सनत्कुमारं देवं स्कन्द इत्याचक्षते कथयन्ति तद्विदः ।
द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ॥२ ॥ ॥
इति च्छान्दोग्योपनिषदि सप्तमाध्यायस्य षड्विंशः खण्डः
इति च्छान्दोग्योपनिषद्ब्रह्मणे सप्तमोध्यायः समाप्तः
==अष्टमोऽध्यायः==
८,१.१
अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकासः ।
तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८,१.१ ॥
__________
भाष्य ८,१.१
यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म सदेकमेवाद्वितीयमात्मैवेदं सर्वमिति षष्ठसप्तमयोरधिगतं तथापीह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्त्वित्येवं भाविता बुद्धिर्न शक्यते सहसा परमार्थविषया कर्तुमित्यनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः ।
यद्यपि सत्सम्यक्प्रत्ययैकविषया कर्तुमित्यानधिगम्य च ब्रह्म न पुरुषार्थसिद्धिरिति तदधिगमाय हृदयपुण्डरीकदेश उपदेष्टव्यः ।
यद्यपि सत्सम्यक्प्रत्ययैकविषयं निर्गुणं चाऽत्मतत्त्वं तथापि मन्दबुद्धीनां गुणवत्त्वस्येष्टत्वात्सत्यकामादिगुणवत्त्वं च वक्तव्यम् ।
तथा यद्यपि ब्रह्मविदां स्त्र्यादिविषयेभ्यः स्वयमेवोपरमो भवति तथाप्यनेकजन्मविषयसेवाभ्यासजनिता विषयविषया तृष्णा न सहसा निवर्तयितुं शक्यत इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः ।
तथा यद्यप्यात्मैकत्वविदां गन्तृगमनगन्तव्याभावादविद्याविशेषस्थितिनिमित्तक्षये गगन इव विद्युदुद्भूत इव वायुर्दग्धेन्धन इवाग्निः स्वात्मन्येव निवृत्तिस्तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धन्यया नाड्या गतिर्वक्तव्येत्यष्टमः प्रपाठक आरभ्यते ।
दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसदद्वयं ब्रह्ममन्दबुद्धीनामसदिव प्रतिभाति ।
सन्मार्गस्थास्तावद्भवन्तु ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः ।
अथानन्तरं यदिदं वक्ष्यमाणं दहरमल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्मेव वेश्म द्वारपालादिमत्त्वात् ।
अस्मिन्ब्रह्मपुरे ब्रह्मणः परस्य पुरं राज्ञोऽनेकप्रकृतिमद्यथापुरं तथेदमनेकेन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिर्युक्तमिति ब्रह्मपुरम् ।
पुरे च वेश्म राज्ञो यथा तथा तस्मिन्ब्रह्मपुरे शरीरे दहरं वेश्म ब्रह्मण उपलब्ध्यधिष्ठानमित्यर्थः ।
यथा विष्णोः शालग्रामः ।
अस्मिन्हि स्वविकारशिङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रङ्म जीवेनाऽत्मनेत्युक्तम् ।
तस्मादस्मिन्हृदयपुण्डरीके वेश्मन्युपसंहृतकरणैर्बाह्यविषयविरक्तैर्विशेषतो ब्रह्मचर्यसत्यसाधनाभ्यां युक्तेर्वक्ष्यमाणगुणवद्ध्यायमानैर्ब्रह्मोपलभ्यत इति प्रकरणार्थः ।
दहरोऽल्पतरोऽस्मिन्दहरे वेश्मनि वेश्मनोऽल्पत्वात्तदन्तर्वर्तिनोऽल्पतरत्वं वेश्मनः ।
अन्तराकाश आकाशाख्यं ब्रह्म ।
आकाशो वै नामेति हि वक्ष्यति ।
आकाश इवाशरीरत्वात्सूक्ष्मत्वसर्वगतत्वसामान्याच्च ।
तस्मिन्नाकाशाख्ये यदन्तर्मध्ये तदन्वेष्टव्यम् ।
तद्वाव तदेव च विशेषेण जिज्ञासितव्यं गुर्वाश्रयश्रवणाद्युपायैरन्विष्य च साक्षात्करणीयमित्यर्थः ॥१ ॥
_______________________________________________________________________
८,१.२
तं चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।
स ब्रूयात् ॥ ८,१.२ ॥
__________
भाष्य ८,१.२ तं चेदेवमुक्तवन्तमाचार्यं यदि ब्रूयुरन्तेवासिनश्चोदयेयुः, कथं, यदिदमस्मिन्ब्रह्मपुरे परिच्छिन्नेऽन्तर्दहरं पुण्डरीकं वेश्म ततोऽप्यन्तरल्पतर एवाऽकाशः ।
पुण्डरीक एव वेश्मनि तावत्किं स्यात् ।
किं ततोऽल्पतरे खे यद्भवेदित्याहुः ।
दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते न किञ्चन विद्यत इत्यभिप्रायः ।
यदि नाम बदरमात्रं किमपि विद्यते किं तस्यान्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासितुः स्यात् ।
अतो यत्त्त्रान्वेष्टव्यं विजिज्ञासितव्यं वा न तेन प्रयोजनमित्युक्तवतः स आचार्यो ब्रूयादिति श्रुतेर्वचनम् ॥२ ॥
_______________________________________________________________________
८,१.३
यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः ।
उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि ।
यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति ॥ ८,१.३ ॥
__________
भाष्य ८,१.३ शृणुत ।
तत्र यद्ब्रूथ पुण्डरीकान्तःखस्याल्पत्वात्तत्स्थमल्पतरं स्यादिति ।
तदसत् ।
न हि खं पुण्डरीकवेशमगतं पुण्डरीकादल्पतरं मत्वावोचं दहरोऽर्स्मिन्नन्तराकाश इति ।
किं तर्हि पुण्डरीकमल्पं तदनुविधायि तत्स्थमन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन्विशुद्धे संहृतकरणानां योगिनां स्वच्छ इवोदके प्रतिबिम्बरूपमादर्श इव च शुद्धे स्वच्छं विज्ञानज्योतिः स्वरूपावभासं तावन्मात्रं ब्रह्मोपलभ्यत इति दहरोऽस्मिन्नन्तराकाश इत्यवोचामान्तःकरणोपाधिनिमित्तम् ।
स्वतस्तु यावान्वै प्रसिद्धः परिमाणतोऽयमाकाशो भौतिकस्तावानेषोऽन्तर्हृदय आकाशो यस्मिन्नन्वेष्टव्यं विजिज्ञासितव्यं चावोचाम ।
नाप्याकाशतुल्यपरिमाणत्वमभिप्रेत्य तावानित्युच्यते ।
किं तर्हि ब्रह्मणोऽनुरूपस्य दृष्टान्तान्तरस्याभावात् ।
कथं पुनर्नाऽकाशसममेव ब्रह्मेत्यवगम्यते ।
"येनाऽवृतं खं च दिवं महीं च" ।
"तस्माद्वा एतस्मादात्मन आकाशः संभूतः" "एतस्मिन्नु खल्वक्षरे गार्ग्याकाशः"इत्यादिश्रुतिभ्यः ।
किञ्चोभेऽस्मिन्द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टेऽन्तरेव समाहिते सम्यगाहिते स्थिते यथा वा अरा नाभावित्युक्तं हि ।
तथोभावग्निश्च वायुश्चेत्यादि समानम् ।
यच्चास्याऽत्मन आत्मीयत्वेन देहवतोऽस्ति विद्यत इह लोके ।
तता यच्चाऽत्मीयत्वेन न विद्यते ।
नष्टं भविष्यच्च नास्तीत्युच्यते ।
न त्वत्यन्तमेवासत् ।
तस्य हृद्याकाशे समाधानानुपपत्तेः ॥३ ॥
_______________________________________________________________________
८,१.४
तं चेद्ब्रूयुरस्मिंश्चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदेनज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ८,१.४ ॥
__________
भाष्य ८,१.४ तं चेदेवमुक्तवन्तं ब्रूयुः पुनरन्तेवासिनः अस्मिंश्चेद्यथोक्ते चेद्यदि ब्रह्मपुरोपलक्षितान्तराकाश इत्यर्थः ।
इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः ।
कथमाचार्येणानुक्ताः कामा अन्तेवासिभिरुच्यन्ते ।
नैष दोषः यच्चास्येहास्ति यच्च नास्तीत्युक्ता एव ह्याचार्येण कामाः ।
अपि च सर्वशब्देन चोक्ता एव कामाः ।
यदा यस्मिन्काल एतच्छरीरं ब्रह्मपुराख्यं जरावलीपलितादिलक्षणा वयोहानिर्वाऽप्नोति शस्रादिना वा वृक्णं प्रध्वंसते विस्रंसते विनश्यति किं ततोऽन्यदतिशिष्यते ।
घटाश्रितक्षीरदधिस्नेहादिवद्घटनाशे देहनाशेऽपि देहाश्रयमुत्तरोत्तरं पूर्वपूर्वनाशान्नश्यतीत्यभिप्रायः ।
एवं प्राप्ते नाशे किं ततोऽन्यद्यथोक्तादतिशिष्यतेऽवतिष्ठते न किञ्चनावतिष्ठत इत्यभीप्रायः ॥४ ॥
_______________________________________________________________________
८,१.५
स ब्रूयात् ।
नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते ।
एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिताः ।
एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः ।
यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् ।
यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८,१.५ ॥
__________
भाष्य ८,१.५ एवमन्तेवासिभिश्चोदितः स आचार्यो ब्रूयात्तन्मतिमपनयन् ।
कथम् ।
अस्य देहस्य जरयैतद्यथोक्तमन्तराकाशाख्यं ब्रङ्म यस्मिन्सर्व समाहितं न जीर्यति देहवन्न विक्रियत इत्यर्थः ।
न चास्य वधेन शस्रादिघातेनैतद्धन्यते यथाऽकाशं किमु ततोऽपि सूक्ष्मतरमशब्दमस्पर्शं ब्रह्म देहेन्द्रियादिदोषैर्न स्पृश्यत इत्येतस्मिन्नवसरे वक्तव्यं प्राप्तं तत्प्रकृतव्यासङ्गो मा भूदिति नोच्यते ।
इन्द्रविरोचनाख्यायिकायामुपरिष्टाद्वक्ष्यामो युक्तितः ।
एतत्सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरं शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्वात् ।
तत्त्वनृतमेव ।
"वाचाऽरम्भणं विकारो नामधेयम्"इति श्रुतेः ।
तद्विकारेऽनृतेऽपि देहशुङ्गे ब्रह्मोपलभ्यत इति ब्रह्मपुरमित्युक्तं व्यावहारिकम् ।
सत्यं तु ब्रह्मपुरमेतदेव ब्रह्म ।
सर्वव्यवहारास्पदत्वात् ।
अतोऽस्मिन्पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामा ये बहिर्भवद्भिः प्रार्थ्यन्ते तेऽस्मिन्नेव स्वात्मनि समाहिताः ।
अतस्तत्प्राप्त्युपायमेवानुतिष्ठत बाह्यविषयतृष्मां त्यजतेत्यभिप्रायः ।
एष आत्मा भवतां स्वरूपम् ।
शृणुत तस्य लक्षणम् ।
अपहतपाप्मा ।
अपहतः पाप्मा धर्माधर्माख्यो यस्य सोऽयमपहतपाप्मा ।
तथा विजरो विगतजरो विमृत्युश्च ।
तदुक्तं पूर्वमेव न वधेनास्य हन्यत इति ।
किमर्थ पुनरुच्यते ।
यद्यपि देहसंबन्धिभ्यां जरामृत्युभ्यां न संबध्यतेऽन्यथापि संबन्धस्ताभ्यां स्यादित्याशङ्कानिवृत्त्यर्थम् ।
विशोको विगतशोकः ।
शोको नामेष्टादिवियोगनिमित्तो मानसः संतापः ।
विजिघत्सो विगताशनेच्छः ।
अपिपासोऽपानेच्छः ।
नन्वपहतपाप्मत्वेन जरादयः शोकान्ताः प्रतिषिद्धा एव भवन्ति ।
कारणप्रतिषेधात् ।
धर्माधर्मकार्या हि त इति ।
जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोरप्यसत्समत्वमिति पृथक्प्रतिषेधोऽनर्थकः स्यात् ।
सत्यमेवं तथापि धर्मकार्या नन्दव्यतिरेकेण स्वाभाविकानन्दो यथेश्वरे विज्ञानमानन्दं ब्रह्मेति श्रुतेः ।
तथाधर्मकार्यजरादिव्यतिरेकेणापि जरादिदुःखस्वरूपं स्वाभाविकं स्यादित्याशङ्क्येत ।
अतो युक्तस्तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक्प्रतिषेधः ।
जरादिग्रहणं सर्वदुःखोपलक्षणार्थम् ।
पापनिमित्तानां तु दुःखानामानन्त्यात्प्रत्येकं च तत्प्रतिषेधस्याशक्यत्वात्सर्वदुःखप्रतिषेधार्थं युक्तमेवापहतपाप्मत्ववचनम् ।
सत्या अवितथाः कामा यस्य सोऽयं सत्यकामः ।
वितथा हि संसारिणां कामाः ।
ईश्वरस्य तद्विपरीताः ।
तथा कामहेतवः संकल्पा अपि सत्या यस्य स सत्यसंकल्पः ।
संकल्पाः कामाश्च शुद्धसत्त्वोपाधिनिमित्ता ईश्वरस्य चित्रगुवत् ।
न स्वतो नेति नेतीत्युक्तत्वात् ।
यथोक्तलक्षण एवाऽत्मा विज्ञेयो गुरुभ्यः शास्त्रतश्चाऽत्मसंवेद्यतया च स्वाराज्यकामैः ।
न चेद्विज्ञायते को दोषः स्यादिति ।
शृणुतात्र दोषं दृष्टान्तेन ।
यथा ह्येवेह लोके प्रजा अन्वाविशन्त्यनुवर्तन्ते ।
यथानुशासनं यथेह प्रजा अन्यं स्वामिनं मन्यमानाः स्वस्य स्वामिनो यथा यथानुशासनं तथा तथान्वाविशन्ति ।
किम् ।
यं यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं चाभिकामा अर्थिन्यो भवन्त्यात्मबुद्ध्यनुरूपं तं तमेव च प्रत्यन्तादिमुपजीवन्तीति ।
एष दृष्टान्तोऽस्वातन्त्र्यदेषं प्रति पुण्यफलोपभोगे ॥५ ॥
_______________________________________________________________________
८,१.६
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते ।
तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति ।
अथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,१.६ ॥
__________
भाष्य ८,१.६ अथान्यो दृष्टान्तस्तत्क्षयं प्रति तद्यथेहेत्यादिः ।
तत्तत्र यथेह लोके तासामेव स्वाम्यनुशासनानुवर्तिनीनां प्रजानां सेवादिजितो लोकः पराधीनोपभोगः क्षीयतेऽन्तवान्भवति ।
अथेदानीं दार्ष्टान्तिकमुपसंहरतिएवमेवामुत्राग्निहोत्रादिपुण्यजितो लोकः पराधीनोपभोगः क्षीयत एवेत्युक्तो दोष एषामिति विषयं दर्शयतितद्य इत्यादिना ।
तत्तत्रेहास्मिंल्लोके ज्ञानकर्मणोरधिकृता योग्याः सन्त आत्मानं यथोक्तलक्षणं शास्त्राचार्योपदिष्टमननुविद्य यथोपदेशमनु स्वसंवेद्यतामकृत्वा व्रजन्ति देहादस्मात्प्रयन्ति य एतांश्च यथोक्तान् सत्यान् सत्यसंकल्पकार्यांश्च स्वात्मस्थान् कामानननुविद्य व्रजन्ति तेषां सर्वेषु लोकेष्वकामचारोऽस्वतन्त्रता भवति ।
यथा राजानुशासनानुवर्तिनीनां प्रजानामित्यर्थः ।
अथ येऽन्य इह लोक आत्मानं शास्राचार्योरदेशमनुविद्य स्वात्मसंवेद्यतामापाद्य व्रजन्ति यथोक्तांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति राज्ञ इव सार्वभौमस्येह लोके ॥६॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य प्रथमः खण्डः
=======================================================================
८,२.१
स यदि पितृलोककामो भवति ।
संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ।
तेन पितृलोकेन संपन्नो महीयते ॥ ८,२.१ ॥
__________
भाष्य ८,२.१ कथं सर्वेषु लोकेषु कामचारो भवतीति, उच्यतेय आत्मानं यतोक्तलक्षणं हृदि साक्षात्कृतवान्वक्ष्यमाणब्रह्मचर्यादिसाधनसंपन्नः संस्तत्स्थांश्च सत्यान्कामान्स त्यक्तदेहो यदि पितृलोककामः पितरो जनयितारस्त एव सुखहेतुत्वेन भोग्यत्वाल्लोका उच्यन्ते तेषु कामो यस्य तैः पितृभिः संबन्धेच्छा यस्य भवति तस्य संकल्पमात्रादेव पितरः समुत्तिष्ठिन्त्यात्मसंबन्धितामापद्यन्ते ।
विशुद्धसत्त्वतया सत्यसंकल्पत्वादीश्वरस्येव तेन पितृलोकेन भोगेन संपन्नः संपत्तिरिष्टप्राप्तिस्तया समृद्धो महीयते पूज्यते वर्धते वा महिमानमनुभवति ॥१ ॥
_______________________________________________________________________
८,२.२९
अथ यदि मातृलोककामो भवति ।
संकल्पादेवास्य मातरः समुत्तिष्ठन्ति ।
तेन मातृलोकेन संपन्नो महीयते ॥ ८,२.२ ॥
अथ यदि भ्रातृलोककामो भवति ।
संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति ।
तेन भ्रातृलोकेन संपन्नो महीयते ॥ ८,२.३ ॥
अथ यदि स्वसृलोककामो भवति ।
संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति ।
तेन स्वसृलोकेन संपन्नो महीयते ॥ ८,२.४ ॥
अथ यदि सखिलोककामो भवति ।
संकल्पादेवास्य सखायः समुत्तिष्ठन्ति ।
तेन सखिलोकेन संपन्नो महीयते ॥ ८,२.५ ॥
अथ यदि गन्धमाल्यलोककामो भवति ।
संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः ।
तेन गन्धमाल्यलोकेन संपन्नो महीयते ॥ ८,२.६ ॥
अथ यद्यन्नपानलोककामो भवति ।
संकल्पादेवास्यान्नपाने समुत्तिष्ठतः ।
तेनान्नपानलोकेन संपन्नो महीयते ॥ ८,२.७ ॥
अथ यदि गीतवादितलोककामो भवति ।
संकल्पादेवास्य गीतवादिते समुत्तिष्ठतः ।
तेन गीतवादितलोकेन संपन्नो महीयते ॥ ८,२.८ ॥
अथ यदि स्त्रीलोककामो भवति ।
संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति ।
तेन स्त्रीलोकेन संपन्नो महीयते ॥ ८,२.९ ॥
__________
भाष्य ८,२.२,३,४,५,६,७,८,९ समानमन्यत् ।
मातरो जनयित्र्योऽतीताः सुखहेतुभूताः सामर्ध्यात् ।
न हि दुःखहेतुभूतासु ग्रामसूकरादिजन्मनिमित्तासु मातृषु विशुद्धसत्त्वस्य योगिन इच्छा तत्संबन्धो वा युक्तः ॥२९ ॥
_______________________________________________________________________
८,२.१०
यं यमन्तमभिकामो भवति ।
यं कामं कामयते ।
सोऽस्य संकल्पादेव समुत्तिष्ठति ।
तेन संपन्नो महीयते ॥ ८,२.१० ॥
__________
भाष्य ८,२.१० यं यनम्तं प्रदेशमभिकामो भवति ।
यं च कामं कामयते यथोक्तव्यतिरेकेणापि सोऽस्यान्तः प्राप्तुमिष्टः कामश्च संकल्पादेव समुत्तिष्ठत्यस्य ।
तेनेच्छाविघाततयाभिप्रेतार्थप्राप्त्या च संपन्नो महीयत इत्युक्तार्थम् ॥१०॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वितीयः खण्डः
=======================================================================
८,३.१
त इमे सत्याः कामा अनृतापिधानाः ।
तेषां सत्यानां सतामनृतमपिधानम् ।
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ ८,३.१ ॥
__________
भाष्य ८,३.१ यथोक्तात्मध्यानसाधनानुष्ठानं प्रति साधकानामुत्साहजननार्थमनुक्रोशन्त्याहकष्टमिदं खलु वर्तते यत्स्वात्मस्थाः शक्यप्राप्या अपि त इमे सत्याः कामा अनृतापिधानास्तेषामात्मस्थानां स्वाश्रयाणामेव सतामनृतं ब३ यविषयेषु स्त्र्यन्नभोजनाच्छादनादिषु तृष्णा तन्निमित्तं च स्वेच्छाप्रचारत्वं मिथ्याज्ञाननिमित्तत्वादनृतमित्युच्यते ।
तन्निमित्तं सत्यानां कामानामप्राप्तिरित्यपिधानमिवापिधानम् ।
कथमनृतापिधाननिमित्तं तेषामलाभ इति, उच्यतेयो यो हि यस्मादस्य जन्तोः पुत्रो भ्राता वेष्ट इतोऽस्माल्लोकात्प्रैति प्रगच्छति म्रियते तमिष्टं पुत्रं भ्रातरं वा स्वहृदयाकाशे विद्यमानमपीह पुनर्दर्शनायेच्छन्नपि न लभते ॥१ ॥
_______________________________________________________________________
८,३.२
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते ।
अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः ।
तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः ।
एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ ८,३.२ ॥
__________
भाष्य ८,३.२ अथ पुनर्ये चास्य विदुषो जन्तोर्जीवा जीवन्तीह पुत्रा भ्रात्रादयो वा ये च प्रेता मृता इष्टाः संबन्धिनो यच्चान्यदिह लोके वस्त्रान्नपानादि रत्नादि वा वस्त्विच्छन्न लभते तत्सर्वमत्र हृदयाकाशाख्ये ब्रह्मणि गत्वा यथोक्तेन विधिना विन्दते लभते ।
अत्रास्मिन्हार्दाकाशे हि यस्मादस्यैते यथोक्ताः सत्याः कामा वर्तन्तेऽनतापिधानाः ।
कथमिव तदन्याय्यमित्युच्यतेतत्तत्र यथा हिरण्यनिधिं हिरण्यमेव पुनर्ग्रहणाय निधातृभिर्निधीयत इति निधिस्तं हिरण्यनिधिं निहितं भूमेरधस्तान्निक्षिप्तमक्षेत्रज्ञा निधिशास्रैर्निधिक्षेत्रमजानन्तस्ते निधेरुपर्युपरि संचरन्तोऽपि निधिं न विन्देयुः शक्यवेदनमपि ।
एवमेवेमा अविद्यवत्यः सर्वा इमाः प्रजा यथोक्तं हृदयाकाशाख्यं ब्रह्मलोकं ब्रह्मैव लोको ब्रह्मलोकस्तमहरहः प्रत्यहं गच्छन्त्योऽपि सुषुप्तकाले न विदन्दन्ति न लभन्त एषोऽहं ब्रह्मलोकभावमापन्नोऽस्म्यद्येति ।
अनृतेन हि यथोक्तेन हि यस्मात्प्रत्यूढा हृताः स्वरूपादविद्यादिदोषैर्बहिपकृष्टा इत्यर्थः ।
अतः कष्टमिदं वर्तते जन्तूनां यत्स्वायत्तमपि ब्रह्म न लभ्यत इत्यभिप्रायः ॥२ ॥
_______________________________________________________________________
८,३.३
स वा एष आत्मा हृदि ।
तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम् ।
अहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८,३.३ ॥
__________
भाष्य ८,३.३ स वै य आत्मापहतपाप्मेति प्रकृतो वैशब्देन तं स्मारयत्येष विवक्षित आत्मा हृदि हृदयपुण्डरीक आकाशशब्देनाभिहितः ।
तस्यैतस्य हृदयस्यैतदेव निरुक्तं निर्वचनं नान्यत ।
हृद्ययमात्मा वर्तत इति यस्मात्तस्माद्धृदयं हृदयनामनिर्वचनप्रसिद्ध्यापि स्वहृदय आत्मेत्यवगन्तव्यमित्यभिप्रायः ।
अहरहर्वै प्रत्यहमेवंविद्धृद्ययमात्मेति जानन्स्वर्गं लोकं हार्दं ब्रह्मैति प्रतिपद्यते ।
नन्वनेवंविदपि सुषुप्तकाले हार्दं ब्रह्म प्रतिपद्यत एव सुषुप्तकाले सता सोम्य तदा संपन्न इत्युक्तत्वात् ।
बाढमेवं तथाप्यस्ति विशेषः ।
यथा जानन्नजानंश्च सर्वो जन्तुः सद्ब्रह्मैव तथापि तत्त्वमसीति प्रतिबोधितो विद्वान्सदेव नान्योऽस्मीति जानन्सदेव भवति ।
एवमेव विद्वानविद्वांश्चसुषुप्ते यद्यपि सत्संपद्यते तथाप्येवंविदेव स्वर्गं लोकमेतीत्युच्यते ।
देहपातेऽपि विद्याफलस्यावश्यंभावित्वादित्येष विशेषः ॥३ ॥
_______________________________________________________________________
८,३.४
अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ८,३.४ ॥
__________
भाष्य ८,३.४ सुषुप्तकाले स्वेनाऽमना सता संपन्नः सन्सम्यक्प्रसीदतीति जाग्रत्स्वप्नयोर्विषयेन्द्रियसंयोगजातं कालुष्यं जहातीति संप्रसादशब्दो यद्यपि सर्वजन्तूनां साधारणस्तथाप्येवंवित्स्वर्गं लोकमेतीति प्रकृतत्वादेष संप्रसाद इति संनिहितवद्यत्नविशेषात्सोऽथेदं शरीरं हित्वास्माच्छरीरात्समुत्थाय शरीरात्मभावनां परित्यज्येत्यर्थः ।
न त्वासनादिव समुत्थायेतीह युक्तम् ।
स्वेन रूपेणेति विशेषणात् ।
न ह्यन्यत उत्थाय स्वरूपं संपत्तव्यम् ।
स्वरूपमेव हि तन्न भवति प्रतिपत्तव्यं चेत्स्यात् ।
परं परमात्मलक्षणं विज्ञप्तिस्वभावं ज्योतिरुपसंपद्य स्वास्थ्यमुपगम्येत्येतत् ।
स्वेन आत्मीयेन रूपेणाभिनिष्पद्यते प्रागेतस्याः स्वरूपसंपत्तेरविद्यया देहमेवापरं रूपमात्मत्वेनोपगत इति तदपेक्षयेदमुच्यते स्वेन रूपेणेति ।
अशरीरता ह्यात्मनः स्वरूपं यत्स्वं परं ज्योतिःस्वरूपमापद्ये संप्रसाद एष आत्मेति होवाच ।
स ब्रूयादिति यः श्रुत्या नियुक्तोऽन्तेवासिभ्यः ।
किञ्चैतदमृतमविनाशि भूमा यो वै भूमा तदमृतमित्युक्तम् ।
अत एवाभयं भूम्नो द्वितीयाभावादत एतद्ब्रह्मेति ।
तस्य ह वा एतस्य ब्रह्मणो नामाभिधानम् ।
किं तत्सत्यमिति ।
सत्यं ह्यवितथं ब्रह्म ।
तत्सत्यं स आत्मेति ह्युक्तम् ।
अथ किमर्थमिदं नाम पुनरुच्यते ।
तदुपासनविधिस्तुत्यर्थम् ॥४॥
८.३.५ तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्त्दमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥५॥
__________
भाष्य ८,३.५ तानि ह वा एतानि ब्रह्मणो नामाक्षराणि त्रीण्येतानि सतीयामति सकारस्तकारो यमिति च ।
तकार ईकारः उच्चारणार्थोऽनुबन्धः ।
ह्रस्वेनैवाक्षरेण पुनः प्रतिनिर्देशात्तेषाम् ।
तत्तत्र यत्सत्सकारस्तदमृतं सद्ब्रह्मामृतवाचकत्वादमृत एव सकारस्तकारन्तो निर्दिष्टः ।
अथ यत्तितकारस्तन्मर्त्यम् ।
अथ यद्यमक्षरं तेनाक्षरेणामृतमर्त्याख्ये पूर्वे उभेऽक्षरे यच्छति यमयति नियमयति वशीकरोत्यात्मन इत्यर्थः ।
यद्यस्मादनेन यमित्येतेनोभे यच्छति तस्माद्याम् ।
संयते इव ह्येतेन यमा लक्ष्येते ।
ब्रङ्मनामाक्षरस्यापीदममृतत्वादिधर्मवत्त्वं महाभाग्यं किमुत नामवत इत्युपास्यत्वाय स्तूयते ।
ब्रह्मनामनिर्वचनेनैव नामवतो वेत्तैवंवित् ।
अहरहर्वा एवंवित्स्वर्गं लोकमेतीत्युक्तार्थम् ॥५॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य तृतीयः खण्डः
=======================================================================
८,४.१
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय ।
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम् ।
सर्वे पाप्मानोऽतो निवर्तन्ते ।
अपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८,४.१ ॥
__________
भाष्य ८,४.१ अथ य आत्मेति ।
उक्तलक्षणो यः संप्रसादस्तस्य स्वरूपं वक्ष्यमाणैरुक्तैश्च गुणैः पुनः स्तूयते ब्रह्मचर्यसाधनसंबन्धार्थम् ।
य एष यथोक्तलक्षण आत्मा स सेतुरिव सेतुः ।
विधृतिर्विधरणः ।
अनेन हि सर्वं जगद्वर्णाश्रमादिक्रियाकारकफलादिभेदनियमैः कर्तुरनुरूपं विदधता विधृतम् ।
अध्रियमाणं हीश्वरेणेदं विश्वं विनश्येद्यतस्तस्मात्स सेतुर्विधृतिः ।
किमर्थं स सेतुरित्याहएषां भूरादीनां कर्तृकर्मलाश्रयाणामसंभेदायाविदारणायाविनाशायेत्येतत् ।
किंविश्ष्टश्चासौ सेतुरित्याहनैतं सेतुमात्मानमहोरात्रे सर्वस्य जनिमतः परिच्छेदके सती नैतं तरतः ।
यथान्ये संसारिणः कालेनाहोरात्रादिलक्षणेन परिच्छेद्या न तथायं कालपरिच्छेद्य इत्यभिप्रायः ।
"यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तत"इति श्रुत्यन्तरात् ।
अत एवैनं न जरा तरति न प्राप्नोति ।
तथा न मृत्युर्न शोको न सुकृतं न दृष्कृतं सुकृतदुष्कृते धर्माधर्मै ।
प्राप्तिरत्र तरणशब्देनाभिप्रेता नातिक्रमणम् ।
कारणं ह्यात्मा ।
न शक्यं हि कारणातिक्रमणं कर्तुं कार्येण ।
अहोरात्रादि च सर्वं सतः कार्यम् ।
अन्येन ह्यन्यस्य प्राप्तिरतिक्रमणं वा क्रियेत ।
न तु तेनैव तस्य ।
न हि घटेन मृत्प्राप्यतेऽतिक्रम्यते वा ।
यद्यपि पूर्वं य आत्मापहतपाप्मेत्यादिना पाप्मादिप्रतिषेध उक्त एव तथापीहायं विशेषो न तरतीति प्राप्तिविषयत्वं प्रतिषिध्यते ।
तत्रा विशेषेण जराद्यभावमात्रमुक्तम् ।
अहोरात्राद्या उक्ता अनुक्ताश्चान्ये सर्वे पाप्मान उच्यन्तेऽतोऽस्मादात्मनः सेतोर्निवर्तन्तेऽप्राप्यैवेत्यर्थः ।
अपहतपाप्मा ह्येष ब्रह्मैव लोको ब्रह्मलोक उक्तः ॥१ ॥
_______________________________________________________________________
८,४.२
तस्माद्वा एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवति ।
विद्धः सन्नविद्धो भवति ।
उपतापी सन्ननुपतापी भवति ।
तस्माद्वा एतं सेतुं तीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते ।
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८,४.२ ॥
__________
भाष्य ८,४.२ यस्माच्च पाप्मकार्य मान्ध्यादि शरीरवतः स्यान्न त्वशरीरस्य तस्माद्वा एतमात्मानं सेतुं तीर्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् ।
तता विद्धः सन्देहवत्त्वे स देहवियोगे सेतुं तीर्त्वा प्राप्यानन्धो भवति देहवत्त्वे पूर्वमन्धोऽपि सन् ।
तथा विद्धः सन्देहवत्त्वे स देहवियोगो सेतुं प्राप्याविद्धो भवति ।
तथोपतापी रोगाद्युपतापवान्सन्ननुपतापी भवति ।
किञ्च यस्मादहोरात्रे न स्तः सेतौ तस्माद्वा एतं सेतुं तीर्त्वा प्राप्य नक्तमपि तमोरूपं रात्रिरपि सर्वमहरेवाभिनिष्पद्यते ।
विज्ञप्त्यात्मज्योतिः स्वरूपमहरिवाहः सदैकरूपं विदुषः संपद्यत इत्यर्थः ।
सकृद्विभातः सदा विभातः सदैकरूपः स्वेन रूपेणैष ब्रह्मलोकः ॥२ ॥
_______________________________________________________________________
८,४.३
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,४.३ ॥
__________
भाष्य ८,४.३ तत्तत्रैवं सत्येतं यथोक्तं ब्रह्मलोकं ब्रह्मचर्येण स्रीविषयतृष्णात्यागेन शास्राचार्योपदेशमनुविन्दन्ति स्वात्मसंवेद्यतामापादयन्ति ये तेषामेव ब्रह्मचर्यसाधनवतां ब्रह्मविदामेष ब्रह्मलोकः नान्येषां स्रीविषयसंपर्कजाततृष्णानां ब्रह्मविदामपीत्यर्थः ।
तेषां सर्वेषु लोकेषु कामचारो भवतीत्युक्तार्थम् ।
तस्मात्परममेतत्साधनं ब्रह्मचर्यं ब्रह्मविदामित्यभिप्रायः ॥३॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्थः खण्डः
=======================================================================
८,५.१
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८,५.१ ॥
__________
भाष्य ८,५.१ य आत्मा सेतुत्वादिगुणैः स्तुतस्तत्प्राप्तये ज्ञानसहकारिसाधनान्तरं ब्रह्मचर्याख्यं विदातव्यमित्याह ।
यज्ञादिभिश्च तत्स्तौति कर्तव्यार्थमथ यद्यज्ञ इत्याचक्षते लोके परमपुरुषार्थसाधनं कथयन्ति शिष्टास्तद्ब्रह्मचर्यमेव ।
यज्ञस्यापि यत्फलं तद्ब्रह्मचर्यवाल्लंभतेऽतो यज्ञोऽपि ब्रह्मचर्यं भवति प्रतिपत्तव्यम् ।
कथं ब्रह्मचर्यं यज्ञ इत्याहब्रह्मचर्येणैव हि यस्माद्यो ज्ञातास तं ब्रह्मलोकं यज्ञस्यापि पारम्पर्येण फलभूतं विन्दते लभते ततो यज्ञोऽपि ब्रह्मचर्यमेवेति ।
यो ज्ञातेत्यक्षरानुवृत्तेर्यज्ञो ब्रह्मचर्यमेव ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
कथम् ।
ब्रह्मचर्येणैव साधनेन तमीश्वरमिष्ट्वा पूजयित्वाथवैषणामात्मविषयां कृत्वा तमात्मानमनुविन्दते ।
एषणादिष्टमपि ब्रह्मचर्यमेव ॥१ ॥
_______________________________________________________________________
८,५.२
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दते ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ ८,५.२ ॥
__________
भाष्य ८,५.२ अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत्तथा सतः परस्मादात्मन आत्मनस्राणं रक्षणं ब्रह्मचर्यसाधनेन विन्दते ।
अतः सत्त्रायणशब्दमपि ब्रह्मचर्यमेव सत् ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येणैव साधनेन युक्तः सन्नात्मानं शास्राचार्याभ्यामनुविद्य पश्चान्मनुते ध्यायति ।
अतो मौनशब्दमपि ब्रह्मचर्यमेव ॥२ ॥
_______________________________________________________________________
८,५.३
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ततरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि ।
तदैरंमदीयं सरः ।
तदश्वत्थः सोमसवनः ।
तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ८,५.३ ॥
__________
भाष्य ८,५.३ अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
यमात्मानं ब्रह्मचर्येणानुविन्दते स एष ह्यात्मा ब्रह्मचर्यसाधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
अरण्यशब्दयोरर्णवयोर्ब्रह्मचर्यवतोऽयनादरण्यायनं ब्रह्मचर्यम् ।
यो ज्ञानाद्यज्ञ एषणादिष्टं सतस्राणात्सत्त्रायणं मननान्मौनमनशनादनाशकायनमरण्ययोर्गमनादरण्यायनमित्यादिभिर्महद्भिः पुरुषार्थसाधनैः स्तुतत्वाद्ब्रह्मचर्यं परमं ज्ञानस्य सहकारिकारणं साधनमित्यतो ब्रह्मविदा यत्नतो रक्षणीयमित्यर्थः ।
तत्तत्र हि ब्रह्मलोकेऽरश्च ह वै प्रसिद्धो ण्यश्चार्णवौ समुद्रोपमे वा सरसी तृतीयस्यां भुवमन्तरिक्षं चापेक्ष्य तृतीया द्यौस्तस्यां तृतीयस्यामितोऽस्माल्लोकादारभ्य गण्यमानायां दिवि ।
तत्तत्रैव चैरमिरान्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरं मदीयं तदुपयोगिनां मदकरं हर्षोत्पादकं सरः ।
तत्रैव चाश्वत्थो वृक्षः सोमसवनो नामतः सोमोऽमृतं तन्निःस्रवोऽमृतस्रव इति वा ।
तत्रैव च ब्रह्मलोके ब्रह्मचर्यसाधनरहितैर्ब्रह्मचर्यसाधनवद्भ्योऽन्यैर्न जीयत इत्यपराजिता नाम पूः पुरी ब्रह्मणो हिरण्यगर्भस्य ।
ब्रह्मणा च प्रभुणा विशेषेण मितं निर्मितं तच्च हिरण्मयं सौवर्णं प्रभुविमितं मण्डपमिति वाक्यशेषः ॥३ ॥
_______________________________________________________________________
८,५.४
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,५.४ ॥
__________
भाष्य ८,५.४ तत्तत्र हि ब्रह्मलोक एतावर्णवौ यावरण्याख्यावुक्तौ ब्रह्मचर्येण साधनेनानुविन्दन्ति ये तेषामेवैष यो व्याख्यातो ब्रह्मलोकस्तेषां च ब्रह्मचर्यसाधवनतां ब्रह्मविदां सर्वेषु लोकेषु कामचारो भवति ।
नान्येषामब्रह्मचर्यपराणां बाह्यविषयासक्तबुद्धीनां कदाचिदपीत्यर्थः ।
नन्वत्र त्वमिन्द्रस्त्वं यमस्त्वं वरुण इत्यादिभिर्यथा कश्चित्स्तूयते महार्ह एवमिष्टादिभिः शब्दैर्न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हं किं तर्हि ज्ञानस्य मोक्षसाधनत्वात्तदेवेष्टादिभिः स्तूयत इति केचित् ।
न ।
स्त्र्यादिबाह्यविषयतृष्णापहृतचित्तानां प्रत्यगात्मविवेकविज्ञानानुपपत्तेः ।
"पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्"इत्यादिश्रुतिस्मृतिशतेभ्यः ।
ज्ञानसहकारिकारणं स्त्र्यादिविषयतृष्णानिवृत्तिसाधनं विधातव्यमेवेति युक्तैव तत्स्तुतिः ।
ननु च यज्ञादिभिः स्तुतं ब्रह्मचर्यमिति यज्ञादीनां पुरुषार्थसाधनत्वं गम्यते ।
सत्यं गम्यते ।
न त्विह ब्रह्मलोकं प्रति यज्ञादीनां साधनत्वमभिप्रेत्य यज्ञादिभिर्ब्रह्मचर्यं स्तूयते किं तर्हि तेषां प्रसिद्धं पुरुषार्थसाधनत्वमपेक्ष्य ।
यथेन्द्रादिभी राजा न तु यत्रेन्द्रादीनां व्यापारस्तत्रैव राज्ञ इति तद्वत् ।
य इमेर्ऽणवादयो ब्राह्मलौकिकाः संकल्पजाश्च पित्रादयो भोगास्ते किं पार्थिवा आप्याश्च यथेह लोके दृश्यन्ते तद्धदर्णववृक्षपूःस्वर्णमण्डपान्याहोस्विन्मानसप्रत्ययमात्राणीति ।
किञ्चातः, यदि पार्थिवा आप्याश्च स्थूलाः स्युर्हृद्याकाशे समाधानानुपपत्तिः ।
पुराणे च"मनोमयानि ब्रह्मलोके शरीरादीनी"ति वाक्यं विरुध्येत ।
"अशोकमहिमम्"इत्याद्याश्च श्रुतयः ।
ननु"समुद्राः सरितः सरांसि वाप्यः कूपा यज्ञा वेदा मन्त्रादयश्च मूर्तिमन्तो ब्रह्माणमुपतिष्ठन्त"इति मानसत्वै विरुध्येत पुराणस्मृतिः ।
न ।
मूर्तिमत्त्वे प्रसिद्धरूपाणामेव तत्र गमनानुपपत्तेः ।
तस्मात्प्रसिद्धमूर्तिव्यतिरेकेण सागरादीनां मूर्त्यन्तरं सागरादिभिरुपात्तं ब्रह्मलोकगन्तृ कल्पनायां यथाप्रसिद्धा एव मानस्य आकारवत्यः पुंस्त्र्याद्या मूर्तयो युक्ताः कल्पयितुं मानसदेहानुरूप्यसंबन्धोपपत्तेः ।
दृष्टा हि मानस्य एवाऽकारवत्यः पुंस्त्र्याद्या मूर्तयः स्वप्ने ।
ननु ता अनृता एव ।
त इमे सत्याः कामा इति श्रुतिस्तथा सति विरुध्येत ।
न ।
मानसप्रत्ययस्य सत्त्वोपपत्तेः ।
मानसा हि प्रत्ययाः स्रीपुरुषाद्याकाराः स्वप्ने दृश्यन्ते ।
ननु जाग्रद्वासनारूपाः स्वप्नदृश्या न तु तत्र स्त्र्यादयः स्वप्ने विद्यन्ते ।
अत्यल्पमिदमुच्यते ।
जाग्रद्विषया अपि मानसप्रत्ययाभिनिर्वृत्ता एव सदीक्षाभिनिर्वृत्ततेजोऽबन्नमयत्वाज्जाग्रद्विषयाणाम् ।
संकल्पमूला हि लोका इति चोक्तम्"समकॢपतां द्यावापृथिवी"इत्यत्र ।
सर्वश्रुतिषु च प्रत्यगात्मन उत्पत्तिः प्रलयश्च तत्रैव स्थितिश्च"यथा वा अरा नाभौ"इत्यादिनोच्यते ।
तस्मान्मानसानां बाह्यानां च विषयाणामितरेतरकार्यकारणमिष्यत एव बीजाङ्कुरवत् ।
यद्यपि बाह्या एव मानसा मानसा एव च बाह्या नानृतत्वं तेषां कदाचिदपि स्वात्मनि भवति ।
ननु स्वप्ने दृष्टाः प्रतिबुद्धस्यानृता भवन्ति विषयाः ।
सत्यमेव ।
जाग्रद्बोधापेक्षं तु तदनृतत्वं न स्वतः ।
तथा स्वप्नबोधापेक्षं च जाग्रद्दृष्टविषयानृतत्वं न स्वतः ।
विशेषाकारमात्रं तु सर्वेषां मिथ्याप्रत्ययनिमित्तमिति वाचाऽरम्भणं विकारो नामधेयमनृतं त्रीणि रूपाणीत्येव सत्यम् ।
तान्यप्याकारविशेषतोऽनृतं स्वतः सन्मात्ररूपतया सत्यं प्राक्सदात्मप्रतिबोधात्स्वविषयेऽपि सर्वं स्त्यमेव स्वप्नदृश्या इवेति न कश्चिद्विरोधः ।
तस्मान्मानसा एव ब्राह्मलौकिका अरण्यादयः पित्रादयः कामाः ।
बाह्यविषयभोगवदशुद्धिरहितत्वाच्छुद्धसत्त्वसंकल्पजन्या इति निरतिशयसुखाः सत्याश्चेश्वराणां भवन्तीत्यर्थः ।
सत्सत्यात्मप्रतिबोधेऽपि रज्ज्वामिव कल्पिताः सर्पादयः सदात्मस्वरूपतामेव प्रतिपद्यन्त इति सदात्मना सत्या एव भवन्ति ॥४॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य पञ्चमः खण्डः
=======================================================================
८,६.१
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति ।
असौ वादित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८,६.१ ॥
__________
भाष्य ८,६.१ यस्तु हृदयपुण्डरीकगतं यथोक्तगुणविशिष्टं ब्रह्म ब्रह्मचर्यादिसाधनसंपन्नस्त्यक्तबाह्यविषयानृततृष्णः सन्नुपास्ते तस्येयं मूर्धन्यया नाड्या गतिर्वक्तव्येति नाडीखण्ड आरभ्यते अथ या एता वक्ष्यमाणा हृदयस्य पुण्डरीकाकारस्य ब्रह्मोपासनस्थानस्य संबन्धिन्यो नाड्यो हृदयमांसपिण्डात्सर्वतो विनिःसृता आदित्यमण्डलादिव रश्मयस्ताश्चैताः पिङ्गलस्य वर्णविशेषविशिष्टस्याणिम्नः सूक्ष्मरसस्य रसेन पूर्णास्तदाकारा एव तिष्ठन्ति वर्तन्त इत्यर्थः ।
तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्यम् ।
सौरेण तेजसा पित्ताख्येन पाकाभिनिर्वृत्तेन कफेनाल्पेन संपर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्यां तदेव च वातभूयस्त्वान्नीलं भवति ।
तदेव च कफभूयस्त्वाच्छुक्लम् ।
कफेन समतायां पीतम् ।
शोणित बाहुल्येन लोहितम् ।
वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः कथं भवन्तीति ।
श्रुतिस्त्वाहाऽदित्यसंबन्धादेव तत्तेजसो नाडीष्वनुगतस्यैते वर्णविशेषा इति ।
कथम् ।
असौ वा आदित्यः पिङ्गलो वर्णत एष आदित्यः शुक्लोऽप्येष नील एष पीत एष लोहित आदित्य एव ॥१ ॥
_______________________________________________________________________
८,६.२
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च ।
अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ताः ।
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८,६.२ ॥
__________
भाष्य ८,६.२ तस्याध्यात्मं नाडीभिः कथं संबन्ध इत्यत्र दृष्टान्तमाहतत्तत्र यथा लोके महान्विस्तीर्णः पन्था महापथ आततो व्याप्त उभौ गच्छतीमं च संनिहितममुं च विप्रकृष्टं दूरस्थमेवं यथा दृष्टान्तो महापथ उभौ ग्रामौ प्रविष्ट एवमेवैता आदित्यस्य रश्मय उभौ लोकावमुं चाऽदित्यमण्डलमिमं च पुरुषं गच्छन्त्युभयत्र प्रविष्टाः ।
यथा महापथः ।
कथम् ।
अमुष्मादादित्यमण्डलात्प्रतायन्ते संतता भवन्ति ।
ता अध्यात्ममासु पिङ्गलादिवर्णासु यथोक्तासु नाडीषु सृप्ता गताः प्रविष्टा इत्यर्थः ।
आभ्यो नाडीभ्यः प्रतायन्ते प्रवृत्ताः सन्तानभूताः सत्यस्तेऽमुष्मिन् ।
रश्मीनामुभयलिङ्गत्वात्त इत्युच्यन्ते ॥२ ॥
_______________________________________________________________________
८,६.३
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति ।
आसु तदा नाडीषु सृप्तो भवति ।
तं न कश्चन पाप्मा स्पृशति ।
तेजसा हि तदा संपन्नो भवति ॥ ८,६.३ ॥
__________
भाष्य ८,६.३ तत्तत्रैवं सति यत्र यस्मिन्काल एतत्स्वपनमयं जीवः सुप्तो भवति ।
स्वापस्य द्विप्रकारत्वाद्विशेषणं समस्त इति ।
उपसंहृतसर्वकरणवृत्तिरित्येतत् ।
अतो बाह्यविषयसंपर्कजनितकालुष्याभावात्सम्यक् ।
प्रसन्नः संप्रसन्नो भवति ।
अत एव स्वप्नं विषयाकाराभासं मानसं स्वप्नप्रत्ययं न विजानाति नानुभवतीत्यर्थः ।
यदैवं सुप्तो भवत्यासु सौरतेजःपूर्णासु यथोक्तासु नाडीषु तदा सृप्तः प्रविष्टो नाडीभिर्द्वारभूताभिर्हृदयाकाशं गतो भवतीत्यर्थः ।
न ह्यन्यत्र सत्संपत्तेः स्वप्नादर्शनमस्तीति सामर्थ्यान्नाडीष्विति सप्तमी तृतीयया परिणम्यते ।
तं सता संपन्नं न कश्चन न कश्चिदपि धर्माधर्मरूपः पाप्मा स्पृशतीति स्वरूपावस्थितत्वात्तदाऽत्मनः ।
देहेन्द्रियविशिष्टं हि सुखदुःखकार्यप्रदानेन पाप्मा स्पृशतीति न तु सत्संपन्नं स्वरूपावस्थं कश्चिदपि पाप्मा स्प्रष्टुमुत्सहते ।
अविषयत्वात् ।
अन्यो ह्यन्यस्य विषयो भवति न त्वन्यत्वं केनचित्कुतश्चिदपि सत्संपन्नस्य ।
स्वरूपप्रच्यवनं त्वात्मनो जाग्रत्स्वप्नावस्थां प्रति गमनं बाह्यविषयप्रतिबोधोऽविद्याकामकर्मबीजस्य ब्रह्मविद्याहुताशादाहनिमित्तमित्यवोचाम षष्ठ एव तदिहापि प्रत्येतव्यम् ।
यदैवं सुप्तः सौरेण तेजसा हि नाड्यन्तर्गतेन सर्वतः संपन्नो व्याप्तो भवति ।
अतो विशेषेण चक्षुरादिनाडीद्वारैर्बाह्यविषयभोगायाप्रसृतानि करणान्यस्य तदा भवन्ति ।
तस्मादयं करणानां निरोधात्स्वात्मन्येवावस्थितः स्वप्नं न विजानातीति युक्तम् ॥३ ॥
_______________________________________________________________________
८,६.४
अथ यत्रैतदबलिमानं नीतो भवति ।
तमभित आसीना आहुर्जानासि मां जानासि मामिति ।
स यावदस्माच्छरीरादनुत्क्रान्तो भवति ।
तावज्जानाति ॥ ८,६.४ ॥
__________
भाष्य ८,६.४ तत्रैवं सत्यथ यत्र यस्मिन्कालेऽबलिमानमबलभावं देहस्य रोगादिनिमित्तं जरादिनिमित्तं वा कृशीभावमेतन्नयनं नीतः प्रापितो देवदत्तो भवति मुमूर्षर्यदा भवतीत्यर्थः ।
तमभितः सर्वतो वेष्टयित्वाऽसीना ज्ञातय आहुर्जानासि मां तव पुत्रं जानासि मां पितरं चेत्यादि ।
स मुमूर्षुर्यावदस्माच्छरीरादनुत्क्रान्तोऽनिर्गतो भवति तावत्पुत्रादीञ्जानाति ॥४ ॥
_______________________________________________________________________
८,६.५
अथ यत्रैतदस्माच्छरीरादुत्क्रामति ।
अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते ।
स ओमिति वा होद्वा मीयते ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति ।
एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८,६.५ ॥
__________
भाष्य ८,६.५ अथ यत्र यदैतत्क्रियाविशेषणमित्यस्माच्छरीरादुत्क्रामति ।
अथ तदैतैरेव यथोक्ताभी रश्मिभिरूर्ध्वमाक्रमते यथाकर्मार्जितं लोकं प्रत्यविद्वान् ।
इतरस्तु विद्वान्यथोक्तसाधनसंपन्नः स ओमित्योङ्कारेणाऽत्मानं ध्यायन्यथापूर्वं वा हैव, उद्वोर्ध्वं वा विद्वांश्चेदितरस्तिर्यङ्वेत्यभिप्रायः ।
मीयते प्रमीयते गच्छतीत्यर्थः ।
स विद्वानुत्क्रमिष्यन्यावत्क्षिप्येन्मनो यावता कालेन मनसः क्षेपः स्यात्तावता कालेनाऽदित्यं गच्छति प्रप्नोति क्षिप्रं गच्छतीत्यर्थो न तु तावतैव कालेनेति विवक्षितम् ।
किमर्थमादित्यं गच्छतीत्युच्यतेएतद्वै खलु प्रसिद्धं ब्रह्मलोकस्य द्वारं य आदित्यस्तेन द्वारभूतेन ब्रह्मलोक गच्छति विद्वान् ।
अतो विदुषां प्रपदनं प्रपद्यते ब्रह्मलोकमनेन द्वारेणेति प्रपदनम् ।
निरोधनं निरोधोऽस्मादादित्यादविदुषां भवतीति निरोधः ।
सौरेण तेजसा देह एव निरुद्धाः सन्तो मूर्धन्यया नाड्या नोत्क्रमन्त एवेत्यर्थः ।
विष्वङ्ङन्या इति श्लोकात् ॥५ ॥
_______________________________________________________________________
८,६.६
तदेष श्लोकः ।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८,६.६ ॥
__________
भाष्य ८,६.६ तदेतस्मिन्यथोक्तेर्ऽथ एष श्लोको मन्त्रो भवति ।
शतं चैका चैकोत्तरशतं नाड्यो हृदयस्य मांसपिण्डभूतस्य संबन्धिन्यः प्रधानतो भवन्ति ।
आनन्त्याद्देहनाडीनाम् ।
तासामेका मूर्धानमभिनिःसृता विनिर्गता तयोर्ध्वमायन्गच्छन्नमृतत्वममृतभावमेति विष्वङ्नानागतयस्तिर्यग्विसर्पिण्य ऊर्ध्वगाश्चान्या नाड्यो भवन्ति संसारगमनद्वारभूता न त्वमृतत्वाय किं तर्ह्यत्कमण एवोत्क्रान्त्यर्थमेव भवन्तीत्यर्थः ।
द्विरभ्यासः प्रकरणसमाप्त्यर्थः ॥६॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य षष्ठः खण्डः
=======================================================================
८,७.१
य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ ८,७.१ ॥
__________
भाष्य ८,७.१ "अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म"इत्युक्तम् ।
तत्र कोऽसौ संप्रसादः, कथं वा तस्याधिगमो यथा सोऽस्माच्छरीरात्सविजिज्ञासितव्य इति चैष नियमविधिरेव नापूर्वविधिः ।
एवमन्वेष्टव्यो विजिज्ञासितव्य इत्यर्थः ।
दृष्टार्थत्वादन्वेषणविजिज्ञासनयोः ।
दृष्टार्थत्वं च दर्शयिष्यति नाहमात्र भोग्यं पश्यामीत्यनेनासकृत् ।
पररूपेण च देहादिधर्भैरवगन्यमानस्याऽत्मनः स्वरूपाधिगमे विपरीताधिगमनिवृत्तिर्दृष्टं फलमिति नियमार्थतैवास्य विधेर्युक्ता न त्वाग्निहोत्रादीनामिबापूर्वविधित्वमिह संभवति ॥१ ॥
_______________________________________________________________________
८,७.२
तद्धोभये देवासुरा अनुबुबुधिरे ।
ते होचुर्हन्त तमात्मआनमन्वेच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति ।
इन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणाम् ।
तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८,७.२ ॥
__________
भाष्य ८,७.२ तद्धोभय इत्याद्याख्यायिकाप्रयोजनमुक्तम् ।
तद्ध किल प्रजापतेर्वचनमुभये देवासुरा देवाश्चासुराश्च देवासुरा अनु परम्परागतं स्वकर्णगोचरापन्नमनुबुबुधिरेऽनुबुद्धवन्तः ।
ते चैतत्प्रजापतिवचो बुद्ध्वा किमकुर्वन्नित्युच्यतेते होचुरुक्तवन्तोऽन्योन्यं देवाः स्वपरिषद्यसुराश्च हन्त यद्यनुमतिर्भवतां प्रजापतिनोक्तं तमात्मानमन्विच्छामोऽन्वेषणं कुर्मो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वाश्च कामानित्युक्त्वेन्द्रो हैव राजैव स्वयं देवानामितरान्देवांश्च भोगपरिच्छदं च सर्वं स्थापयित्वा शरीरमात्रेणैव प्रजापतिं प्रत्यभिप्रवव्राज प्रगतवांस्तथा विरोचनोऽसुराणाम् ।
विनयेन गुरवोऽभिगन्तव्या इत्येतद्दर्शयति ।
त्रैलोक्यराज्याच्च गुरुतरा विद्यते ।
यतो देवासुरराजौ महार्हभोगार्है सन्तौ तथा गुरुमभ्युपगतवन्तौ ।
तौ ह किलासंविदानावेवान्योन्यं संविदमकुर्वाणौ विद्याफलं प्रत्यन्योन्यमीर्ष्यां दर्शयन्तौ समित्पाणी समिद्भारहस्तौ प्रजापतिसकाशमाजग्मतुरागतवन्तौ ॥२ ॥
_______________________________________________________________________
८,७.३
तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः ।
तौ ह प्रजापतिरुवाच ।
किमिच्छन्ताववास्तमिति ।
तौ होचतुर्य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते ।
तमिच्छन्ताववास्तमिति ॥ ८,७.३ ॥
__________
भाष्य ८,७.३ तौ ह गत्वा द्वात्रिंशतं वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यमूषतुरुषितवन्तौ ।
अभिप्रायज्ञः प्रजापतिस्तावुवाच किमिच्छन्तौ किं प्रयोजनमभिप्रेत्येच्छन्ताववास्तमुषितवन्तौ युवामितीत्युक्तौ तौ होचतुः ।
य आत्मेत्यादि भगवतो वचो वेदयन्ते शिष्टा अतस्तमात्मानं ज्ञातुमिच्छन्ताववास्तमिति ।
यद्यपि प्राक्प्रजापतेः समीपागमनादन्योन्यमीर्ष्यायुक्तावबूतां तथापि विद्याप्राप्तिप्रयोजनगौरवात्त्यक्तरागद्वेषमोहेर्ष्यादि दोषावेव भूत्वोषतुर्ब्रह्मचर्यं प्रजापतौ ।
तेनेदं प्रख्यापितमात्मविद्यागौरवम् ॥३ ॥
_______________________________________________________________________
८,७.४
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति ।
एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच ॥ ८,७.४ ॥
__________
भाष्य ८,७.४ तावेवं तपस्विनौ शुद्धकल्मषौ योग्यावुपलभ्य प्रजापतिरुवाचहय एषोऽक्षिणि पुरुषो निवृत्तचक्षुर्भिर्मृदितकषायैर्दृश्यते योगिभिर्द्रष्टा, एष आत्मापहतपाप्मादिगुणो यमवोचं पुराहं यद्विज्ञानात्सर्वलोककामावाप्तिरेतदमृतं भमाख्यमत एवाभयमत एव ब्रह्म वृद्धतममिति ।
अथैतत्प्रजापतिनोक्तमक्षिणि पुरुषो दृश्यत इति वचः श्रुत्वा छायारूपं पुरुषं जगृहतुः ।
गृहीत्वा च दृढीकरणाय प्रजापतिं पृष्टवन्तौ ।
अथ योऽयं हे भगवोऽप्सु परिख्यायते परिसमन्ताज्ज्ञायते यश्चायमादर्श आत्मनः प्रतिबिम्बाकारः परिख्यायते खड्गादौ च कतम एष एषां भगवद्भिरुक्तः किंवैक एव सर्वेष्विति ।
एवं पृष्टः प्रजापतिरुवाचएष उ एव यश्चक्षुषि द्रष्टा मयोक्त इति ।
एतन्मनसि कृत्वैषु सर्वेष्वन्तेषु मध्येषु परिख्यायत इति होवाच ।
ननु कथं युक्तं शिष्योर्विपरीतग्रहणमनुज्ञातुं प्रजापतेर्विगतदोषस्याऽचार्यस्य सतः ।
सत्यमेव, नानुज्ञातम् ।
कथम् ।
आत्मन्यध्यारोपितपाण्डित्यमहत्त्वबोद्धृत्वौ हीन्द्रविरोचनौ तथैव च प्रथितौ लोके ।
तौ यदि प्रजापतिना मूढौ युवां विपरीतग्राहिणावित्युक्तौ स्यातां ततस्तस्तयोश्चित्ते दुःखं स्यात्तज्जनिताच्च चित्तावसादात्पुनः प्रश्नश्रवणग्रहणावधारणं प्रत्युत्साहविधातः स्यादतो रक्षणीयौ शिष्याविति मन्यते प्रजापतिः ।
गृह्णीतां तावत्तदुदशरावदृष्टान्तेनापनेष्यामीति च ।
ननु न युक्तमेष उ एवेत्यनृतं वक्तुम् ।
न चानृतमुक्तम् ।
कथम् ।
आत्मनोक्तोऽक्षिपुरुषो मनसि संनिहिततरः शिष्यगृहीताच्छायात्मनः सर्वेषां चाभ्यन्तरः"सर्वान्तरः"इति श्रुतेः ।
तमेवावोचदेष उ एवेत्यतो नानृतमुक्तं प्रजापतिना ।
तथा च तयोर्विपरीतग्रहणनिवृत्त्यर्थं ह्याह ॥४॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य सप्तमः खण्डः
=======================================================================
८,८.१
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति ।
तौ होदशरावेऽवेक्षां चक्राते ।
तौ ह प्रजापतिरुवाच किं पश्यथ इति ।
तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपमिति ॥ ८,८.१ ॥
__________
भाष्य ८,८.१ उदशराव उदकपूर्णे शरावादावात्मानमवेक्ष्यानन्तरं यत्तत्राऽत्मानं पश्यन्तौ न विजानीथस्तन्मे मम प्रब्रूतमाचक्षीयाथामित्युक्तौ तौ ह तथैवोदशरावेऽवेक्षाञ्चक्रातेऽवेक्षणं चक्रतुः ।
तथा कृतवन्तौ तौ ह प्रजापतिरुवाच किं पश्यथ इति ।
ननु तन्मे प्रब्रूतमित्युक्ताभ्यामुदशरावेऽवेक्षणं कृत्वा प्रजापतये न निवेदितमिदमावाभ्यां न विदितमित्यनिवेदिते चाज्ञानहेतौ ह प्रजापतिरुवाच किं पश्यथ इति तत्र कोऽभिप्राय इति ।
उच्यतेनैव तयोरिदमावयोरविदितमित्याशङ्काभूच्छायात्मन्यात्मप्रत्ययो निश्चित एवाऽसीत् ।
येन वक्ष्यति तौ ह शान्तहृदयौ प्रवव्रजतुरिति ।
न ह्यनिश्चितेऽभिप्रेतार्थे प्रशान्तहृदयत्वमुपपद्यते ।
तेन नोचतुरिदमावाभ्यामविदितमिति ।
विपरीतग्राहिणौ च शिष्यावनुपेक्षणीयाविति स्वयमेष पप्रच्छ किं पश्यथ इति, विपरीतनिश्चयापनयाय च वक्ष्यति साध्वलकृतावित्येवमादि ।
तौ होचतुःसर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्य आ नखेभ्यः प्रतिरूपमिति, यथैवाऽवां हे भगवो लोमनखादिमन्तौ स्व एवमेवेदं लोमनखादिसहितमावयोः प्रतिरूपमुदशरावे पश्याव इति ॥१ ॥
_______________________________________________________________________
८,८.२
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति ।
तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षां चक्राते ।
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८,८.२ ॥
__________
भाष्य ८,८.२ तौ ह पुनः प्रजापतिरुवाच च्छायात्मनिश्चयापनयाय, साध्वलङ्कृतौ यथा स्वगृहे सुवसनौ महार्हवस्त्रपरिधानौ परिष्कृतौ छिन्नलोमनखौ च भूत्वोदशरावे तयोश्छायात्मग्रहोऽपनीतः स्यात् ।
साध्वलङ्कारसुवसनादीनामागन्तुकानां छायाकरत्वमुदशरावे यथा शरीरसंबद्धानामेवं शरीरस्यापि च्छायाकरत्वं पूर्वं बभूवेति गम्यते ।
शरीरैकदेशानां च लोमनखादीनां नित्यत्वेनाभिप्रेतानामखण्डितानां छायाकरत्वं पूर्वमासीत् ।
छिन्नेषु च तेषु नैव लोमनखादिच्छाया दृश्यतेऽतो लोमनखादिवच्छरीरस्याप्यागमापायित्वं सिद्धमित्युदशरावादौ दृश्यमानस्य तन्निमित्तस्य च देहस्यानात्मत्वं सिद्धमुदशारावादौ छायाकरत्वाद्देहसंबद्धालङ्कारादिवत् ।
न केवलमेतावदेतेन यावत्किञ्चिदात्मीयत्वाभिमतं सुखदुःखरागद्वेषमोहादि च कादाचित्कत्वान्नखलोमादिवदनात्मेति प्रत्येतव्यम् ।
एवमशेषमिथ्याग्रहापनयनिमित्ते साध्वलङ्कारादिदृष्टान्ते प्रजापतिनोक्ते श्रुत्वा तथा कृतवतोरपि च्छायात्मविपरीतग्रहो नापजगाम यस्मात्तस्मात्स्वदोषेणैव केनचित्प्रतिबद्धविवेकविज्ञानाविन्द्रविरोचनावभूतामिति गम्यते ।
तौ पूर्ववदेव दृढनिश्चयौ पप्रच्छ किं पश्यथ इति ॥२ ॥
_______________________________________________________________________
८,८.३
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वल्लंकृतौ सुवसनौ परिष्कृताविति ।
एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८,८.३ ॥
__________
भाष्य ८,८.३ तौ तथैव प्रतिपन्नो यथैवेदमिति पूर्ववद्यथा साध्वलङ्कारादिविशिष्टावावां स्व एवमेवेमौ छायात्मानाविति सुतरां विपरीतनिश्चयौ बभूवतुः ।
यस्याऽत्मनो लक्षणं य आत्मापहतपाप्मेत्युक्तवा पुनस्तद्विशेषमन्विष्यमाणयोर्य एषोऽक्षिणि पुरुषो दृश्यत इति साक्षादात्मनि निर्दिष्टे तद्विपरीतग्रहापनयायोदशरावसाध्वलङ्कारदृष्टान्तेऽप्यभिहित आत्मस्वरूपबोधाद्विपरीतग्रहो नापगतः ।
अतः स्वदोषेण केनचित्प्रतिबद्धविवेकविज्ञानसामर्थ्याविति मत्वा यथाभिप्रेतमेवाऽत्मानं मनसि निधायैष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति प्रजापतिः पूर्ववत् ।
न तु तदभिप्रेतमात्मानम् ।
य आत्मेत्याद्यात्मलक्षणश्रवणेनाक्षिपुरुषश्रुत्या चोदशरावाद्युपपत्त्या च संस्कृतौ तावत् ।
मद्वचनं सर्वं पुनः पुनः स्मरतोः प्रतिबन्धक्षयाच्च स्वयमेवाऽत्मविषये विवेको भविष्यतीति मन्वानः पुनर्ब्रह्मचर्यादेशे च तयोश्चित्तदुखोत्पत्तिं परिजिहीर्षन्कृतार्थबुद्धितया गच्छन्तावप्युपेक्षितवान्प्रजापतिः ।
तौ हेन्द्रविरोचनौ शान्तहृदयौ तुष्टहृदयौ कृतार्थबुद्धी इत्यर्थः ।
न तु शम एव, शमश्चेत्तयोर्जातो विपरीतग्रहो विगतोऽभविष्यत्प्रवव्रजतुर्गतवन्तौ ॥३ ॥
_______________________________________________________________________
८,८.४
तौ हान्वीक्ष्य प्रजापतिरुवाच ।
अनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्तीति ।
स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम ।
तेभ्यो हैतामुपनिषदं प्रोवाच आत्मैवेह महय्य आत्मा परिचर्यः ।
आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकावाप्नोतीमं चामुं चेति ॥ ८,८.४ ॥
__________
भाष्य ८,८.४ एवं तयोर्गतयोरिन्द्रविरोचनयो राज्ञोर्भोगासक्तयोर्यथोक्तविस्मरणं स्यादित्याशङ्क्याप्रत्यक्षं प्रत्यक्षवचनेन च चित्तदुःखं परिजिहीर्षुस्तौ दूरं गच्छन्तावन्वीक्ष्य य आत्मापहतपाप्मेत्यादिवचनवदेतदप्यनयोः श्रवणगोचरत्वमेष्यतीति मत्वोवाच प्रजापतिः ।
अनुपलभ्य यथोक्तलक्षणमात्मानमननुविद्य स्वात्मप्रत्यक्षं चाकृत्वा विपरीतनिश्चयौ च भूत्वेन्द्रविरोचनावेतौ व्रजतो गच्छेयाताम् ।
अतो यतरे देवा वासुरा वा किं विशेषितेनैतदुपनिषद आभ्यां या गृहीताऽत्मविद्या सेयमुपनिषद्येषां देवानामसुराणां वा त एतदुपनिषद एवंविज्ञाना एतन्निश्चया भविष्यन्तीत्यर्थः ।
ते किं, पराभविष्यन्ति श्रेयोमार्गात्पराभूता बहिर्भूता विनष्टा भविष्यन्तीत्यर्थः ।
स्वगृहं गच्छतोः सुरासुरराजयोर्योऽसुरराजः स ह शान्तहृदय एव सन्विरोचनोऽसुराञ्जगाम ।
गत्वा च तेभ्योऽसुरेभ्यः शरीरात्मबुद्धिर्योपनिषत्तामेतामुपनिषदं प्रोवाचोक्तवान् ।
देहमात्रमेवाऽत्मा पित्रोक्त इति ।
तस्मादात्मैव देह इह लोक महय्यः पूजनीयस्तथा परिचर्यः परिचरणीयस्तथाऽत्मानमेवेह लोके देहं महयन्परिचरंश्चोभौ लोकाववाप्नोतीमं चामुं च ।
इहलोकपरलोकयोरेव सर्वे लोकाः कामाश्चान्तर्भवन्तीति राज्ञोऽभिप्रायः ॥४ ॥
_______________________________________________________________________
८,८.५
तस्मादप्यद्द्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेति ।
असुराणां ह्येषोपनिषत् ।
प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्ति ।
एतेन ह्यम्मुं लोकं जेष्यन्तो मन्यन्ते ॥ ८,८.५ ॥
__________
भाष्य ८,८.५ तस्मात्तत्संप्रदायोऽद्याप्यनुवर्तत इतीह लोकेऽददानं दानमकुर्वाणमविभागशीलमश्रद्दधानं सत्कार्येषु श्रद्धारहितं यथाशक्त्ययजमानमयजनस्वभावमाहुरासुरः खल्वयं यत एवंस्वभावो बतेति खिद्यमाना आहुः शिष्टाः ।
असुराणां हि यस्मादश्रद्दधानतादिलक्षणैषोपनिषत् ।
तयोपनिषदा संस्कृताः सन्तः प्रेतस्य शरीरं कुणपं भिक्षया गन्धमाल्यान्नादिलक्षणया वसनेन वस्रादिनाऽच्छादनादिप्रकारेणालङ्कारेण ध्वजपताकादिकरणेनेत्येवं संस्कुर्वन्त्येतेन कुणपसंस्कारेणामुं प्रेत्य प्रतिपत्तव्यं लोकं जेष्यन्तो मन्यन्ते ॥५॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्याष्टमः खण्डः
=======================================================================
८,९.१
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श ।
यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशमन्वेष नश्यति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,९.१ ॥
__________
भाष्य ८,९.१ अथ ह किलेन्द्रोऽप्राप्यैव देवान्दैव्याक्रौर्यादिसंपदा युक्तत्वाद्गुरोर्वचनं पुनः पुनः स्मरन्नेव गच्छन्नेतद्वक्ष्यमाणं भयं स्वात्मग्रहणनिमित्तं ददर्श दृष्टवान् ।
उदशरावदृष्टान्तेन प्रजापतिना यदर्थो न्याय उक्तस्तदेकदेशो मघवतः प्रत्यभाद्बुद्धौ ।
येन च्छायात्मग्रहणे दोषं ददर्श ।
कथम् ।
यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते छायात्मापि साध्वलङ्कृतो भवति सुवसने च सुवसनः परिष्कृते परिष्कृतो यथा नखलोमादिदेहावयवापगमे छायात्मापि परिष्कृतो भवति नखलोमादिरहितो भवति ।
एवमेवायं छायात्माप्यस्मिञ्छरीरे नखलोमादिभिर्देहावयवत्वस्य तुल्यत्वादन्धे चक्षुषोऽपगमेऽन्धो बवति स्रामे स्रामः ।
स्रामः किलेकनेत्रस्तस्यान्धत्वेन गतत्वात् ।
चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामः ।
परिवृक्णश्छिन्नहस्तश्छिन्नपादो वा ।
स्रामे परिवृक्णे वा देहे छायात्मापि तथा भवति ।
तथास्य देहस्य नाशमन्वेष नश्यति ॥१ ॥
_______________________________________________________________________
८,९.२
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच ।
मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति ।
स होवाच यथा एव खल्वय्यं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशमन्वेष नश्यति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,९.२ ॥
__________
भाष्य ८,९.२ अतो नाहमत्रास्मिंश्छायात्मदर्शने देहात्मदर्शने वा भोग्यं फलं पश्यामीत्येवं दोषं देहच्छायात्मदर्शनेऽध्यवस्य स समित्पाणिर्ब्रह्मचर्यं वस्तुं पुनरेयाय ।
तं ह प्रजापतिरुवाचमघवन्यच्छान्तहृदयः प्राव्राजीः प्रगतवानसि विरोचनेन सार्धं किमिच्छन्पुनरागम इति ।
विजानन्नपि पुनः पप्रच्छेन्द्राभिप्रयाभिव्यक्तये यद्वेत्थ तेन मोपसीदेति यद्वत् ।
तथा च स्वाभिप्रयां प्रकटमकरोद्यथैव खल्वयमित्यदि, एवमेवेति चान्वमोदत प्रजापतिः ।
ननु तुल्येऽक्षिपुरुषश्रवमे देहच्छायामिन्द्रोऽग्रहीदात्मेति देहमेव व विरोचनस्तत्किंनिमित्तम् ।
तत्र मन्यते ।
यथेन्द्रस्योदशरावादिप्रजापतिवचनं स्मरतो देवानप्राप्तस्यैवाऽचार्योक्तबुद्ध्या छायात्मग्रहणं तत्र दोषदर्शनं चाभूत् ।
न तथा विरोचनस्य किं तर्हि देह एवाऽत्मदर्शनं नापि तत्र दोषदर्शनं बभूव ।
तद्वदेव विद्याग्रहणसामर्थ्यप्रतिबन्धदोषाल्पत्वबहुत्वापेक्षमिन्द्रविरोचनयोश्छायात्मदेहयोर्ग्रहणम् ।
इन्द्रोऽल्पदोषत्वाद्दृश्यत इतिश्रुत्यर्थमेव श्रद्दधानतया जग्राहेतरश्छायानिमित्तं देहं हित्वा श्रुत्यर्थं लक्षणया जग्राह प्रजापतिनोक्तोऽयमिति दोषभूयस्त्वात् ।
यथा किल नीलानीलयोरादर्शे दृश्यमानयोर्वाससोर्यन्नीलं तन्महार्हमिति च्छायानिमित्तं वास एवोच्यते न च्छाया तद्वदिति विरोचनाभिप्रायः ।
स्वचित्तगुणदोषवशादेव हि शब्दार्थावधारणं तुल्येऽपि श्रवणे ख्यापितं दाम्यत दत्त दयध्वमिति दकारमात्रश्रवणाच्छुत्यन्तरे ।
निमित्तान्यपि तदनुगुणान्येव सहकारीणि भवन्ति ॥२ ॥
_______________________________________________________________________
८,९.३
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच ॥ ८,९.३ ॥
__________
भाष्य ८,९.३ एवमेवैष मघवन्सम्यक्त्वयावगतं न च्छायात्मेत्युवाच प्रजापतिर्यो मयोक्त आत्मा प्रकृत एतमेवाऽत्मानं तु ते भूयः पूर्वं व्याख्यातमप्यनुव्याख्यास्यामि ।
यस्मात्सकृद्व्याख्यातं दोषरहितानामवधारणविषयं प्राप्तमपि नाग्रहीरतः केनचिद्दोषेण प्रतिबद्धग्रहणसामर्थस्त्वमतस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणीत्युक्त्वा तथोषितवते क्षपितदोषाय तस्मै होवाच ॥३॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य नवमः खण्डः
=======================================================================
८,१०.१
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामः ।
नैवैषोऽस्य दोषेण दुष्यति ॥ ८,१०.१ ॥
__________
भाष्य ८,१०.१ य आत्मापहतपाप्मादिलक्षणो य एषोऽक्षिणीत्यादिना व्याख्यात एष सः ।
कोऽसौ ।
यः स्वप्ने महीयमानः स्त्र्यादिभिः पूज्यमानश्चरत्यनेकविधान्स्वप्नभोगाननुभवतीत्यर्थः ।
एष आत्मेति होवाचेत्यादि समानम् ।
स हैवमुक्त इन्द्रः शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवान्पूर्ववदस्मिन्नप्यात्मनि भयं ददर्श ।
कथम् ।
तदिदं शरीरं यद्यप्यन्धं धवति स्वप्नात्मा योऽनन्धः स भवति ।
यदि स्राममिदं शरीरमस्रामश्च स भवति नैवैष स्वप्नात्मास्य देहस्य दोषेण दुष्यति ॥१ ॥
_______________________________________________________________________
८,१०.२४
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्वेवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ ८,१०.२ ॥
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच ।
मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति ।
स होवाच ।
तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामः ।
नैवैषोऽस्य दोषेण दुष्यति ॥ ८,१०.३ ॥
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्विवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव ।
नाहमत्र भोग्यं पश्यामीति ।
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच ॥ ८,१०.४ ॥
__________
भाष्य ८,१०.२३४ नाप्यस्य वधेन स हन्यते छायात्मवन्न चास्य स्राम्येण स्रामः स्वप्नात्मा भवति ।
यदध्यायादावागममात्रेणोपन्यस्तं नास्य जरयैतज्जीर्यतीत्यादि तदिह न्यायेनोपपादयितुमुपन्यस्तम् ।
न तावदयं छायात्मवद्देहदोषयुक्तः किन्तु ध्नन्ति त्वेवैनम् ।
एवशब्द इवार्थे ।
घ्नन्तीवैनं केचनेति द्रष्टव्यम् ।
प्रजापतिं प्रमाणीकुर्वतोऽनृतवादित्वापादनानुपपत्तेः ।
एतदमृतमित्येतत्प्रजापतिवचनं कथं मृषा कुर्यादिन्द्रस्तं प्रमाणीकुर्वन् ।
ननु च्छायापुरुषे प्रजापतिनोक्तेऽस्य शरीरस्य नाशमन्वेष नश्यतीति दोषमभ्यधात्तथेहापि स्यात् ।
नैवम् ।
कस्मात् ।
य एषोऽक्षिणि पुरुषो दृश्यत इति मन्यते तदा कथं प्रजापतिं प्रमाणीकृत्य पुनः श्रवणाय समित्पाणिर्गच्छेत् ।
जगाम च ।
तस्मान्न च्छायात्मा प्रजापतिनोक्त इति मन्यते ।
तथा च व्याख्यातं द्रष्टाक्षिणि दृश्यत इति ।
तथा विच्छादयन्तीव विद्रावयन्तीव तथा च पुत्रादिमरणनिमित्तमप्रियवेत्तेव भवति ।
अपि च स्वयमपि रोदितीव ।
नन्वप्रियं वेत्त्येव कथं वेत्तेवेति ।
उच्यतेन अमृताभयत्ववचनानुपपत्तेः ।
ध्यायतीवेति च श्रुत्यन्तरात् ।
ननु प्रत्यक्षविरोध इति चेत् ।
न ।
शरीरात्मत्वप्रत्यक्षवद्भ्रान्तिसंभवात् ।
तिष्ठतु तावदप्रियवेत्तेव न वेति ।
नाहमत्र भोग्यं पश्यामि ।
स्वप्नात्मज्ञानेऽपीष्टं फलं नोपलभ इत्यभिप्रायः. एवमेवैष तवाभिप्रायेणेति वाक्यसेषः ।
आत्मनोऽमृताभयगुणवत्त्वस्याभिप्रेतत्वात् ।
द्विरुक्तमपि न्यायतो मया यथावन्नावधारयति ।
तस्मात्पूर्ववदस्याद्यापि प्रतिबन्धकारणमस्तीति मन्वानस्तत्क्षपणाय वसापराणि द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमित्यादिदेश प्रजापतिः ।
तथोषितवते क्षपितकल्मषायाऽह ॥२३४ ॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य दशमः खण्डः
=======================================================================
८,११.१२
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
नो एवेमानि भूतानि ।
विनाशमेवापीतो भवति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,११.१ ॥
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति ।
स होवाच नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
नो एवेमानि भूतानि ।
विनाशमेवापीतो भवति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,११.२ ॥
__________
भाष्य ८,११.१२ पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यदि व्याख्यातं वाक्यम् ।
अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्चरति स एष सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रेतमेव ।
मघवांस्तत्रापि दोषं ददर्श ।
कथम् ।
नाह नैव सुषुप्तस्थोऽप्यात्मा खल्वयं संप्रति सम्यगिदानीं चाऽत्मानं जानाति नैवं जानाति ।
कथम् ।
अयमहमस्मीति नो एवेमानि भूतानि चेति ।
यथा जाग्रति स्वप्ने वा ।
अतो विनाशमेव विनाशमिवेति पूर्ववद्द्रष्टव्यम् ।
अपीतोऽपिगतो भवति, विनष्ट इव भवतीत्यभिप्रायः ।
ज्ञाने हि सति ज्ञातुः सद्भावोऽवगम्यते नासति ज्ञाने ।
न च सुषुप्तस्य ज्ञानं दृश्यतेऽतो विनष्ट इवेत्यभिप्रायः न तु विनाशमेवाऽत्मनो मन्यतेऽमृताभयवचनस्य प्रामाण्यमिच्छन् ॥१२ ॥
_______________________________________________________________________
८,११.३
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
नो एवान्यत्रैतस्मात् ।
वसापराणि पञ्च वर्षाणीति ।
स हापराणि पञ्च वर्षाण्युवास ।
तान्येकशतं संपेदुः ।
एतत्तद्यदाहुः ।
एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास ।
तस्मै होवाच ॥ ८,११.३ ॥
__________
भाष्य ८,११.३ पूर्ववदेवमेवेत्युक्त्वा यो मयोक्तस्रिभिः पर्यायैस्तमेवैतं नो एवान्यत्रैतस्मादात्मनोऽन्यं कञ्चन किं तर्ह्येतमेव व्याख्यास्यामि ।
स्वल्पस्तु दोषस्तवावशिष्टस्तत्क्षपणाय वसापराण्यन्यानि पञ्च वर्षाणीत्युक्तः स तथा चकार ।
तस्मै मृदितकषायादिदोषाय स्थानत्रयदोषसंबन्धरहितमात्मनःस्वरूपमपहतपाप्मत्वादिलक्षणं मघवते तस्मै होवाच ।
तान्येकशतं वर्षाणि संपेदुः संपन्नानि बभूवुः ।
यदाहुर्लोके शिष्टा एकशतं ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवासेति तदेतद्द्वात्रिंशतमित्यादिना दर्शितमित्याख्यायिकातोऽपसृत्य श्रुत्योच्यते ।
एवं किलैतदिन्द्रत्वादपि गुरुतरमिन्द्रेणापि महता यत्नेनैकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानमतो नातः परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥३॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्यैकादशः खण्डः
=======================================================================
८,१२.१
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना ।
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानम् ।
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् ।
न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ ८,१२.१ ॥
__________
भाष्य ८,१२.१ मघवन्मर्त्यं वै मरणधर्मीदं शरीरम् ।
यन्मन्यसेऽक्ष्याधारादिलक्षणः संप्रसादलक्षण आत्मा मयोक्तो विनाशमेवापीतो भवतीति ।
शृणु तत्र कारणम् ।
यदिदं शरीरं वै तदेतन्मर्त्यं विनाशि ।
तच्चाऽत्तं मृत्युना ग्रस्तं सततमेव ।
कदाचिदेव म्रियत इति मर्त्यमित्युक्ते न तथा संत्रासो भवति यथा ग्रस्तमेव सदा व्याप्तमेव मृत्युनेत्युक्त इति वैराग्यार्थं विशेष इत्युच्यत आत्तं मृत्युनेति ।
कथं नाम देहाभिमानतो विरक्तः सन्निवर्तत इति ।
शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते ।
तच्छरीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमानस्यामृतस्य मरणादिदेहन्द्रियमनोधर्मवर्जितस्येत्येतत् ।
अमृतस्येत्यनेनैवाशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत्सावयवत्वमूर्तिमत्त्वे मा भूतामित्यात्मनः ।
आत्मनो वा सत ईक्षितुस्तेजोबन्नादिक्रमेणोत्पन्नमधिष्ठानम् ।
जीवरूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति वाधिष्ठानम् ।
यस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्माधर्मजनितत्वात्प्रियाप्रियवदधिष्ठानं तदधिष्ठितस्तद्वान्सशरीरो भवति ।
अशरीरस्वभावस्याऽत्मनस्तदेवाहं शरीरं शरीरमेव चाहमित्यविवेकादात्मभावः सशरीरत्वं अत एव सशरीरः सन्नात्तो ग्रस्तः प्रियाप्रियाभ्याम् ।
प्रसिद्धमेतत् ।
तस्य च न वै सशरीरस्य सतः प्रियाप्रिययोर्बाह्यविषयसंयोगवियोगनिमित्तयोर्बाह्यविषयसंयोगवियोगौ ममेति मन्यमानस्यापहतिर्विनाश उच्छेदः सन्ततिरूपयोर्नास्तीति ।
तं पुनर्देहाभिमानादशरीरस्वरूपविज्ञानेन विनर्तिताविवेकज्ञानशरीरं सन्तं प्रियाप्रिये न स्पृशतः ।
स्पृशिः प्रत्येकं संबध्यत इति प्रियं न स्पृशत्यप्रियं न स्पृशतीति वाक्यद्वयं भवति ।
"न म्लेच्छाशुच्यधार्मिकैः सह संभाषेते"ति यद्वत् ।
धर्माधर्मकार्ये हि ते ।
अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसंभवात्तत्कार्यभावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ।
ननु यदि प्रियमप्यशरीरं न स्पृशतीति यन्मघवतोक्तं सुषुप्तस्थो विनाशमेवापीतो भवतीति तदेवेहाप्यापन्नम् ।
नैष दोषः धर्माधर्मकार्ययोः शरीरसंबन्धिनोः प्रियाप्रिययोः प्रतिषेधस्य विवक्षितत्वातशरीरं न प्रियाप्रिये स्पृशत इति ।
आगमापायिनोर्हि स्पर्शशब्दो दृष्टो यथा शीतस्पर्श उष्णस्पर्श इति न त्वग्नेरुष्णप्रकाशयोः स्वभावभूतयोरग्निना स्पर्श इति भवति तथाग्नेः सवितुर्वोष्णप्रकाशवत्स्वरूपभूतस्याऽनन्दस्य प्रियस्यापि नेह प्रतिषेधः"विज्ञानमानन्दं ब्रह्म" "आनन्दो ब्रह्म"इत्यादिश्रुतिभ्यः ।
इहापि भूमैव सुखमित्युक्तत्वात् ।
ननु भूम्नः प्रियस्यैकत्वेऽसंवेद्यत्वात्स्वरूपेण वा नित्यसंवेद्यत्वान्निर्विशेषतेति नेन्द्रस्य तदिष्टम् ।
"नाह खल्वयं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवोमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामि"इत्युक्तत्वात् ।
तद्धोन्द्रस्येष्टं यद्भतानि चाऽत्मानं च जानाति न चाप्रियं किञ्चिद्वेत्ति स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्येन ज्ञानेन सत्यमेतदिष्टमिन्द्रस्येमानि भूतानि मत्तोऽन्यानि लोकाः कामाश्च सर्वे मत्तोऽन्येऽहमेषां स्वामीति ।
न त्वेतदिन्द्रस्य हितम् ।
हितं चेन्द्रस्य प्रजापतिना वक्तव्यम् ।
व्योमवदशरीरात्मतया सर्वभूतलोककामात्मत्वोपगमेन या प्राप्तिस्तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिनाभिप्रेतम् ।
न तु राज्ञो राज्याप्तिवदन्यत्वेन ।
तत्रैवं सति कं केन विजानीयादात्मैकत्व इमानि भूतान्ययमहमस्मीति ।
नन्वस्मिन्पक्षे"स्त्रीभिर्वा यानैर्वा" "स यदि पितृलोककामः" "स एकधा भवति"इत्याद्यैश्वर्यश्रुतयोऽनुपपन्नाः ।
न ।
सर्वात्मनः सर्वफलसंबन्धोपपत्तेरविरोधात् ।
मृद इव सर्वघचकरककुण्डाद्याप्तिः ।
ननु सर्वात्मत्वे दुःखसंबन्धोऽपि स्यादिति चेन्न, दुःखस्याप्यात्मत्वोपगमादविरोधः ।
आत्मन्यविद्याकल्पनानिमित्तानि दुःखानि रज्ज्वामिव सर्पादिकल्पनानिमित्तानि ।
साचाविद्याशरीरात्मैकत्वस्वरूपदर्शनेन दुःखनिमित्तोच्छिन्नेनि दुःखसंबन्धाशङ्का न संभवति ।
शुद्धसत्त्वसंकल्पनिमित्तानां तु कामानामीश्वरदेहसंबन्धः सर्वभूतेषु मानसानां पर एव सर्वसत्त्वोपाधिद्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एवाऽत्माऽस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः ।
य एषोऽक्षिणि पुरुषो दृश्यति इति च्छायापुरुष एव प्रजापतिनोक्तः ।
स्वप्नसुषुप्तयोश्चान्य एव ।
न परोऽपहतपाप्मत्वादिलक्षणो विरोधादिति केचिन्मन्यन्ते ।
छायाद्यात्मनां चोपदेशे प्रयोजनमाचक्षते ।
आदावेवोच्यमाने किल दुर्विज्ञेयत्वात्परस्याऽत्मनोऽत्यन्तबाह्यविषयासक्तचेतसोऽत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति ।
यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुर्वृक्षं कञ्चित्प्रत्यक्षमादौ दर्शयति पश्यामुमेष चन्द्र इति, ततोऽन्यं ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थं एष चन्द्र इति ततोऽसौ चन्द्रं पश्यति, एवमेतद्य एषोऽक्षिणीत्याद्युक्तं प्रजापतिना त्रिभिः पर्यायैर्न पर इति ।
चतुर्थे तु पर्याये देहान्मर्त्यात्समुत्थायाशरीरतामापन्नो ज्योतिःस्वरूपम् ।
यस्मिन्नुत्तमपुरुषे स्त्र्यादिभिर्जक्षत्क्रीडन्रममाणो भवति स उत्त्मः पुरुषः पर उक्त इति चाऽहुः ।
सत्यं, रमणीया तावदियं व्याख्या श्रोतुम् ।
न त्वर्थोऽस्य ग्रन्थस्यैवं संभवति ।
कथम् ।
अक्षिणि पुरुषो दृश्यत इत्युपन्यस्य शिष्याभ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदपनयायोदशरावोपन्यासः किं पश्यथ इति च प्रश्नः साध्वलङ्कारोपदेशश्चानर्थकः स्यात्यदि च्छायात्मैव प्रजापतिनाक्षिणि दृश्यत इत्युपदिष्टः ।
किञ्च यदि स्वयमुपदिष्ट इति ग्रहणस्याप्यपनयकारणं वक्तव्यं स्यात् ।
स्वप्नसुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात्न चोक्तं[तेनटतेन मन्यामहे नाक्षिणि च्छायात्मा प्रजापतिनोपदिष्टः ।
किं चान्यदक्षिणि द्रष्टा चेद्दृश्यत इत्युपदिष्टः स्यात्तत इदं युक्तम् ।
एतं त्वेव त इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः ।
स्वप्ने न द्रष्टोपदिष्ट इति चेन्न ।
अपि रोदितीवाप्रियवेत्तेवेत्युपदेशात् ।
न च द्रष्टुरन्यः कश्चित्स्वप्ने महीयमानश्चरति ।
अत्रायं पुरुषः स्वयञ्ज्योतिरिति न्यायतः श्रुत्यन्तरे सिद्धत्वात् ।
यद्यपि स्वप्ने सधीर्भवति तथापि न धीः स्वप्नभोगोपलब्धिं प्रति करणत्वं भजते ।
किं तर्हि पटचित्रवज्जाग्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः स्वयञ्ज्योतिष्ट्वबाधः स्यात् ।
किञ्चान्यत् ।
जाग्रत्स्वप्न्योर्भूतानि चाऽत्मानं च जानातीमानि भूतान्ययमहमस्मीति ।
प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यान्नाह खल्वयमित्यादि ।
तथा चेतनस्यैवाविद्यानिमित्तयोः शरीरत्वे सति प्रियाप्रिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो युक्तोऽशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत इति ।
एकश्चाऽत्मा स्वप्नबुद्धान्तयोर्महामत्स्यवदसङ्गः संचरतीति श्रुत्यन्तरे सिद्धम् ।
यच्चोक्तं संप्रसादः शरीरात्समुत्थाय यस्मिन्स्त्र्यादिभी रममाणो भवति सोऽन्यः संप्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति ।
तदप्यसत् ।
चतुर्थेऽपि पर्याय एत त्वेव त इति वचनात् ।
यदि ततोऽन्योऽभिप्रेतः स्यात्पूर्ववदेतं त्वेव त इति न ब्रूयान्मृषा प्रजापतिः ।
किञ्चान्यत्तेजोबन्नादीनां स्रष्टुः सतः स्वविकारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुवस्तत्त्वमसीत्युपदेशो मृषा प्रसज्येत ।
तस्मिंस्त्वं स्त्र्यादिभी रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यद्यदि संप्रसादादन्य उत्तमः पुरुषो भवेत् ।
तथा भूम्न्यहमेवेत्यादिश्याऽत्मैवेदं सर्वमिति नोपसमहरिष्यद्यदि भूमा जीवादन्योऽभविष्यत् ।
"नान्योऽतोऽस्ति द्रष्टा"इत्यादिश्रुत्यन्तराच्च ।
सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत्प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत्तस्मादेक एवाऽत्मा प्रकरणी सिद्धः ।
न चाऽत्मनः संसारित्वम् ।
अविद्याध्यस्तत्वादात्मनि संसारस्य ।
न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति ।
एतेन सशरीरस्य प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् ।
यच्चस्थितमप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् ।
एवं च सति सर्वपर्यायेष्वेतदमृतभयमेतद्ब्रह्मेति प्रजापतेर्वचनम् ।
यदि वा प्रजापतिच्छद्भरूपायाः श्रुतेर्वचनं सत्यमेव भवेत् ।
न चतत्कुतर्कबुद्ध्या मृषा कर्तुं युक्तम् ।
ततो गुरुतरस्य प्रमाणान्तरस्यानुपपत्तेः ।
ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभिचार्यनुभूयत इति चेन्न ।
जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौरः कृष्णो मृत इत्यादिप्रत्यक्षानुभववत्तदुपपत्तेः ।
सर्वमप्येतत्सत्यमिति चेदस्त्येवैतदेवं दुरवगमं येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमोहैवात्र विनाशमेवापीतो भवतीति ।
तथा विरोचनो महाप्राज्ञः प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव ।
तथेन्द्रस्याऽत्मविनाशभयसागर एव वैनाशिका न्यमज्जन् ।
तथा सांख्या द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वान्मृत्युविषय एवान्यत्वदर्शने तस्थुः ।
तथान्ये काणादादिदर्शनाः कषायरक्तमिव क्षारादिभिर्वस्रं नवभिरात्मगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः ।
तथान्ये कर्मिणो बाह्यविषयापहृतचेतसो वेदप्रमाणा अपि परमार्थसत्यमात्मैकत्वं विनाशमिवेन्द्रवन्मन्यमाना घटीयन्त्रवदारोहावरोहप्रकारैरनिशं बम्भ्रमति ।
किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिर्विषयापहृतचेतसः ।
तस्मादिदं त्यक्तसर्वबाह्यैषणैरनन्यशरणैः परमहंसपरिव्राजकैरत्याश्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं चेमं संप्रदायमनुसरद्भिरुपनिबद्धं प्रकरणचतुष्टयेन ।
तथानुशासत्यद्यापि त एव नान्य इति ॥१ ॥
_______________________________________________________________________
८,१२.२
अशरीरो वायुः ।
अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ।
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८,१२.२ ॥
__________
भाष्य ८,१२.२ तत्राशरीरस्य संप्रसादस्याविद्यया शरीरेणाविशेषतां ससरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथाभिनिष्पत्तिस्तथा वक्तव्येति दृष्टान्त उच्यतेअशरीरो वायुरविद्यमानं शिरःपाण्यादिमच्छरीरमस्येत्यशरीरः ।
किं चाभ्रं विद्युत्स्तनयित्नुरित्येतानि चाशरीराणि ।
तत्तत्रैवं सति वर्षादिप्रयोजनावसाने यथा ।
अमुष्मादिति भूमिष्ठा श्रुतिर्द्युलोकसंबन्धिनमाकाशदेशं व्यपदिशति ।
एतानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादिरूपेणागृह्यमाणान्याकाशाख्यतां गतानि यथा संप्रसादोऽविद्यावस्थायां शरीरात्मभावमेवापन्नः, तानि च तथाभूतान्यमुष्माद्द्युलोकसम्बन्धिन आकाशदेशात्समुत्तिष्ठन्ति वर्षणादिप्रयोजनाभिनिर्वृत्तये ।
कथम् ।
शिशिरापाये सावित्र परं ज्योतिः प्रकृष्टं ग्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्येत्यर्थः ।
आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वाभ्रमपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादिचपलरूपेण स्तनयित्नुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रावृडागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥२ ॥
_______________________________________________________________________
८,१२.३
एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।
स उत्तमपुरुषः ।
स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् ।
स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ८,१२.३ ॥
__________
भाष्य ८,१२.३ यथायं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्थायां शरीरसाम्यमापन्नोऽहममुष्य पुत्रो जातो जीर्णो मरिष्य इत्येवंप्रकारं प्रजापतिनेव मघवान्यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतिबोधितः सन्स एष संप्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः समुत्थाय देहादिवैलक्षण्यमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् ।
स्वेन रूपेण सदात्मनैवाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् ।
स येन स्वेन रूपेण संप्रसादोऽभिनिष्पद्यते प्राक्प्रतिबोधात्तद्भ्रान्तिनिमित्तात्सर्पो भवति यता रज्जुः पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणाभिनिष्पद्यते ।
एवं च स उत्तमपुरुष उत्तमश्चासौ पुरुषश्चेत्युत्तमपुरुषः स एवोत्तमपुरुषोऽक्षिस्वप्नपुरुषौ व्यक्तावव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नोऽशरीरश्च स्वेन रूपेणेति ।
एषामेष स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृताव्याकृतावपेक्ष्योत्तमपुरुषः कृतनिर्वचनो ह्ययं गीतासु ।
स संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः पर्येति क्वचिदिन्द्राद्यात्मना जक्षद्धसन्भक्षयन्वा भक्ष्यानुच्चावचानीप्सितान्क्वचिन्मनोमात्रैः संकल्पादेव समुत्थितैर्ब्राह्मलौकिकैर्वा क्रीडन्स्त्र्यादिभी रममाणश्च मनसैव नोपजनं स्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनमात्मभावेन वाऽत्मसामीप्येन जायत इत्युपजनमिदं शरीरं तन्न स्मरन् ।
तत्स्मरणे हि दुःखमेव स्यात् ।
दुःखात्मकत्वात्तस्य ।
नन्वनुभूतं चेन्न स्मरेदसर्वज्ञत्वं मुक्तस्य ।
नैष दोषः ।
येन मिथ्याज्ञानादिना जनितं तच्च मिथ्याज्ञानादि विद्ययोच्छेदितमतस्तन्नानुभूतमेवेति न तदस्मरणे सर्वज्ञत्वहानिः ।
न ह्यु न्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपदमेऽपि स्मर्तव्यं स्यात्तथेहापि संसारिभिरविद्यादोषवद्भिर्यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति ।
अविद्यानिमित्ताभावात् ।
ये तूच्छिन्नदोषैर्मृदितकषायैर्मानसाः सत्याः कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्ग्यत्वात्त एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इत्यात्मज्ञानस्तुतये निर्दिश्यन्तेऽतः साध्वेतद्विशिनष्टिय एते ब्रह्मलोक इति ।
यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ।
ननु कथमेकःऽसन्नान्यत्पश्यति नान्यद्विजानाति स भूमाऽकामांश्च ब्राह्मलौकिकान्ऽपश्यन् रमतऽइति च विरुद्धम् ।
यथैको यस्मिन्नेव क्षणे पश्यति स तस्मिन्नेव क्षणे न पश्यति चेति ।
नैष दोषः ।
श्रुत्यन्तरे परिहृतत्वात् ।
द्रष्टुर्दृष्टेरविपरिलोपात्पश्यन्नेव भवति ।
द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति चेति ।
यद्यपि सुषुप्ते तदुक्तं मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः ।
केन कं पश्येदिति चोक्तमेव ।
अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन्कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना ।
तत्र यथासावक्षिणि साक्षाद्दृश्यते तद्वक्तव्यमितीदमारभ्यते ।
तत्र को हेतुरक्षिणि दर्शन इत्याहस दृष्टान्तो यथा प्रयोग्यः प्रयोग्यपरो वा सशब्दः ।
प्रयुज्यत इति प्रयोग्योऽश्वो बलीवर्दे वा ।
यथा लोक आचरत्यनेनेत्याचरणो रथोऽनो वा तस्मिन्नाचरणे युक्तस्तदाकर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्तः ।
कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविसष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ।
ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचेष्टाव्यापारेऽधिकृतः ।
तस्यैव तु मात्रैकदेशश्चक्षुरिन्द्रियं रूपोपलब्धिद्वारभूतम् ॥३ ॥
_______________________________________________________________________
८,१२.४
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।
अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ।
अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् ।
अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ८,१२.४ ॥
__________
भाष्य ८,१२.४ अथ यत्र कृष्णतारोपलक्षितमाकाशं देहच्छिद्रमनुविषण्णमनुषक्तमनुगतं तत्र स प्रकृतोऽशरीर आत्मा चाक्षुषश्चक्षुषि भव इति चाक्षुषस्तस्य दर्शनाय रूपोपलब्धये चक्षुः करणं यस्य तद्देहादिभिः संहतत्वात्परस्य द्रष्टुरर्थे सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते परोऽशरीरोऽसंहतः ।
अक्षिणि दृश्यत इति प्रजापतिनोक्तं सर्वेन्द्रियद्वारोपलक्षणार्थम् ।
सर्वविषयोपलब्धा हि स एवेति ।
स्फुटोपलब्धिहेतुत्वात्त्वक्षिणीति विशेषवचनं सर्वश्रुतिषु ।
"अहमदर्शमिति तत्सत्यं भवती"ति च श्रुतेः ।
अथापि योऽस्मिन्देहे वेद कथमिदं सुगन्धि दुर्गन्धि वा जिघ्राणीत्यस्य गन्धं विजानीयामिति स आत्मा तस्य गन्धाय गन्धविज्ञानाय घ्राणम् ।
अथ यो वेदेदं वचनमभिव्याहराणीति वदिष्यामीति स आत्माभिव्यवहरणक्रियासिद्धये करणं वागिन्द्रियम् ।
अथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥४ ॥
_______________________________________________________________________
८,१२.५
अथ यो वेदेदं मन्वानीति स आत्मा ।
मनोऽस्य दैवं चक्षुः ।
स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके ॥ ८,१२.५ ॥
__________
भाष्य ८,१२.५ अथ यो वेददं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद स आत्मा मननाय मनः ।
यो वेद स आत्मेत्येवं सर्वत्र प्रयोगाद्वेदनमस्य स्वरूपमित्यवगम्यते ।
यथा यः पुरस्तात्प्रकाशयति स आदित्यो यो दक्षिणतो यः पश्चाद्य उत्तरतो य ऊर्ध्वं प्रकाशयति स आदित्य इत्युक्ते प्रकाशस्वरूपः स इति गम्यते ।
दर्शनादि क्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि ।
इदं चास्याऽत्मनः सामर्थ्यादवगम्यते ।
आत्मनः सत्तामात्र एव ज्ञानकर्तृत्वं न तु व्यापृततया ।
यथा सवितुः सत्तामात्र एव प्रकाशनकर्तृत्वं न तु व्यापृततयेति तद्वत् ।
मनोऽस्याऽत्मनो दैवमप्राकृतमितरेन्द्रियैरसाधारणं चक्षुश्चष्टे पश्यत्यनेनेति चक्षुः ।
वर्तमानकालविषयाणि चेन्द्रियाण्यतोऽदैवानि तानि ।
मनस्तु त्रिकालविषयोपलब्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं चेति दैवं चक्षुरुच्यते ।
स वै मुक्तः स्वरूपापन्नोऽविद्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन्नेष व्योमवद्विशुद्धः सर्वेश्वरो मनौपाधिः सन्नेतेनैवेश्वरेण मनसैतान्कामान्सवितृप्रकाशवन्नित्यप्रततेन दर्शनेन पश्यन् रमते ।
कान्कामानिति विशिनष्टिय एते ब्रह्मणि लोके हिरण्यनिधिवद्बाह्यविषयासङ्गानृतेनापिहिताः संकल्पमात्रलभ्यास्तानित्यर्थः ॥५ ॥
_______________________________________________________________________
८,१२.६
तं वा एतं देवा आत्मानमुपासते ।
तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति ।
इति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ८,१२.६ ॥
__________
भाष्य ८,१२.६ यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा तस्मात्ततः श्रुत्वा तमात्मानमद्यत्वेऽपि देवा उपासते ।
तदुपासनाच्च तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः ।
यदर्थं हीन्द्र एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास तत्फलं प्राप्तं देवैरित्यभिप्रायः ।
तद्युक्तं देवानां महाभाग्यत्वान्न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्रज्ञत्वाच्च संभवतीति प्राप्त इदमुच्यतेस सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिदानीन्तनोऽपि ।
कोऽसौ ।
इन्द्रादिवद्यस्तमात्मानमनुविद्य विजानातीति ह सामान्येन किल प्रजापतिरुवाच ।
अतः सर्वेषामात्मज्ञानं तत्फलप्राप्तिश्च तुल्यैव भवतीत्यर्थः ।
द्विर्वचनं प्रकरणसमाप्त्यर्थम् ॥६॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य द्वादशः खण्डः
=======================================================================
८,१३.१
श्यामाच्छबलं प्रपद्ये ।
शबलाच्छ्यामं प्रपद्ये ।
अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८,१३.१ ॥
__________
भाष्य ८,१३.१ श्यामाच्छबलं प्रपद्य इत्यादिमन्त्राम्नाय पावनो जपार्थश्च ध्यानार्थो वा ।
श्यामो गम्भीरो वर्णः श्याम इव श्यामो हार्दं ब्रह्मात्यन्तदुरवगाह्यत्वात्तद्धार्द ब्रह्म ज्ञात्वा ध्यानेन तस्माच्छ्यामाच्छबलं शबल इव शबलोऽरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकस्य शाबल्य तं ब्रह्मलोकं शबलं प्रपद्ये मनसा शरीरपाताद्वोर्ध्वं गच्छेयम् ।
यस्मादहं शबलाद्ब्रह्मलोकान्नामरूपव्याकरणाय श्यामं प्रपद्ये हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः ।
अतस्तमेव प्रकृतिस्वरूपमात्मानं शबलं प्रपद्य इत्यर्थः ।
कथं शबलं ब्रह्मलोकं प्रपद्य इत्युच्यतेअश्व इव स्वानि लोमानि विधूय कम्पनेन श्रमं पांस्वादि च रोमतोऽपनीय यथा निर्मलो भवत्येवं हार्दब्रह्मज्ञानेन विधूय पापं धर्माधर्माक्यं चन्द्र इव च राहुग्रस्तस्तस्माद्रहोर्मुखात्मप्रमुच्य भास्वरो भवति यथैवं धूत्वा प्रहार शरीरं सर्वानर्थाश्रयमिहैव ध्यानेन कृतात्मा कृतकृत्यः सन्नकृतं नित्यं ब्रह्मलोकमभिसंभवामीति ।
द्विर्वचनं मन्त्रसमाप्त्यर्थम् ॥१॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य त्रयोदशः खण्डः
=======================================================================
८,१४.१
आकाशो वै नाम नामरूपयोर्निर्वहिता ।
ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा ।
प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशाम् ।
यशोऽहमनुप्रापत्सि ।
स हाहं यशसां यशः ।
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ ८,१४.१ ॥
__________
भाष्य ८,१४.१ आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थमाध्यानाय ।
आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा ।
आकाश इवाशरीरत्वासूक्ष्मत्वाच्च ।
स चाऽकाशो नामरूपयोः स्वात्मस्थयोर्जगद्बीजभूतयोः सलिलस्येव फेनस्थानीययोर्निर्वहिता निर्वोढा व्याकर्ता ।
ते नामरूपे यदन्तरा यस्य ब्रह्मणोऽन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामस्पृष्टं यदित्येतत्तद्ब्रह्म नामरूपविलक्षणं नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोढुत्वं लक्षणं ब्रह्मेत्यर्थः ।
इदमेव मैत्रेयीब्राह्मणेनोक्तं चिन्मात्रानुगमात्मसर्वत्र चित्स्वरूपतैवेति गम्यत एकवाक्यता ।
कर्थ तदवगम्यत इत्याहस आत्मा ।
आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धस्तेनैव स्वरूपेणोन्नीयाशरीरो व्योमवत्सर्वगत आत्मा ब्रह्मेत्यवगन्तव्यम् ।
तच्चाऽत्मा ब्रह्मामृतममरणधर्मा ।
अत ऊर्ध्व मन्त्रः ।
प्रजापतिश्चतुर्मुखस्तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् ।
किञ्च यशोऽहं यशो नामाऽत्माहं भवामि ब्राह्मणानाम् ।
ब्राह्मणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि ।
तथा राज्ञां विशां च ।
तेऽप्यधिकृता एवेति तेषामप्यात्मा भवामि ।
तद्यशोऽहमनुप्रापत्स्यनुप्राप्तुमिच्छामि स हाहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा ।
किमर्थमहमेवं प्रपद्य इति, उच्यतेश्येतं वर्णतः पक्वबदरसमं रोहितम् ।
तथादत्कं दन्तरहितमप्यदत्कं भक्षयितृ स्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणामपहन्तृ विनाशयित्रित्येतत् ।
यदेवंलक्षणं श्येतं लिन्दु पिच्छिलं तन्माभिगां माभिगच्छेयम् ।
द्विर्वचनमत्यन्तानर्थहेतुत्वप्रदर्शनार्थम् ॥१॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य चतुर्दशः खण्डः
=======================================================================
८,१५.१
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।
आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धर्मिकान् विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः ।
स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते ।
न च पुनरावर्तते न च पुनरावर्तते ॥ ८,१५.१ ॥
__________
भाष्य ८,१५.१ तद्धैतदात्मज्ञानं सोपकरणमोमित्येतदक्षरमित्याद्यैः सहोपासनैस्तद्वाचकेन ग्रन्थेनाष्टाध्यायीलक्षणेन सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्द्वारेण प्रजापतये कश्यपायोवाच ।
असावपि मनवे स्वपुत्राय ।
मनुः प्रजाभ्य इत्येवं श्रुत्यर्थसंप्रदायपरम्परयाऽगतमुपनिषद्विज्ञानमद्यापि विद्वत्स्ववगम्यते ।
यथेह षष्ठाद्यध्यायत्रये प्रकाशितात्मविद्या सफलावगम्यते तथा कर्मणां न कश्चनार्थ इति प्राप्ते तदानर्थक्यप्राप्तिपरिजिहीर्षयेदं कर्मणो विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेनार्थवत्त्वमुच्यतेआचार्यकुलाद्वेदमधीत्य सहार्थतोऽध्ययनं कृत्वा यथाविधानं यथास्मृत्युक्तैर्नियमैर्युक्तः सन्नित्यर्थः ।
सर्वस्यापि विधेः स्मृत्युक्तस्योपकपर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्यप्रदर्शनार्थमाहगुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशून्यो योऽतिशिष्टः कालस्तेन कालेन वेदमधीत्येत्यर्थः ।
एवं हि नियमवताधीतो वेदः कर्मज्ञानफलप्राप्तये भवति नान्यथेत्यभिप्रायः ।
अभिसमावृत्य धर्मजिज्ञासां समापयित्वा गुरुकुलन्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हत्थ्वे विहिते कर्मणि तिष्ठन्नित्यर्थः ।
तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यतेशुचौ विविक्तेऽमेध्यादिरहिते देशे यतावदासीनः स्वाध्यायमधीयानो नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन्धार्मिकान्पुत्राञ्शिष्यांश्च धर्मयुक्तान्विदधद्धार्मिकत्वेन तान्नियमयन्नात्मनि सव्हृदये हार्दे ब्रह्मणि सर्वेन्द्रियाणि संप्रतिष्ठाप्योपसंहृत्येन्द्रियग्रहणात्कर्माणि च संन्यस्याहिंसहिंन्सां परपीडामकुर्वन्सर्वभूतानि स्थावरजङ्गमानि भूतान्यपीडयन्नित्यर्थः ।
भिक्षानिमित्तमटनादिनापि परपीडा स्यादित्यत आहअन्यत्र तीर्थेभ्यः ।
तीर्थं नाम शास्रानुज्ञाविषयस्ततोऽन्यत्रेत्यर्थः ।
सर्वाश्रमिणां चैतत्समानं तीर्थेभ्योऽन्यत्रहिंसैवेति ।
अन्ये वर्णयन्ति कुटुम्ब एवैतत्सर्वं कुर्वन्स खल्वधिकृतो यावदायुषं यावज्जीवमेवंयथोक्तेन प्रकारेणैव वर्तयन्ब्रह्मलोकमभिसंपद्यतेदेहान्ते ।
न च पुनरावर्तते शरीरग्रहणाय ।
पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् ।
अर्चिरादिना मार्गेण कार्यब्रह्मलोकभिसंपद्य यावद्ब्रह्मलोकस्थितिस्तावत्तत्रैव तिष्ठति प्राक्ततो नाऽवर्तत इत्यर्थः ।
द्विरभ्यास उपनिषद्विद्यापरिसमाप्त्यर्थः ॥१ ॥ ॥
इति च्छान्दोग्योपनिषदि अष्टमाध्यायस्य पञ्चदशः खण्डः
इति श्रीमद्गोविन्दभगवत्पूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पादकृतौ च्छान्दोग्योपनिषद्विवरणे अष्टमोऽध्यायः
0 Comments
If you have any Misunderstanding Please let me know