Ad Code

छान्दोग्योपनिषद् शांकरभाष्य अध्याय" 5,6

 


==पञ्चमोऽध्यायः=

५,१.१


यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति ।

प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५,१.१ ॥


__________



भाष्य ५,१.१

सगुण ब्रह्मविद्याया उत्तरा गतिरुक्ता ।

अथेदानीं पञ्चमेऽध्याये पञ्चाग्निविदो गृहस्थस्योर्ध्वरेतसां च श्रद्धालूनां विद्यान्तरशीलिनां तामेव गतिमनूद्यान्या दक्षिणदिक्सम्बन्धिनी केवलकर्मिणां धूमादिलक्षणा पुनरावृत्तिरूपा तृतीया च ततः कष्टतरा संसारगतिर्वैराग्यहेतोर्वक्तव्येत्यारभ्यते ।

प्राणः श्रेष्ठो वागादिभ्यः प्राणो वाव संवर्ग इत्यादि च बहुशोऽतीते ग्रन्थे प्राणग्रहणं कृतम् ।

स कथं श्रेष्ठो वागादिषु सर्वैः संहत्यकारित्वाविशेषे?कथं च तस्योपासनमिति तस्य श्रेष्ठत्वादिगुणविधित्सयेदमनन्तरमारभ्यतेयो ह वै कश्चिज्ज्येष्ठं च प्रथमं वयसा वाव ज्येष्ठश्च वयसा वागादिभ्यः ।

गर्भस्थे हि पुरुषे प्राणस्य वृत्तिर्वागादिभ्यः पूर्वं लब्धात्मिका भवति यया गर्भो विवर्धते चक्षुरादिस्थानावयवनिष्पत्तौ सत्यां पश्चाद्वागादीनां वृत्तिलाभ इति प्राणो ज्येष्ठो वयसा भवति ।

श्रेष्ठत्वं तु प्रतिपादयिष्यति सुहय इत्यादिनिदर्शनेन ।

अतः प्राण एव ज्येष्ठश्च श्रेष्ठश्चास्मिन्कार्यकरणसङ्घाते ॥१ ॥


_______________________________________________________________________



५,१.२


यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति ।

वाग्वाव वसिष्ठः ॥ ५,१.२ ॥


__________



भाष्य ५,१.२ यो ह वै वसिष्ठं वसितृतममाच्छादयितृतमं वसुमत्तमं वा यो वेद स तथैव वसिष्ठो ह भवति स्वानां ज्ञातीनाम् ।

कस्तर्हि वसिष्ठ इत्याह ।

वाग्वाव वसिष्ठो वाग्मिनो हि पुरुषा वसन्त्यभिभवन्त्यन्यान्वसुमत्तमाश्चातो वाग्वसिष्ठः ॥२ ॥



_______________________________________________________________________



५,१.३


यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च ।

चक्षुर्वाव प्रतिष्ठा ॥ ५,१.३ ॥


__________



भाष्य ५,१.३ यो ह वै प्रतिष्ठां वेद स चास्मिंल्लोकेऽमुष्मिंश्च परे प्रतितिष्ठति ह ।

का तर्हि प्रतिष्ठेत्याहचक्षुर्वाव प्रतिष्ठा ।

चक्षुषा हि पश्यन्समे च दुर्गे च प्रतितिष्ठति यस्मादतः प्रतिष्ठा चक्षुः ॥३ ॥



_______________________________________________________________________



५,१.४


यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च ।

श्रोत्रं वाव संपत् ॥ ५,१.४ ॥


__________



भाष्य ५,१.४ यो ह वै सम्पदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह ।

का तर्हि सम्पदित्याहश्रोत्रं वाव सम्पत् ।

यस्माच्छ्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसम्पदित्येवं कामसम्पद्धेतुत्वाच्छ्रोत्रं वाव संपत् ॥४ ॥



_______________________________________________________________________



५,१.५


यो ह वा आयतनं वेदायतनं ह स्वानां भवति ।

मनो ह वा आयतनम् ॥ ५,१.५ ॥


__________



भाष्य ५,१.५ यो ह वा आयतनं वेदाऽयतनं ह स्वानां भवत्याश्रयो भवतीत्यर्थः ।

किं तदायतनमित्याहमनो ह वा आयतनम् ।

इन्द्रियोपहृतानां विषयाणां भोक्त्रर्थानां प्रत्ययरूपामां मन आयतनमाश्रयः ।

अतो मनो ह वा आयतनमित्युक्तम् ॥५ ॥



_______________________________________________________________________



५,१.६


अथ ह प्राणा अहंश्रेयसि व्यूदिरे ।

अहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ५,१.६ ॥


__________



भाष्य ५,१.६ अथ ह प्राणा एवं यथोक्तगुणाः सन्तोऽहंश्रेयस्यहं श्रेयानस्म्यहं श्रेयानस्मीत्येतस्मिन्प्रयोजने व्यूदिरे नाना विरुद्धं चोदिर उक्तवन्तः ॥६ ॥



_______________________________________________________________________



५,१.७


ते ह प्राणाः प्रजापतिं पितरमेत्योचुः भगवन् को नः श्रेष्ठ इति ।

तान् होवाच ।

यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५,१.७ ॥


__________



भाष्य ५,१.७ ते ह  तै हैवं विवदमाना आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनयितारं कञ्चिदेत्योचुरुक्तवन्तो हे भगवन्को नोऽस्माकं मध्ये श्रेष्ठोऽभ्यधिको गुणैरित्येवं पृष्टवन्तः ।

तान्पितोवाच ह यस्मिन्वो युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्ठमिवातिशयेन जीवतोऽपि, समुत्क्रान्तप्राणं ततोऽपि पापिष्ठतरमिवातिशयेन दृष्यते कुणपमस्पृश्यमशुचि दृश्येत स वो युष्माकं श्रेष्ठ इत्यवोचत्काक्वा तद्दुःखं परिजिहीर्षुः ॥७ ॥



_______________________________________________________________________



५,१.८११


सा ह वागुच्चक्राम ।

सा संवत्सरं प्रोष्य पर्येत्योवाच ।

कथमशकतर्ते मज्जीवितुमिति ।

यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति ।

प्रविवेश ह वाक् ॥ ५,१.८ ॥


चक्षुर्होच्चक्राम ।

तत्संवत्सरं प्रोष्य पर्येत्योवाच ।

कथमशकतर्ते मज्जीवितुमिति ।

यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति ।

प्रविवेश ह चक्षुः ॥ ५,१.९ ॥


श्रोत्रं होच्चक्राम ।

तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति ।

यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति ।

प्रविवेश ह श्रोत्रम् ॥ ५,१.१० ॥


मनो होच्चक्राम ।

तत्संवत्सरं प्रोष्य पर्येत्योवाच ।

कथमशकतर्ते मज्जीवितुमिति ।

यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति ।

प्रविवेश ह मनः ॥ ५,१.११ ॥


__________



भाष्य ५,१.८,९,१०,११ तथोक्तेषु पित्रा प्राणेषु सा ह वागुच्चक्रामोत्क्रान्तवती ।

सा चोत्क्रम्य संवत्सरमात्रं प्रोष्य स्वव्यापारान्निवृत्ता सती पुनः पर्येत्येतरान्प्राणानुवाच कथं केन प्रकारेणाशकत शक्तवन्तो यूयं मदृते मां विना जीवितुं धारयितुमात्मानमिति ते होचुर्यथाकला इत्यादि ।

अकला मूका यथा लोकेऽवदन्तो वाचा जीवन्ति ।

कथम्?प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवं सर्वकरणचेष्टां कुर्वन्त इत्यर्थः ।

एवं वयमजीविष्मेत्यर्थः ।

आत्मनोऽश्रेष्ठतां प्राणेषु बुद्ध्वा प्रविवेश ह वाक्पुनः स्वव्यापारे प्रवृत्ता बभूवेत्यर्थः ।

समानमन्यच्चक्षुर्हेच्चक्राम श्रोत्रं होच्चक्राम मनो होच्चक्रामेत्यादि ।

यथा बाला अमनसोऽप्ररूढमनस इत्यर्थः ॥ ८११ ॥



_______________________________________________________________________



५,१.१२


अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्वीशशङ्कून् संखिदेदेवमितरान् प्राणान् समखिदत् ।

तं हाभिसमेत्योचुः ।

भगवन्नेधि ।

त्वं नः श्रेष्ठोऽसि ।

मोत्क्रमीरिति ॥ ५,१.१२ ॥


__________



भाष्य ५,१.१२ एवं परीक्षितेषु वागादिष्वथानन्तरं ह स मुख्यः प्राण उच्चिक्रमिषन्नुत्क्रमितुमिच्छन्किमकरोदित्युच्यते ।

यथा लोके सुहयः शोभनोऽश्वः पड्वीशशङ्कून्पादबन्धनकीलान्परीक्षणायाऽरूढेन कश्याहतः सन्सङ्खिदेत्समुत्खनेत्समुत्पाटयेत्, एवमितरान्वागादीन्प्राणान्समखिदत्समुद्धृतवान् ।

ते प्राणाः सञ्चालिताः सन्तः स्वस्थाने स्थातुमनुत्सहमाना अभिसमेत्य मुख्यं प्राणं तमूचुर्हें भगवन्नेधि भव नः स्वामी यस्मात्त्वं नोऽस्माकं श्रेष्ठोऽसि मा चास्माद्देहादुत्क्रमीरिति ॥१२ ॥



_______________________________________________________________________



५,१.१३१४


अथ हैनं वागुवाच ।

यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीति ।

अथ हैनं चक्षुरुवाच ।

यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५,१.१३ ॥


अथ हैनं श्रोत्रमुवाच ।

यदहं संपदस्मि त्वं तत्संपदसीति ।

अथ हैनं मन उवाच ।

यदहमायतनमस्मि त्वं तदायतनमसीति ॥ ५,१.१४ ॥


__________



भाष्य ५,१.१३,१४ अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येणाऽपादयन्त आहुर्बलिमिव हरन्तो राज्ञे विशः ।

कथं, वाक्तावदुवाच यदहं वसिष्ठोऽस्मि ।

यदिति क्रियाविशेषणं यद्वसिष्ठत्वगुणास्मीत्यर्थः ।

त्वं तद्वसिष्ठस्तेन वसिष्ठत्वगुणोऽज्ञानान्ममेति मयाभिमत इत्येतत् ।

तथोत्तरेषु योज्यं चक्षुःश्रोत्रमनःसु ॥ १३१४ ॥



_______________________________________________________________________



५,१.१५


न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते ।

प्राणा इत्येवाचक्षते ।

प्राणो ह्येवैतानि सर्वाणि भवति ॥ ५,१.१५ ॥


__________


भाष्य ५,१.१५ श्रुतेरिदं वचो युक्तमिदं वागादिभिर्मुख्यं प्राणं प्रत्यभिहितं यस्मान्न वै लोके वाचो न चक्षूंषि न श्रोत्राणि न मनांसीति वागादीनि करणान्याचक्षते लौकिका आगमज्ञा वा ।

किं तर्हि?प्राणा इत्येवाऽचक्षते कथयन्ति यस्मात्प्राणो ह्येवैतानि सर्वाणि वागादीनि करणजातानि भवत्यतो मुख्यं प्रामं प्रत्यनुरूपमेव वागादिभिरुक्तमिति प्रकरणार्थमुपसञ्जिहीर्षति ।

ननु कथमिदं युक्तं चेतनावन्त इव पुरुषा अहंश्रेष्ठतायै विवदन्तोऽन्योन्यं स्पर्धेरन्निति ।

न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति ।

तथापगमो देहात्पुनः प्रवेशो ब्रह्मगमनं प्राणस्तुतिर्वोपपद्यते ।

तत्राग्न्यादिचेतनावद्देवताधिष्ठितत्वाद्वागादीनां चेतनावत्त्वं तावत्सिद्धमागमतः. तार्किकसमयविरोध इति चेद्देह एकस्मिन्ननेकचेतनावत्त्वे ।

न ।

ईश्वरस्य निमित्तकारमत्वाभ्युपगमात् ।

ये तावदीश्वरमभ्युपगच्छन्ति तार्किकास्ते मन आदिकार्यकरमानामाध्यात्मिकानां बाह्यानां च पृथिव्यादीनामीश्वराधिष्ठितानामेव नियमेन प्रवृत्तिमिच्छन्ति रथादिवत् ।

न चास्माभिरग्न्याद्याश्चेतनावत्योऽपि देवता अध्यात्मं भोक्त्र्योऽभ्युपगम्यन्ते, किं तर्हि,कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानामध्यात्माधिभूताधिदैवभेदकोटिविकल्पानामध्यक्षतामात्रेण नियन्तेश्वरोऽभ्युपगम्यते ।

स ह्यकरणः ।

"हिरण्यगर्भं जनयामान पूर्वम्"इत्यादि च श्वेताश्वतरीयाः पठन्ति ।

भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीव इति वक्ष्यामः ।

वागादीनां चेह संवादः कल्पितो विदुषोऽन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठतानिर्धारणार्थम् ।

यथा लोके पुरुषा अन्योन्यमात्मनः श्रेष्ठतायै विवदमानाः कञ्चिद्गुणविशेषाभिज्ञं पृच्छन्ति को नः श्रेष्ठो गुणैरिति ।

तेनोक्ता एकैकश्येनादः कार्यं साधयितुमुद्यच्छत येनादः कार्यं साध्यते स वः श्रेष्ठ इत्युक्तास्तथैवोद्यच्छन्त आत्मनोऽन्यस्य वा श्रेष्ठवां निर्धारयन्ति ।

ततेमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः ।

कथं नाम विद्वान्वागादीनामेकैकस्याभावेऽपि जीवनं दृष्टं न तु प्राणस्येति प्राणश्रेष्ठतां प्रतिपद्यतेति ।

तथाच श्रुतिः कौषीतकिनाम् "जीवति वागपेतो मूकान्हि पस्यामो जीवति चक्षुरपेतोऽन्धान्हि पश्यामो जीवति श्रोत्रापेतो बधिरान्हि पश्यामो जीवति मनोपेतो बालान्हि पश्यामो जीवति बाहुच्छिन्नो जीवत्यूरुच्छिन्नः"इत्याद्या ॥१५॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य प्रथमः खण्डः


=======================================================================


५,२.१


स होवाच किं मेऽन्नं भविष्यतीति ।

यत्किंचिदिदमा श्वभ्य आ शकुनिभ्य इति होचुः ।

तद्वा एतदनस्यान्नम् ।

अनो ह वै नाम प्रत्यक्षम् ।

न ह वा एवंविदि किंचनानन्नं भवतीति ॥ ५,२.१ ॥


__________



भाष्य ५,२.१ स होवाच मुख्यः प्राणः किं मेऽन्नं भविष्यतीति ।

मुख्यं प्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराहयदिदं लोकेऽन्नजातं प्रसिद्धमा श्वभिः सहाऽशकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादय इति ।

प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवं प्रतिपत्तये कल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाऽहतद्वा एतद्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यतेऽनस्य प्राणस्य तदन्नं प्राणेनैव तदद्यत इत्यर्थः ।

सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थमन इति प्राणस्य प्रत्यक्षं नाम ।

प्राद्युपसर्गपूर्वत्वे हि विशेषगतिरेव स्यात् ।

तथाच सर्वान्नानामत्तुर्नामग्रहणमितीदं प्रत्यक्षं नामान इति सर्वान्नानामत्तुः साक्षादभिधानम् ।

न ह वा एवंविदि यथोक्तप्राणविदि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानामत्तेति तस्मिन्नेवंविदि ह वै किञ्चन किञ्चिदपि प्राणिभिराद्यं सर्वैरनन्नमन्नाद्यं न भवति सर्वमेवंविद्यन्नं भवतीत्यर्थः ।


प्राणभूतत्वाद्विदुषः ।

"प्राणाद्वा एष उदेति प्राणेऽस्तमेति"इत्युपक्रम्य"एवंविदो ह वा उदेति सूर्य एवंविद्यस्तमेति"इति श्रुत्यन्तरात् ॥१ ॥



_______________________________________________________________________



५,२.२


स होवाच किं मे वासो भविष्यतीति ।

आप इति होचुः ।

तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति ।

लम्भुको ह वासो भवति ।

अनग्नो ह भवति ॥ ५,२.२ ॥


__________



भाष्य ५,२.२ स होवाच पुनः प्राणः ।

पूर्ववदेव कल्पना ।

किं मे वासो भविष्यतीत्याप इति होचुर्वागादयः ।

यस्मात्प्राणस्य वास आपस्तस्माद्वा एतदशिष्यन्तो भोक्तवन्तश्च ब्राह्मणा विद्वांस एतत्कुर्वन्ति ।

किम् ।

अद्भिर्वासस्थानीयाभिः पुरस्ताद्भोजनात्पूर्वमुपरिष्टाच्च भोजनादूर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य लम्भुको सम्भनशीलो वासो ह भवति ।

वाससो लब्धैव भवतीत्यर्थः ।

अनग्नो ह भवति ।

वाससो लम्भुकत्वेनार्थसिद्धैवानग्नतेत्यनग्नो ह भवतीत्युत्तरीयवान्भवतीत्येतत् ।

भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातं तस्मिन्प्राणस्य वास इति दर्शनमात्रमिह विधीयते ।

अद्भिः परिदधतीति नाऽचमनान्तरम् ।

यथा लौकिकैः प्रामिभिरद्यमानमन्नं प्राणस्येति दर्शनमात्रं तद्वत्किं मेऽन्नं किं मे वास इत्यादिप्रश्नप्रतिवचनयोस्तुल्यत्वात् ।

यद्याचमनमपूर्वं तादर्थ्येन क्रियते तदा कृम्याद्यन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् ।

तुल्ययोर्विज्ञानार्थयोः प्रस्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वादर्धजरतीयो न्यायो न युक्तः कल्पयितुम् ।

यत्तु प्रसिद्धमाचमनं प्रायत्यार्थं प्राणस्यानग्नतार्थं च न भवतीत्युच्यते न तथा वयमाचमनमुभयार्थं ब्रूमः ।

किं तर्हि प्रायत्यार्थाचमनसाधनभूता आपः प्राणस्य वास इति दर्शनं चोद्यत इति ब्रूमः ।

तत्राऽचमनस्योभयार्थत्वप्रसङ्गदोषचोदनानुपपन्ना ।

वासोर्थ एवाऽचमने तद्दर्शनं स्यादिति चेत् ।

न ।

वासोज्ञानार्थवाक्ये वासोर्थापूर्वाचमनविधाने तत्रानग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः आचमनस्य तदर्थत्वमन्यार्थत्वं चेति ।

प्रमाणाभावात् ॥२ ॥



_______________________________________________________________________



५,२.३


तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच ।

यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ५,२.३ ॥


__________



भाष्य ५,२.३ तदेतत्प्राणदर्शनं स्तूयते ।

कथम् ।

तद्धैतत्प्राणदर्शनं सत्यकामो जाबालो गोश्रुतये नाम्ना वैयाघ्रपद्याय व्याघ्रपदोऽपत्यं वैयाघ्रपद्यस्तस्मै गोश्रुत्याख्यायोक्त्वोवाचान्यदपि वक्ष्यमाणं वचः ।

किं तदुवाचेत्याहयद्यपि शुष्काय स्थाणव एतद्दर्शनं ब्रूयात्प्राणविज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखाः प्ररोहेयुश्च पलाशानि पत्रामि, किमु जीवते पुरुषाय ब्रूयादिति ॥३ ॥



_______________________________________________________________________



५,२.४


अथ यदि महज्जिगमिषेत्, अमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५,२.४ ॥


__________



भाष्य ५,२.४ अथानन्तरं यदि महन्महत्त्वं जिगमिषेद्गन्तुमिच्छेन्महत्त्वं प्राप्तुं यदिकामयेतेत्यर्थः ।

तस्येदं कर्म विधीयते ।

महत्त्वे हि सति श्रीरुपनमते ।

श्रीमतो ह्यर्थप्राप्तं धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थानं प्रतिपत्स्यत इत्येतत्प्रयोजनमुररीकृत्य महत्त्वप्रेप्सोरिदं कर्म न विषयोपभोगकामस्य ।

तस्यायं कालादिविधिरुच्यतेअमावास्यायां दीक्षित्वा दीक्षित इव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यमित्यादिधर्मवान्भूत्वेत्यर्थः ।

न पुनर्दैक्षमेव कर्मजातं सर्वमुपादत्ते ।

अतद्विकारत्वान्मन्थाख्यस्य कर्मणः ।

"उपसद्व्रती"इति श्रुत्यन्तरात्पयोमात्रभक्षमं च शुद्धिकारमं तप उपादत्ते ।

पौर्णमास्यां रात्रौ कर्माऽरभते सर्वौषधस्य ग्राम्यारण्यानामोषधीनां यावच्छक्त्यल्पमल्पमुपादाय तद्वितुषीकृत्याऽममेव पिष्टं दधिमधुनोरौदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्तरात्प्रक्षिप्योपमथ्याग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावावसथ्य आज्यस्याऽवापस्थाने हुत्वा स्रुवसंलग्नं मन्थे संपातमवनयेत्संस्रवमधः पातयेत् ॥४ ॥



_______________________________________________________________________



५,२.५


वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।

प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।

संपदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।

आयतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५,२.५ ॥


__________



भाष्य ५,२.५ समानमन्यत् ।

वसिष्ठाय प्रतिष्ठायै संपद आयतनाय स्वाहेति प्रत्येकं तथैव संपातमवनयेद्धुत्वा ॥५ ॥



_______________________________________________________________________



५,२.६


अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपति ।

अमो नामासि ।

अमा हि ते सर्वमिदम् ।

स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः ।

स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं गमयतु ।

अहमेवेदं सर्वमसानीति ॥ ५,२.६ ॥


__________



भाष्य ५,२.६ अथ प्रतिसृप्याग्नेरीषदपसृप्याञ्जलौ मन्थमाधाय जपतीमं मन्त्रम् ।

अमो नामास्यमा हि ते ।

अम इति प्राणस्य नाम ।

अन्नेन हि प्राणः प्राणिति देह इत्यतो मन्थद्रव्यं प्राणस्यान्नत्वात्प्राणत्वेन स्तूयतेऽमो नामासीति ।

कुतः ।

यतोऽमा सह हि यस्मात्ते तव प्राणभूतस्य सर्वं समस्तं जगदिदमतः ।

स हि प्राणभूतो मन्थो ज्येष्ठः श्रेष्ठश्च ।

अत एव च राजा दीप्तिमानधिपतिश्चाधिष्ठाय पालयिता सर्वस्य ।

समा मामपि मन्थः प्राणो ज्यैष्ठ्यादिगुणपूगमात्मनो गमयत्वहमेवेदं सर्वं जगदसानि भवनि प्राणवत् ।

इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ॥६ ॥



_______________________________________________________________________



५,२.७


अथ खल्वेतयर्चा पच्छ आचामति ।

तत्सवितुर्वृणीमह इत्याचामति ।

वयं देवस्य भोजनमित्याचामति ।

श्रेष्ठं सर्वधातममित्याचामति ।

तुरं भगस्य धीमहीति सर्वं पिबति ।

निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति ।

चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः ।

स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५,२.७ ॥


__________



भाष्य ५,२.७ अथानन्तरं खल्वेतया वक्ष्यमाणयर्चा पच्छः पादश आचामति भक्षयति, मन्त्रस्यैकैकेन पादेनैकैकं ग्रासं भक्षयति ।

तद्भोजनं सवितुः सर्वस्य प्रसवितुः ।

प्राणमादित्यं चैकीकृत्योच्यते ।

आदित्यस्य वृणीमहे प्रार्थयेमहि मन्थरूपम् ।

येनान्नेन सावित्रेण भोजनेनोपभुक्तेन वयं सवितृस्वरूपापन्ना भवेमेत्यभिप्रायः ।

देवस्य सवितुरिति पूर्वेण सम्बन्धः ।

श्रेष्ठं प्रशस्यतमं सर्वान्नेभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतममतिशयेन विधातृतममिति वा ।

सर्वथा भोजनविशेषणम् ।

तुरं त्वरं तूर्णं शीघ्रमित्यतत् ।

भगस्य देवस्य सवितुः स्वरूपमिति शेषः ।

धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृताः शुद्धात्मानः सन्त इत्यभिप्रायः ।

अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धोमहि चिन्तयेमहीति सर्वं च मन्थलेपं पिबति निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वौदुम्बरं पात्रम् ।

पीत्वाऽचम्य पश्चादग्नेः प्राक्शिराः संविशति चर्मणि वाजिने स्थण्डिले केवलायां वा भूमौ ।

वाचंयमो वाग्यतः सन्नित्यर्थः ।

अप्रसाहो न प्रसह्यते नाभिभूयते स्त्र्याद्यनिष्टस्वप्नदर्शनेन यथा तथा संयतचित्तः सन्नित्यर्थः ।

स एवंभूतो यदि स्रियं पश्येत्स्वप्नेषु तदा विद्यात्समृद्धं ममेदं कर्मेति ॥७ ॥



_______________________________________________________________________



५,२.८


तदेष श्लोकः ।

यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।

समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने ॥ ५,२.८ ॥


__________



भाष्य ५,२.८ तदेतस्मिन्नर्थ एष श्लोको मन्त्रोऽपि भवति ।

यदा कर्मसु काम्येषु कामार्थेषु स्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति समृद्धिं तत्र जानीयीत् ।

कर्मणां फलनिष्पत्तिर्भविष्यतीति जानीयादित्यर्थः ।

तस्मिन्स्त्र्यादिप्रशस्तस्वप्नदर्शने सतीत्यभिप्रायः ।

द्विरुक्तिः कर्मसमाप्त्यर्था ॥८॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वितीयः खण्डः


=======================================================================


५,३.१


श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय ।

तं ह प्रवाहणो जैवलिरुवाच ।

कुमारानु त्वा अशिषत्पितेति ।

अनु हि भगव इति ॥ ५,३.१ ॥


__________



भाष्य ५,३.१ ब्रह्मादिस्तम्बपर्यन्ताः संसारगतयो वक्तव्या वैराग्यहेतोर्मुमुक्षूणामित्यत आख्यायिकाऽरभ्यतेश्वेतकेतुनमितो ह, इत्यैतिह्यार्थः ।

अरुणस्यापत्यारुणिस्तस्यापत्यमारुणेयः पञ्चालानां समितिं सभामेयायाऽजगाम ।

तमागतवन्तं ह प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरुवाचोक्तवान् ।

हे कुमारानु त्वा त्वामशिषदन्वसिषत्पिता ।

किमनुशिष्टस्त्वं पित्रेत्यर्थः ।

इत्युक्तः स आहानु ह्यनुशिष्टोऽस्मि भगव इति सूचयन्नाह ॥१ ॥



_______________________________________________________________________



५,३.२


वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ।

न भगव इति ।

वेत्थ यथा पुनरावर्तन्त ३ इति ।

न भगव इति ।

वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति ।

न भगव इति ॥ ५,३.२ ॥


__________



भाष्य ५,३.२ तं होवाच यद्यनुशिष्टोऽसि वेत्थ यदितोऽस्माल्लोकादध्यूर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत्किं जानीष इत्यर्थः ।

न भगव इत्याहेतरो न जानेऽहं तद्यत्पृच्छसि ।

एवं तर्हि वेत्थ जानीषे यथा येन प्रकारेण पुनरावर्तन्त इति ।

न भगव इति प्रत्याह ।

वेत्थ पथोर्मार्गयोः सहप्रयाणयोर्देवयानस्य पितृयाणस्य च व्यावर्तनमितरेतरवियोगस्थानं सह गच्छतामित्यर्थः ।

न भगव इति ॥२ ॥



_______________________________________________________________________


५,३.३


वेत्थ यथासौ लोको न संपूर्यत ३ इति ।

न भगव इति ।

वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ।

नैव भगव इति ॥ ५,३.३ ॥


__________



भाष्य ५,३.३ वेत्था यथासौ लोकः पितृसम्बन्धी यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भिरपि येन कारमेन न सम्पूर्यत इति ।

न भगव इति प्रत्याह ।

वेत्थ यथा येन क्रमेण पञ्चम्यां पञ्चसंख्याकायामाहुतौ हुतायामाहुतिनिर्वृत्ता आहुतिसाधनाश्चाऽपः पुरुषवचसः पुरुष इत्येवं वचोऽभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्या भवन्ति पुरुषाख्यां लभन्त इत्यर्थः ।

इत्युक्तो नैव भगव इत्याह ।

नैवाहमत्र किञ्चन जानामीत्यर्थः ॥३ ॥



_______________________________________________________________________



५,३.४


अथानु किमनु शिष्ठोऽवोचथा यो हीमानि न विद्यात् ।

कथं सोऽनुशिष्टो ब्रुवीतेति ।

स हायस्तः पितुरर्धमेयाय ।

तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति ॥ ५,३.४ ॥


__________



भाष्य ५,३.४ अथैवमज्ञः सन्किमनु कस्मात्त्वमनुशिष्टोऽस्मीत्यवोचथा उक्तवानसि ।

यो हीमानि मया पृष्टान्यर्थजातानि न विद्यान्न विजानीत्यात्कथं स विद्वत्स्वनुशिष्टोऽस्मीति ब्रुवीत ।

इत्येवं स श्वेतकेतुः राज्ञाऽयस्त आयासितः सन्पितुरर्धं स्थानमेयायाऽगतवांस्तं च पितुरमुवाचाननुशिष्यानुशासनमकृत्वैव मा मां किल भगवान्समावर्तनकालेऽब्रवीदुक्तवाननु त्वाशिषमन्वशिषं त्वामिति ॥४ ॥



_______________________________________________________________________


५,३.५६


पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् ।

तेषां नैकंचनाशकं विवक्तुमिति ।

स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकंचन वेद ।

यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५,३.५ ॥


स ह गौतमो राज्ञोऽर्धमेयाय ।

तस्मै ह प्राप्तायार्हां चकार ।

स ह प्रातः सभाग उदेयाय ।

तं होवाच ।

मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति ।

स होवाच ।

तवैव राजन्मानुषं वित्तम् ।

यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ।

स ह कृच्छ्री बभूव ॥ ५,३.६ ॥


__________



भाष्य ५,३.५,६ यतः पञ्च पञ्चसंख्याकान्प्रश्नान्राजन्यबन्धू राजान्या बन्धवोऽस्येति राजन्यबन्धुः स्वयं दुर्वृत्त इत्यर्थः ।

अप्राक्षीत्पृष्टवांस्तेषां प्रश्नानां नैकञ्चनैकमपि नाशकं न शक्तवानहं विवक्तुं विशेषेणार्थतो निर्णेतुमित्यर्थः ।

स होवाच पिता यथा मा मां वत्स त्वं तदाऽगतमात्र एवैतान्प्रश्नानवद उक्तवानसि तेषां नैकञ्चनाशकं विवक्तुमिति तथा मां जानीहि, त्वदीयाज्ञानेन लिङ्गेन मम तद्विषयमज्ञानं जानीहीत्यर्थः ।

कथं, यथाहमेषां प्रश्नानामेकञ्चनैकमपि न वेद न जान इति यथा त्वमेवाङ्गैतान्प्रश्नान्न जानीषे तथाहमप्येतान्न जान इत्यर्थः ।

अतो मय्यन्यथाभावो न कर्तव्यः ।

कुत एतदेवं यतो न जाने यद्यहमिमान्प्रश्नानवेदिष्यं विदितवानस्मि कथं ते तुभ्यं प्रियाय पुत्राय समावर्तनकाले पुरा नावक्ष्यं नोक्तवानस्मीत्युक्त्वा स ह गोत्रतो राज्ञो जैवलेरर्धं स्थानमेयाय गतवान् ।

तस्मै ह गौतमाय प्राप्तायार्हामर्हूणां चकार कृतवान् ।

स च गौतमः कृतातिथ्य उषित्वा परेद्युः प्रातःकाले सभागे सभां गते राज्ञ्युदेयाय ।

भजनं भागः पूजा सेवा सह भागेन वर्तमानो वा सभागः पूज्यमानोऽन्यैः स्वयं गौतम उदेयाय राजानमुद्गतवान् ।

तं होवाच गौतमं राजा मानुषस्य भगवन्गौतम मनुष्यसम्बन्धिनो वित्तस्य ग्रामादेर्वरं वरणीयं कामं वृणीथाः प्रार्थयेथाः ।

स होवाच गौतमस्तवैव तिष्ठतु राजन्मानुषं वित्तम् ।

यामेव कुमारस्य मम पुत्रस्यान्ते समीपे वाचं पञ्चप्रश्नलक्षणामभाषथा उक्तवानसि तामेव वाचं मे मह्यं ब्रूहि कथयेत्युक्तो गौतमेन राजा स ह कृच्छ्री दुःखी बभूव ।

कथं त्विदमिति ॥५६ ॥



_______________________________________________________________________



५,३.७


तं ह चिरं वसेत्याज्ञापयां चकार ।

तं होवाच ।

यथा मा त्वं गौतमावदः ।

यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति ।

तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति ।

तस्मै होवाच ॥ ५,३.७ ॥


__________



भाष्य ५,३.७ स ह कृच्छ्रीभूतोऽप्रत्याख्येयं ब्राह्मणं मन्वानो न्यायेन विद्या वक्तव्येति मत्वा तं ह गौतमं चिरं दीर्घकालं वसेत्येवमाज्ञापयाञ्चकाराऽज्ञप्तवान् ।

यत्पूर्वं प्रत्याख्यातवान्राजा विद्यां यच्च पश्चाच्चिरं वसेत्याज्ञप्तवान्, तन्निमित्तं ब्राह्ममं क्षमापयति हेतुवचनोक्त्यातं होवाच राजा सर्वविद्यो ब्रह्मणोऽपि सन्यथा येन प्रकारेण मा मां हे गौतमावदस्त्वं तामेव विद्यालक्षणां वाचं मे ब्रूहीत्यज्ञानात्तेन त्वं जानीहि ।

तत्रास्ति वक्तव्यं यथा येन प्रकारेणेयं विद्या प्राक्त्वत्तो ब्राह्मणान्न गच्छति न गतवती, न च ब्राह्मणा अनया विद्ययानुशासितवन्तः, तथैतत्प्रसिद्धं लोके यतस्तस्मादु पुरा पूर्वं सर्वेषु लोकेषु क्षत्त्रस्यैव क्षत्त्रजातेरेवानया विद्यया प्रशासनं प्रशास्तृत्वं शिष्यामामभूद्बभूव ।

क्षत्त्रियपरम्परयैवेयं विद्यतावन्तं कालमागता ।

तथाप्यहमेतां तुभ्यं वक्ष्यामि च्वत्सम्प्रदानादूर्ध्वं ब्राह्मणान्गमिष्यति ।

अतो मया यदुक्तं तत्क्षन्तुमर्हसीत्युक्त्वा तस्मै होवाच विद्यां राजा ॥७॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य तृतीयः खण्डः


=======================================================================


५,४.१


असौ वाव लोको गौतमाग्निः ।

तस्यादित्य एव समित् ।

रश्मयो धूमः ।

अहरर्चिः ।

चन्द्रमा अङ्गाराः ।

नक्षत्राणि विस्फुलिङ्गाः ॥ ५,४.१ ॥


__________



भाष्य ५,४.१ पञ्चम्यामाहुतावाप इत्ययं प्रश्नः प्राथम्येनापाक्रियते ।

तदपाकरणमन्वितरेषामपाकरणमनुकूलं भवेदिति ।

अग्निहोत्राहुत्योः कार्यारम्भो यः स उक्तो वाजसनेयके ।

तं प्रति प्रस्नाःुत्क्रान्तिराहुत्योर्गतिः प्रतिष्ठा तृप्तिः पुनरावृत्तिर्लोकं प्रत्युत्थायी इति ।

तेषां चापाकरणमुक्तं तत्रैव"ते वा एते आहुती हुते उत्क्रामतस्ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाऽहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्लामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामत इत्याद्येवमेव पूर्ववद्दिवं तर्पयतस्ते तत आवर्तेते ।

इमामाविश्य तर्पयित्वा पुरुषमाविशतः ।

ततः स्रियमाविश्य लोकं प्रत्युत्थाया भवति"इति ।

तत्राग्निहोत्राहुत्योः कार्यारम्भमात्रमेवंप्रकारं भवतीत्युक्ताम ।

इह तु तं कार्यारम्भमग्नि होत्रापूर्वविपरिणामलक्षणं पञ्चधा प्रविभज्याग्नित्वेनोपासनमुत्तरमार्गप्रतिपत्तिसाधनं विधित्सन्नाहअसौ वाव लोको गौतमाग्निरित्यादि ।

इह सायंप्रातरग्निहोत्राहुती हुते पय आदिसाधने श्रद्धापुरःसरे आहवनीयाग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गभाविते कर्त्रादिकारकभाविते चान्तरिक्षक्रमेणोत्क्रम्य द्युलोकं प्रविशन्त्यौ सूक्ष्मभूते अप्समवायित्वादप्शब्दवाच्ये श्रद्धाहेतुत्वाच्च श्रद्धाशब्दवाच्ये तयोरधिकरणोऽग्निरन्यच्च तत्सम्बन्धं समिदादीत्युच्यते ।

या चासावग्न्यादिभावनाऽहुत्योः सापि तथैव निर्दिश्यते ।

असौ वाव लोकोऽग्निर्हे गौतम यथाग्निहोत्राधिकरणमाहवनीय इह ।

तस्याग्नेर्घुलोकाख्यस्याऽदित्य एव समित्तेन हीद्धोऽसौ लोको दीप्यते ।

अतः समिन्धनात्समिदादित्यः ।

रश्मयो धूमस्तदुत्थानात्, समिधो हि धूम उत्तिष्ठति ।

अहरर्चिः प्रकाशसामान्यात्, आदित्यकार्यत्वाच्च चन्द्रमा अङ्गाराः ।

अहःप्रशमेऽभिव्यक्तेः ।

अर्चिषा हि प्रशमेऽङ्गारा अभिव्यज्यन्ते ।

नक्षत्राणि विस्फुलिङ्गाश्चन्द्रमसोऽवयवा इव विप्रकीर्णत्वसामान्यात् ॥१ ॥



_______________________________________________________________________



५,४.२


तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।

तस्या आहुतेः सोमो राजा संभवति ॥ ५,४.२ ॥


__________



भाष्य ५,४.२ तस्मिन्नेतस्मिन्यथोक्तलक्षणेऽग्नौ देवा यजमानप्राणा अग्न्यादिरूपा अधिदैवतम् ।

श्रद्धामग्निहोत्राहुतिपरिणामावस्थारूपाः सूक्ष्मा आपः श्रद्धाभाविताः श्रद्धा उच्यन्ते ।

"पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति"इत्यपां होम्यतया प्रश्ने श्रुतत्वात् ।

"श्रद्धा वा आपः श्रद्धामेवाऽरभ्य प्रणीय प्रचरति"इति च विज्ञायते ।

तां श्रद्धामब्रूपां जुह्वाति ।

तस्या आहुतेः सोमो राजापां श्रद्धाशब्दवाच्यानां द्युलोकाग्नौ हुतानां परिणामः सोमो राजा सम्भवति ।

यथर्ग्वेदादिपुष्परसा ऋगादिमधुकरोपनीतास्त आदित्ये यश आदिकार्यं रोहितादिरूपलक्षणमारभन्त इत्युक्तं तथेमा अग्निहोत्राहुतिसमवायिन्यः सूक्ष्माः श्रद्धाशब्दवाच्या आपो द्युलोकमनुप्रविश्य चान्द्रं कार्यमारभन्ते फलरूपमग्निहोत्राहुत्योः ।

यजमानाश्च तत्कर्तार आहुतिमया आहुतिभावनाभाविता आहुतिरूपेण कर्मणाऽकृष्टाः श्रद्धाप्समवायुनो द्युलोकमनुप्रविश्य भवन्ति ।

तदर्थं हि तैरग्निहोत्रं हुतम् ।

अत्र त्वाहुतिपरिणाम एव पञ्चाग्निसम्बन्धक्रमेण प्राधान्येन विवक्षित उपासनार्थं न यजमानानां गतिः ।

तां त्वविदुषां धूमादिक्रमेणोत्तरत्र वक्ष्यति विदुषां चोत्तरां विद्याकृताम् ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्थः खण्डः


=======================================================================


५,५.१


पर्जन्यो वाव गौतमाग्निः ।

तस्य वायुरेव समित् ।

अभ्रं धूमः ।

विद्युदर्चिः ।

अशनिरङ्गाराः ।

ह्रादुनयो विस्फुलिङ्गाः ॥ ५,५.१ ॥


__________



भाष्य ५,५.१ द्वितीयहोमपर्यायार्थमाहपर्जन्यो वाव पर्जन्य एव गौतमाग्निः पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवताविशेषः ।

तस्य वायुरेव समित् ।

वायुना हि पर्जन्योऽग्निः समिध्यते ।

पुरोवातादिप्राबल्ये वृष्टिदर्शनात् ।

अभ्रं धूमो धूमकार्यत्वाद्धूमवच्च लक्ष्यमाणत्वात् ।

विद्युदर्चिः ।

प्रकाशसामान्यात् ।

अशनिरङ्गाराः ।

काठिन्याद्विद्युत्सम्बन्धाद्वा ।

ह्रादुनयो विस्फुलिङ्गाः ।

ह्रादुनयो गर्जितशब्दाः ।

मेघानां विप्रकीर्णत्वसमान्यात् ॥१ ॥



_______________________________________________________________________



५,५.२


तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।

तस्या आहुतेर्वर्षं संभवति ॥ ५,५.२ ॥


__________



भाष्य ५,५.२ तस्मिन्नेतस्मिन्नग्नौ देवाः पूर्ववत्सोमं राजानं जुह्वति ।

तस्या आहुतेर्वर्षं सम्भवति ।

श्रद्धाख्या आपः सोमाकारणपरिणता द्वितीये पर्याये पर्जन्याग्निं प्राप्य वृष्टित्वेन परिणमन्ते ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चमः खण्डः


=======================================================================


५,६.१


पृथिवी वाव गौतमाग्निः ।

तस्याः सम्वत्सर एव समित् ।

आकाशो धूमः ।

रात्रिरर्चिः ।

दिशोऽङ्गाराः ।

अवान्तरदिशो विस्फुलिङ्गाः ॥ ५,६.१ ॥


__________



भाष्य ५,६.१ पृथिवी वाव गौतमाग्निरित्यादि पूर्ववत् ।

तस्याः पृथिव्याख्यस्याग्नेः संवत्सर एव समित् ।

संवत्सरेण हि कालेन समिद्धा पृथिवी व्रीह्यादिनिष्पत्तये भवति ।

आकाशो धूमः, पृथिव्या इवोत्थित आकाशो दृश्यते ।

यथाग्नेर्धूमः ।

रात्रिरर्चिः पृथिव्या ह्यप्रकाशात्मिकाया अनुरूपा रात्रिः ।

तमोरूपत्वात् ।

अग्नेरिवानुरूपमर्चिः ।

दिशोऽङ्गारा उपशान्तत्वसामान्यात् ।

एवान्तरदिशो विस्फुलिङ्गाः क्षुद्रत्वसामान्यात् ॥१ ॥



_______________________________________________________________________



५,६.२


तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति ।

तस्या आहुतेरन्नं संभवति ॥ ५,६.२ ॥


__________



भाष्य ५,६.२ तस्मिन्नित्यादि समानम् ।

तस्या आहुतेरन्नं व्रीहियवादि सम्भवति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षष्ठः खण्डः


=======================================================================


५,७.१


पुरुषो वाव गौतमाग्निः ।

तस्य वागेव समित् ।

प्राणो धूमः ।

जिह्वार्चिः ।

चक्षुरङ्गाराः ।

श्रोत्रं विस्फुलिङ्गाः ॥ ५,७.१ ॥


__________



भाष्य ५,७.१ पुरुषो वाव गौतमाग्निः ।

तस्य वागेव समित् ।

वाचा हि मुखेन समिध्यते पुरुषो न मूकः ।

प्राणो धूमो धूम इव मुखान्निर्गमनात् ।

जिह्वार्चिर्लोहितत्वात् ।

चक्षुरङ्गारा भास आश्रयत्वात् ।

श्रोत्रं विस्फुलिङ्गाः ।

विप्रकीर्णत्वसाम्यात् ॥१ ॥


_______________________________________________________________________



५,७.२


तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।

तस्या आहुतेर्रेतः सम्भवति ॥ ५,७.२ ॥


__________



भाष्य ५,७.२ समानमन्यत् ।

अन्नं जुह्वति व्रीह्यादिसंस्कृतम् ।

तस्या आहुते रेतः सम्भवति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तमः खण्डः


=======================================================================


५,८.१


योषा वाव गौतमाग्निः ।

तस्या उपस्थ एव समित् ।

यदुपमन्त्रयते स धूमः ।

योनिरर्चिः ।

यदन्तः करोति तेऽङ्गाराः ।

अभिनन्दा विस्फुलिङ्गाः ॥ ५,८.१ ॥


__________



भाष्य ५,८.१ योषा वाव गौतमाग्निः ।

तस्या उपस्थ एव समित् ।

तेन हि सा पुत्राद्युत्पादनाय समिध्यते ।

यदुपमन्त्रयते स धूमः ।

स्रीसम्भवादुपमन्त्रणस्य ।

योनिरर्चिर्लोहितत्वात् ।

यदन्तः करोति तेऽङ्गारा अग्निसम्बन्धात् ।

अभिनन्दाः सुखलवा विस्फुलिङ्गाः क्षुद्रत्वात् ॥१ ॥



_______________________________________________________________________



५,८.२


तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।

तस्या आहुतेर्गर्भः संभवति ॥ ५,८.२ ॥


__________



भाष्य ५,८.२ तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।

तस्या आहुतेर्गर्भः सम्भवतीति ।

एवं श्रद्धासोमवर्षान्नरेतोहवनपर्यायक्रमेणाऽप एव गर्भीभूतास्ताः ।

तत्रापामाहुतिसमवायित्वात्प्राधान्यविवक्षाऽपः पञ्चम्यामाहुतौ पुरुषवचसो भवन्तीति ।

न त्वाप एव केवलाः सोमादिकार्यमारभन्ते ।

न चाऽपोऽत्रिवृत्कृताः सन्तीति ।

त्रिवृत्कृतत्वेऽपि विशेषसंज्ञालाभो दृष्टः पृथिवीयमिमा आपोऽयमग्निरित्यन्यतमबाहुल्यनिमित्तः ।

तस्मात्समुदितान्येव भूतान्यब्बाहुल्यात्कर्मसमवायीनि सोमादिकार्यारम्भकाण्याप इत्युच्यन्ते ।

दृश्यते च द्रवबाहुल्यं सोमवृष्ट्यन्नरेतोदेहेषु ।

बहुद्रवं च शरीरं यद्यपि पार्थिवम् ।

तत्र पञ्चम्यामाहुतौ हुतायां रेतोरूपा आपो गर्भीभूताः ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टमः खण्डः


=======================================================================


५,९.१


इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ।

स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ ५,९.१ ॥


__________


भाष्य ५,९.१ इति त्वेवं तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति व्याख्यात एकः प्रश्नः ।

यत्तु द्युलोकादिमां प्रत्यावृत्तयोराहुत्यो पृथिवीं पुरुषं स्रियं क्रमेणाऽविश्य लोकं प्रत्युत्थायी भवतीति वाजसनेयक उक्तं तत्प्रासङ्गिकमिहोच्यते ।

इह च प्रथमे प्रश्न उक्तं वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ।

तस्य चायमुपक्रमः ।

स गर्भोऽपां पञ्चमः परिणामविशेष आहुतिकर्मसमवायिनीनां श्रद्धाशब्दवाच्यानामुल्बावृत उल्बेन जरायुणाऽवृतो वेष्टितो दश वा नव वा मासानन्तर्मातुः कुक्षौ शयित्वा यावद्वा यावता कालेन न्यूनेनातिरिक्तेन वाथानन्तरं जायते ।

उल्बावृत इत्यादि वैराग्यहेतोरिदमुच्यते ।

कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्योल्बाशुचिपटावृतस्य लोहितरेतोऽशुचिबीजस्य मातुरशितपीतरसानुप्रवेशेन विवर्धमानस्य निरुद्धशक्तिबलवीर्यतेजःप्रज्ञाचेष्टस्य शयनम् ।

ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिर्जन्मेति वैराग्यं ग्राहयति ।

मुहूर्तमप्यसह्यं दश वा नव वा मासानतिदीर्घकालमन्तः शयित्वेति च ॥१ ॥



_______________________________________________________________________



५,९.२


स जातो यावदायुषं जीवति ।

तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५,९.२ ॥


__________



भाष्य ५,९.२ स एवं जातो यावदायुषं पुनः पुनर्घटीयन्त्रवद्गमनागमनाय कर्म कुर्वन्कुलालचक्रवद्वा तिर्यग्भ्रमणाय यावत्कर्मणोपात्तमायुस्तावज्जीवति ।

तमेनं क्षीणायुषं प्रेतं मृतं दिष्टं कर्मणा निर्दिष्टं परलोकं प्रति यदि चेज्जीवन्वैदिके कर्मणि ज्ञाने वाधिकृतस्तमेनं मृतमितोऽस्माद्ग्रामादग्नयेऽग्न्यर्थमृत्विजो हरन्ति पुत्रा वान्त्यकर्मणे ।


यत एवेत आगतोऽग्नेः सकाशाच्छ्रद्धाद्याहुतिक्रमेण, यतश्च पञ्चभ्योऽग्निभ्यः संभूत उत्पन्नो भवति तस्मा एवाग्नये हरन्ति स्वामेव योनिमग्निमापादयन्तीत्यर्थः ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य नवमः खण्डः



=======================================================================


५,१०.१२


तद्य इत्थं विदुः ।

ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ।

तेऽर्चिषमभिसंभवन्ति ।

अर्चिषोऽहः ।

अह्न आपूर्यमाणपक्षम् ।

आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ॥ ५,१०.१ ॥


मासेभ्यः संवत्सरम् ।

संवत्सरादादित्यम् ।

आदित्याच्चन्द्रमसम् ।

चन्द्रमसो विद्युतम् ।

तत्पुरुषोऽमानवः ।

स एनान् ब्रह्म गमयति ।

एष देवयानः पन्था इति ॥ ५,१०.२ ॥


__________



भाष्य ५,१०.१,२ वेत्थ यदितोऽधि प्रजाः प्रयन्तीत्ययं प्रश्नः प्रत्युपस्थितोऽपाकर्तव्यतया ।

तत्तत्र लोकं प्रत्युत्थितानामधिकृतानां गृहमेधिनां य इत्थमेवं यथोक्तं पञ्चाग्निदर्शनं द्युलोकाद्यग्निभ्यो वयं क्रमेण जाता अग्निस्वरूपाः पञ्चाग्न्यात्मान इत्येवं विदुर्जानीयुः ।

कथमवगम्यत इत्थं विदुरिति गृहस्था एवोच्यन्ते नान्य इति? गृहस्थानां ये त्वनित्थंविदः केवलेष्टापूर्तदत्तपरास्ते धूमादिना चन्द्रं गच्छन्तीति वक्ष्यति ।


ये चारण्योपलक्षिता वैखानसाः परिव्राजकाश्च श्रद्धातप इत्युपासते तेषां चेत्थंविद्भिः सहार्चिरादिना गमनं वक्ष्यति पारिशेष्यादग्निहोत्राहुतिसम्बन्धाच्च गृहस्था एव गृह्यन्त इत्थं विदुरिति ।

ननु ब्रह्मचारिणोऽप्यगृहीता ग्रामश्रुत्यारण्यश्रुत्या विद्यन्ते कथं पारिशेष्यसिद्धिः?नैष दोषः ।

पुराणस्मृतिप्रामाण्यादूर्ध्वरेतसां नैष्ठिकब्रह्मचारिणामुत्तरेणार्था इति न विशेषनिर्देशार्हाः ।

ननूर्ध्वरेतस्त्वं चेदुत्तरमार्गप्रतिपत्तिकारणं पुराणस्मृतिप्रामाण्यादिष्यत इत्थंवित्त्वमनर्थकं प्राप्तम् ।

न ।

गृहस्थान्प्रत्यर्थवत्त्वात् ।

ये गृहस्था अनित्थंविदस्तेषां स्वभावतो दक्षिणो धूमादिः पन्थाः प्रसिद्धस्तेषां यं इत्थं विदुः सगुणं वान्यद्ब्रह्म विदुः ।

"अथ यदु चैवास्मिञ्शव्यं कुर्वन्ति यदि नार्चिषमेव"इति लिङ्गादुत्तरेण ते गच्छन्ति ।

ननूर्ध्वरेतसां गृहस्थानां च समान आश्रमित्व ऊर्ध्वरेतसामेवोत्तरेण पथा गमनं न गृहस्थानामिति न युक्तमग्निहोत्रादिवैदिककर्मबाहुल्ये च सति ।

नैष दोषः ।

अपूता हि ते ।

शत्रुमित्रसंयोगनिमित्तं हि तेषां रागद्वेषौ ।

तथा धर्माधर्मौ हिंसानुग्रहनिमित्तौ ।

हिंसानृतमायाब्रह्मचर्यादि च बह्वशुद्धिकारणमपरिहार्यं तेषाम् ।

अतोऽपूताः ।

अपूतत्वान्नोत्तरेण पथा गमनम् ।

हिंसानृतमायाब्रह्मचर्यादिपरिहाराच्च शुद्धात्मानो हीतरे शत्रुमित्ररागद्वेषादिपरिहाराच्च विरजसस्तेषां युक्त उत्तरः पन्थाः ।

तथाच पौराणिकाः  "ये प्रजामीषिरेऽधीरास्ते श्मशानानि भेजिरे ।

ये प्रजां नेषिरे धीरास्तेऽमृतत्वं हि भेजिरे" ।

इत्याहुः ।

इत्थंविदां गृहस्थानामरण्यवासिनां च समानमार्गत्वेऽमृतत्वफले च सत्यरण्यवासिनां विद्यानर्थक्यं प्राप्तम् ।

तथाच श्रुतिविरोधः ।

"न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः"इति ।

"स एनमविदितो न भुनक्ति"इति च विरुद्धम् ।

न ।

आभूतसंप्लवस्थानस्यामृतत्वेन विवक्षितत्वात् ।

तत्रैवोक्तं पौराणिकैःाभूतसंप्तवं स्थानममृतत्वं हि भाष्यते इति ।

यच्चाऽत्यन्तिकममृतत्वं तदपेक्षया"न तत्र दक्षिणा यन्ति" "स एनमविदितो न भुनक्ती"त्याद्याः श्रुतय इत्यतो न विरोधः ।

"न च पुनरावर्तन्त"इति"मं मानवमावर्तं नाऽवर्तन्त"इत्यादिश्रुतिविरोध इति चेत् ।

न ।

इमं मानवमिति विशेषणात्तेषामिह न पुनरावृत्तिरस्तीति च ।

यदि ह्येकान्तेनैव नाऽवर्तेरन्निमं मानवमिहेति च विशेषणमनर्थकं स्यात् ।

इममिहेत्याकृतिमात्रमुच्यत इति चेत् ।

न ।

अनावृत्तिशब्देनैव नित्यानावृत्त्यर्थस्य प्रतीतत्वादाकृतिकल्पनानर्थिका ।

अत इममिहेति च विशेषणार्थवत्त्वायान्यत्राऽवृत्तिः कल्पनीया ।

न च सदेकमेवाद्वितीयमित्येवंप्रत्ययवतां मूर्धन्यया नाड्यार्चिरादिमार्गेण गमनम् ।

"ब्रह्मैव सन्ब्रह्माप्यति" ।

"तस्मात्तत्सर्वमभवत्" ।

"न तस्य प्राणा उत्क्रामन्ति ।

अत्रैव समवनीयन्ते"इत्यादिश्रुतिशतेभ्यः ।

ननु तस्माज्जीवादुच्चिक्रमिषोः प्राणा नोत्क्रामन्ति सहैव गच्छन्तीत्ययमर्थः कल्प्यत इति चेत् ।

न ।

अत्रैव समवनीयन्त इति विशेषणानर्थक्यात् ।

सर्वे प्राणा अनूत्क्रामन्तीति च प्राणैर्गमनस्य प्राप्तत्वात् ।

तस्मादुत्क्रामन्तीत्यनाशङ्कैवैषा ।

यदापि मोक्षस्य संसारगतिवैलक्षण्यात्प्राणानां जीवेन सहागमाश्ङ्क्य तस्मान्नोत्क्रामन्तीत्युच्यते तदाप्यत्रैव समवनीयन्त इति विशेषणमनर्थकं स्यात् ।

न च प्राणैर्वियुक्तस्य गतिरुपपद्यते जीवत्वं वा ।

सर्वगतत्वात्सदात्मनो निरवयवत्वात्प्राणसम्बन्धमात्रमेव ह्यग्निविस्फुलिङ्गवज्जीवत्वभेदकारणमित्यतस्तद्वियोगे जीवत्वं गतिर्वा न शक्या परिकल्पयितुं श्रुतयश्चेत्प्रमाणम् ।

न सतोऽणुरवयवः स्फुटितो जीवाख्यः सद्रूपं छिद्रीकुर्वन्गच्छतीति शक्यं कल्पयितुम् ।

तस्मात्"तयोर्ध्वमायन्नमृतत्वमेति"इति सगुणब्रह्मोपाकस्य प्राणैः सह नाड्या गमनं सापेक्षमेव चामृतत्वं न साक्षान्मोक्ष इति गम्यते ।

"तदपराजिता पूस्तदैरं मदीयं सरः"इत्याद्युक्त्वा"तेषामेवैष ब्रह्मलोकः"इति विशेषमात् ।

अतः पञ्चाग्निविदो गृहस्था ये चेमेऽरण्ये वानप्रस्थाः परिव्राजकाश्च सह नैष्ठिकब्रह्मचारिभिः श्रद्धा तप इत्येवमाद्युपासते श्रद्दधानास्तपस्विनश्चेत्यर्थः ।

उपासनशब्दस्तात्पर्यार्थः ।

इष्टापूर्ते दत्तमित्युपासत इति यद्वत् ।

श्रुत्यन्तराद्ये च सत्यं ब्रह्म हिरण्यगर्भाख्यमुपासते ते सर्वेऽर्चिषमर्चिरभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते ।

समानमन्यच्चतुर्थगतिव्याख्यानेन ।

एष देवयानः पन्था व्याख्यातः सत्यलोकावसानो नाण्डाद्बहिः ।

"यदन्तरा पितरं मातरं च"इति मन्त्रवर्णात् ॥१२ ॥



_______________________________________________________________________



५,१०.३


अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ।

ते धूममभिसंभवन्ति ।

धूमाद्रात्रिम् ।

रात्रेरपरपक्षम् ।

अपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान् ।

नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५,१०.३ ॥


__________



भाष्य ५,१०.३ अथेत्यर्थान्तरप्रस्तावनार्थो य इमे गृहस्था ग्रामे ।

ग्राम इति गृहस्थानामसाधारणं विशेषणमरण्यवासिभ्यो व्यावृत्त्यर्थम् ।

यथा वानप्रस्थपरिव्राजकानामरण्यं विशेषणं गृहस्थेभ्यो व्यावृत्त्यर्थं तद्वत् ।

इष्टापूर्ते इष्टमग्निहोत्रादि वैदिकं कर्म पूर्तं वापीकूपतडागारामादिकरणम् ।

दत्तं बहिर्वेदि यथाशक्त्यर्हेभ्यो द्रव्यसंविभागो दत्तम् ।

इत्येवंविधं परिचरणपरित्राणाद्युपासते ।

इतिशब्दस्य प्रकारदर्शनार्थत्वात् ।

ते दर्शनवर्जितत्वाद्धूमं धूमाभिमानिनीं देवतामभिसम्भवन्ति प्रतिपद्यन्ते ।

तयातिवाहिता धूमाद्रात्रिं रात्रिदेवतां रात्रेदेवतां रात्रेरपरपक्षदेवतामेव कृष्णपक्षाभिमानिनीमपरपक्षाद्यान्षण्मासान्दक्षिणा दक्षिणां दशमेति सविता ।

तान्मासान्दक्षिणायनषण्मासाभिमानिनीर्देवताः प्रतिपद्यन्त इत्यर्थः ।

सङ्घचारिण्यो हि षण्मासदेवता इति मासानिति बहुवचनप्रयोगस्तासु नैते कर्मिणः प्रकृताः संवत्सरं संवत्सरस्य ह्येकस्यावयवभूते दक्षिणोत्तरायणे तत्रार्चिरादिमार्गप्रवृत्तानामुदगयनमासेभ्योऽवयविनः संवत्सरस्य प्राप्तिरुक्ता ।

अत इहापि तदवयवभूतानां दक्षिणायनमासानां प्रप्तिं श्रुत्वा तदवयविनः संवत्सरस्यापि पूर्ववत्प्रप्तिरापन्नेत्यतस्तत्प्राप्तिः प्रतिषिध्यते नैते संवत्सरमभिप्राप्नुवन्तीति ॥३ ॥



_______________________________________________________________________



५,१०.४


मासेभ्यः पितृलोकम् ।

पितृलोकादाकाशम् ।

आकासाच्चन्द्रमसम् ।

एष सोमो राजा ।

तद्देवानामन्नम् ।

तं देवा भक्षयन्ति ॥ ५,१०.४ ॥


__________



भाष्य ५,१०.४ मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसम् ।

कोऽसौ यस्तैः प्राप्यते चन्द्रमा य एष दृश्यतेऽन्तरिक्षे सोमो राजा ब्राह्मणानां, तदन्नं देवानां तं चन्द्रमसमन्नं देवा इन्द्रादयो भक्षयन्ति ।

अतस्ते धूमादिना गत्वा चन्द्रभूताः कर्मिणो देवैर्भक्ष्यन्ते ।

नन्वनर्थायेष्टादिकरणं यद्यन्नभूता देवैर्भक्ष्येरन् ।

नैष दोषः ।

अन्नमित्युपकरणमात्रस्य विवक्षितत्वात् ।

न हि ते कवलोत्क्षेपेण देवैर्भक्ष्यन्ते ।

किं तर्ह्युपकरणमात्रं देवानां भवन्ति ते स्त्रीपशुभृत्यादिवत् ।

दृष्टश्चान्नशब्द उपकरणेषु"स्त्रियोऽन्नं पशवोऽन्नं विशां विशोऽन्नं राज्ञाम्" इत्यादि ।

न च तेषां स्त्र्यादीनां पुरुषोपभोग्यत्वेऽप्युपभोगो नास्ति ।

तस्मात्कर्मिणो देवानामुपभोग्या अपि सन्तः सुखिनो देवैः क्रीडन्ति ।

शरीरं च तेषां सुखोपभोगयोग्यं चन्द्रमण्डल आप्यमारभ्यते ।

तदुक्तं पुरस्ताच्छ्रद्धाशब्दा आपो द्युलोकाग्नौ हुताः सोमो राजा सम्भवतीति ।

ता आपः कर्मसमवायिन्य इतरैश्च भूतैरनुगता द्युलोकं प्राप्य चन्द्रत्वमापन्नाः शरीराद्यारम्भिका इष्टाद्युपासकानां भवन्ति ।

अन्त्यायां च शरीराहुतावग्नौ हुतायामग्निना दह्यमाने शरीरे तदुत्था आपो धूमेन सहोर्ध्वं यजमानमावेष्ट्य चन्द्रमण्डलं प्राप्य कुशमृत्तिकास्थानीया बाह्यशरीरारम्भिका भवन्ति ।

तदारब्धेन च शरीरेणेष्टादिफलमुपभुञ्जाना आसते ॥४ ॥



_______________________________________________________________________



५,१०.५


तस्मिन् यवात्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते ।

आकाशम् ।

आकाशाद्वायुम् ।

वायुर्भूत्वा धूमो भवति ।

धूमो भूत्वाभ्रं भवति ॥ ५,१०.५ ॥


__________



भाष्य ५,१०.५ यावत्तदुपभोगनिमित्तस्य कर्मणः क्षयः सम्पतन्ति येनेति सम्पातः कर्मणः क्षयो यावत्सम्पातं यावत्कर्मणः क्षय इत्यर्थः ।

तावत्तस्मिंश्चन्द्रमण्डल उषित्वाथानन्तरमेतमेव वक्ष्यमाणमध्वानं मार्गं पुनर्निवर्त्नते ।

पुनर्निवर्तन्त इति प्रयोगात्पूर्वमप्यसकृच्चन्द्रमण्डलं गता निवृत्ताश्चाऽसन्निति गम्यते ।

तस्मादिह लोक इष्टादिकर्मोपचित्य चन्द्रं गच्छन्ति ।

तत्क्षये चाऽवर्तन्ते ।

क्षणमात्रमपि तत्र स्थातुं न लभ्यते ।

स्थितिनिमित्तकर्मक्षयात् ।

स्नेहक्षयादिव प्रदीपस्य ।

तत्र किं येन कर्मणा चन्द्रमण्डलमारूढस्तस्य सर्वस्य क्षये तस्मादवरोहणं किं वा सावशेष इति ।

किं ततः ।

यदि सर्वस्यैव क्षयः कर्मणश्चन्द्रमण्डलस्थस्यैव मोक्षः प्राप्नोति ।

तिष्ठतु तावत्तत्रैव मोक्षः स्यान्न वेति ।

तत आगतस्येह शरीरोपभोगादि न सम्भवति ।

"ततः शेषेणे"त्यादिस्मृतिविरोधश्च स्यात् ।

नन्विष्टापूर्तदत्तव्यतिरेकेणापि मनुष्यलोके शरीरोपभोगनिमित्तानि कर्माण्यनेकानि सम्भवन्ति ।

न च तेषां चन्द्रमण्डल उपभोगः ।

अतोऽक्षीणानि तानि ।

यन्निमितं चन्द्रमण्डलमारूढस्तान्येव क्षीणानीत्यविरोधः ।

शेषशब्दश्च सर्वेषां कर्मत्वसामान्यादविरुद्धः ।

अत एव च तत्रैव मोक्षः स्यादिति दोषाभावः ।

विरुद्धानेकयोन्युपभोगफलानां च कर्मणामेकैकस्य जन्तोरारम्भकत्वसम्भवात् ।

न चैकस्मिञ्जन्मनि सर्वकर्मणां क्षय उपपद्यते ।

ब्रह्महत्यादेश्चैकैकस्य कर्मणोऽनेकजन्मारम्भकत्वस्मरणात् ।

स्थावरादिप्राप्तानां चात्यन्तमूढानामुत्कर्मषहेतोः कर्मण आरम्भकत्वासम्भवात् ।

गर्भभूतानां च स्रंसमानानां कर्मासम्भवे संसारानुपपत्तिः ।

तस्मान्नैकस्मिञ्जन्मनि सर्वेषां कर्मणामुपभोगः ।

यत्तु कैश्चिदुच्यते सर्वकर्मश्रियोपमर्देन प्रायणे कर्मणां जन्मारम्भकत्वम् ।

तत्र कानिचित्कर्माण्यनारम्भकत्वेनैव तिष्ठन्ति कानिचिज्जन्माऽरभन्त इति नोपपद्यते ।

मरणस्य सर्वकर्माभिव्यञ्जकत्वात्स्वगोचराभिव्यञ्जकप्रदीपवदिति ।

तदसत् ।

सर्वस्य सर्वात्मकत्वाभ्युपगमात् ।

न हि सर्वस्य सर्वात्मकत्वे देशकालनिमित्तावरुद्धत्वात्सर्वात्मनोपमर्दः कस्यचित्क्वचिदभिव्यक्तिर्वा सर्वात्मनोपपद्यते ।

तथा कर्मणामपि साश्रयाणां भवेत् ।

यथा च पूर्वानुभूतमनुष्यमयूरमर्कटादिजन्माभिसंस्कृता विरुद्धानेकवासना मर्कटत्वप्रापकेन कर्मणा मर्कटजन्माऽरभमाणेन नोपमृद्यन्ते तथा कर्माण्यप्यन्यजन्मप्राप्तिनिमित्तानि नोपमृद्यन्त इति युक्तम् ।

यदि हि सर्वाः पूर्वजन्मानुभववासना उपमृद्येरन्मर्कटजन्मनिमित्तेन कर्मणा मर्कटजन्मन्यारब्धे मर्कटस्य जातमात्रस्य मातुः शाखायाः शाखान्तरगमने मातुरुदरसंलग्नत्वादिकौशलं न प्राप्नोति ।

इह जन्मन्यनभ्यस्तत्वात् ।

न चातीतानन्तरजन्मनि मर्कटत्वमेवाऽसीत्तस्येति शक्यं वक्तुम् ।

"तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च"इति श्रुतेः ।

तस्माद्वासनावन्नाशेषकर्मोपमर्द इति शेषकर्मसम्भवः ।

यत एवं तस्माच्छेषेणोपभुक्तात्कर्मणः संसार उपपद्यत इति न कश्चिद्विरोधः ।

कोऽसावध्वा यं प्रति निवर्तन्त इत्युच्यते ।

यथेतं यथागतं निवर्तन्ते ।

ननु मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमिति गमनक्रम उक्तो न तथा निवृत्तिः ।

किं तर्ह्यकाशाद्वायुमित्यादि, कथं यथेतमित्युच्यते ।

नैष दोषः ।

आकाशप्राप्तेस्तुल्यत्वात्पृथिवीप्राप्तेश्च न चात्र यथेतमेवेति नियमोऽनेवंविधमपि निवर्तन्ते पुनर्निवर्तन्ते इति तु नियमः ।

अत उपलक्षणार्थमेतद्यथेतमिति ।

अतो भौतिकमाकाशं तावत्प्रतिपद्यन्ते ।

यास्तेषां चन्द्रमण्डले शरीरारम्भिका आप आसंस्तास्तेषां तत्रोपभोगनिमित्तानां कर्मणां क्षये विलीयन्ते ।

घृतसंस्थानमिवाग्निसंयोगे ।

ता विलीना अन्तरिक्षस्था आकाशभूता इव सूक्ष्मा भवन्ति ता अन्तरिक्षाद्वायुर्भवन्ति ।

वायुप्रतिष्ठा वायुभूता इतश्चामुतश्चोह्यमानास्ताभिः सह क्षीणकर्मा वायुभूतो भवति ।

वायुर्भूत्वा ताभिः सहैव धूमो भवति ।

धूमो भूत्वाभ्रमब्भरणमात्ररूपो भवति ॥५ ॥



_______________________________________________________________________



५,१०.६


अभ्रं भूत्वा मेघो भवति ।

मेघो भूत्वा प्रवर्षति ।

त इह व्रीहियवा ओषधिवनस्पतयस्तिलमासा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरम् ।

यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५,१०.६ ॥


__________



भाष्य ५,१०.६ अभ्रं भूत्वा ततः सेचनसमर्थो मेघो भवति मेघो भूत्वोन्नतेषु प्रदेशेष्वथ प्रवर्षति ।

वर्षधारारूपेण शेषकर्मा पततीत्यर्थः ।

त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इत्येवंप्रकारा जायन्ते ।

क्षीणकर्मणामनेकत्वाद्बहुवचननिर्देशः ।

मेघादिषु पूर्वेष्वेकरूपत्वादेकवचननिर्देशः ।

यस्माद्गिरितटदुर्गनदीसमुद्रारण्यमरुदेशादिसन्निवेशसहस्राणि वर्षधाराभिः पतितानाम् ।

अतस्तस्माद्धेतोर्वै खलु दुर्निष्प्रपतरं दुर्निष्क्रमणं दुर्निःसरणम् ।

यतो गिरितटादुदकस्रोतसोह्यमाना नदीः प्राप्नुवन्ति ततः समुद्रं ततो मकारादिभिर्भक्ष्यन्ते ।

तेऽप्यन्येन ।

तत्रैव च सह मकरेण समुद्रे विलीनाः समुद्राम्भोभिर्जलधरैराकृष्टाः पुनर्वर्षधाराभिर्मरुदेशे शिलातटे वागम्ये पतितास्तिष्ठन्ति कदाचिद्व्यालमगादिपीता भक्षिताश्चान्यैः ।

तेऽप्यन्यैरित्येवंप्रकाराः परिवर्तेरन् ।

कदाचिदभक्ष्येषु स्थावरेषु जातास्तत्रैव शुष्येरन् ।

भक्ष्येष्वपि स्थावरेषु जातानां रेतःसिग्देहसम्बन्धो दुर्लभ एव बहुत्वात्स्थावराणामित्यतो दुर्निष्क्रमणत्वम् ।

अथवातोऽस्माद्व्रीहियवादिभावाद्दुर्निष्प्रपतरं दुर्निर्गमतरम् ।

दुर्निष्प्रपतरमिति तकार एको लुप्तो द्रष्टव्यः ।

व्रीहियवादिभावो दुर्निष्प्रपतस्तस्मादपि दुर्निष्प्रपताद्रेतःसिग्देहसम्बन्धो दुर्निष्प्रपततर इत्यर्थः ।

यस्मादूर्ध्वरेतोभिर्बालैः पुंस्त्वरहितैः स्थविरैर्वा भक्षिता अन्तराले शीर्यन्ते ।

अनेकत्वादन्नादानाम् ।

कदाचित्काकतालीयवृत्त्या रेतःसिग्भिर्भक्ष्यन्ते यदा तदा रेतः सिग्भावं गतानां कर्मणो वृत्तिलाभः ।

कथम् ।

यो यो ह्यन्नमत्त्यनुशयिभिः संश्लिष्टं रेतः सिञ्चत्यृतुकाले योषिति तद्भूय एव तदाकृतिरेव भवति ।

तदवयवाकृतिभूयस्त्वं भूय इत्युच्यते रेतोरूपेण योषितो गर्भशयेऽन्तः प्रविष्टोऽनुशयी ।

रेतसो रेतःसिगाकृतिभावितत्वात् ।

"सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्"इति हि श्रुत्यन्तरात् ।

अतो रेतःसिगाकृतिरेव भवतीत्यर्थः ।

तथा हि ।

पुरुषात्पुरुषो जायते गोर्गवाकृतिरेव न जात्यन्तराकृतिस्तस्माद्युक्तं तद्भूय एव भवतीति ।

ये त्वन्येऽनुशयिभ्यश्चन्द्रमण्डलमनारुह्येहैव पापकर्मभिर्घोरैव्रीहियवादिभावं प्रतिपद्यन्ते पुनर्मनुष्यादिभावं तेषां नानुशयिनामिव दुर्निष्प्रतरम् ।

कस्मात् ।

कर्मणा हि तैर्व्रीहियवादिदेह उपात्त इति तदुपभोगनिमित्तक्षये व्रीह्यादिस्तम्बदेहविनाशे यथाकर्मार्जितं देहान्तरं नवं नवं जलूकावत्संक्रमन्ते सविज्ञाना एव"सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति"इति श्रुत्यन्तरात् ।

यद्यप्युसंहृतकरणाः सन्तो देहान्तरं गच्छन्ति तथापि स्वप्नवद्देहान्तरप्राप्तिनिमित्तकर्मोद्भावितवासनाज्ञानेन सविज्ञाना एव देहान्तरं गच्छन्ति ।

श्रुतिप्रामाण्यात् ।

तथार्चिरादिना धूमादिना च गमनं स्वप्त इवोद्भूतविज्ञानेन ।

लब्धवृत्तिकर्मनिमित्तत्वाद्गमनस्य ।

न तथानुशयिनां व्रीह्यादिभावेन जातानां सविज्ञानमेव रेतःसिग्योषिद्देहसम्बन्ध उपपद्यते ।

न हि व्रीह्यादिलवनकण्डनपेषणादौ च सविज्ञानानां स्थितिरस्ति ।

ननु चन्द्रमण्डलादप्यवरोहतां देहान्तरगमनस्य तुल्यत्वाज्जलूकावत्सविज्ञानतैव युक्ता ।

तथा सति घोरो नरकानुभव इष्टापूर्तादिकारिणां चन्द्रमण्डलादारभ्य प्राप्तो यावद्ब्राह्मणादिजन्म ।

तथा च सत्यनर्थायैवेष्टापूर्ताद्युपासनं विहितं स्यात् ।

श्रुतेश्चाप्रामाण्यं प्राप्तं वैदिकानां कर्मणामनर्थानुबन्धित्वात् ।

न, वृक्षारोहणपतनवद्विशेषसम्भवात् ।

देहाद्देहान्तरं प्रतिपित्सोः कर्मणो लब्धवृत्तित्वाकर्मणोद्भावितेन विज्ञानेन सविज्ञानत्वं युक्तम् ।

वृक्षाग्रमारोहत इव फलं जिघृक्षोः ।

तथार्चिरादिना गच्छतां सविज्ञानत्वं भवेत् ।

धूमादिना च चन्द्रमण्डलमारुरुक्षताम् ।

न तथा चन्द्रमण्डलादवरुरुक्षतां वृक्षाग्रादिव पततां सचेतनत्वम् ।

यथा च मुद्गराद्यभिहतानां तदभिघातवेदनानिमित्तसंमूर्छितप्रतिबद्धकरणानां स्वदेहेनैव देशाद्देशान्तरं नीयमानानां विज्ञानशून्यता दृष्टा तथा चन्द्रमण्डलान्मानुषादिदेहान्तरं प्रत्यवरुरुक्षतां स्वर्गभोगनिमित्तकर्मक्षयान्मृदिताब्देहानां प्रतिबद्धकरणानाम् ।

अतस्तेऽपरित्यक्तदेहबीजभूताभिरद्भिर्मूर्छिता इवाऽकाशादिक्रमेणेमामवरुह्य कर्मनिमित्तजातिस्थावरदेहैः संश्लिष्यन्ते प्रतिबद्धकरणतयानुद्भूतविज्ञाना एव ।

तथा लवनकण्डनपेषणसंस्कारभक्षणरसादिपरिणामरेतःसेककालेषु मूर्छितवदेव ।

देहान्तरारम्भकस्य कर्मणोऽलब्धवृत्तित्वात् ।

देहबीजभूताप्सम्बन्धापरित्यागेनैव सर्वास्ववस्थासु वर्तन्त इति जलूकावच्चेतनावत्त्वं न विरुध्यते ।

अन्तराले त्वविज्ञानं मूर्छितवदेवेत्यदोषः ।

न च वैदिकानां कर्मणां हिंसायुक्तत्वेनोभयहेतुत्वं शक्यमनुमातुम् ।

हिंसायाः शास्त्रचोदितत्वात् ।

"अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः"इति श्रुतेः शास्त्रचोदिताया हिंसाया नाधर्महेतुत्वमभ्युपगम्यते ।

अभ्युपगतेऽप्यधर्महेतुत्वे मन्त्रैर्विषादिवत्तदपनयोपपत्तेर्न दुःखकार्यारम्भकत्वोपपत्तिर्वैदिकानां कर्मणां मन्त्रेणेव विषभक्षणस्येति ॥६ ॥



_______________________________________________________________________



५,१०.७


तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा ।

अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ५,१०.७ ॥


__________



भाष्य ५,१०.७ तत्तत्र तेष्वनुशयिनां य इह लोके रमणीयं शोभनं चरणं शीलं येषां ते रमणीयचरणाः रमणीयचरणेनोपलक्षितः शोभनोऽनुशयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते ।

क्रौर्यानृतमायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः ।

तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले भुक्तशेषेणाभ्याशो ह क्षिप्रमेव ।

यदिति क्रियाविशेषणं ते रमणीयां क्रौर्यादिवर्जितां योनिमापद्येरन्प्राप्नुयुर्ब्राह्मणयोनिं वा क्षत्त्रिययोनिं वा वैश्ययोनिं वा स्वकर्मानुरूपेण ।

अथ पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणोऽशुभानुशया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन्कपूयामेव धर्मसम्बन्धवर्जितां जुगुप्सितां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा स्वकर्मानुरूपेणैव ।

ये तु रमणीयचरणा द्विजातयस्ते स्वकर्मस्थाश्चेदिष्टादिकारिणस्ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः पुनर्घटीयन्त्रवत् ।

विद्यां चेत्प्राप्नुयुस्तदार्चिरादिना गच्छन्ति ॥७ ॥



_______________________________________________________________________


५,१०.८


अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति ।

एतत्तृतीयं स्थानम् ।

तेनासौ लोको न संपूर्यते ।

तस्माज्जुगुप्सेत ।

तदेष श्लोकः ॥ ५,१०.८ ॥


__________



भाष्य ५,१०.८ यदा तु न विद्यासेविनो नापीष्टादिकर्म सेवन्ते तदाथैतयोः पथोर्यथोक्तयोरर्चिर्धूमादिलक्षणयोर्न कतरेणान्यतरेणचनापि यन्ति तानीमानि भूतानि क्षूद्राणि दंशमसककीटादीन्यसकृदावर्तीनि भवन्ति ।

अत उभयमार्गपरिभ्रष्टा ह्यसकृज्जायन्ते म्रियन्ते चेत्यर्थः ।

तेषां जननमरणसन्ततेरनुकरणमिदमुच्यते ।

जायस्व म्रियस्वेतीश्वरनिमित्तचेष्टोच्यते ।

जननमरणलक्षणेनैव कालयापना भवति ।

न तु क्रियासु भोगेषु वा कालोऽस्तीत्यर्थः ।

एतत्क्षुद्रजन्तुलक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरताम् ।

येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्त्यनधिकृतानां ज्ञानकर्मणोरगमनमेव दक्षिणेन पथेति ।

तेनासौ लोको न संपूर्यते ।

पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः ।

प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतो दक्षिणोत्तरयोः पथोर्व्यावर्तनापि मृतानामग्नौ प्रक्षेपः समानस्ततो व्यावर्तनान्येऽर्चिरादिना यन्त्यन्ये धूमादिना ।

पुनरुत्तरदक्षिणायने षण्मासान्प्रप्नुवन्तः संयुज्य पुनर्व्यावर्तन्ते ।

अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकमिति व्याख्याता ।

पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डलादाकाशादिक्रमेणोक्ता ।

अमुष्य लोकस्यापूरणं स्वशब्देनैवोक्तम्तेनासौ लोको न संपूर्यत इति ।

यस्मादेवं कष्टा संसारगतिस्तस्माज्जुगुप्सेत ।

यस्माच्च जन्ममरणजनितवेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः सागर इवागाधेऽप्लवे निराशाश्चोत्तरणं प्रति तस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घृणी भवेन्मा भूदेवंविधे संसारमहोदधौ घोरे पात इति ।

तदेतस्मिन्नर्थ एष श्लोकः पञ्चाग्निविद्यास्तुततये ॥८ ॥



_______________________________________________________________________



५,१०.९


स्तेनो हिरण्यस्य सुरां पिबंश्च ।

गुरोस्तल्पमावसन् ब्रह्महा च ।

एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैरिति ॥ ५,१०.९ ॥


__________



भाष्य ५,१०.९ स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता ।

सुरां पिबन्ब्राह्मणः सन् ।

गुरोश्च तल्पं दारानावसन् ।

ब्रह्महा ब्राह्मणस्य हन्ता चेत्येते पतन्ति चत्वारः ।

पञ्चमश्च तैः सहाऽचरन्निति ॥९ ॥



_______________________________________________________________________



५,१०.१०


अथ ह य एतानेवं पञ्चाग्नीन् वेद न सह तैरप्याचरन् पाप्मना लिप्यते ।

शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ ५,१०.१० ॥


__________



भाष्य ५,१०.१० अथ ह पुनर्यो यथोक्तान्पञ्चाग्नीन्वेद स तैरप्याचरन्महापातकिभिः सह न पाप्मना लिप्यते शुद्ध एव ।

तेन पञ्चाग्निदर्शनेन पावितो यस्मात्पूतः पुण्यो लोकः प्राजापत्यादिर्यस्य सोऽयं पुण्यलोको भवति य एवं वेद यथोक्तं समस्तं पञ्चभिः प्रश्नैः पृष्टमर्थजातं वेद ।

द्विरुक्तिः समस्तप्रश्ननिर्णयप्रदर्शनार्था ॥१०॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य दशमः खण्डः


=======================================================================


५,११.१


प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः ।

को न आत्मा किं ब्रह्मेति ॥ ५,११.१ ॥


__________


भाष्य ५,११.१ दक्षिणेन पथा गच्छतामन्नभाव उत्कस्तद्देवानामन्नं तं देवा भक्षयन्तीति ।

क्षुद्रजन्तुलक्षणा च कष्टा संसारगतिरुक्ता ।

तदुभयदोषपरिजिर्हीर्षया वैश्वानरात्तृभावप्रतिपत्त्यर्थमुत्तरो ग्रन्थ आरभ्यते ।

अत्स्यन्नं पश्यसि प्रियमित्यादिलिङ्गात् ।

आख्यायिका तु सुखावबोधार्था विद्यासम्प्रदानन्यायाप्रदर्शनार्था चप्राचीनशाल इति नामत उपमन्योरपत्यमौपमन्यवः ।

सत्ययज्ञो नामतः पुलुषस्यापत्यं पौलुषिः ।

तथेन्द्रद्युम्नो नामतो भल्लवेरपत्यं भाल्लविस्तस्यापत्यं भाल्लवेयः ।

जन इति नामतः शर्कराक्षस्यापत्यं शार्कराक्ष्यः ।

बुडिलो नामतोऽश्वतराश्वस्यापत्यमाश्वतराश्विः ।

पञ्चापि ते हैते महाशाला महागृहस्था विस्तीर्णाभिः शालाभिर्युक्ताः सम्पन्ना इत्यर्थः ।

महाश्रोत्रियाः श्रुताध्ययनवृत्तसम्पन्ना इत्यर्थः ।

त एवंभूताः सन्तः समेत्य संभूय क्वचिन्मीमांसा विचारणां चक्रुः कृतवन्त इत्यर्थः ।

कथम् ।

को नोऽस्माकमात्मा किं ब्रह्मेत्यात्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वम् ।

ब्रह्मेत्यध्यात्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चाऽत्मव्यतिरिक्तस्याऽदित्यादिब्रह्मण उपास्यत्वं निवर्तयति ।

अभेदेनाऽत्मैव ब्रह्म ब्रह्मैवाऽत्मेत्येवं सर्वात्मा वैश्वानरो ब्रह्म स आत्मेत्येतत्सिद्धं भवति ।

मूर्धा ते व्यपतिष्यदन्धोऽभविष्यदित्यादिलिङ्गात् ॥१ ॥



_______________________________________________________________________



५,११.२


ते ह संपादयां चक्रुः ।

उद्दालको वै भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति ।

तं हन्ताभ्यागच्छामेति ।

तं हाभ्याजग्मुः ॥ ५,११.२ ॥


__________



भाष्य ५,११.२ ते ह मीमांसन्तोऽपि निश्चयमलभमानाः सम्पादयाञ्चक्रुः सम्पादितवन्तः आत्मन उपदेष्टारम् ।

उद्दालको वै प्रसिद्धो नामतो भगवन्तः पूजावन्तोऽयमारुणिररुणस्यापत्यं सम्प्रति सम्यगिममात्मानं वैश्वानरमस्मदभिप्रेतमध्येति ।

तं हन्तेदानीमभ्यागच्छामेत्येवं निश्चित्यं तं हाभ्याजग्मुर्गतवन्तस्तमारुणिम् ॥२ ॥



_______________________________________________________________________


५,११.३


स ह संपादयां चकार ।

प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियाः ।

तेभ्यो न सर्वमिव प्रतिपत्स्ये ।

हन्ताहमन्यमभ्यनुशासानीति ॥ ५,११.३ ॥


__________



भाष्य ५,११.३ स ह तान्दृष्ट्वैव तेषामागमनप्रयोजनं बुद्ध्वा सम्पादयाञ्चकार ।

कथम् ।

प्रक्ष्यन्ति मां वैश्वानरमिमे महाशाला महाश्रोत्रियास्तेभ्योऽहं न सर्वमिव पृष्टं प्रतिपत्स्ये वक्तुं नोत्सहे ।

अतो हन्ताहमिदानीमन्यमेषामभ्यनुशासानि वक्ष्याम्युपदेष्टारमिति ॥३ ॥



_______________________________________________________________________



५,११.४


तान् होवाच ।

अश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्रतीममात्मानं वैश्वानरमध्येति ।

तं हन्ताभ्यागच्छामेति ।

तं हाभ्याजग्मुः ॥ ५,११.४ ॥


__________



भाष्य ५,११.४ एवं सम्पाद्य तान्होवाच ।

अश्वपतिर्वै नामतो भगवन्तोऽयं केकयस्यापत्यं कैकेयः सम्प्रति सम्यगिममात्मानं वैश्वानरमध्येतीत्यादि समानम् ॥४ ॥



_______________________________________________________________________



५,११.५७

तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयां चकार ।

स ह प्रातः संजिहान उवाच ।

न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।

नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतः ।

यक्ष्यमाणो वै भगवन्तोऽहमस्मि ।

यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि ।

वसन्तु भगवन्त इति ॥ ५,११.५ ॥


ते होचुः ।

येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेत् ।

आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि ।

तमेव नो ब्रूहीति ॥ ५,११.६ ॥


तान् होवाच ।

प्रातर्वः प्रतिवक्तास्मीति ।

ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ।

तान् हानुपनीयैवैतदुवाच ॥ ५,११.७ ॥


__________



भाष्य ५,११.५,६,७ तेभ्यो ह राजा प्राप्तेभ्यः पृथक्पृथगर्हाण्यर्हणानि पुरोहितैर्भृत्यैश्च कारयाञ्चकार कारितवान् ।

स हान्येद्यू राजा प्रातः सञ्जिहान उवाच विनयेनोपगम्यैतद्धनं मत्त उपादद्ध्वमिति ।

तैः प्रत्याख्यातो मयि दोषं पश्यन्ति नूनं यतो न प्रतिगृह्णन्ति मत्तो धनमिति मन्वान आत्मनः सद्वृत्ततां प्रतिपिपादयिषन्नाह ।

न मे मम जनपदे स्तेनः परस्वहर्ता विद्यते ।

न कदर्योऽदाता सति विभवे ।

न मद्यपो द्विजोत्तमः सन् ।

नानाहिताग्निः शतगुः ।

नाविद्वानधिकारानुरूपम् ।

न स्वैरी परदारेषु गन्ता ।

अत एव स्वैरिणी कुतो दुष्टचारिणी न सम्भवतीत्यर्थः ।

तैश्च न वयं धनेनार्धिन इत्युक्त आहअल्पं मत्वैते धनं न गृह्णन्तीति ।

यक्ष्यमाणो वै कतिभिरहोभिरहं हे भगवन्तोऽस्मि ।

तदर्थं कॢप्तं धनं मया यावदेकैकस्मै यथोक्तमृत्विजे धनं दास्यामि तावत्प्रत्येकं भगवद्भ्योऽपि दास्यामि ।

वसन्तु भगवन्तः पश्यन्तु च मम यागमित्युक्तास्ते होचुः ।

येन हैवार्थेन प्रयोजनेन यं प्रति चरेद्गच्छेत्पुरुषस्तं हैवार्थं वदेत् ।

इदमेव प्रयोजनमागमनस्येत्ययं न्यायः सताम् ।

वयं वैश्वानरज्ञानार्थिनः ।

आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि सम्यग्जानासि ।

अतस्तमेव नोऽस्मभ्यं ब्रूहीत्युक्तस्तान्होवाच ।

प्रातर्वो युष्मभ्यं प्रतिवक्तास्मि प्रतिवाक्यं दातास्मीत्युक्तास्ते ह राज्ञोऽभिप्रायज्ञाः समित्पाणयः समिद्भारहस्ता अपरेद्युः पूर्वाह्ने राजानं प्रतिचक्रमिरे गतवन्तः ।

यत एवं महाशाला महाश्रोत्रिया ब्राह्मणाः सन्तो महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ता जातितो हीनं राजानं विद्यार्थिनो विनयेनोपजग्मुः ।

तथान्यैर्विद्योपादित्सुभिर्भवितव्यम् ।

तेभ्यश्चादाद्विद्यामनुपनीयैवोपनयनमकृत्वैव तान् ।

यथा योग्येभ्यो विद्यामदात्तथान्येनापि विद्या दातव्येत्याख्यायिकार्थः ।

एतद्वैश्वानरविज्ञानमुवाचेति वक्ष्यमाणेन सम्बन्धः ॥५७ ॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकादशः खण्डः


=======================================================================


५,१२.१


औपमन्यव कं त्वमात्मानमुपास्स इति ।

दिवमेव भगवो राजन्निति होवाच ।

एष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से ।

तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ ५,१२.१ ॥


__________



भाष्य ५,१२.१ स कथमुवाचेत्याहऔपमन्यव हे कमात्मानं वैश्वानरं त्वमुपाःस इति पप्रच्छ ।

नन्वयमपन्यायः आचार्यः सञ्शिष्यं पृच्छतीति ।

नैष दोषः ।

"यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामी"ति न्यायदर्शनात् ।

अन्यत्राप्याचार्यस्य अप्रतिभानवति शिष्ये प्रतिभोत्पादनार्थः प्रश्नो दृष्टोऽजातशत्रोः"क्वैष तदाभूत्कुत एतदागाद्" इति ।

दिवमेव द्युलोकमेव वैश्वानरमुपासे भगवो राजन्निति होवाच ।

एष वै सुतेजाः शोभनं तेजो यस्य सोऽयं सुतेजा इति प्रसिद्धो वैश्वानर आत्माऽत्मनोऽवयवभूतत्वाद्यं त्वमात्मानमात्मैकदेशमुपाःसे तस्मात्सुतेजसो वैशेवानरस्योपासनात्तव सुतमभिषुतं सोमरूपं कर्मणि प्रसुतं प्रकर्षेण च सुतमासुतं चाहर्गणादिषु तव कुले दृश्यतेऽतीव कर्मिणस्त्वत्कुलीना इत्यर्थः ॥१ ॥



_______________________________________________________________________



५,१२.२


अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले ये एतमेवमात्मानं वैश्वानरमुपास्ते ।

मूधा त्वेष आत्मन इति होवाच ।

मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५,१२.२ ॥


__________



भाष्य ५,१२.२ अत्स्यन्नं दीप्ताग्निः सन्पश्यसि च पुत्रपौत्रादि प्रियमिष्टम् ।

अन्योऽप्यत्त्यन्नं पश्यति च प्रियं भवत्यस्य सुतं प्रसुतमासुतमित्यादिकर्मित्वं॑ब्रह्मवर्चसं कुले यः कश्चिदेतं यथोक्तमेवं वैश्वानरमुपास्ते ।

मूर्धा त्वात्मनो वैश्वानरस्यैष न समस्तो वैश्वानरः ।

अतः समस्तबुद्ध्या वैश्वानरस्योपासनान्मूर्धा शिरस्ते विपरीतग्राहिमो व्यपतिष्यद्विपतितमभविष्यत् ।

यद्यदि मां नाऽगमिष्यो नाऽगतोऽभविष्यः ।

साध्वकार्षीर्यन्मामागतोऽसीत्यभिप्रायः ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वादशः खण्डः


=======================================================================


५,१३.१


अथ होवाच सत्ययज्ञं पौलुषिम् ।

प्राचीनयोग्य कं त्वमात्मानमुपास्स इति ।

आदित्यमेव भगवो राजन्निति होवाच ।

एष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्ते ।

तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ ५,१३.१ ॥


__________



भाष्य ५,१३.१ अथ होवाच सत्ययज्ञं पौलुषिं हे प्राचीनयोग्य कं त्वमात्मानमुपास्त इत्यादित्यमेव भगवो राजन्निति होवाच ।

शुक्लनीलादिरूपत्वाद्विश्वरूपत्वमादित्यस्य सर्वरूपत्वाद्वा ।

सर्वाणि रूपाणि हि त्वाष्ट्राणि यतोऽतो वा विश्वरूप आदित्यस्तदुपासनात्तव बहु विश्वरूपमिहामुत्रार्थमुपकरणं दृश्यते कुले ॥१ ॥



_______________________________________________________________________



५,१३.२

प्रवृत्तोऽश्वतरीरथो दासी निष्कः ।

अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।

चक्षुष्ट्वेतदात्मन इति होवाच ।

अन्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५,१३.२ ॥


__________



भाष्य ५,१३.२ किञ्च त्वामनु प्रवृत्तोऽश्वतरीभ्यां युक्तो रथोऽश्वतरीरथो दासीनिष्को दासीभिर्युक्तो निष्को हारो दासीनिष्कः ।

अत्स्यन्नमित्यादि समानम् ।

चक्षुर्वैश्वानरस्य तु सविता ।

तस्य समस्तबुद्ध्योपासनादन्धोऽभविष्यश्चक्षुर्हीनोऽभवि ष्यो यन्मां नाऽगमिष्य इति पूर्ववत् ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोदशः खण्डः


=======================================================================


५,१४.१


अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् ।

वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति ।

वायुमेव भगवो राजन्निति होवाच ।

एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।

तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ ५,१४.१ ॥


__________



भाष्य ५,१४.१ अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं त्वमात्मानमुपाःस इत्यादि समानम् ।

पृथग्वर्त्मा नाना वर्त्मानि यस्य वायोरावहोद्वहादिभिर्भेदैर्वर्तमानस्य सोऽयं पृथग्वर्त्मा वायुः ।

तस्मात्पृथग्वर्त्मात्मनो वैश्वानरस्योपासनात्पृथङ्नानादिक्कास्त्वां बलयो वस्रान्नादिलक्षणा बलय आयन्त्यागच्छन्ति ।

पृथग्रथश्रेणयो रथपङ्क्तयोऽपि त्वामनुयन्ति ॥१ ॥



_______________________________________________________________________



५,१४.२


अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।

प्राणस्त्वेष आत्मन इति होवाच ।

प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५,१४.२ ॥


__________



भाष्य ५,१४.२ अत्स्यन्नमित्यादि समानम् ।

प्रणस्त्वेष आत्मन इति होवाच प्राणस्ते तवोदक्रमिष्यदुत्क्रान्तोऽभविष्यद्यन्मां नाऽगमिष्य इति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्दशः खण्डः


=======================================================================


५,१५.१


अथ होवाच जनं शार्कराक्ष्यम् ।

शार्कराक्ष्य कं त्वमात्मानमुपास्स इति ।

आकाशमेव भगवो राजन्निति होवाच ।

एष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपस्से ।

तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ ५,१५.१ ॥


__________



भाष्य ५,१५.१ अथ होवाच जनमित्यादि समानम् ।

एष वै बहुल आत्मा वैश्वानरः ।

बहुलत्वमाकाशस्य सर्वगतत्वात् ।

बहुलगुणोपासनाच्च त्वं बहुलोऽसि प्रजया च पुत्रपौत्रादिलक्षणया धनेन च हिरण्यादिना ॥१ ॥



_______________________________________________________________________



५,१५.२

अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।

संदेहस्त्वेष आत्मन इति होवाच ।

संदेहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ ५,१५.२ ॥


__________



भाष्य ५,१५.२ सन्देहस्त्वेष सन्देहो मध्यमं शरीरं वैश्वानरस्य ।

दिहेरुपचयार्थत्वान्मांसरुधिरास्थ्यादिभिश्च बहुलं शरीरं तत्सन्देहस्ते तव शरीरं व्यशीर्यच्छीर्णमभविष्यद्यन्मां नाऽगमिष्य इति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य पञ्चदशः खण्डः


=======================================================================


५,१६.१


अथ होवाच बुडिलमाश्वतराश्विम् ।

वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति ।

अप एव भगवो राजन्निति होवाच ।

एष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।

तस्मात्त्वं रयिमान् पुष्टिमानसि ॥ ५,१६.१ ॥


__________



भाष्य ५,१६.१ अथ होवाच बुडिलमाश्वतराश्विमित्यादि समानम् ।

एष वै रयिरात्मा वैश्वानरो धनरूपः ।

अद्भ्योऽन्नं ततो धनमिति ।

तस्माद्रयिमान्धनवांस्त्वं पुष्टिमांश्च शरीरेण॑पुष्टेश्चान्ननिमित्तत्वात् ॥१ ॥



_______________________________________________________________________



५,१६.२


अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।

बस्तिस्त्वेष आत्मन इति होवाच ।

बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ ५,१६.२ ॥


__________



भाष्य ५,१६.२ बस्तिस्त्वेष आत्मनो वैश्वानरस्य बस्तिर्मूत्रसंग्रहस्थानं बस्तिर्मूत्रसंग्रहस्थानं बस्तिस्ते व्यभेत्स्यद्भिन्नोऽभविष्यद्यन्मां नाऽगमिष्य इति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य षोडशः खण्डः


=======================================================================


५,१७.१२


अथ होवाचोद्दालकमारुणिम् ।

गौतम कं त्वमात्मानमुपस्स इति ।

पृथिवीमेव भगवो राजन्निति होवाच ।

एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।

तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ ५,१७.१ ॥


अत्स्यन्नं पश्यसि प्रियम् ।

अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।

पादौ त्वेतावात्मन इति होवाच ।

पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ ५,१७.२ ॥



__________



भाष्य ५,१७.१,२ अथ होवाचोद्दालकमित्यादि समानम् ।

पृथिवीमेव भगवो राजन्निति होवाच ।

एष वै प्रतिष्ठा पादौ वैश्वानरस्य ।

पादौ ते व्यम्लास्येतां विम्लानावभविष्यतां श्लथीभूतौ यन्मां नाऽगमिष्य इति ॥१२ ॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य सप्तदशः खण्डः


=======================================================================

५,१८.१


तान् होवाच ।

एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ ।

यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ।

स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५,१८.१ ॥


__________



भाष्य ५,१८.१ तान्यथोक्तवैश्वानरदर्शनवतो होवाच ।

एते यूयं वै खल्वित्यनर्थकौ ।

यूयं पृथगिवापृथक्सन्तमिममेकं वैश्वानरमात्मानं विद्वांसोऽन्नमत्थ परिच्छिन्नात्मबुद्ध्येत्येतद्धस्तिदर्शन इव जात्यन्धाः ।

यस्त्वेतमेवं यथोक्तावयवैर्द्युमूर्धादिभिः पृथिवीपादान्तैर्विशिष्टमेकं प्रादेशमात्रं प्रादेशैर्द्युमूर्धादिभिः पृथिवीपादान्तैरध्यात्मं मीयते ज्ञायत इति प्रादेशमात्राम् ।

मुखादिषु वा करणेष्वत्तृत्वेन मीयत इति प्रादेशमात्रः ।

द्युलोकादिपृथिव्यन्तप्रदेशपरिमाणो वा प्रादेशमात्रः ।

प्रकर्षेण शास्रेणाऽदिश्यन्त इति प्रादेशा द्युलोकादय एतावत्परिमाणः ।

शाखान्तरे तु मूर्धादिः चिबुकप्रतिष्ठ इति प्रादेशमात्रं कल्पयन्ति ।

इह तु न तथाभिप्रेतः ।

तस्य ह वा एतस्याऽत्मन इत्याद्युपसंहारात् ।

प्रत्यगात्मतयाभिविमीयतेऽहमिति ज्ञायत इत्यभिविमानस्तमेतमात्मानं वैश्वानरं विश्वान्नरान्नयति पुण्यपापानुरूपां गतिं सर्वात्मैष ईश्वरो वैश्वानरो विश्वो नर एव वा सर्वात्मत्वात् ।

विश्वैर्वा नरैः प्रत्यगात्मतया प्रविभज्य नीयत इति वैश्वानरस्तमेवमुपास्ते यः सोऽदन्नन्नादी सर्वेषु लोकेषु द्युलोकादिषु सर्वेषु भूतेषु चराचरेषु सर्वेष्वात्मसु शरीरेन्द्रियमनोबुद्धिषु तेषु ह्यात्मकल्पनाव्यपदेशः प्राणिनामन्नमत्ति वैश्वानरवित्सर्वात्मा सन्नन्नमत्ति ।

न यथाज्ञः पिण्डमात्राभिमानः सन्नित्यर्थः ॥१ ॥



_______________________________________________________________________



५,१८.२


तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमाणि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५,१८.२ ॥


__________



भाष्य ५,१८.२ कस्मादेवम् ।

यस्मात्तस्य ह वै प्रकृतस्यैवैतस्याऽत्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्माऽत्मा सन्देहो बहुलो बस्तिरेव रयिः पृथिव्येव पादौ ।

अथवा विध्यर्थमेतद्वचनमेवमुपास्य इति ।

अथेदानीं वैश्वानरविदो भोजनेऽग्निहोत्रं संपिपादयिषन्नाहएतस्य वैश्वानरस्य भोक्तुरुर एव वेदिराकारसामावन्यात् ।

लोमानि बर्हिर्वेद्यामिवोरसि लोमान्यास्तीर्णानि (न) दृश्यन्ते ।

हृदयं गार्हपत्यो हृदयाद्धि मनः प्रणीतमिवानन्तरी भवत्यतोऽन्वाहार्यपचनोऽग्निर्मनः ।

आस्यं मुखमाहवनीय इवाऽहवनीयो हूयतेऽस्मिन्नन्नमिति ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्याष्टादशः खण्डः


=======================================================================


५,१९.१


तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् ।

स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति ।

प्राणस्तृप्यति ॥ ५,१९.१ ॥


__________



भाष्य ५,१९.१ तत्तत्रैवं सति यद्भक्तं भोजनकाल आगच्छेद्भोजनार्थं तद्धोतव्यम् ।

अग्निहोत्रसम्पन्मात्रस्य विवक्षितत्वान्नाग्निहोत्राङ्गेतिकर्तव्यताप्राप्तिरिह ।

स भोक्ता यां प्रथमामाहुतिं जुहुयात्तां कथं जुहुतादित्याहप्राणाय स्वाहेत्यनेन मन्त्रेणाऽहुतिशब्दादवदानप्रमाणमन्नं प्रक्षिपेदित्यर्थः ।

तेन प्राणस्तृप्यति ॥१ ॥



_______________________________________________________________________



५,१९.२


प्राणे तृप्यति चक्षुस्तृप्यति ।

चक्षुषि तृप्यत्यादित्यस्तृप्यति ।

आदित्ये तृप्यति द्यौस्तृप्यति ।

दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति ।

तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,१९.२ ॥


__________



भाष्य ५,१९.२ प्राणे तृप्यति चक्षुरादित्यो द्यौश्चेत्यादि तृप्यति यच्चान्यद्द्यौश्चाऽदित्यश्च स्वामित्वेनाधितिष्ठतस्तच्च तृप्यति तस्य तृप्तिमनु स्वयं भुञ्जानस्तृप्यत्येवं प्रत्यक्षम् ।

किं च प्रजादिभिश्च ।

तेजः शरीरस्था दीप्तिरुज्ज्वलत्वं प्रागल्भ्यं वा, ब्रह्मवर्चसं वृत्तस्वाध्यायनिमित्तं तेजः ॥२॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकोनविंशः खण्डः


=======================================================================


५,२०.१


अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति ।

व्यानस्तृप्यति ॥ ५,२०.१ ॥


व्याने तृप्यति श्रोत्रं तृप्यति ।

श्रोत्रे तृप्यति चन्द्रमास्तृप्यति ।

चन्द्रमसि तृप्यति दिशस्तृप्यन्ति ।

दिक्षु तृप्यन्तीषु यत्किंच दिशश्चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति ।

तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२०.२ ॥


__________



भाष्य ५,२०.१,२ अथ यां द्वितीयां चतुर्थीं पञ्चमीमिति समानम् ॥१२ ॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य विंशः खण्डः


=======================================================================


५,२१.१२


अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेति ।

अपानस्तृप्यति ॥ ५,२१.१ ॥


अपाने तृप्यति वाक्तृप्यति ।

वाचि तृप्यन्त्यामग्निस्तृप्यति ।

अग्नौ तृप्यति पृथिवी तृप्यति ।

पृथिव्यां तृप्यन्त्यां यत्किं च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति ।

तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२१.२ ॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्यैकविंशः खण्डः


=======================================================================


५,२२.१२


अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति ।

समानस्तृप्यति ॥ ५,२२.१ ॥


समाने तृप्यति मनस्तृप्यति ।

मनसि तृप्यति पर्जन्यस्तृप्यति ।

पर्जन्ये तृप्यति विद्युत्तृप्यति ।

विद्युति तृप्यन्त्यां यत्किं च विद्युच्च  पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति ।

तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२२.२ ॥



इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य द्वाविंशः खण्डः


=======================================================================


५,२३.१२


अथ यां पञ्चमीं जुहुयात्तां जुहुयातुदानाय स्वाहेति ।

उदानस्तृप्यति ॥ ५,२३.१ ॥


उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति ।

वायौ तृप्यत्याकाशस्तृप्यति ।

आकाशे तृप्यति यत्किंच वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति ।

तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२३.२ ॥



इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य त्रयोविंशः खण्डः



_______________________________________________________________________



५,२४.१


स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५,२४.१ ॥


__________



भाष्य ५,२४.१ स यः कश्चिदिदं वैश्वानरदर्शनं यथोक्तमविद्वान्सन्नग्निहोत्रं प्रसिद्धं जुहोति यथाङ्गारानाहुतियोग्यानपोह्यानाहुतिस्थाने भस्मनि जुहुयात्तादृक्तत्तुल्यं तस्य तदग्निहोत्रहवनं स्याद्वैश्वानरविदोऽग्निहोत्रमपेक्ष्येति प्रसिद्धाग्निहोत्रनिन्दया वैश्वानरविदोऽग्निहोत्रं स्तूयते ॥१ ॥



_______________________________________________________________________



५,२४.२


अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५,२४.२ ॥


__________



भाष्य ५,२४.२ अतश्चैतद्विशिष्टमग्निहोत्रम् ।

कथम् ।

अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य यथोक्तवैश्वानरविज्ञानवतः सर्वेषु लोकेष्वित्याद्युक्तार्थम् ।

हुतमन्नमत्तीत्यनयोरेकार्थत्वात् ॥२ ॥



_______________________________________________________________________



५,२४.३


तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५,२४.३ ॥


__________



भाष्य ५,२४.३ किञ्च तद्यथेषीकायास्तूलमग्रमग्नौ प्रोतं प्रक्षिप्तं प्रदूयेत प्रदह्येत क्षिप्रमेवं हास्य विदुषः सर्वात्मभूतस्य सर्वान्नानामत्तुः सर्वे निरवशिष्टाः पाप्मानो धर्माधर्माख्या अनेकजन्मसञ्चिता इह च प्राग्ज्ञानोत्पत्तेर्ज्ञानसहभाविनश्च प्रदूयन्ते प्रदह्येरन्वर्तमानशरीरारम्भकपाप्मवर्जं, लक्ष्यं प्रति मुक्तेषुवत्प्रवृत्तफलत्वात्तस्य न दाहः ।

य एतदेवं विद्वानग्निहोत्रं जुहोति भुङ्क्ते ॥३ ॥


_______________________________________________________________________



५,२४.४


तस्मादु हैवंविद्यद्यपि चण्डालाय उच्छिष्टं प्रयच्छेत् ।

आत्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति ।

तदेष श्लोकः ॥ ५,२४.४ ॥


__________



भाष्य ५,२४.४ स यद्यपि चण्डालायोच्छिष्टानर्हायोच्छिष्टं प्रयच्छेदुच्छिष्टं दद्यात्प्रतिषिद्धमुच्छिष्टदानं यद्यपि कुर्यादात्मनि हैवास्य चण्डालहेहस्थे वैश्वानरे तद्धुतं स्यान्नाधर्मनिमित्तमिति विद्यामेव स्तौति ।

तदेतस्मिन्स्तुत्यर्थे श्लोको मन्त्रोऽप्येष भवति ॥४ ॥



_______________________________________________________________________



५,२४.५


यथेह क्षुधिता बाला मातरं पर्युपासते ।

एवं सर्वाणि भूतान्यग्निहोत्रमुपासत ॥ ५,२४.५ ॥


__________



भाष्य ५,२४.५ यथेह लोके क्षुधिता बुभुक्षिता बाला मातरं पर्युपासते कदा नो मातान्नं प्रयच्छतीत्येवं सर्वाणि भूतान्यन्नादान्येवंविदोऽग्निहोत्रं भोजनमुपासते कदा त्वसौ भोक्ष्यत इति, जगत्सर्वं विद्वद्भोजनेन तृप्तं भवतीत्यर्थः ।

द्विरुक्तिरध्यायपरिसमाप्त्यर्था ॥५ ॥ ॥


इति च्छान्दोग्योपनिषदि पञ्चमाध्यायस्य चतुर्विंशः खण्डः

इति च्छान्दोग्योपनिषद्ब्राह्मणे पञ्चमोध्यायः समाप्तः



_____________________________________________________________



अथ षष्ठोध्यायः



_______________________________________________________________________



६,१.१


श्वेतकेतुर्हारुणेय आस ।

तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् ।

न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६,१.१ ॥


__________



भाष्य ६,१.१

श्वेतकेतुर्हाऽरुणेय आसेत्याद्यध्यायसम्बन्धः ।

सर्वं खल्विदं ब्रह्म तज्जलानित्युक्तं कथं तस्माज्जगदिदं जायते तस्मिन्नेव च लीयतेऽनिति च तेनैवेत्येतद्वक्तव्यम् ।

अनन्तरं चैकस्मिन्भुक्ते विदुषि सर्वं जगत्तृप्तं भवतीत्युक्तं तदेकत्वे सत्यात्मनः सर्वभूतस्थस्योपपद्यते नाऽत्मभेदे ।

कथं च तदेकत्वमिति तदर्थोऽयं षष्ठोऽध्याय आरभ्यते ।

पितापुत्राख्यायिका विद्यायाः सारिष्ठत्वप्रदर्शनार्था ।

श्वेतकेतुरिति नामतो हेत्यैतिह्यार्थः आरुणेयोऽरुणस्य पौत्र आस बभूव ।

तं पुत्रं हाऽरुणिः पिता योग्यं विद्याभाजनं मन्वानस्तस्योपनयनकालात्ययं च पश्यन्नुवाच हे श्वेतकेतोऽनुरूपं गुरुं कुलस्य नो गत्वा वस ब्रह्मचर्यम् ।

न चैतद्युक्तं यदस्मत्कुलीनो हे सोम्याननूच्यानधीत्य ब्रह्मबन्धुरिव भवतीति ब्राह्मणान्बन्धून्व्यपदिशति न स्वयं ब्राह्मणवृत्त इति ॥१ ॥



_______________________________________________________________________



६,१.२


स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय ।

तं ह पितोवाच ॥ ६,१.२ ॥


__________



भाष्य ६,१.२ तस्यातः प्रवासोऽनुमीयते पितुः ।

येन स्वयं गुणवान्सन्पुत्रं नोपनेष्यति ।

स पित्रोक्तः श्वेतकेतुर्ह द्वादशवर्षः सन्नुपेत्याऽचार्यं यावच्चतुविंशतिवर्षो बभूव तावत्सर्वान्वेदांश्चतुरोऽप्यधीत्य तदर्थं च बुद्ध्वा महामना महद्गम्भीरं मनो यस्यासममात्मानमन्यैर्मन्यमानं मनो यस्य सोऽयं महामनाः अनूचानमान्यनूचानमात्मानं मन्यत इत्येवंशीलो यः सोऽनूचानमानी स्तब्धोऽप्रणतस्वभाव एयाय गृहम् ।

तमेवंभूतं हाऽत्मनोऽननुरूपशीलं स्तब्धं मानिनं पुत्रं दृष्ट्वा पितोवाच सद्धर्मावतारचिकीर्षया ।

श्वेतकेतो यन्निवदं महामना अनूचानमानी स्तब्धश्चासि कस्तेऽतिशयः प्राप्त उपाध्यायात्?उतापि तमादेशमादिश्यत इत्यादेशः केवलशास्राचार्योपदेशगम्यमित्येतद्येन वा परं ब्रह्माऽदिश्यते स आदेशस्तमप्राक्ष्यः पृष्टवानस्याचार्यम् ॥२ ॥



_______________________________________________________________________



६,१.३


श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽसि ।

उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ।

कथं नु भगवः स आदेशो भवतीति ॥ ६,१.३ ॥


__________



भाष्य ६,१.३ तमादेशं विशिनष्टियेनाऽदेशेन श्रुतेनाश्रुतमप्यन्यच्छतं भवत्यमतं मतमतर्कितं तर्कितं भवत्यविज्ञानं विज्ञातमनिश्चितं निश्चितं भवतीति ।

सर्वानपि वेदानधात्य सर्वं चान्यद्वेद्यमधिगम्याप्यकृतार्थ एव भवति यावदात्मतत्त्वं न जानातीत्याख्यायिकातोऽवगम्यते ।

तदेतदद्भुतं श्रुत्वाऽहकथं न्वेतदप्रसिद्धमन्यविज्ञानेनान्यद्विज्ञातं भवतीत्येवं मन्वानः पृच्छति कथं नु केन प्रकारेण हे भगवः स आदेशो भवतीति ॥३ ॥



_______________________________________________________________________



६,१.४


यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् ।

वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६,१.४ ॥


__________



भाष्य ६,१.४ यथा स आदेशो भवति तच्छृणु हे सोम्य ।

यथा लोक एकेन मृत्पिण्डेन घटशरावादिकारणभूतेन विज्ञातेन सर्वमन्यद्विकारजातं मृन्मयं मृद्विकारजातं विज्ञातं स्यात् ।

कथं मृत्पिण्डे कारणे विज्ञाते कार्यमन्यद्विज्ञातं स्यात् ।

नैष दोषः ।

कारणेनानन्यत्वात्कार्यस्य ।

यन्मन्यसेऽन्यस्मिन्विज्ञातेऽन्यन्न ज्ञायत इति ।

सत्यमेवं स्यात् ।

यद्यन्यत्कारणात्कार्यं स्यान्न त्वेवमन्यत्कारणात्कार्यम् ।

कथं तर्हिदं लोक इदं कारणमयस्य विकार इति ।

शृणु ।

वाचाऽरम्भणं वागारम्भणं वागालम्बनमित्येतत् ।

कोऽसौ विकारो नामधेयं नामैव नामधेयं स्वार्थे धेयप्रत्ययः ।

वागालम्बनमात्रं नामैव केवलं न विकारो नाम वस्त्वस्ति परमार्थतो मृत्तिकेत्येव तु मृत्तिकेत्येव तु मृत्तिकैव सत्यं वस्त्वस्ति ॥४ ॥



_______________________________________________________________________



६,१.५


यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।

वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६,१.५ ॥


__________



भाष्य ६,१.५ यथा सौम्यैकेन लोहमणिना सुवर्णपिण्डेन सर्वमन्यद्विकारजातं कटकमुकुटकेयूरादि विज्ञातं स्यात् ।

वाचाऽरम्भणमित्यादि समानम् ॥५ ॥



_______________________________________________________________________



६,१.६७


यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् ।

वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम् ।

एवं सोम्य स आदेशो भवतीति ॥ ६,१.६ ॥


न वै नूनं भगवन्तस्त एतदवेदिषुः ।

यद्ध्येतदवेदिष्यन् कथं मे नावक्ष्यन् ।

इति भगवांस्त्वेव मे ब्रवीत्विति ।

तथा सोम्येति होवाच ॥ ६,१.७ ॥


__________



भाष्य ६,१.६,७ यथा सौम्यैकेन नखनिकृन्तनेनोपलक्षितेन कृष्णायसपिण्डेनेत्यर्थः ।

सर्वं कार्ष्णायसं कृष्णायसविकारजातं विज्ञातं स्यात् ।

समानमन्यत् ।

अनेकदृष्टान्तोपादानं दार्ष्टान्तिकारेकभेदानुगमार्थं दृढप्रतीत्यर्थं च ।

एवं सोम्य स आदेशो यो मयोक्तो भवतीत्युक्तवति पितर्याहेतरो न वै नूनं भगवन्तः पूजावन्तो गुरवो मम ये त एतद्यद्भवदुक्तं वस्तु नावेदिषुर्न विज्ञातवन्तो नूनम् ।

यद्यदि ह्यवेदिष्यन् विदितवन्त एतद्वस्तु कथं मे गुणवते भक्तायानुगताय नावक्ष्यन्नोक्तवन्तस्तेनाहं मन्ये न विदितवन्त इति ।

अवाच्यमपि गुरोर्न्यग्भावमवादीत्पुनर्गुरुकुलं प्रति प्रेषणभयात् ।

अतो भगवांस्त्वेव मे मह्यं तद्वस्तु येन सर्वज्ञत्वं ज्ञातेन मे स्यात्तद्ब्रवीतु कथयत्वित्युक्तः पितोवाच तथास्तु सौम्येति ॥६७ ॥

इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य प्रथमः खण्डः


=======================================================================


६,२.१


सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।

तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् ।

तस्मादसतः सज्जायत ॥ ६,२.१ ॥


__________



भाष्य ६,२.१ सदेव सदित्यस्तितामात्रं वस्तु सूक्ष्मं निर्विशेषं सर्वगतमेकं निरञ्जनं निरवयवं विज्ञानं यदवगम्यते सर्ववेदान्तेभ्यः ।

एवशब्दोऽवधारणार्थः ।

किं तदवध्रियत इत्याह ।

इदं जगन्नामरूपक्रियावद्विकृतमुपलभ्यते यत्तत्सदेवाऽसीदित्यासीच्छब्देन सम्बध्यते ।

कदा सदेवेदमासीदित्युच्ते ।

अग्रे जगतः प्रागुत्पत्तेः ।

किं नेदानीमिदं यद्येनाग्र आसीदिति विशेष्यते ।

न, कथं तर्हि विशेषणम् ।

इदानीमपीदं सदेव किन्तु नामरूपविशेषणवदिदंशब्दबुद्धिविषयं चेतीदं च भवति ।

प्रागुत्पत्तेस्त्वग्रे केवलसच्छब्दबुद्धिमात्रगम्यमेवेति सदेवेदमग्र आसीदित्यवधार्यते ।

न हि प्रागुत्पत्तेर्नामवद्रूपवद्वेदमिति ग्रहीतुं शक्यं वस्तु सुषुप्तकाल इव ।

यथा सुषुप्तादुत्थितः सत्त्वमात्रमवगच्छति सुषुप्ते सन्मात्रमेव केवलं वस्त्विति तथा प्रागुत्पत्तेरित्यभिप्रायः ।

यथेदमुच्यते लोके पूर्वाह्ने घटादि सिसृक्षुणा कुलालेन मृत्पिण्डं प्रसारितमुपलभ्य ग्रामान्तरं गत्वा प्रत्यागतोऽपराह्ने तत्रैव घटशरावाद्यनेकभेदभिन्नं कार्यमुपलभ्य मृदेवेदं घटशरावादि केवलं पूर्वाह्ने आसीदिति तथेहाप्युच्यते सदेवेदमग्र आसीदिति ।

एकमेवेति ।

स्वकार्यपतितमन्यन्नास्तीत्येकमेवेत्युच्यते ।

अद्वितीयमिति ।

मृद्व्यतिरेकेण मृदो यथान्यद्घटाद्याकारेण परिणमयितृकुलालादिनिमित्तकारणं दृष्टं तथा सद्व्यतिरेकेण सतः सहकारिकारणं द्वितीयं वस्त्वन्तरं प्राप्तं प्रतिषिध्यतेऽद्वितीयमिति ।

नास्य द्वितीयं वस्त्वन्तरं विद्यत इत्यद्वितीयम् ।

ननु वेशेषिकपक्षेऽपि सत्सामानाधिकरम्यं सर्वस्योपपद्यते ।

द्रव्यगुणादिषु सच्छब्दबुद्ध्यनुवृत्तेः ।

सद्द्रव्यं सन्गुणः सत्कर्मेत्यादिदर्शनात् ।

सत्यमेवं स्यादिदानीं प्रागुत्पत्तेस्तु नैवेदं कार्यं सदेवाऽसीदित्यभ्युपगम्यते वैशेषिकैः प्रागुत्पत्तेः कार्यस्यासत्त्वाभ्युपगमात् ।

न चैकमेव सदद्वितीयं प्रगुत्पत्तेरिच्छन्ति ।

तस्माद्वैशेषिकपरिकल्पितात्सतोऽन्यत्कारणमिदं सदुच्यते मृदादिदृष्टान्तेभ्यः ।

तत्तत्र हैतस्मिन्प्रागुत्पत्तेर्वस्तुनिरूपण एके वैनाशिका आहुर्वस्तु निरूपयन्तोऽसत्सदभावमात्रं प्रागुत्पत्तेरिदं जगदेकमेवाग्रेऽद्वितीयमासीदिति ।

सदभावमात्रं हि प्रागुत्पत्तेस्तत्त्वं कल्पयन्ति बौद्धाः ।

न तु सत्प्रतिद्वन्द्वि वस्त्वन्तरमिच्छन्ति ।

यथा सच्चासदिति गृह्यमामं यथाभूतं तद्विपरीतं तत्त्वं भवतीति नैयायिकाः ।

ननु सदभावमात्रं प्रागुत्पत्तेश्चेदभिप्रेतं वैनाशिकैः कथं प्रागुत्पत्तेरिदमासीदसदेकमेवाद्वितीयं चेति कालसम्बन्धः संख्यासम्बन्धोऽद्वितीयत्वं चोच्यते तैः ।

बाढं न युक्तं तेषां भावाभावमात्रमभ्युपगच्छताम् ।

असत्तवमात्राभ्युपगमोऽप्ययुक्त एवाभ्युपगन्तुरनभ्युपगमानुपपत्तेः ।

इदानीमभ्युपगन्ताभ्युपगम्यते न प्रागुत्पत्तेरिति चेत् ।

न ।

प्रागुत्पत्तेः सदभावस्य प्रमाणाभावात्प्रागुत्पत्तेरसदेवेतिकल्पनानुपपत्तिः ।

ननु कथं वस्त्वाकृतेः शब्दार्थत्वेऽसदेकमेवाद्वितीयमितिपदार्थवाक्यार्थोपपत्तिः?तदनुपपत्तौ चेदं वाक्यमप्रमाणं प्रसज्येतेति चेति ।

नैष दोषः ।

सद्ग्रहणनिवृत्तिपरत्वाद्वाक्यस्य ।

सदित्ययं तावच्छब्दः सदाकृतिवाचकः ।

एकमेवाद्वितीयमित्येतौ च सच्छब्देन समानाधिकरणौ ।

तथेदमासीदिति च ।

तत्र नञ्सद्वाक्ये प्रयुक्तः सद्वाक्यमेवावलम्ब्य सद्वाक्यार्थविषयां बुद्धिं सदेकमेवाद्वितीयमिदमासीदित्येवंलक्षणां ततः सद्वाक्यार्थान्निवर्तयत्यश्वारूढ इवाश्वालम्बनोऽश्वं तदभिमुखविषयान्निवर्तयति तद्वत् ।

न तु पुनः सदभावमेवाभिधत्तेः ।

अतः पुरुषस्य विपरीतग्रहणनिवृत्त्यर्थपरमिदमसदेवेत्यादि वाक्यं प्रयुज्यते ।

दर्शयित्वा हि विपरीतग्रहणं ततो निवर्तयितुं शक्यत इत्यर्थवत्त्वादसदादिवाक्यस्य श्रौतत्वं प्रामाण्यं च सिद्धमित्यदोषः ।

तस्मादसतः सर्वाभावरूपात्सद्विद्यमानमजायत समुत्पन्नम् ।

अडभावश्छान्दसः ॥१ ॥



_______________________________________________________________________


६,२.२


कुतस्तु खलु सोम्यैवं स्यादिति होवाच ।

कथमसतः सज्जायेत ।

सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ ६,२.२ ॥


__________



भाष्य ६,२.२ तदेतद्विपरीतग्रहणं महावैनाशिकपक्षं दर्शयित्वा प्रतिषेधतिकुतस्तु प्रमाणात्खलु हे सोम्यैवं स्यादसतः सज्जायतेत्येवं कुतो भवेन्न कुतश्चित्प्रमाणादेवं सम्भवतीत्यर्थः ।

यदपि बीजोपमर्देऽङ्कुरो जायमानो दृष्टोऽभावदेवेति तदप्यभ्युपगमविरुद्धं तेषाम् ।

कथम् ।

ये तावद्बीजावयवा बीजसंस्थानविशिष्टास्तेऽङ्कुरेऽप्यनुवर्तन्त एव न तेषामुपमर्देऽङ्कुरजन्मनि ।

यत्पुनर्बीजाकारसंस्थानं तद्बीजावयवव्यतिरेकेण वस्तुभूतं न वैनाशिकैरभ्युपगम्यते यदङ्कुरजन्मन्युपमृद्येत ।

अथ तदस्त्यवयवव्यतिरिक्तं वस्तुभूतं तथा च सत्यभ्युपगमविरोधः ।

अथ संवृत्याभ्युपगतं बीजसंस्थानरूपमुपमृद्यत इति चेत् ।

केयं संवृतिर्नाम किमसावभाव उत भाव?इति ।

यद्यभावो दृष्टान्ताभावः ।

अथ भावस्तथापि नाभावादङ्कुरोत्पत्तिर्बीजावयवेभ्यो ह्यङ्कुरोत्पत्तिः ।

अवयवा अप्युपमृद्यन्त इति चेत् ।

न ।

तदवयवेषु तुल्यत्वात् ।

यथा वैनाशिकानां बीजसंस्थानरूपोऽवयवी नास्ति तथावयवा अपीति तेषामप्युपमर्दानुपपत्तिः ।

बीजावयवानामपि सूक्ष्मावयवास्तदवयवानामप्यन्ये सूक्ष्मतरावयवा इत्येवं प्रसङ्गस्यानिवृत्तेः सर्वत्रोपमर्दानुपपत्तिः ।

सद्बुद्ध्यनुवृत्तेः सत्त्वानिवृत्तिश्चेति सद्वादिनां सत एव सदुत्पत्तिः सेत्स्यति ।

न त्वसद्वादिनां दृष्टान्तोऽस्त्यसतः सदुत्पत्तेः ।

मृत्पिण्डाद्घटोत्पत्तिर्दृश्यते सद्वादिनां तद्भावे भावात्तदभावे चाभावात् ।

यद्यभावादेव घट उत्पद्येत घटार्थिना मृत्पिण्डो नोपादीयेत ।

अभावशब्दबुद्ध्यनुवृत्तिश्च घटादौ प्रसज्येत ।

न त्वेतदस्त्यतो नासतः सदुत्पत्तिः ।

यदप्याहुर्मृद्बुद्धिर्घटबुद्धेर्निमित्तमिति मृद्बुद्धिर्घटबुद्धेः कारणमुच्यते न तु परमार्थत एव मृद्घटो वास्तीति तदपि मृद्बुद्धिर्विद्यमाना विद्यमानाया एव घटबुद्धेः कारणमिति नासतः सदुत्पत्तिः ।

मृद्घटबुद्ध्योर्निमित्तनैमित्तिकतयाऽनन्तर्यमात्रं न तु कार्यकारणत्वमिति चेत् ।

न ।

बुद्धीनां नैरन्तर्ये गम्यमाने वैनाशिकानां बहिर्दृष्टान्ताभावात् ।

अतः कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथं केन प्रकारेणासतः सज्जायेतेति ।

असतः सदुत्पत्तौ न कश्चिदपि दृष्टान्तप्रकारोऽस्तीत्यभिप्रायः ।

एवमसद्वादिपक्षमुन्मध्योपसंहरति सत्त्वेव सोम्येदमग्र आसीदिति स्वपक्षसिद्धिम् ।

ननु सद्वादिनोऽपि सतः सदुत्पद्यत इति नैव दृष्टान्तोऽस्ति ।

घटाद्घटान्तरोत्पत्त्यदर्शनात् ।

सत्यमेवं न सतः सदन्तरमुत्पद्यते किं तर्हि सदेव संस्थानान्तरेणावतिष्ठते ।

यथा सर्पः कुण्डली भवति ।

यथा च मृच्चूर्णपिण्डघटकपालादिप्रभेदैः ।

यद्येवं सदेव सर्वप्रकारवस्थं कतं प्रागुत्पत्तेरिदमासीदिति ।

उच्यते ।

ननु न श्रुतं त्वया सदेवेत्यव धारणमिदंशब्दवाच्यस्य कार्यस्य ।

प्राप्तं तर्हि प्रागुत्पत्तेरसदेवाऽसीन्नेदंशब्दवाच्यमिदानीमिदं जातमिति ।

न ।

सत एवेदंशब्दबुद्धिविषयतयावस्थानाद्यथा मृदेव पिण्डघटादिशब्दबुद्धिविषयत्वेनावतिष्ठते तद्वत् ।

ननु यथा मृद्वस्त्वेवं पिण्डघटाद्यपि तद्वत्सद्बुद्धेरन्यबुद्धिविषयत्वात्कार्यस्य सतोऽन्यद्वस्त्वन्तरं स्यात्कार्यजातं यथाश्वाद्गौः ।

न ।

पिण्डघटादीनामितरेतरव्यभिचारेऽपि मृत्त्वाव्यभिचारात् ।

यद्यपि घटः पिण्डं व्यभिचरति पिण्डश्च घटं तथापि मृत्तवं न व्यभिचरतस्तस्मान्मृन्मात्रं पिण्डघटौ ।

(व्यभिचरति त्वश्वं गौरश्वो वा गाम्) ।

तस्मान्मृदादिसंस्थानमात्रं घटादयः ।

एवं सत्संस्थानमात्रमिदं सर्वमिति युक्तं प्रागुत्पत्तेः ।

सदेवेति ।

वाचारम्भणमात्रत्वाद्विकारसंस्थानमात्रस्य ।

ननु निरवयवं सत्"निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं" "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यज"इत्यादिश्रुतिभ्यो निरवयवस्य सतः कथं विकारसंस्थानमुपपद्यते ।

नैष दोषः ।

रज्ज्वाद्यवयवेभ्यः सर्पादिसंस्थानवद्बुद्धिपारिकल्पितेभ्यः सदवयवेब्यो विकारसंस्थानोपपत्तेः ।

वाचाऽरम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमेवं सदेव सत्यमिति श्रुतेः ।

एकमेवाद्वितीयं परमार्थत इदंबुद्धिकालेऽपि ॥२ ॥



_______________________________________________________________________



६,२.३


तदैक्षत ।

बहु स्यां प्रजायेयेति ।

तत्तेजोऽसृजत ।

तत्तेज ऐक्षत ।

बहु स्यां प्रजायेयेति ।

तदपोऽसृजत ।

तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ६,२.३ ॥

__________



भाष्य ६,२.३ तत्सदैक्षतेक्षां दर्शनं कृतवत् ।

अतश्च न प्रधानं सांख्यपरिकल्पितं जगत्कारणम् ।

प्रधानस्याचेतनत्वाभ्युपदमात् ।

इदं तु सच्चेतनमीक्षितृत्वात् ।

तत्कथमैक्षतेत्याहबहु प्रभूतं स्यां भवेयं प्रजायेत प्रकर्षेणोत्पद्येय ।

यथा मृद्घटाद्याकरेण यथा वा रज्जवादि सर्पाद्याकारेण बुद्धिपरिकल्पितेन ।

असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकारेण बुद्धिपरिकल्पितेन ।

असदेव तर्हि सर्वं यद्गृह्यते रज्जुरिव सर्पाद्याकरेण ।

न ।

सत एव द्वैतभेदेनान्यथागृह्यमाणत्वान्नासत्त्वं कस्यचित्क्वचिदिति ब्रूमः ।

यथा सतोऽन्यद्वस्त्वन्तरं परिकल्प्य पुनस्तस्यैव प्रागुत्पत्तेः प्रध्वंसाच्चोर्ध्वमसत्त्वं ब्रुवते तार्किका न तथास्माभिः कदाचित्क्वचिदिपि सतोऽन्यदभिधानमभिधेयं वा वस्तु परिकल्प्यते ।

सदेव तु सर्वमभिधानमभिधीयते च यदन्यबुद्ध्या ।

तथा रज्जुरेव सर्पबुद्ध्या सर्प इत्यभिधीयते यथा वा पिण्डघटादि मृदोऽन्यबुद्ध्या पिण्डघटादिशब्देनाभिधीयते लोके ।

रज्जुविवेकदर्शिनां तु सर्पाभिधानबुद्धी निवर्तेते यथा च मृद्विवेकदर्शिनां घटादिशब्दबुद्धी तद्वत्सद्विवेकदर्शिनामन्यविकारशब्दबुद्धी निवर्तेते ।

"यतो वाचो निवर्तन्ते ।

अप्राप्य मनसा सहे"ति"अनिरुक्तेऽनिलयन"इत्यादिश्रुतिभ्यः ।

एवमीक्षित्वा तत्तेजोऽसृजत तेजः सृष्टवत् ।

ननु तस्माद्वा एतस्मादात्मन आकाशः संभूत इति श्रुत्यन्तर आकाशाद्वायुस्ततस्तृतीयं तेजः श्रुतमिह तु कथ प्राथम्येन तस्मादेव तेजः सृज्यते तत एव चाऽकाशमिति विरुद्धम् ।

नैष दोषः ।

आकाशवायुसर्गानन्तरं तत्सत्तेजोऽसृजतेतिकल्पनोपपत्तेः ।

अथ वाविवक्षित इह सृष्टिक्रमः सत्कार्यमिदं सर्वमतः सदेकमेवाद्वितीयमित्येतद्विवक्षितम् ।

मृदादिदृष्टान्तात् ।

अथवा त्रिवृत्करणस्य विवक्षितत्वात्तेजोबन्नानामेव सृष्टिमाचष्टे ।

तेज इति प्रसिद्धं लोके दग्धृ पक्तृ प्रकाशकं रोहितं चेति ।

तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः ।

बहु स्यां प्रजायेयेति पूर्ववत् ।

तदपोऽसृजत ।

आपो द्रवाः स्निग्धाः स्यन्दिन्यः शुक्लाश्चेति प्रसिद्धा लोके ।

यस्मात्तेजसः कार्यभूता आपस्तस्माद्यत्र क्वच देशे काले वा शोचति सन्तप्यते स्वेदते प्रस्विद्यते वा पुरुषस्तेजस एव तत्तदाऽपोऽधिजायन्ते ॥३॥



६.२.४ ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥४॥


__________


भाष्य ६,२.४ ता आप ऐक्षन्त पूर्ववदेवाबाकारसंस्थितं सदैक्षतेत्यर्थः ।

बह्वयः प्रभूताः स्याम भवेम प्रजायेमहि उत्पद्येमहोति ।

ता अन्नमसृजन्त पृथिवीलक्षणम् ।

पार्थिवं ह्यन्नं यस्मादप्कार्यमन्नं तस्माद्यत्र क्व च वर्षति देशे तत्तत्रैव भूयिष्ठं प्रबूतमन्नं भवति ।

अतोऽद्भ्य एव तदन्नाद्यमधिजायते ।

ता अन्नमसृजन्तेति पृथिव्युक्ता पूर्वमिह तु दृष्टान्तेऽन्नं च तदाद्यं चेति विशेषणाद्व्रीहियवाद्या उच्यन्ते ।

अन्नं च गुरु स्थिरं धारणं कृष्ण

ं च रूपतः प्रसिद्धम् ।

ननु तेजः प्रभृतिष्वीक्षणं न गम्यते हिंसादिप्रतिषेधाभावात्त्रासादिकार्यानुपलम्भाच्च तत्र कथं तत्तेज ऐक्षतेत्यादि ।

नेष दोषः ।

ईक्षितृकारणपरिणामत्वात्तेजः प्रभृतीनां सत इवेक्षितुर्नियतक्रमविशिष्टकार्योत्पादकत्वात्तेजः प्रभृतीक्षत इवेक्षत इत्युच्यते भूतम् ।

ननु सतोऽप्युपचरितमेवेक्षितृत्वम् ।

न ।

सदीक्षणस्य केवलशब्दगम्यत्वान्न शक्यमुपचरितं कल्पयितुम् ।

तेजः प्रभृतीनां त्वनुमीयते मुख्येक्षणाभाव इति युक्तमुपचरितं कल्पयितुम् ।

ननु सतोऽपि मृद्वत्कारणत्वादचेतनत्वं शक्यमनुमातुम् ।

अतः प्रधानस्यैवाचेतनस्य सतश्चेतनार्थत्वान्नियतकालक्रमविशिष्टकार्योत्पादकत्वाच्चैक्षतेवैक्षतेति शक्यमनुमातुमुपचरितमेवेक्षणम् ।

दृष्टश्च लोकेऽचेतने चेतनवदुपचारः ।

यथा कूलं पिपतिषतीति तद्वत्सतोऽपि स्यात् ।

न ।

तत्सत्यं स आत्मेति तस्मिन्नात्मोपदेशात् ।

आत्मोपदेशोऽप्युपचरित इति चेद्यथा ममाऽत्मा भद्रसेन इति आत्मनः सर्वार्थकारिण्यनात्मन्यात्मोपचारस्तद्वत् ।

न ।

सदस्मीति सत्सत्याभिसन्धस्य"तस्य तावदेव चिरम्" इति मोक्षोपदेशात् ।

सोऽप्युपचार इति चेत् ।

प्रधानात्माभिसन्धस्य मोक्षसामीप्यं वर्तत इति मोक्षोपदेशोऽप्युपचरित एव ।

यथा लोके ग्रामं गन्तुं प्रस्थितः प्राप्तवानहं ग्राममिति ब्रूयात्त्वरापेक्षया तद्वत् ।

न ।

येन विज्ञातेनाविज्ञातं विज्ञातं भवतीत्युपक्रमात् ।

सत्येतस्मिन्विज्ञाते सर्वं विज्ञातं भवति तदनन्यत्वात्सर्वस्याद्वितीयवचनाच्च ।

न चान्यद्विज्ञातव्यमवशिष्टं श्रावितं श्रुत्यानुमेयं वा लिङ्गतोऽस्ति येन मोक्षोपदेश उपचरितः स्यात् ।

सर्वस्य च प्रपाठकार्थस्योपचरितत्वपरिकल्पनायां वृथा श्रमः परिकल्पयितुः स्यात्पुरुषार्थसाधनविज्ञानस्य तर्केणैवाधिगतत्वात्तस्य ।

तस्माद्वेदप्रामाण्यान्न श्रुतार्थपरित्यागः ।

अतश्चेतनावत्कारणं जगत इति सिद्धम् ॥४॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वितीयः खण्डः


=======================================================================


६,३.१


तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६,३.१ ॥


__________



भाष्य ६,३.१ तेषां जीवाविष्टानां खल्वेषां पक्ष्यादीनां भूतानामेषामिति प्रत्यक्षनिर्देशान्न तु तेजःप्रभृतीनां तेषां त्रिवृत्करणस्य वक्ष्यमाणत्वादसति त्रिवृत्करमे प्रत्यक्षनिर्देशानुपपत्तिः ।

देवताशब्दप्रयोगाच्च तेजः प्रभृतिष्विमास्तिस्रो देवता इति ।

तस्मात्तेषां भूतानां पक्षिपशुस्थावरादीनां त्रीण्येव नातिरिक्तानि बीजानि कारणानि भवन्ति ।

कानि तानीत्युच्यन्ते ।

आण्डजमण्डाज्जातमण्डजमण्डजमेवाऽण्डजं पक्ष्यादि ।

पक्षिसर्पादिभ्यो हि पक्षिसर्पादयो जायमाना दृश्यन्ते ।

तेन पक्षी पक्षिणां बीजं सर्पः सर्पाणां तथान्यदप्यण्डाज्जातं तज्जातीयानां बीजमित्यर्थः ।

नन्वण्डाज्जातमण्डजमुच्यतेऽतोऽण्डमेव बीजमिति युक्तं कथमण्डजं बीजमुच्यते ।

सत्यमेवं स्याद्यदि त्वदिच्छातन्त्रा श्रुतिः स्यात्स्तवतन्त्रा तु श्रुतिर्यत आहाऽण्डजाद्येव बीजं नाण्डादीति ।

दृश्यते चाण्डजाद्यभावे तज्जातीयसन्तत्यभावो नाण्डाद्यभावे ।

अतोऽण्डजादीन्येव बीजान्यण्डजादीनाम् ।

तथा जीवाज्जातं जीवजं जरायुजमित्येतत्पुरुषपश्वादि ।

उद्भिज्जमुद्भिनत्तीत्युद्भित्स्थावरं ततो जातमुद्भिज्जं धाना वोद्भित्ततो जायत इत्युद्भिज्जं स्थावरबीजं स्थावराणां बीजमित्यर्थः ।

स्वेदजसंशोकजयोरण्डजोद्भिज्जयोरेव यथासम्भवमन्तर्भावः ।

एवं ह्यवधारणं त्रीण्येव बीजानीत्युपपन्नं भवति ॥१ ॥



_______________________________________________________________________



६,३.२


सेयं देवतैक्षत ।

हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६,३.२ ॥


__________



भाष्य ६,३.२ सेयं प्रकृता सदाख्या तेजोबन्नयोनिर्देवतोक्तैक्षतेक्षितवती यथापूर्वं बहु स्यामिति ।

तदेव बहुभवनं प्रयोजनं नाद्यापि निर्वृत्तमित्यत ईक्षां पुनः कृतवती बहुभवनमेव प्रयोजनमुररीकृत्य ।

कथम् ।

हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवता, अनेन जीवेनेति, स्वबुद्धिस्थं पूर्वसृष्ट्यनुभूतप्राणधाराणमात्मानमेव स्मरन्त्याहानेन जीवेनाऽत्मनेति ।

प्राणधारणकर्त्राऽत्मनेति वचनात्स्वात्मनोऽव्यतिरिक्तेन चैतन्यस्वरूपतयाविशिष्टेनेत्येतद्दर्शयति ।

अनुप्रविश्य, तेजोबन्नभूतमात्रासंसर्गेण लब्धविशेषविज्ञाना सती, नाम च रूपं च नामरूपे व्याकरवाणि विस्पष्टमाकरवा"ण्यसौनामायमिदंरूप"इति व्याकुर्यामित्यर्थः ।

ननु न युक्तमिदमसंसारिण्याः सर्वज्ञाया देवताया बुद्धिपूर्वकमनेकशतसहस्रानर्थाश्रयं देहमनुप्रविश्य दुःखमनुभविष्यामीति सङ्कल्पनमनुप्रवेशश्च स्वातन्त्र्ये सति ।


सत्यमेवं न युक्तं स्याद्यदि स्वेनैवाविकृतेन रूपेणानुप्रविशेयं दुःखमनुभवेयमिति च सङ्कल्पितवती न त्वेवम् ।

कथं तर्हि ।

अनेन जीवेनाऽत्मनानुप्रविश्येति वचनात् ।

जीवो हि नाम देवताया आभासमात्रम् ।

बुद्ध्यादिभूतमात्रासंसर्गजनित आदर्श इव प्रविष्टः पुरुषप्रतिबिम्बो जलादिष्विव च सूर्यादीनाम् ।

अचिन्त्यानन्तशक्तिमत्या देवताया बुद्ध्यादिसम्बन्धश्चैतन्याभासो देवतास्वरूपविवेकाग्रहणनिमित्तः सुखी दुःखी मूढ इत्याद्यनेकविकल्पप्रत्ययहेतुः ।

छायामात्रेण जीवरूपेणानुप्रविष्टत्वाद्देवता न दैहिकैः स्वतः सुख दुःखादिभिः सम्बध्यते ।

यथा पुरुषादित्यादय आदर्शोदकादिषु च्छायामात्रेणानुप्रविष्टा आदर्शोदकदिदोषैनं सम्बध्यन्ते तद्वद्देवतापि ।

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।

एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥

"आकाशवत्सर्वगतश्च नित्यः"इति च वाजसनेयके ।

ननु च्छायामात्रश्चेज्जीवो मृषैव प्राप्तस्तया परलोकेहलोकादि च तस्य ।

नैष दोषः ।

सदात्मना सत्यत्वाभ्युपगमात् ।

सर्वं च नामरूपादि सदात्मनैव सत्यं विकारजातं स्वस्त्वनृतमेव ।

वाचाऽरम्भण विकारो नामधेयमित्युक्कत्वात् ।

तथा जीवोऽपीति ।

यक्षानुरूपो हि बलिरिति न्यायप्रसिद्धिः ।

अतः सदात्मना सर्वव्यवहाराणां सर्वविकारामां च सत्यत्वं सतोऽन्यत्वेनानृतत्वमिति न कश्चिद्दोषस्तार्किकैरिहानुवक्तुं शक्यः ।

यथेतरेतरविरुद्धद्वैतवादाः स्वबुद्धिविकल्पमात्रा अतत्त्वनिष्ठा इति शक्यं वक्तुम् ॥२ ॥



_______________________________________________________________________



६,३.३


तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ।

सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ६,३.३ ॥


__________



भाष्य ६,३.३ सैवं तिस्रो देवता अनुप्रविश्य स्वात्मावस्थे बीजभूते अव्याकृते नामरूपे व्याकरवाणीतीक्षित्वा तासां च तिसृणां देवतानामेकैकां त्रिवृतं त्रिवृतं करवाणि ।

एकैकस्यास्रिवृत्करण एकैकस्याः प्राधान्यं द्वयोर्द्वयोर्गुणभावोऽन्थथा हि रज्जवा इवैकमेव त्रिवृत्करणं स्यात्न तु तिसृणां पृथक्पृथक्त्रिवृत्करणमिति ।

एवं हि तेजोबन्नानां पृथङ्नामप्रत्ययलाभः स्यात्तेज इदमिमा आपोऽन्नमिदमिति च ।

सति च पृथङ्नामप्रत्ययलाभे देवतानां सम्यग्व्यवहारस्य प्रसिद्धिः प्रयोजनं स्यात् ।

एवमीक्षित्वा सेयं देवतेमास्तिस्रो देवता अनेनैव यथोक्तेनैव जीवेन सूर्यबिम्बवदन्तः प्रविश्य वैराजं पिण्डं प्रथमं देवादीनां च पिण्डाननुप्रविश्य यथासङ्कल्पमेव नामरूपे व्याकरोदसौनामायमिदंरूप इति ॥३ ॥



_______________________________________________________________________



६,३.४


तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ।

यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६,३.४ ॥


__________



भाष्य ६,३.४ तासां च देवतानां गुणप्रधानभावेन त्रिवृतं त्रिवृतमेकैकामकरोत्कृतवती देवता ।

तिष्ठतु तावद्देवतादिपिण्डानां नामरूपाभ्यां व्याकृतानां तेजोबन्नमयत्वेन त्रिधात्वं, यथा तु खलु बहुरिमाः पिण्डेभ्यस्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे मम निगदतो विजानीहि विष्टस्पमवधारयोदाहरणतः ॥४॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य तृतीयः खण्डः


=======================================================================


६,४.१


यदग्ने रोहितं रूपं तेजसस्तद्रूपम् ।

यच्छुक्लं तदपाम् ।

यत्कृष्णं तदन्नस्य ।

अपागादग्नेरग्नित्वम् ।

वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.१ ॥


__________



भाष्य ६,४.१ यत्तद्देवतानां त्रिवृत्करणमुक्तं तस्यैवोदाहरणमुच्यते ।

उदाहरणं नामैकदेशप्रसिद्ध्यर्थमुदाह्रियत इति ।

तदेतदाह  यदग्नेस्रिवृत्कृतानां, यत्कृष्णं तस्यैवाग्ने रूपं तदन्नस्य पृथिव्या अत्रिवृत्कृताया इति विद्धि ।

तत्रैवं सत रूपत्रयव्यतिरेकेणाग्निरिति यन्मन्यसे त्वं तस्याग्नेरग्नित्वमिदानीमपागादपगतम् ।

प्राग्रूपत्रयविवेकविज्ञानाद्याग्निबुद्धिरासीत्ते साग्निबुद्धिरपगताग्निशब्दश्चेत्यर्थः ।

यथादृष्यमानरक्तोपधानसंयुक्तः स्फटिको गृह्यमाणः पद्मरागोऽयमितिशब्दबुद्ध्योः प्रयोजको भवति प्रागुपधानस्फटिकयोर्विवेकविज्ञाने तु पद्मरागशब्दबुद्धी निवर्तेते तद्विवेकविज्ञातुस्तद्वत् ।

ननु किमत्र बुद्धिशब्दकल्पनया क्रियते प्राग्रूपत्रयविवेककरणादग्निरेवाऽसीत्तदग्नेरग्नित्वं रोहितादिरूपविवेककरणादपागादिति युक्तं यथा तन्त्वपकर्षणे पटाभावः ।

नैवं, बुद्धिशब्दमात्रमेव ह्यग्निर्यत आह वाचाऽरम्भणमग्निर्नाम विकारो नामधेय नाममात्रमित्यर्थः ।

अतोऽग्निबुद्धरपि मृषैव ।

किं तर्हि तत्र सत्यं त्रीणि रूपाणीत्येव सत्यं नाणुमात्रमपि रूपत्रयव्यतिरेकेण सत्यमस्तीत्यवधारणार्थः ॥१ ॥



_______________________________________________________________________



६,४.२


यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपम् ।

यच्छुक्लं तदपाम् ।

यत्कृष्णं तदन्नस्य ।

अपागादादित्यादादित्यत्वम् ।

वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.२ ॥


यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपम् ।

यच्छुक्लं तदपाम् ।

यत्कृष्णं तदन्नस्य ।

अपागाच्चन्द्राच्चन्द्रत्वम् ।

वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.३ ॥


यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपम् ।

यच्छुक्लं तदपाम् ।

यत्कृष्णं तदन्नस्य ।

अपागाद्विद्युतो विद्युत्त्वम् ।

वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.४ ॥


__________



भाष्य ६,४.२,३,४ तथा यदादित्यस्य यच्चन्द्रमसो यद्विद्युत इत्यादि समानम् ।

ननु यथा नु खलु सोम्येमास्तिस्रो देवतास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहित्युक्त्वा तेजस एव चतुर्भिरप्युदाहरणैरग्न्यादिभिस्रिवृत्करणं दर्शितं नाबन्नयोरुदाहरणं दर्शितं त्रिवृत्करणे ।

नैष दोषः ।

अबन्नविषयाण्यप्युदाहरणान्येवमेव च द्रष्टव्यानीति मन्यते श्रुतिः ।

तेजस उदाहरणमुपलक्षणार्थम् ।

रूपवत्त्वात्स्पष्टार्थत्वोपपत्तेश्च ।

गन्धरसयोरनुदाहरणं त्रयाणामसम्भवात् ।

न हि गन्धरसौ तेजसि स्तः ।

स्पर्शशब्दयोरनुदाहरणं विभागेन दर्शयितुमशक्यत्वात् ।

यदि सर्वं जगत्त्रिवृत्कृतमित्यग्न्यादिवत्त्रीणि रूपाणीत्येव सत्यमग्नेरग्नित्ववदपागाज्जगतो जगत्त्वम् ।

तथान्नस्याप्यप्शुङ्गत्वादाप इत्येव सत्यं वाचारम्भणमात्रमन्नम् ।

तथापामपि तेजःशुङ्गत्वाद्वाचारम्भणत्वं तेज इत्येव सत्यम् ।

तेजसोऽपि सच्छुङ्गत्वाद्वाचारम्भणत्वं सदित्येव सत्यमित्येषोर्ऽथो विवक्षितः ।

ननु वाय्वन्तरिक्षे त्वत्रिवृत्कृते तेजः प्रभृतिष्वनन्तर्भूतत्वादवशिष्येते ।

एवं गन्धरसशब्दस्पर्शाश्चावशिष्टा इति कथं सता विज्ञातेन सर्वमन्यद्विज्ञातं भवेत्तद्विज्ञाने वा प्रकारान्तरं वाच्यम् ।

नैष दोषः ।

रूपवद्द्रव्ये सर्वस्य दर्शनात् ।

तेजसि तावद्रूपवति शब्दस्पर्शयोरप्युलभ्भाद्वाय्वन्तरिक्षयोस्तत्र स्पर्शशब्दगुणवतोः सद्भावोऽनुमीयते ।

तथाबन्नयो रूपवतो रसगन्धान्तभाव इति ।

रूपवतां त्रयाणां तेजोबन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्वात्रूपत्रयवत्विज्ञातं मन्यते श्रुतिः ।

न हि मूर्तं रूपवद्द्रव्यं प्रत्याख्याय वाय्वाकाशयोस्तद्गुणयोर्गन्धरसयोर्वा ग्रहणमस्ति ।

अथवा रूपवतामपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुतिः ।

यथा तु त्रिवृत्कृते त्रीणि रूपाणीत्येव सत्यं तथा पञ्चीकरणेऽपि समानो न्याय इत्यतः सर्वस्य सद्विकारत्वात्सता विज्ञातेन सर्वमिदं विज्ञातं स्यात्सदेकमेवाद्वितीयं सत्यमिति सिद्धमेव भवति ।

तदेकस्मिन्सति विज्ञाते सर्वमिदं विज्ञातं भवतीति सूक्तम् ॥२४ ॥



_______________________________________________________________________



६,४.५


एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः ।

न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यति ।

इति ह्येभ्यो विदां चक्रुः ॥ ६,४.५ ॥


__________



भाष्य ६,४.५ एतद्विद्वांसो विदितवन्तः पूर्वेऽतिक्रान्ता महाशाला महाश्रोणिया आहुर्ह स्म वै किल ।

किमुक्तवन्त इत्याहन नोऽस्माकं कुलेऽद्येदानीं यथोक्तविज्ञानवतां कश्न कश्चिदप्यश्रुतममतमविज्ञातमुदाहरिष्यति नोदाहरिष्यति सर्वं विज्ञातमेवास्मत्कुलीनानां सद्विज्ञानवत्त्वादित्याभिप्रायः ।

ते पुनः कथं सर्वं विज्ञातवन्त इत्याहएभ्यस्रिभ्यो रोहितादिरूपेभ्यस्रिवृत्कृतेभ्यो विज्ञातेभ्यः सर्वमप्यन्यच्छिष्टमेवमेवेति विदाञ्चक्रुर्विज्ञातवन्तो यस्मात्तस्मात्सर्वज्ञा एव सद्विज्ञानात्त आसुरित्यर्थः ।


अथवैभ्यो विदाञ्चक्रुरित्यग्न्यादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वमन्यद्विदाञ्चक्रुरित्येतत् ॥५ ॥



_______________________________________________________________________



६,४.६


यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदां चक्रुः ।

यदु शुक्लमिवाभूदित्यपां रूपमिति तद्विदां चक्रुः ।

यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदां चक्रुः ॥ ६,४.६ ॥


यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति तद्विदां चक्रुः ।

यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६,४.७ ॥


__________



भाष्य ६,४.६,७ कथम् ।

यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणमभूत्तेषां पूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदाञ्चक्रुः तथा यच्छुक्लमिवाभूद्गृह्यमाणं तदापां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्येति विदाञ्चक्रुरेवमेवात्यन्तदुर्लक्ष्यं यदु अप्यविज्ञातमिव विशेषतोऽगृह्यमाणमभूत्तदप्येतासामेव तिसृणां देवतानां समासः समुदाय इति विदाञ्चक्रुः ।

एवं तावद्बाह्यं वस्त्वग्न्यादिवविज्ञातं तथेदानीं यथा नु खलु हे सोम्येमा यथोक्तास्तिस्रो देवताः पुरषं शिरःपाम्यादिलक्षणं कार्यकारणसङ्घातं प्राप्य पुरुषेणोपयुज्यमानास्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहि निगदत इत्युक्त्वाऽह ॥६७ ॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्थः खण्डः


=======================================================================


६,५.१


अन्नमशितं त्रेधा विधीयते ।

तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति ।

यो मध्यमस्तन्मांसम् ।

योऽणिष्ठस्तन्मनः ॥ ६,५.१ ॥


__________



भाष्य ६,५.१ अन्नमशितं भुक्तं त्रेधा विधीयते जाठरेमाग्निना पच्यमानं त्रिधा विभज्यते ।

कथं, तस्यान्नस्य त्रिधा विधीयमानस्य यः स्थविष्ठः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलोंऽशस्तत्पुरीषं भवति ।

यो मध्यमोंऽशो धातुरन्नस्य तद्रसादिक्रमेण परिणम्य मांसं भवति योऽणिष्ठोऽणुतमो धातुः स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीप्वनुप्रविस्य वागादिकरणसङ्घातस्य स्थितिमुत्पादयन्मनो भवति मनोरूपेण विपरिणमन्मनस उपचयं करोति ।

ततश्चान्नोपचितत्वान्मनसो भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निरवयं चेति गृह्यते ।

यदपि मनोऽस्य दैवं चक्षुरिति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविप्रकृष्टादिसर्वेन्द्रियविषयव्यापकत्वापेक्षया ।

यच्चान्येन्द्रियविषयापेक्षया नित्यत्वं तदप्यापेक्षिकमेवेति वक्ष्यामः ।

सदेकमेवाद्वितीयमिति श्रुतेः ॥१ ॥



_______________________________________________________________________



६,५.२


आपः पीतास्त्रेधा विधीयन्ते ।

तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।

यो मध्यमस्तल्लोहितम् ।

योऽणिष्ठः स प्राणः ॥ ६,५.२ ॥


__________



भाष्य ६,५.२ तथाऽपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।

यो मध्यमस्तल्लोहितं भवति ।

योऽणिष्ठः स प्राणो भवति ।

वक्ष्यति ह्यापोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥२॥



_______________________________________________________________________



६,५.३


तेजोऽशितं त्रेधा विधीयते ।

तस्य यः स्थविष्ठो धातुस्तदस्थि भवति ।

यो मध्यमः स मज्जा ।

योऽणिष्ठः सा वाक् ॥ ६,५.३ ॥


__________



भाष्य ६,५.३ तथा तेजोऽशितं तैलघृतादि भक्षितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति ।

यो मध्यमःस मज्जास्थ्यन्तर्गतः स्नेहः ।

योऽणिष्ठः सा वाक् ।

तैलघृतादिभक्षणाद्धि वाग्विशदा भाषणे समर्था भवतीति प्रसिद्धं लोके ॥३ ॥



_______________________________________________________________________



६,५.४


अन्नमयं हि सोम्य मनः ।

आपोमयः प्राणः ।

तेजोमयी वागिति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,५.४ ॥


__________



भाष्य ६,५.४ यत एवमन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् ।

ननु केवलान्नभक्षिण आखुप्रभृतयो वाग्मिनः प्राणवन्तश्च तथांमात्रभक्ष्याः सामुद्रा मीनमकरप्रभृतयो मनस्विनो वाग्ग्मिनश्च तथा स्नेहपानामपि प्राणवत्त्वं चानुमेयं यदि सन्ति तत्र कथमन्नमयं हि सोम्य मन इत्याद्युच्यते ।

नैष दोषः ।

सर्वस्य त्रिवृत्कृतत्वात्सर्वत्र सर्वोपपत्तेः ।

न ह्यत्रिवृत्कृतमन्नमश्नाति कश्चिदापो वात्रिवृत्कृताः पीयन्ते तेजो वात्रिवृत्कृतमश्नाति कश्चिदित्यन्नादानामाखुप्रभृतीनां वाग्ग्मित्वं प्राणवत्त्वं चेत्याद्यविरुद्धम् ।

इत्येवं प्रत्यायितः श्वेकेतुराहभूय एव पुनरेव मा मां भगवानन्नमयं हि सोम्य मन इत्यादि विज्ञापयतु दृष्टान्तेनावगमयु नाद्यापि ममास्मिन्नर्थे सम्यङ्निश्चयो जातः ।

यस्मात्तेजोवन्नमयत्वेनाविशिष्टे देह एकस्मिन्नुपयुज्यमानान्यन्नाप्स्नेहजातान्यणिष्ठधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेणेति दुर्विज्ञेयमित्यभिप्रायोऽतो भूय एवेत्याद्याह ।

तमेवमुक्तवन्तं तथास्तु सोम्येति होवाच पिता शृण्वत्र दृष्टान्तं यथैतदुपपद्यते यत्पृच्छसि ॥४॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चमः खण्डः


=======================================================================


६,६.१


दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।

तत्सर्पिर्भवति ॥ ६,६.१ ॥


__________



भाष्य ६,६.१ दध्नः सोम्य मथ्यमानस्य योऽणिमाणुभावः स ऊर्ध्वः समुदीषति सम्भूयोर्ध्वं नवनूतभावेन गच्छति तत्सर्पिर्भवति ॥१ ॥



_______________________________________________________________________



६,६.२


एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।

तन्मनो भवति ॥ ६,६.२ ॥


__________



भाष्य ६,६.२ यथायं दृष्टान्त एवमेव खलु सोम्यान्नस्यौदनादेरश्यमानस्य भुज्यमानस्योदर्येमाग्निना वायुसहितेत खजेनेव मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति मनोऽवयवैः सह सम्भूय मन उपचिनोतीत्येतत् ॥२ ॥



_______________________________________________________________________



६,६.३


अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति ।

सा प्रानो भवति ॥ ६,६.३ ॥


__________



भाष्य ६,६.३ तथापां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति स प्राणो भवतीति ॥३ ॥



_______________________________________________________________________


६,६.४


तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।

सा वाग्भवति ॥ ६,६.४ ॥


__________



भाष्य ६,६.४ एवमेव खलु सोम्य तेजसोऽश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥४ ॥



_______________________________________________________________________



६,६.५


अन्नमयं हि सोम्य मनः ।

आपोमयः प्राणः ।

तेजोमयी वागिति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,६.५ ॥


__________



भाष्य ६,६.५ अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति युक्तमेव मयोक्तमित्यमिप्रायः ।

अतोऽप्तेजसोरस्त्वेतत्सर्वमेवम् ।

मनस्त्वन्नमयमित्यत्र नैकान्तेन मम निश्चयो जातोऽतो भूय एव मा भगवान्मनसोऽन्नमयत्वं दृष्टान्तेन विज्ञापयत्विति ।

तथा सोम्येति होवाच पिता ॥५॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षष्ठः खण्डः


=======================================================================


६,७.१


षोडशकलः सोम्य पुरुषः ।

पञ्चदशाहानि माशीः ।

काममपः पिब ।

आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ ६,७.१ ॥


__________



भाष्य ६,७.१ अन्नस्य भुक्तस्य योऽणिष्ठो धातुः स मनसि शक्तिमधात्सान्नोपचिता मनसः शक्तिः षोडशधा प्रविभज्य पुरुषस्य कलात्वेन निर्दिदिक्षिता ।

तया मनस्यन्नोपचितया शक्त्या षोडशधा प्रविभक्तया संयुक्तस्तद्वान्कार्यकरणसङ्घातलक्षणो जीवविशिष्टः पिण्डः पुरुषः षोडशकल उच्यते यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञाता सर्वक्रियासमर्थः पुरुषो भवति हीयमानायां च यस्यां सामर्थ्यहानिः ।

वक्ष्यति"चाथान्नस्याऽयी द्रष्टे"त्यादि ।

सर्वस्य कार्यकरणस्य सामर्थ्यं मनःकृतमेव ।

मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके, ध्यानाहाराश्च केचिदन्नस्य सर्वात्मकत्वात् ।

अतोऽन्नकृतं मानसं वीर्यं षोडश कला यस्य पुरुषस्य सोऽयं षोडशकलः पुरुषः एतच्चेत्प्रत्यक्षीकर्तुमिच्छसि पञ्चदशसंख्याकान्यहानि माशीरशनं मा कार्षीः ।

काममिच्छातोऽपः पिब यस्मान्नपिबतोऽपस्ते प्राणो विच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापोमयोऽब्विकारः प्राण इत्यवोचाम ।

न हि कार्यं स्वकारणोपष्टम्भमन्तरेणाविभ्रंशमानं स्थातुमुत्सहते ॥१ ॥



_______________________________________________________________________



६,७.२


स ह पञ्चदशाहानि नाश ।

अथ हैनमुपससाद किं ब्रवीमि भो इति ।

ऋचः सोम्य यजूंषि सामानीति ।

स होवाच न वै मा प्रतिभान्ति भो इति ॥ ६,७.२ ॥


__________



भाष्य ६,७.२ स हैवं श्रुत्वा मनसोऽन्नमयत्वं प्रत्यक्षीकर्तुंमिच्छन्पञ्चदशाहानि नाऽशाशनं न कृतवान् ।

अथ षोडशेऽहनि हैनं पितरमुपससादोपगतवानुपगम्य चोवाच किं ब्रवीमि भो इति ।

इतर आह ऋचः सोम्य यजूंषि सामान्यधीष्वेति ।

एवमुक्तः पित्राऽहन वै मा मामृगादीनि मम मनसि न दृश्यन्त इत्यर्थो हे भो भगवन्निति ॥२॥



_______________________________________________________________________


६,७.३


तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् ।

तेन ततोऽपि न बहु दहेत् ।

एवं सोम्य ते षोडशानां कलानामेका कला अतिशिष्टा स्यात् ।

तयैतर्हि वेदान्नानुभवसि ।

अशान ।

अथ मे विज्ञास्यसीति ॥ ६,७.३ ॥


__________



भाष्य ६,७.३ एवमुक्तवन्तं पिताऽहशृणु तत्र कारणं येन ते तान्यृगादीनि न प्रतिभान्तीति (तं होवाच) यथा लोके हे सोम्य महतो महत्परिमाणस्याभ्याहितस्योपचितस्येन्धनैरग्नेरेकोऽङ्गारः खद्योतपरिमाणः शान्तस्य परिशिष्टोऽवशिष्टः स्याद्भवेत्तेनोङ्गारेण ततोऽपि तत्परिमाणादीषदपि न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवोऽतिशिष्टावशिष्टा न बहु दहेदेवमेव खलु सोम्य ते तवान्नोपचितानां षोडशानां कलानामेका कलावयवोऽतिशिष्टा स्यात्तया त्वं खद्योतमात्राङ्गारतुल्ययैतर्हीदानीं वेदान्नानुभवसि न प्रतिपद्यसे, श्रुत्वा च मे मम वाचमथाशेषं विज्ञास्यस्यशान भुङ्क्ष्व तावत् ॥३ ॥



_______________________________________________________________________



६,७.४


स हाश ।

अथ हैनमुपससाद ।

तं ह यत्किं च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ६,७.४ ॥


__________



भाष्य ६,७.४ स ह तथैवाऽश भुक्तवानथानन्तरं हैनं पितरं शुश्रूषुरुपससाद तं होपगतं पुत्रं यत्किञ्चर्गादिषु पप्रच्छ ग्रन्थरूपमर्थजातं वा पिता स श्वेतकेतुः सर्वं ह तत्प्रतिपेदे ऋगाद्यर्थतो ग्रन्थतश्च ॥४ ॥



_______________________________________________________________________



६,७.५


तं होवाच ।

यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६,७.५ ॥


__________



भाष्य ६,७.५ तं होवाच पुनः पिता यथा सोम्य महतोऽभ्याहितास्येत्यादि समानमेकमङ्गारं शान्तस्याग्नेः खद्योतमात्रं परिशिष्टं तं तृणैश्चूर्णैश्चोपसमाधाय प्राज्वलयेद्वर्धयेत् ।

तेनेद्धेनाङ्गारेण ततोऽपि पूर्वपरिमाणाद्बहु दहेत् ॥५ ॥



_______________________________________________________________________



६,७.६


एवं सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत् ।

सान्नेनोपसमाहिता प्राज्वाली ।

तयैतर्हि वेदाननुभवसि ।

अन्नमयं हि सोम्य मनः ।

आपोमयः प्राणः ।

तेजोमयी वागिति ।

तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६,७.६ ॥


__________



भाष्य ६,७.६ एवं सोम्य ते षोडशानामन्नकलानां सामर्थ्यरूपाणामेका कलातिशिष्टाभूदतिशिष्टाऽसीत्पञ्चदशाहान्यभुक्तवत एकैकेनाह्नैकैका कला चन्द्रमस इवापरपक्षे क्षीणा सातिशिष्टा कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि ।

दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः ।

प्राज्वालीदिति कला तवान्नेन भुक्तेनोपसमाहिता वर्धितोपचिता प्राज्वालि ।

दैर्ध्यं छान्दसं प्रज्वलिता वर्धितेत्यर्थः ।

प्राज्वालीदिति पाठान्तरं तदा तेनोपसमाहिता स्वयं प्रज्वलितवतीर्यर्थः ।

तया वर्धितयैतर्हीदानीं वेदाननुभवस्युपलभसे ।

एवं व्यावृत्त्यनुवृत्तिभ्यामन्नामयत्वं मनसः सिद्धमित्युपसंहरत्यन्नमयं हि सोम्य मन इत्यादि ।

यथैतन्मनसोऽन्नमयत्वं तव सिद्धं तथाऽपोमयः प्राणस्तेजोमयी वागित्येतदपि सिद्धमेवेत्यभिप्रायः ।

तदेतद्धास्य पितुरुक्तं मन आदीनामन्नादिमयत्वं विजज्ञौ विज्ञातवाञ्श्वेतकेतुः ।

द्विरभ्यासस्त्रिवृत्करणप्रकरणसमाप्त्यर्थः ॥६॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य सप्तमः खण्डः


=======================================================================


६,८.१


उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति ।

यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति ।

स्वमपीतो भवति ।

तस्मादेनं स्वपितीत्याचक्षते ।

स्वं ह्यपीतो भवति ॥ ६,८.१ ॥


__________



भाष्य ६,८.१ यस्मिन्मनसि जीवेनाऽत्मनानुप्रविष्टा परा देवताऽदर्श इव पुरुषः प्रतिबिम्बेन जलादिविष्विव च सूर्यादयः प्रतिबिम्बैः ।

तन्मनोऽन्नमयं तेजोऽंमयाभ्यां वाक्प्राणाभ्यां संगतमधिगतम् ।

यन्मयो यत्स्थश्च जीवो मननदर्शनश्रवणादिव्यावहाराय कल्पते तदुपरमे च स्वं देवतारूपमेव प्रतिपद्यते ।

तदुक्तं श्रुत्यन्तरे"ध्यायतीव लेलायतीव सधीः स्वप्नो भूत्वेमं लोकमतिक्रामति""स वा आयमात्मा ब्रह्म विज्ञानमयो मनोमय"इत्यादि,"स्वप्नेन शारीरम्" इत्यादि,"प्राणन्नेव प्राणो नाम भवती"त्यादि च ।

तस्यास्य मनःस्थस्य मन आख्यां गतस्य मनौपशमद्वारेणेन्द्रियविषयेभ्यो निवृत्तस्य यस्यां परस्यां देवतायां स्वात्मभातायां यदवस्थानं तत्पुत्रायाऽचिख्यासुरुद्दालको ह किलाऽरुणिः श्वेतकेतुं पुत्रमुवाचोक्तवान् ।

स्वप्नान्तं स्वप्नमध्यं स्वप्न इति दर्शनवृत्तेः स्वप्नस्याऽख्या तस्य मध्यं स्वप्नान्तं सुषुप्तमित्येतत् ।

अथवा स्वप्नान्तं स्वप्नसतत्त्वमित्यर्थः तत्राप्यर्थात्सुषुप्तमेव भवति ।

स्वमपीतो भवतीति वचनात् ।

न ह्यन्यत्र सुषुप्तात्स्वमपीतिं जीवस्येच्छन्ति ब्रह्मविदः ।

तत्र ह्यादर्शापनयने पुरुषप्रतिबिम्बि आदर्शगतो यथा स्वमेव पुरुषमपीतो भवत्येवं मन आद्युपरमे चैतन्यप्रतिबिम्बरूपेण जीवेनाऽत्मना मनसि प्रविष्टा नामरूपव्याकरणाय परा देवता सा स्वमेवाऽत्मानं प्रतिपद्यते जीवरूपतां मन आख्यां हित्वा ।

अतः सुषुप्त एव स्वप्नान्तशब्दवाच्य इत्यवगम्यते ।

यत्र तु सुप्तः स्वप्नान्पश्यति तत्स्वाप्नं दर्शनं सुखदुःखसंयुक्तमिति पुण्यापुण्ययोर्हि सुखदुःखारम्भकत्वं प्रसिद्धम् ।

पुण्यापुण्ययोश्चाविद्याकामोपष्टम्भेनैव सुखदुःखतद्दर्शनकार्यारम्भकत्वमुपपद्यते नान्यथेत्यविद्याकामकर्मभिः संसारहेतुभिः संयुक्त एव स्वप्न इति न स्वमपीता भवति ।

"अनन्वागतं पुण्येनानन्वागतं पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति" "तद्वा अस्यैतदतिच्छन्दा" "एष परम आनन्द"इत्यादिश्रुतिभ्यः ।

सुषुप्त एव स्वं देवतारूपं जीवत्वविनिर्मुक्तं दर्शयिष्यामीत्याह ।

स्वप्नान्तं मे मम निगदतो हे सोम्य विजानीहि विस्पष्टमवधारयेत्यर्थः ।

कदा स्वप्नान्तो भवतीत्युच्यते ।

यत्र यस्मिन्काल एतन्नाम भवति पुरुषस्य स्वप्स्यतः ।

प्रसिद्धं हि लोके स्वपितीति ।

गौणं चेदं नामेत्याह ।

यदा स्वपितीत्युच्यते पुरुषस्तदा तस्मिन्काले सता सच्छब्दवाच्यया प्रकृतया देवतया संपन्नो भवति संगत एकीभूतो भवति ।

मनसि प्रविष्टं मन आदिसंसर्गकृतं जीवरूपं परित्यज्य स्वं सद्रूपं यत्परमार्थसत्यमपीतोऽपिगतो भवति ।

अतस्तस्मात्स्वपितीत्येनमाचक्षते लोकिकाः ।

स्वमात्मानं हि यस्मादपीतो भवति ।

ततश्चाऽयस्तानां करणानामनेकव्यापारनिमित्तग्लानानां स्वव्यापारेभ्य उपरमो भवति ।

श्रुतेश्च"श्राम्यत्येव वाक्श्राम्यति चक्षुर्" इत्येवमादि ।

तथा च"गृहीता वाग्गृहीतं श्रोत्रं गृहीतं मन"इत्येवमादीनि करणानि प्राणग्रस्तानि ।

प्राण एकोऽश्रान्तो देहे कुलाये यो जागर्ति तदा जीवः श्रमापनुत्तये स्वं देवतारूपमात्मानं प्रतिपद्यते ।

नान्यत्र स्वरूपावस्थानाच्छ्रमापनोदः स्यादिति युक्ता प्रसिद्धिर्लौकिकानां स्वं ह्यपीतो भवतीति ।

दृश्यते हि लोके ज्वरादिरोगग्रस्तानां तद्विनिर्नोके स्वात्मस्थानां विश्रमणं तद्वदिहापि स्यादिति युक्तम् ।

"तद्यथा श्येनो वा सुपर्णो वा विपरिपत्य श्रान्त"इत्यादिश्रुतेष्च ॥१ ॥



_______________________________________________________________________



६,८.२


स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयते ।

एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते ।

प्राणबन्धनं हि सोम्य मन इति ॥ ६,८.२ ॥


__________



भाष्य ६,८.२ तत्रायं दृष्टान्तो यथोक्तेर्ऽथेस यथा शकुनिः पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण प्रबद्धः पाशितो दिशं दिशं बन्धनमोक्षार्थी सन्प्रतिशिदिशं पतित्वान्यत्र बन्धनादायतनमाश्रयं विश्रमणायालब्ध्वाप्राप्य बन्धनमेवोपश्रयते ।

एवमेव यथायं दृष्टान्तः खलु हे सोभ्य तन्मनस्तत्प्रकृतं पोडशकलमन्नोपचितं मनो निर्धारितं ततेप्रविष्टस्तत्स्थस्तदुपलक्षितो जीवस्तन्मन इति निर्दिश्यते मञ्चाक्रोशनवत् ।

स मन आख्योपाधिर्जीवोऽविद्याकामकर्मोपदिष्टां दिशं दिशं सुखदुःखादिलक्षणां जाग्रत्स्वप्नयोः पतित्वा गत्वानुभूयेत्यर्थः ।

अन्यत्र सदाख्यात्स्वात्मन आयतनं विश्रमणस्थानमलब्ध्वा प्राणमेव प्राणेन सर्वकार्यकरणाश्रयेणोपलक्षिता प्राण इत्युच्यते सदाख्या परा देवता ।

"प्राणस्य प्राणं" "प्राणशरीरो भारूप"इत्यादिश्रुतेः ।

अतस्तां देवतां प्राणं प्राणाख्यामेवोपश्रयते ।

प्राणो बन्धनं यस्य मनसस्तत्प्राणबन्धनं हि यस्मात्सोम्य मनः प्राणोपलक्षितदेवताश्रयं मन इति तदुपलक्षितो जीव इति ॥२ ॥



_______________________________________________________________________



६,८.३


अशनापिपासे मे सोम्य विजानीहीति ।

यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते ।

तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति ।

तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि ।

नेदममूलं भविष्यतीति ॥ ६,८.३ ॥


__________



भाष्य ६,८.३ एवं स्वपितिनामप्रसिद्धिद्वारेण यज्जीवस्य सत्यस्वरूपं जगतो मूलं तत्पुत्रस्य दर्शयित्वाऽहान्नादिकार्यकारणपरम्परयापि जगतो मूलं सद्दिदर्शयिषुः ।

अशनापिपासे अशितुमिच्छाशना यालोपेन ।

पातुमिच्छा पिपासा ते अशनापिपासे अशनापिपासयोः सतत्वं विजानीहीत्येतत् ।

यत्र यस्मिन्काल एतन्नाम पुरुषो भवति ।

किं तत्?अशिशिषत्यशितुमिच्छतीति ।

तदा तस्य पुरुषस्य किनिमित्तं नाम भवतीत्याह ।

यत्तत्पुरुषेणाशितमन्नं कठिनं पोता आपो नयन्ते द्रवीकृत्य रसादिभावेन विपरिणमयन्ते तदा भुक्तमन्नं जीर्यति ।

अथ च भवत्यस्य नामाशिशिषतीति गौणम् ।

जीर्णे ह्यन्नेऽशितुमिच्छति सर्वो हि जन्तुः ।

तत्तत्र अपामशितनेतृत्वादशनाया इति नाम प्रसिद्धमित्येतस्मिन्नर्थे ।

यथा गोनायो गां नयतीति गोनाय इत्युच्यते गोपालः ।

तथाश्वान्नयतीत्यश्वनायोऽश्वपाल इत्युच्यते ।

पुरुषनायः पुरुषान्नयतीति राजा सेनापतिर्वा ।

एवं तत्तदाप आचक्षते लौकिका अशनायेति विसर्जनीयलोपेन ।

तत्रैवं सत्यद्भी रसादिभावेन नीतेनाशितेनान्नेन निष्पादितमिदं शरीरं वटकणिकायामिव शुङ्गोऽङ्कुर उत्पतित उद्गतस्तमिमं शुङ्गं कार्यं शरीराख्यं वटादिशुङ्गवदुत्पतितं हे सोभ्य विजानीहि ।

किं तत्र विज्ञेयमित्युच्यते ।

शुण्विदं शुङ्गवत्कार्यत्वाच्छरीरं नामूलं मूलरहितं भविष्यतीत्युक्त आह श्वेतकेतुः ॥३ ॥



_______________________________________________________________________



६,८.४


तस्य क्व मूलं स्यादन्यत्रान्नात् ।

एवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छ ।

अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ ।

तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ ।

सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ६,८.४ ॥


__________



भाष्य ६,८.४ यद्येवं समूलमिदं शरीरं वटादिशुङ्गवत्तस्यास्य क्व मूलं स्याद्भवेदित्येवं पृष्ट आह पिता ।

तस्य क्व मूलं स्यादन्यत्रान्नादन्नं मूलमित्यभिप्रायः ।

कथम् ।

अशितं ह्यन्नमद्भिर्द्रवीकृतं जाठरेणाग्निना पच्यमानं रसभावेन परिणमते ।

रसोच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्रम् ।

तथा योषिद्भुक्तं चान्नं रसादिक्रमेणैवं परिणतं लोहितं भवति ।

ताभ्यां शुक्रशोणिताभ्यामन्नकार्याभ्यां संयुक्ताभ्यामन्नेनैव प्रत्यहं भुज्यमानेनाऽपूर्यमाणाभ्यां कुड्यमिव मृत्पिण्डैः प्रत्युहमुपचीयमानोऽन्नमूलो देहशुङ्गः परिनिष्पन्न इत्यर्थः ।

यत्तु देहशुङ्गोऽन्नमूल एवमेव खलु सोम्यान्नेन शुह्गेन कार्यभूतेनापो मूलमन्नस्य शुङ्गस्यान्विच्छ प्रतिपद्यस्व ।

अपामपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमेवेति अद्भिः सीम्य शुङ्गेन कार्येण कारणं तेजो मूलमन्विच्छ ।

तेजसोऽपि विनाशोत्पत्तिमत्तवाच्छुङ्गत्वमिति तेजसा सोम्य शुङ्गेन सन्मूलमेकमेवाद्वितीयं परमार्थसत्यम् ।

यस्मिन्सर्वमिदं वाचाऽरम्भणं विकारो नामधेयमनृतं रज्ज्वामिव सर्पादिविकल्पजातमध्यस्तमविद्यया तदस्य जगतो मूलमतः सन्मूलाः सत्कारणा हे सोम्येमाः स्थावरजङ्गमलक्षणाः सर्वाः प्रजा न केवलं सन्मूला एवेदानीमपि स्थितिकाले सदायतनाः सदाश्रया एव ।

नहि मृदमनाश्रित्य घटादेः सत्त्वं स्थितिर्वास्ति ।

अतो मृद्वत्सन्मूत्वात्प्रजानां सदायतनं यासां ताः सदायतनाः प्रजाः ।

अन्ते च सत्प्रतिष्ठाः सदेव प्रतिष्टा लयः समाप्तिपवसानं परिशेषो यासां ताः सत्प्रतिष्ठाः ॥४ ॥



_______________________________________________________________________



६,८.५


अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते ।

तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति ।

तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि ।

नेदममूलं भविष्यतीति ॥ ६,८.५ ॥


__________



भाष्य ६,८.५ अथेदानीमप्शुङ्गद्वारेण सतो मूलस्यानुगमः कार्य इत्याह ।

यत्र यस्मिन्काल एतन्नाम पिपासति पातुमिच्छतीति पुरुषो भवति ।

अशिशिषतीतिवदिदमपि गौणमेव नाम भवति ।

द्रवीकृतस्याशितस्यान्नस्य नेत्र्य आपोऽन्नशुङ्गं देहं क्लेदयन्त्यः शिथिली कुर्युरब्बाहुल्याद्यदि तेजसा न शोष्यन्ते ।

नितरां च तेजसा शोष्यमाणा स्वप्सु देहभावेन परिणममानासु पातुमिच्छा पुरुषस्य जायते तदा पुरुषः पिपासति नाम तदेतदाह ।

तेज एव तत्तदा पीतमबादि शोषयद्देहगतलोहितप्राणभावेन नयते परिणमयति ।

तद्यथा गोनाय इत्यादि समानमेवं तत्तेज आचष्टे लोक उदन्येत्युदकं नयतीत्युदन्यम् ।

उदन्येतीति च्छान्दसं तत्रापि पूर्ववत् ।

अपामप्येतदेव शरीराख्यं शुङ्गं नान्यदित्येवमादि समानमन्यत् ॥५ ॥



_______________________________________________________________________



६,८.६


तस्य क्व मूलं स्यादन्यत्राद्भ्यः ।

अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ ।

तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ ।

सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।

यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवति ।

अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६,८.६ ॥


__________



भाष्य ६,८.६ सामर्थ्यात्तेजसोऽप्येतदेव शरीराख्यं शुङ्गम् ।

अतोऽप्शुङ्गेन देहेनाऽपो मूलं गम्यते ।

अद्भिः शुङ्गेन तेजो मूलं गम्यते ।

तेजसा शुङ्गेन सन्मूलं गम्यते पूर्ववत् ।

एवं हि तेजोबन्नमयस्य देहशुङ्गस्य वाचारम्भणमात्रस्यान्नादिपरम्परया परमार्थसत्यं सन्मूलमभयसंत्रासं निरायासं सन्मूलमन्विच्छेति पुत्रं गमयित्वाशिशिषति पिपासतीति नामप्रसिद्धिद्वारेण यदन्यदिहास्मिन्प्रकरणे तेजोबन्नानां पुरुषेणोपभुज्यमानानां कार्यकरणसंघातस्य देहशुङ्गस्य स्वजात्यसांकर्येणोपचयकरत्वं वक्तव्यं प्राप्तं तदिहोक्तमेव द्रष्टव्यमिति पूर्वोक्तं व्यपदिशति ।

यथा नु खलु येन प्रकारेणेमास्तेजोबन्नाख्यास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यन्नमशितं त्रेधा विधीयत इत्यादि ।

तत्रैवोक्तमन्नादीनामसितानां ये मव्यमा धातवस्ते साप्तधातुकं शरीरमुपचिन्वन्तीत्युक्तम् ।

"मांसं भवति लोहितं भवति मज्जा भवत्यस्थि भवति ये त्वणिष्ठा धातवो मनः प्राणं वाचं देहस्यान्तःकरणसंघातमुपचिन्वन्ती"ति चोक्तं"तन्मनो भवति स प्राणो भवति सा वाग्भवती"ति ।

सोऽयं प्राणकरणसंघातो देहे विशीर्णे देहान्तरं जीवाधिष्ठितो येन क्रमेण पूर्वदेहात्प्रच्युतो गच्छति तदाहास्य हे सोम्य पुरुषस्य प्रयतो म्रियमाणस्य वाङ्मनसि संपद्यते मनस्युपसंह्रियते ।

अथ तदाऽहुर्ज्ञातयो न वदतीति ।

मनःपूर्वको हि वाग्व्यापारः ।

"यद्वै मनसा ध्यायति तद्वाचा वदति"इति श्रुतेः ।

वाच्युपसंहृतायां मनसि मनो मननव्यापारेण केवलेन वर्तते ।

मनोऽपि यदोपसंह्रियते तदा मनः प्राणे संपन्नं भवति सुषुप्तकाल इव तदा पार्श्वस्था ज्ञातयो न विजानातीत्याहुः ।

प्राणश्च तदोर्ध्वोच्छ्वासी स्वात्मन्युपसंहृतबाह्यकरणः संवर्गविद्यायां दर्शनाद्धस्तपादादीन्विक्षिपन्मर्मस्थानानि निकृन्तन्नन इवोत्सृजन् क्रमेणोपसंहृतस्तेजसि सम्पद्यते ।

तदाऽहुर्ज्ञातयो न चलतीति मृतो नेति वा विचिकित्सन्तो देहमालभमाना उष्णं चोपलभमाना देह उष्णो जीवतीति यदा तदप्यौष्ण्यलिङ्गं तेज उपसंह्रियते तदा तत्तेजः परस्यां देवतायां प्रशाम्यति ।

तदेवङ्क्रमेणोपसंहृते स्वमूलं प्राप्ते च मनसि तत्स्थो जीवोऽपि सुषुप्तकालवन्निमित्तोपसंहारादुपसंह्रियमाणः सन्सत्याभिसंधिपूर्वकं चेदुपसंह्रियते सदेव संपद्यते न पुनर्देहान्तराय सुषुप्तादिवोत्तिष्ठति ।

यथा लोके सभये देशे वर्तमानः कथञ्चिदिवाभयं देशं प्राप्तस्तद्वत् ।

इतरस्त्वनात्मज्ञस्तस्मादेव मूलात्सुषुप्तादिवोत्थाय मृत्वा पुनर्देहजालमाविशति ॥६ ॥



_______________________________________________________________________


६,८.७


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,८.७ ॥


__________



भाष्य ६,८.७ यस्मान्मूलादुत्थाय देहमाविशति जीवः स यः सदाख्य एष उक्तोऽणिमाणुभावो जगतो मूलमैतदात्म्यमेतत्सदात्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् ।

एतेन सदाख्येनाऽत्मनाऽत्मवत्सर्वमिदं जगत् ।

नान्योऽस्त्यस्याऽत्मा संसारी ।

"नान्यदतोऽति श्रोतृ"इत्यादिश्रुत्यन्तरात् ।

येन चाऽत्मनाऽत्मवत्सर्वमिदं जगत्तदेव सदाख्यं कारणं सत्यं परमार्थसत् ।

अतः स एवाऽत्मा जगतः प्रत्यक्स्वरूपं सतत्त्वं याथात्म्यम् ।

आत्मशब्दस्य निरुपपदस्य प्रत्यगात्मनि गवादिशब्दवन्निरूढत्वात् ।

अतस्तत्सत्त्वमसीति हे श्वेतकेतो इत्येवं प्रत्यायितः पुत्र आहभूय एव मा भगवान्विज्ञापयतु यद्भवदुक्तं तत्सन्दिग्धं ममाहन्यहनि सर्वाः प्रजाः सुषुप्ते सत्संपद्यन्त इत्येतद्येन तत्संपद्य न विदुः सत्सम्पन्ना वयमिति ।

अतो दृष्टोन्तेन मां प्रत्याययत्वित्यर्थः ।

एवमुक्तस्तथास्तु सोम्येति होवाच पिता ॥७॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्याष्टमः खण्डः


=======================================================================


६,९.१


यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारमेकतां रसं गमयन्ति ॥ ६,९.१ ॥


__________



भाष्य ६,९.१ यत्पृच्छस्यहन्यहनि सत्संपद्य न विदुः सत्संपन्नाः स्म इति तत्कस्मादित्यत्र शृणु दृष्टान्तम् ।

यथा लोके हे सोम्य मधुकृतो मधु कुर्वन्तीति मधुकृतो मधुकरमक्षिका मधु निस्तिष्ठन्ति मधु निष्पादयन्ति तत्पराः सन्तः ।

कथम्?नानात्ययानां नानागतीनां नानादिक्कानां वृक्षाणां रसान्समवहारं समाहृत्यैकतामेकभावं मधुत्वेन रसान्गमयन्ति मधुत्वमापादयन्ति ॥१ ॥


_______________________________________________________________________



६,९.२


ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीति ।

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति ॥ ६,९.२ ॥


__________



भाष्य ६,९.२ ते रसा यथा मधुत्वेनैकतां गतास्तत्र मधुनि विवेकं न लभन्ते ।

कथम्, अमुष्याहमाम्रस्य पनसस्य वा वृक्षस्य रसोऽस्मीति ।

यथा हि लोके बहूनां चेतनावतां समेतानां प्राणिनां विवेकलाभो भवत्यमुष्याहं पुत्रोऽमुष्याहं नप्तास्मीति ।

ते च लब्धविवेकाः सन्तो न संकीर्यन्ते न तथेहानेकप्रकारवृक्षरसानामपि मधुराम्लतिक्तकटुकादीनां मधुत्वेनैकतां गतानां मधुरादिभावेन विवेको गृह्यत इत्यभिप्रायः ।

यथायं दृष्टान्त इत्येवमेव खलु सोम्येमाः सर्वाः प्रजा अहन्यहनि सति संपद्य सुषुप्तकाले मरणप्रलययोश्च न विदुर्न विजानीयुः सति संपद्यामह इति संपन्ना इति वा ॥२ ॥



_______________________________________________________________________



६,९.३


त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६,९.३ ॥


__________



भाष्य ६,९.३ यस्माच्चैवमात्मनः सद्रूपतामज्ञात्वैव सत्संपद्यन्ते ।

अतस्त इह लोके यत्कर्मनिमित्तां यां यां जातिं प्रतिपन्ना आसुर्व्याघ्रादीनां व्याघ्रोऽहं सिंहोऽहमित्येवं ते तत्कर्मज्ञानवासनाङ्किताः सन्तः सत्प्रविष्टा अपि तद्भावेनैव पुनराभवन्ति पुनः सत आगत्य व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यत्पूर्वमिह लोके भवन्ति वभूवुरित्यर्थः ।

तदेव पुनरागत्य भवन्ति युगसहस्रकोट्यन्तरितापि संसारिणो जन्तोर्या पुरा भाविता वासना सा न नश्यतीत्यर्थः ।

"यथाप्रज्ञं हि संभवाः"इति श्रुत्त्यन्तरात् ॥३ ॥



_______________________________________________________________________



६,९.४

स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,९.४ ॥


__________



भाष्य ६,९.४ ताः प्रजा यस्मिन्प्रविश्य पुनराविर्भवन्ति ।

ये त्वितोऽन्ये सत्सत्यात्माभिसंधा यमणुभावं सदात्मानं प्रविश्य नाऽवर्तन्ते स य एषोऽणिमेत्यादि व्याख्यातम् ।

यथा लोके स्वकीये गृहे सुप्त उत्थाय ग्रामान्तरं गतो जानाति स्वगृहादागतोऽस्मीत्येवं सत आगतोऽस्मीति च जन्तूनां कस्माद्विज्ञानं न भवतीति भूय एव मा भगवान्विज्ञापयत्वित्युक्तस्तथा सोभ्येति होवाच पिता ॥४॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य नवमः खण्डः


=======================================================================


६,१०.१


इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यः ।

ताः समुद्रात्समुद्रमेवापियन्ति ।

स समुद्र एव भवति ।

ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६,१०.१ ॥


__________



भाष्य ६,१०.१ शृणु तत्र दृष्टान्तं यथा सोम्येमा नद्यो गङ्गाद्याः पुरस्तात्पूर्वां दिशं प्रति प्राच्यः प्रागञ्चनाः स्यन्दन्ते स्रवन्ति ।

पश्चात्प्रतीचीं दिशं प्रति सिन्ध्वाद्याः प्रतीचीमञ्चन्ति गच्छन्तीति प्रतीच्यस्ताः समुद्रादम्भोनिधेर्जलधरैराक्षिप्ताः पुनर्वृष्टिरूपेण पतिता गङ्गादिनदीरूपिण्यः पुनः समुद्रमम्भोनिधिमेवापियन्ति स समुद्र एव भवति ता नद्यो यथा तत्र समुद्रे समुद्रात्मनैकतां गता न विदुर्न जानन्तीयं गङ्गाहमस्मीयं यमुनाहमस्मीतीयं मह्यहमस्मीति च ॥१ ॥



_______________________________________________________________________



६,१०.२३


एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति ।

त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६,१०.२ ॥


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,१०.३ ॥


__________



भाष्य ६,१०.२,३ एवमेव खलु सोम्येमाः सर्वाः प्रजा यस्मात्सति सम्पद्य न विदुस्तस्मात्सत आगम्य न विदुः सत आगच्छामह आगता इति वा ।

त इह व्याघ्र इत्यादि समानमन्यत् ।

दृष्टं लोके जले वीचीतरङ्गफेनबुदादय उत्थिताः पुनस्तद्भावं गता विनष्टा इति ।

जीवास्तु तत्कारणमणुभावं प्रत्यहं गच्छन्तोऽपि सुषुप्ते मरणप्रलययोश्च न विनश्यन्तीत्येतत्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन ।

तथा सोम्येति होवाच पिता ॥२३ ॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य दशमः खण्डः


=======================================================================


६,११.१


अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद्यो मध्येऽभ्याहन्याज्जीवन् स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् ।

स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६,११.१ ॥


__________



भाष्य ६,११.१ शृणु दृष्टान्तमस्य  हे सोम्य महतोऽनेकशाखादियुक्तस्य वृक्षस्यास्येत्यग्रतः स्थितं वृक्षं दर्शयन्नाह ।

यदि यः कश्चिदस्य मूलेऽभ्याहन्यात्परश्वादिना सकृद्घातमात्रेण न शुष्यतीति जीवन्नेव भवति तदा तस्य रसः स्रवेत् ।

तथा यो मध्येऽभ्याहन्याज्जीवन्स्रवेत्तथा योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष वृक्ष इदानीं जीवेनाऽत्मनानुप्रभूतोऽनुव्याप्तः पेपीयमानोऽत्यर्थं पिबन्नुदकं भौमांश्च रसान्मूलैर्गृह्णन्मोदमानो हर्षं प्राप्नुवंस्तिष्ठति ॥१॥



_______________________________________________________________________



६,११.२


अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति ।

द्वितीयां जहात्यथ सा शुष्यति ।

तृतीयां जहात्यथ सा शुष्यति ।

सर्वं जहाति सर्वः शुष्यति ॥ ६,११.२ ॥


__________



भाष्य ६,११.२ तस्यास्य यदेकां शाखां रोगग्रस्तामाहतां वा जीवो जहात्युपसंहरति शाखायां विप्रसृतमात्मांशम् ।

अथ सा शुष्यति ।

वाङ्मनःप्राणकरणग्रामानुप्रविष्टो हि जीव इति तदुपसंहार उपसंह्रियते ।

जीवेन च प्राणयुक्तेनाशितं पोतं च रसतां गतं जीवच्छरीरं वृक्षं वर्धयद्रसरूपेण जीवस्य सद्भावे लिङ्गं भवति ।

अशितपीताभ्यां हि देहे जीवस्तिष्ठति ते चाशितपीते जीवकर्मानुसारिणी इति ।

तस्यैकाङ्गवैकल्यनिमित्तं कर्म यदोपस्थितं भवति तदा जीव एकां शाखां जहाति शाखाया आत्मानमुपसंहरति ।

अथ तदा सा शाखा शुष्यति ।

जीवस्थितिनिमित्तो रसो जीवकर्माक्षिप्तो जीवोपसंहारे न तिष्ठति ।

रसापगमे च शाखा शोषमुपैति ।

तथा सर्वं वृक्षमेव यदायं जहाति तदा सर्वोऽपि वृक्षः शुष्यति ।

वृक्षस्य रसस्रवणशोषणादिलिङ्गाज्जीववत्त्वं दृष्टान्तश्रुतेश्च चेतनावन्तः स्थावरा इति बौद्धकाणादमतमचेतनाः स्थावरा इत्येतदसारमिति दर्शितं भवति ॥२ ॥



_______________________________________________________________________



६,११.३


एवमेव खलु सोम्य विद्धीति ह उवाच ।

जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति ।

स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,११.३ ॥


__________


भाष्य ६,११.३ यथास्मिन्वृक्षदृष्टान्ते दर्शितं जीवेन युक्तो वृक्षोऽशुष्को रसपानादियुक्तो जावतीत्युच्यते तदपेतश्च म्रियत इत्युच्यते ।

एवमेव खलु सोम्य विद्धीति होवाचजीवापेतं जीववियुक्तं वाव किलेदं शरीरं म्रियते न जीवो म्रियत इति कार्यशेषे च सुप्तोत्थितस्य ममेदं कार्यशेषमपरिसमाप्तमिति स्मृत्वा समापनदर्शनात् ।

जातमात्राणां च जन्तूनां स्तन्याभिलाषयादिदर्शनाच्चातीतजन्मान्तरानुभूतस्तन (न्य) पानदुःखानुभवस्मृतिर्गम्यते ।

अग्निहोत्रादीनां च वैदिकानां कर्मणामर्थवत्त्वान्न जीवो म्रियत इति ।

स य एषोऽणिमेत्यादि समानम् ।

कथं पुनरिदमत्यन्तस्थीलं पृथिव्यादि नामरूपवज्जगदत्यन्तसूक्ष्मात्सद्रूपान्नामरूपरहितात्सतो जायत इत्येतद्दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति ।

तथा सोम्येति होवाच पिता ॥३॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्यैकादशः खण्डः


=======================================================================


६,१२.१


न्यग्रोधफलमत आहरेति ।

इदं भगव इति ।

भिन्द्धीति ।

भिन्नं भगव इति ।

किमत्र पश्यसीति ।

अण्व्य इवेमा धाना भगव इति ।

आसामङ्गैकां भिन्द्धीति ।

भिन्ना भगव इति ।

किमत्र पश्यसीति ।

न किंचन भगव इति ॥ ६,१२.१ ॥


__________



भाष्य ६,१२.१ यद्येतत्प्रत्यक्षीकर्तुमिच्छसि, अतोऽस्मान्महतो न्यग्रोधात्फलमेकमाहरेत्युक्तस्तथा चकार, स इदं भगव उपहृतं फलमिति दर्शितवन्तं प्रत्याह फलं भिन्धीति ।

भिन्नमित्याहेतरः ।

तमाह पिता किमत्र पश्यसीत्युक्त आहाण्व्योऽणुतरा इवेमा धाना बीजानि पश्यामि भगव इति ।

आसां धानानामेकां धानामङ्ग हे वत्स भिन्धीत्युक्त आह भिन्ना भगव इति ।

यदि भिन्ना धाना तस्यां भिन्नायां किं पश्यसीत्युक्त आह न किञ्चन पश्यामि भगव इति ॥१ ॥



_______________________________________________________________________


६,१२.२


तं होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति ।

श्रद्धत्स्व सोम्येति ॥ ६,१२.२ ॥


__________



भाष्य ६,१२.२ तं पुत्रं होवाच वटधानायां भिन्नायां यं वटबीजाणिमानं हे सौम्यैतं न निभालयसे न पश्यसि ।

तथाप्येतस्य वै किल सोम्यैष महान्न्यग्रोधो बीजस्याणिम्नः सूक्ष्मस्यादृश्यमानस्य कार्यभूतः स्थूलशाखास्कन्धफलपलाशवांस्तिष्ठत्युत्पन्नः सन्नुत्तिष्ठतीति वोच्छब्दोऽध्याहार्योऽतः श्रद्धत्स्व सोम्य सत एवाणिम्नः स्थूलं नामरूपादिमत्कार्यं जगदुत्पन्नमिति ।

यद्यपि न्यायागमाभ्यां निर्धारितोर्ऽथस्तथैवेत्यवगम्यते तथाप्यत्यन्तसूक्ष्मेष्वर्थेषु बाह्यविषयासक्तमनसः स्वभावप्रवृत्तस्यासत्यां गुरुतरायां श्रद्धायां दुरवगमत्वं स्यादित्याह श्रद्धत्स्वेति ।

श्रद्धायां तु सत्यां मनसः समाधानं बुभुत्सितेर्ऽथे भवेत्ततश्च तदर्थावगतिः ।

"अन्यत्रमना अभूवम्" इत्यादिश्रुतेः ॥२ ॥



_______________________________________________________________________



६,१२.३


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,१२.३ ॥


__________



भाष्य ६,१२.३ स य इत्याद्युक्तार्थम् ।

यदि तत्सज्जगतो मूलं कस्मान्नोपलभ्यत इत्येतद्दृष्टान्तेन मा भगवान्भूय एव विज्ञापयत्विति ।

तथा सोम्येति होवाच पिता ॥३॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य द्वादशः खण्डः


=======================================================================


६,१३.१


लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति ।

स ह तथा चकार ।

तं होवाच ।

यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति ।

तद्धावमृश्य न विवेद ॥ ६,१३.१ ॥


__________



भाष्य ६,१३.१ विद्यमानमपि वस्तु नोपलभ्यते प्रकारान्तरेण तूपलभ्यत इति शृण्वत्र दृष्टान्तं यदि चेममर्थं प्रत्यक्षो स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार ।

तं होवाच परेद्युः प्रातरूपसीदथा उपगच्छेथा इति ।

स ह पित्रोक्तमर्थं प्रत्यक्षीकर्तुमिच्छंस्तथा चकार ।

तं होवाच परेद्युः प्रातर्यल्लवं दोषा रात्रावुदकेऽवाधा निक्षिप्तवानस्यङ्ग हे वत्स तदाहरेत्युक्तस्तल्लवणमाजिहीर्षुर्ह किलावमृश्योदके न विवेद न विज्ञातवान्यथा तल्लवणं, विद्यमानमेव सदप्सु लीनं संश्लिष्टमभूतम् ॥१ ॥



_______________________________________________________________________



६,१३.२


यथा विलीनमेव ।

अन्॑गास्यान्तादाचामेति ।

कथमिति ।

लवणमिति ।

मध्यादाचामेति ।

कथमिति ।

लवणमिति ।

अन्तादाचामेति ।

कथमिति ।

लवणमिति ।

अभिप्रास्यैतदथ मोपसीदथा इति ।

तद्ध तथा चकार ।

तच्छश्वत्संवर्तते ।

तं होवाचात्र वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६,१३.२ ॥


__________


भाष्य ६,१३.२ यथा विलीनं लवणं न वेत्थ तथापि तच्चक्षुषा स्पर्शनेन च पिण्डरूपं लवणमगृह्यमाणं विद्यत एवाप्सूपलभ्यते चोपायान्तरेणेत्येतत्पुत्रं प्रत्याययितुमिच्छन्नाहअङ्गास्योदकस्यान्तादुपरि गृहीत्वाऽचामेत्युक्त्वा पुत्रं तथाकृतवन्तमुवाच कथमितीतर आह लवणं स्वादुतः इति ।

तथा मध्यादुदकस्य गृहीत्वाऽचामेति कथमिति लवणमिति ।

तथान्तादधोदेशाद्गृहीत्वाऽचामेति कथमिति लवणमिति ।

यद्येवमभिप्रास्य परित्यज्यैतदुदकमाचम्याथ मोपसीदथा इति तद्ध तथा चकार लवणं परित्यज्य पितृसमीपमाजगामेत्यर्थः ।

इदं वचनं ब्रवंस्तल्लवमं तस्मिन्नेवोदके यन्मया रात्रौ क्षिप्तं शाश्वन्नित्यं संवर्तते विद्यमानमेव सत्सम्यग्वर्तते ।

इत्येवमुक्तवन्तं तं होवाच पिता ।

यथेदं लवणं दर्शनस्पर्शनाभ्यां पूर्वं गृहीतं पुनरुदके विलीनं ताभ्यामगृह्यमाणमपि विद्यत एवोपायान्तरेण जिह्वयोपलभ्यमानत्वात् ।

एवमेवात्रैवास्मिन्नेव तेजोबन्नादिकार्ये शुङ्गेदेहे ।

वाव किलेत्याचार्योपदेशस्मरणप्रदर्शनार्थौ ।

सत्तेजोबन्नादिशुङ्गकारमं वटबीजाणिमवद्विद्यमानमेवेन्द्रियैर्नोपलभसे न निभालयसे ।

यथात्रैवोदके दर्शनस्पर्शनाभ्यामनुपलभ्यमानं लवणं विद्यमानमेव जिह्वयोपलब्धवानसि ।

एवमेवात्रैव किल विद्यमानं सज्जगन्मूलमुपायान्तरेण लवणाणिमवदुपलप्स्यस इति वाक्यशेषः ॥२ ॥



_______________________________________________________________________



६,१३.३


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,१३.३ ॥


__________



भाष्य ६,१३.३ स य इत्यादि समानम् ।

यद्येवं लवणाणिमवदिन्द्रियैरनुपलभ्यमानमपि जगन्मूलं सदुपायान्तरेणोपलब्धुं शक्यते यदुपलम्भात्कृतार्थः स्यामनुपलम्भाच्चाकृतार्थः स्यामहं तस्यैवोपलब्धौ क उपाय इत्येतद्भूय एव मा भगवान्विज्ञापयतु दृष्टान्तेन तथा सोम्येति होवाच ॥३॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य त्रयोदशः खण्डः


=======================================================================


६,१४.१

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ।

स यथा तत्र प्राङ्वोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ ६,१४.१ ॥


__________



भाष्य ६,१४.१ यथा लोके हे सोम्य पुरुषं यं कञ्चिद्गन्धारेभ्यो जनपदेभ्योऽभिनद्धाक्षं बद्धचक्षुषमानीय द्रव्यहर्ता तस्करस्तमभिनद्धाक्षमेव बद्धहस्तमरण्ये ततोऽप्यतिजनेऽतिगतजनेऽत्यन्तविगतजने देशे विसृजेत्स तत्र दिग्भ्रमोपेतो यथा प्राङ्वा प्रागञ्चनः प्राङ्मुखो, वेत्यर्थः ।

तथोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीत शब्दं कुर्याद्विक्रोशेत् ।

अभिनद्धाक्षोऽहं गन्धारेभ्यस्तस्करेणाऽनीतोऽभिनद्धाक्ष एव विसृष्ट इति ॥१ ॥



_______________________________________________________________________



६,१४.२


तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति ।

स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसंपद्येत ।

एवमेवेहाचार्यवान् पुरुषो वेद ।

तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ॥ ६,१४.२ ॥


__________



भाष्य ६,१४.२ एवं विक्रोशतस्तस्य यथाभिनहनं यथाबन्धनं प्रमुच्य मुक्त्वा कारुणिकः कश्चिदेतां दिशमुत्तरतो गन्धारा एतां दिशं व्रजेति प्रब्रूयात्स एवं कारुणिकेन बन्धनान्मोक्षितो ग्रामाद्ग्रामान्तरं पृच्छन्पण्डित उपदेशवान्मेधावो परोपदिष्टग्रामप्रवेशमार्गावधारणसमर्थः सन्गन्धारानेवोपसम्पद्येत नेतरो मूढमतिर्देशान्तरदर्शनतृड्वा ।

यथायं दृष्टान्तो वर्णितः स्वविषयेभ्यो गन्धारेभ्यः पुरुषस्तस्करैरभिनद्धाक्षोऽविवेको दिङ्मूढोऽशनायापिपासादिमान्व्याघ्रतस्कराद्यनेकभयानथर्व्रातयुतमरण्यं प्रवेशितो दुःखार्तो विक्रोशन्बन्धनेभ्यो मुमुक्षुस्तिष्ठति स कथञ्चिदेव कारुणिकेन केनचिन्मोक्षितः स्वदेशान्गन्धारानेवाऽपन्नो निर्वृतः सुख्यभूत् ।

एवमेव सतो जगदात्मनः स्वरूपात्तेजोवन्नादिमयं देहारण्यं वातपित्तकफरुधिरमेदोमांसास्थिमज्जाशुक्रकृमिमूत्रपुरीषवच्छीतोष्णाद्यनेकद्वन्द्वसुखदुःखवच्चेदं मोहपटाभिनद्धाक्षो भार्यापुत्रमित्रपशुबन्ध्वादिदृष्टादृष्टानेकविषयतृष्णापाशितः पुण्यापुण्यादितस्करैः प्रवेशितो"ऽहममुष्य पुत्रो ममैते बान्धवाः सुख्यहं दुःखी मूढः पण्डितो धार्मिको बन्धुमाञ्जातो मृतो जीर्णः पापी पुत्रो मे मृतो धनं मे नष्टं हा हतोऽस्मि कथं जाविष्यामि का मे गतिः किं मे त्राणम्" इत्येवमनेकशतसहस्रानर्थजालवान्विक्रोशन्कथञ्चिदेव पुण्यातिशयात्परमकारुणिकं कञ्चित्सद्ब्रह्मात्मविदं विमुक्तबन्धनं ब्रह्मिष्ठं यदाऽसादयति तेन च ब्रह्मविदा कारुण्याद्दर्शितसंसारविषयदोषदर्शनमार्गो विरक्तः संसारविषयेभ्यो नासि त्वं संसार्यमुष्य पुत्रत्वादिधर्मवान्किं तर्हि सद्यत्तत्त्वमसीत्यविद्यामोहपटाभिनहनान्मोक्षितो गन्धारपुरुषवच्च स्वं सदात्मानमुपसम्पद्य सुखी निर्वृतः स्यादित्येतमेवार्थमाहाऽचार्यवान्पुरुषो वेदेति तस्यास्यैवमाचार्यवतो मुक्ताविद्याभिनहनस्य तावदेव तावानेव कालश्चिरं क्षेपः सदात्मस्वरूपसम्पत्तेरिति वाक्यशेषः ।

कियान्कालश्चिरमित्युच्यते यावन्न विमोक्ष्ये न विमोक्ष्यत इत्येतत्पुरुषव्यत्यनेन ।

सामर्थ्यात् ।

येन कर्मणा शरीरमारब्धं तस्योपभोगेन येनाथशब्द आनन्तर्यार्थः स्यात् ।

ननु यथा सद्विज्ञानान्तरमेव देहपातः सत्सम्पत्तिश्च न भवति कर्मशेषवशात्तथाप्रवृत्तफलानि प्राग्ज्ञानोत्पत्तेर्जन्मान्तरसञ्चितान्यपि कर्माणि सन्तीति तत्फलोपभोगार्थं पतितेऽस्मिञ्शरीरान्तरमारब्धव्यम् ।

उत्पन्ने च ज्ञाने यावज्जीवं विहितानि प्रतिषिद्धानि वा कर्माणि करोत्येवेति तत्फलोपभोगार्थं चावश्यं शरीरान्तरमारब्धव्यं ततश्च कर्माणि ततः शरीरान्तरमिति ज्ञानार्थक्यं कर्मणां फलवत्त्वात् ।

अथ ज्ञानवतः क्षीयन्ते कर्माणि तदा ज्ञानप्राप्तिसमकालमेव ज्ञानस्य सत्सम्पत्तिहेतुत्वान्मोक्षः स्यादिति शरीरपातः स्यात् ।

तथाचाऽचार्याभाव "इत्याचार्यवान्पुरुषो वेदे"त्याचार्यवत्त्वानुपपत्तिर्ज्ञानान्मोक्षाभावप्रसङ्गश्च ।

देशान्तरप्राप्त्युपायज्ञानवदनैकान्तिकफलत्वं वा ज्ञानस्य ।

न ।

कर्मणां प्रवृत्ताप्रवृत्तफलवत्त्वविशेषोपपत्तेः ।

यदुक्तमप्रवृत्तफलानां कर्ममां ध्रुवफलवत्त्वाद्ब्रह्मविदः शरीरे पतिते शरीरान्तरमारब्धव्यमप्रवृत्तकर्मफलोपभोगाथर्मित्येतदसत् ।

विदुष"स्तस्य तावदेव चिरम्" इति श्रुतेः प्रामाण्यात् ।

ननु"पुण्यो वै पुम्येन कर्मणाभवति"इत्यादिश्रुतेरपि प्रामाण्यमेव ।

तस्यमेवम् ।

तथापि प्रवृत्तफलानामप्रवृत्तफलानां च कर्मणां विशेषोऽस्ति ।

कथम् ।

यानि प्रवृत्तफलानि कर्माणि यैर्विद्वच्छरीरमारब्धं तेषामुपभोगेनैव क्षयः ।

यथाऽरह्धवेगस्य लक्ष्यमुक्तेष्वादेर्वेगक्षयादेव स्थितिर्न तु लक्ष्यवेधसमकालमेव प्रयोजनं नास्तीति तद्वत् ।

अन्यानि त्वप्रवृत्तफलानीह प्राग्ज्ञानोत्पत्तेरूर्ध्वं च कृतानि वा क्रियमाणानि वातीतजन्मान्तरकृतानि वाप्रवृत्तफलानि ज्ञानेन दह्यन्ते प्रायश्चित्तेनेव ।

"क्षीयन्ते चास्य कर्माणि"इति चाऽथर्वणे ।

अतो ब्रह्मविदो जीवनादिप्रयोजनाभावेऽपि प्रवृत्तफलानां कर्मणामवश्यमेव फलोपभोगः स्यादिति मुक्तेषुवत्तस्य तावदेव चिरमिति युक्तमेवोक्तमिति यथोक्तदोषचोदनानुपपत्तिः ज्ञानोत्पत्तेरूर्ध्वं च ब्रह्मविदः कर्माभावमवोचाम"ब्रह्मसंस्थोऽमृतत्वमेती"त्यत्र ।


तच्च स्मर्तुमर्हसि ॥२ ॥



_______________________________________________________________________



६,१४.३


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,१४.३ ॥


__________



भाष्य ६,१४.३ स य इत्याद्युक्तार्थम् ।

आचार्यवान्विद्वान्येन क्रमेण सत्सम्पद्यते तं क्रमं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥३॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य चतुर्दशः खण्डः


=======================================================================


६,१५.१


पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति ।

तस्य यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ ६,१५.१ ॥


__________



भाष्य ६,१५.१ पुरुषं हे सोम्योतोपतापिनं ज्वराद्युपतापवन्तं ज्ञातयो बान्धवाः परिवार्योपासते मुमूर्षुं जानासि मां तव पितरं पुत्रं भ्रातरं वेति पृच्छन्तस्तस्य मुमूर्षोर्यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामित्येतदुक्तर्थम् ॥१ ॥



_______________________________________________________________________



६,१५.२


अथ यदास्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ ६,१५.२ ॥


__________



भाष्य ६,१५.२ संसारिणो यो मरणक्रमः स एवायं विदुषोऽपि सत्सम्पत्तिक्रम इत्येतदाह परस्यां देवतायां तेजसि सम्पन्नेऽथ न जानाति ।

अविद्वांस्तु सत उत्थाय प्राग्भावितं व्याघ्रादिभावं देवमनुष्यादिभावं वा विशति ।

विद्वांस्तु शास्राचार्योपदेशजनितज्ञानदीपप्रकाशितं सद्ब्रह्मात्मानं प्रविश्य नाऽवर्तत इत्येष सत्सम्पत्तिक्रमः ।

अन्ये तु मूर्धन्यया नाड्योत्क्रम्याऽदित्यादिद्वारेण सद्गच्छन्तीत्याहुस्तदसत् ।

देशकालनिमित्तफलाभिसन्धानेन गमनदर्शनात् ।

न हि सदात्मैकत्वदर्शिनः सत्याभिसन्धस्य देशकालनिमित्तफलाद्यनृताभिसन्धिरुपपद्यते ।

विरोधात् ।

अविद्याकामकर्मणां च गमननिमित्तानां सद्विज्ञानहुताशनविप्लुष्टत्वाद्गमनानुपपत्तिरेव ।

"पर्याप्तकामस्य कृतात्मनस्तिवहैव सर्वे प्रविलीयन्ति कामाः"इत्याद्याथर्वणे ।

नदीसमुद्रदृष्टान्तश्रुतेश्च ॥२ ॥



_______________________________________________________________________



६,१५.३


स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

भूय एव मा भगवान् विज्ञापयत्विति ।

तथा सोम्येति होवाच ॥ ६,१५.३ ॥


__________



भाष्य ६,१५.३ स य इत्यादि समानम् ।

यदि मरिष्यतो मुमुक्षतश्च तुल्या सत्सम्पत्तिस्तत्र विद्वान्सत्सम्पन्नो नाऽवर्तत आवर्तते त्वविद्वानित्यत्र कारणं दृष्टान्तेन भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥३॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य पञ्चदशः खण्डः


=======================================================================


६,१६.१


पुरुषं सोम्योत हस्तगृहीतमानयन्ति ।

अपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति ।

स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते ।

सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।

स दह्यते ।

अथ हन्यते ॥ ६,१६.१ ॥


__________



भाष्य ६,१६.१ शृणु यथा सोम्य पुरुषं चौर्यकर्मणि सन्दिह्यमानं निग्रहाय परीक्षणाय वोतापि हस्तगृहीतं बद्धहस्तमानयन्ति राजपुरुषाः ।

किं कृतवानयमिति पृष्टाश्चाऽहुरपहार्शीद्धनमस्यायम् ।

ते चाऽहुः किमपहरणमात्रेम बन्धनमर्हति ।

अन्यथा दत्तेऽपि धने बन्धनप्रसङ्गादित्युक्ताः पुनराहुः स्तेयमकार्षीत्तौर्येण धनमपहार्षीदिति ।

तेष्वेवं वदत्स्वितरोऽपह्नते नाहं तत्कर्तेति ।

(ते चाऽहुः सन्दिह्यमानं स्तेयमकार्षीस्त्वमस्य धनस्येति) ।

तस्मिंश्चापह्नवाने आहुः परशुमस्मै तपतेति शोधयत्वात्मानमिति ।

स यदि तस्य स्तैन्यस्य कर्ता बवति बहिश्चापह्नते स एवंभूतस्तत एवानृतमन्यथाभूतं सन्तमन्यथाऽमानं कुरुते स तथानृताभिसन्धोऽनृतेनाऽत्मानमन्तर्धाय व्यवहितं कृत्वा परशुं तप्तं मोहात्प्रतिगृह्राति स दह्यतेऽथ हन्यते राजपुरुषैः स्वकृतेनानृताभिसन्धिदोषेण ॥१ ॥


_______________________________________________________________________



६,१६.२


अथ यदि तस्याकर्ता भवति ।

तत एव सत्यमात्मानं कुरुते ।

स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।

स न दह्यते ।

अथ मुच्यते ॥ ६,१६.२ ॥


__________



भाष्य ६,१६.२ अथ यदि तस्य कर्मणोऽकर्ता भवति तत एव सत्यमात्मानं कुरुते स सत्येन तया स्तैन्याकर्तृतयाऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति स सत्याभिसन्धः सन्न दह्यते सत्यव्यवधानादथ मुच्यते च मृषाभियोक्तृभ्यः ।

तप्तपरशुहस्ततलसंयोगस्य तुल्यत्वेऽपि स्तेयकर्त्रकर्त्रोरनृताभिसन्धो दह्यते न तु सत्याभिसन्धः ॥२ ॥



_______________________________________________________________________



६,१६.३


स यथा तत्र नादाह्येत ।

एतदात्म्यमिदं सर्वम् ।

तत्सत्यम् ।

स आत्मा ।

तत्त्वमसि श्वेतकेतो इति ।

तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६,१६.३ ॥


__________



भाष्य ६,१६.३ स यथा सत्याभिसन्धस्तप्तपरशुग्रहणकर्मणि सत्यव्यवहितहस्ततलत्वान्नादाह्येत न दह्येतेत्येतदेवं सद्ब्रह्मसत्याभिसन्धीतरयोः शरीरपातकाले च तुल्यायां सत्सम्पत्तौ विद्वान्सत्सम्पद्य न पुनर्व्याघ्रदेवादिदेहग्रहणायाऽवर्तते ।

अविद्वांस्तु विकारानृताभिसन्धः पुनर्व्याघ्रादिभावं देवतादिभावं वा यथाकर्म यथाश्रुतं प्रतिपद्यते ।

यदात्माभिसन्ध्यनभिसन्धिकृते मोक्षबन्धने यच्च मूलं जगतो यदायतना यत्प्रतिष्ठाश्च सर्वाः प्रजा यदात्मकं च सर्वं यच्चाजममृतमभयं शिवमद्वितीयं तत्सत्यं स आत्मा तवातस्तत्त्वमसि हे श्वेतकेतो इत्युक्तार्थमसकृद्वाक्यम् ।


कः पुनरसौ श्वेतकेतुस्त्वंशब्दार्थः ।

योऽहं श्वेतकेतुरुद्दालकस्य पुत्र इति वेदाऽत्मानमादेशं श्रुत्वा मत्वा विज्ञाय चाश्रुतममतमविज्ञातं विज्ञातुं पितरं पप्रच्छ कथं नु भगवः स आदेशो बवतीति स एषोऽधिकृतः श्रोता मन्ता विज्ञाता तेजोबन्नमयं कार्यकारणसङ्घातं प्रविष्टा परैव देवता नामस्वरूपव्याकरणायाऽदर्श इव पुरुषः सूर्यादुरिव जलादौ प्रतिबोधितस्तत्त्वमसीतिदृष्टान्तैर्हेतुभिश्च तत्पितुरस्य ह किलोक्तं सदेवाहमस्मीति विजज्ञौ विज्ञातवान् ।

द्विर्वचनमध्यायपरिसमाप्त्यर्थम् ।

किं पुनरत्र षष्ठे वाक्यप्रमाणेन जनितं फलम्?आत्मनि कर्तृत्वभोक्तृत्वयोरधिकृतत्वविज्ञाननिवृत्तिस्तस्य फलं यं वयमवोचाम त्वंशब्दवाच्यमर्थं श्रोतुं मन्तुं चाधिकृतमविज्ञातविज्ञानफलार्थम् ।

प्राक्चैतस्माद्विज्ञानादहमेवं करिष्याम्यग्निहोत्रादीनि कर्माण्यहमत्राधिकृतः ।

एषां च कर्मणां फलमिहामुत्र च भोक्ष्ये कृतेषु वा कर्मसु कृतकर्तव्यः स्यामित्येवं कर्तृत्वभोक्तृत्वयोरधिकृतोऽस्मीत्यात्मनि यद्विज्ञानमभूत्तत्तस्य यत्सज्जगतो मूलमेकमेवाद्वितीयं तत्त्वमसीत्यनेन वाक्येन प्रतिबुद्धस्य निवर्तते ।

विरोधात् ।

न ह्येकस्मिन्नद्वितीय आत्मन्ययमहमस्मीति विज्ञाते ममेदमन्यदनेन कर्तव्यमिदं कृत्वास्य फलं भोक्ष्य इति वा भेदविज्ञानमुपपद्यते ।

तस्मात्सत्सत्याद्वितीयात्मविज्ञाने विकारानृतजीवात्मविज्ञानं निवर्तत इति युक्तम् ।

ननु तत्त्वमसीत्यत्र त्वंशब्दवाच्येर्ऽथे सद्बुद्धिराधित्स्यते यथाऽदित्यमन आदिषु ब्रह्मादिबुद्धिः ।

यथा च लोके प्रतिमादिषु विष्ण्वादिबुद्धिस्तद्वन्नतु सदेव त्वमिति, यदि सदेव श्वेतकेतुः स्यात्कथमात्मानं न विजानीयाद्येन तस्मै तत्त्वमसीत्युपदिश्यते ।

न ।

आदित्यादिवाक्यवैलक्षण्यात् ।

आदित्यो ब्रह्मेत्यादावितिशब्दव्यवधानान्न साक्षाद्ब्रह्मत्वं गम्यते ।

रूपादिमत्त्वाच्चाऽदित्यादीनामाकाशमनसोश्चेतिशब्दव्यवधानादेवाब्रह्मत्वमिह तु सत एवेह प्रवेशं दर्शयित्वा तत्त्वमसीति निरङ्कुशं सदात्मभावमुपदिशति ।

ननु पराक्रमादिगुणः सिंहोऽसि त्वमितिवत्तत्त्वमसीति स्यात् ।

न ।

मृदादिवत्सदेकमेवाद्वितीयं सत्यमित्युपदेशात् ।

न चोपचारविज्ञानात्तस्य तावदेव चिरमिति सत्सम्पत्तिरूपदिश्येत ।

मृषात्वादुपचारविज्ञानस्य ।

त्वमिन्द्रोऽसि यम इतिवत् ।

नापि स्तुतिरनुपास्यत्वाच्छ्वेतकेतोः ।

नापि सच्छ्वेतकेतुत्वोपदेशेन स्तूयेत ।

न हि राजा दासस्त्वमिति स्तुत्यः स्यात् ।

नापि सतः सर्वात्मन एकदेशनिरोधो युक्तस्तत्त्वमसीति देशाधिपतेरिव ग्रामाध्यक्षस्त्वमिति ।

न चान्या गतिरिह सदात्मत्वोपदेशादर्थान्तरभूता सम्भवति ।

ननु सदस्मीतिबुद्धिमात्रमिह कर्तव्यतया चोद्यते न त्वज्ञातं सदसीति ज्ञाप्यत इति चेत् ।

नन्वस्मिन्पक्षेऽप्यश्रुतं श्रुतं भवतीत्याद्यनुपपन्नम् ।

न, सदस्मीतिबुद्धिविधेः स्तुत्यर्थत्वात् ।

न, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरमित्युपदेशात् ।

यदि हि सदस्मीति बुद्धिमात्रं कर्तव्यतया विधीयते न तु त्वंशब्दवाच्यस्य सद्रूपत्वमेव तदा नाऽचार्यवान्वेदेति ज्ञानोपायोपदेशो वाच्यः स्यात् ।

यथाग्निहोत्रं जुहुयादित्येवमादिष्वर्थप्राप्तमेवाऽचार्यवत्त्वमिति तद्वत् ।

तस्य तावदेव चिरमिति च क्षेपकरणं न युक्तं स्यात् ।

सदात्मतत्त्वेऽविज्ञातेऽपि सकृद्बुद्धिमात्रकरणे मोक्षप्रसङ्गात् ।

न च तत्त्वमसीत्युक्ते नाहं सदितिप्रमाणवाक्यजनिता बुद्धीर्निवर्तयितुं शक्या नोत्पन्नेति वा शक्यं वक्तुम् ।

सर्वोपनिषद्वाक्यानां तत्परतयैवोपक्षयात् ।

यथाग्निहोत्रादिविधिजनिताग्निहोत्रादिकर्तव्यताबुद्धीनामतथार्थत्वमनुत्पन्नत्वं वा न शक्यते वक्तुं तद्वत् ।

यत्तूक्तं सदात्मा सन्नात्मानं कथं न जानीयादिति ।

नासौ दोषः ।

कार्यकरणसङ्घातव्यतिरिक्तोऽहं जीवः कर्ता भोक्तेत्यपि स्वभावतः प्राणिनां विज्ञानादर्शनात्किसु तस्य सदात्मविज्ञानम् ।

कथमेवं व्यतिरिक्तविज्ञाने सति तेषां कर्तृत्वादिविज्ञानं सम्भवति दृश्यते च ।

तद्वत्तस्यापि देहादिष्वात्मबुद्धित्वान्न स्यात्सदात्मविज्ञानम् ।

तस्माद्विकारानृताधिकृतजीवात्मविज्ञाननिवर्तकमेवेदं वाक्यं तत्त्वमसीति सिद्धमिति ॥३ ॥ ॥


इति च्छान्दोग्योपनिषदि षष्ठाध्यायस्य षोडशः खण्डः

इति च्छान्दोग्योपनिषद्ब्राह्मणे षष्ठोध्यायः समाप्तः


Post a Comment

0 Comments

Ad Code