Ad Code

छान्दोग्योपनिषद्भाष्यम् -१ श्रीशङ्करः



छान्दोग्योपनिषद्भाष्यम्

श्रीशङ्करः

सामवेदीया

छान्दोग्योपनिषत्

प्रथमोऽध्यायः

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि, सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ओं शान्तिः शान्तिः शान्तिः

श्रीमच्छङ्करभगवत्पादाचार्यविरचितं भाष्यमुपोद्घातः

"ओमित्येतदक्षरम्" इत्याद्यष्टाध्यायी छान्दोग्योपनिषत् ।

तस्याः संक्षेपतोर्ऽथजिज्ञासुभ्य ऋजुविवरणमल्पग्रन्थश्रीमन्नरेन्द्रपुरीयतीन्द्रविरचितं छान्दोग्योपनिषद्भाष्यटिप्पणमिदमारभ्यते ।

तत्र सम्बन्धः समस्तं कर्माधिगतं प्राणादिदेवताविज्ञानसहितमर्चिरादिमार्गेण ब्रह्मलोकप्रतिपत्तिकारणम् ।

केवलं च धूमादिमार्गेण चन्द्रलोकप्रतिपत्तिकारणम् ।

स्वभावप्रवृत्तानां च मार्गद्वयपरिभ्रष्टानां कष्टाधोगतिरुक्ता ।

न चोभयोर्मार्गयोरन्यतरस्मिन्नपि मार्गे आत्यन्तिकी पुरुषार्थसिद्धिरित्यतः कर्मनिरपेक्षमद्वैतात्मविज्ञानं संसारगतित्रयहेतूपमर्देन वक्तव्यमित्युपनिषदारभ्यते ।

न चाद्वैतात्मविज्ञानादन्यत्राऽत्यन्तिकी निःश्रेयसप्राप्तिः ।

वक्ष्यति हि"अथ येऽम्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति" ।

विपर्यये च"स स्वराड्भवति"इति ।

तथा द्वैतविषयानृताभिसन्धस्य बन्धनं तस्करस्येव तप्तपरशुग्रहणे बन्धदाहभावः, संसारदुःखप्राप्तिश्चेत्युक्त्वाद्वैतात्मसत्याभिसन्धस्यातस्करस्येव तप्तपरशुग्रहणे बन्धदाहाभावः संसारदुःखनिवृत्तिर्मोक्षश्चेति ।

अत एव न कर्मसहभाव्.द्वैतात्मदर्शनम् ।

क्रियाकारकफलभेदोपमर्देन"सदेकमेवाद्वितीयम्" "आत्मैवेदं सर्वम्" इत्येवमादिवाक्यजनितस्य बाधकप्रत्ययानुपपत्तेः ।

कर्मविधिप्रत्यय इति चेत् ।

न ।

कर्तृभोक्तृस्वभावविज्ञानवतस्तज्जनितकर्मफलरागद्वेषादिदोषवतश्च कर्मविधानात् ।

अधिगतसकलवेदार्थस्य कर्मविधानादद्वैतज्ञानवतोऽपि कर्मेति चेत् ।

न ।

कर्माधिकृतविषयस्य कर्तृभोक्त्रादिज्ञानस्य स्वाभाविकस्य"सदेकमेवाद्वितीयम्""आत्मैवेदं सर्वम्" इत्यनेनोपमर्दितत्वात् ।

तस्मादविद्यादिदोषवत एव कर्माणि विधीयन्ते ।

नाद्वैतज्ञानवतः ।

अत एव हि वक्ष्यति"सर्व एते पुण्यलोका भवन्ति ।

ब्रह्मसस्थोऽमृतत्वमेति"इति ।

तत्रैतस्मिन्नद्वैतविद्याप्रकरणेऽभ्युदयसाधनान्युपासनान्युच्यन्ते कैवल्यसन्निकृष्टफलानि ।

चाद्वैतादीषद्वीकृतब्रह्मविषयाणि इत्यादीनि कर्मसमृद्धिफलानि च कर्माङ्गसम्बन्धीनि ।

रहस्यसामान्यान्मनोवृत्तिसामान्याच्च यथाद्वैतज्ञानं मनोवृत्तिमात्रं तथान्यान्यप्युपासनानि मनोवृत्तिरूपाणीत्यस्ति हि सामान्यम् ।

कस्तर्ह्यद्वैतज्ञानस्योपासनानां च विशेषः ।

उच्यते ।

स्वाभाविकस्याऽत्मन्यक्रियेऽध्यारोपितस्य कर्त्रादिकारकक्रियाफलभेदविज्ञानस्य निवर्तकमद्वैतविज्ञानम् ।

रज्ज्वादाविव सर्पाद्यध्यारोपलक्षणज्ञानस्य रज्ज्वादिस्वरूपनिश्चयः प्रकाशनिमित्तः ।

उपासनं तु यथाशास्त्रसमर्पितं किञ्चिदालम्बनमुपादाय तस्मिन्समानचित्तवृत्तिसन्तानकरणं तद्विलक्षणप्रत्ययानन्तरितमिति विशेषः ।

तान्येतान्युपासनानि सत्त्वशुद्धिकरत्वेन वस्तुतत्त्वावभासकत्वादद्वैतज्ञानोपकारकाण्यालम्बनविषयत्वात्सुसाध्यानि चेति पूर्वमुपन्यस्यन्ते ।

तत्र कर्माभ्यासस्य दृढीकृतत्वात्कर्मपरित्यागेनोपासन एव दुःखं चेतः समर्पणं कर्तृमिति कर्माङ्गविषयमेव तावदादावुपासनमुपन्यस्यते ।

_______________________________________________________________________

१,१.१

ओमित्येतदक्षरमुद्गीथमुपासीत ।

ओमिति ह्युद्गायति ।

तस्योपव्याख्यानम् ॥ १,१.१ ॥

__________

भाष्य १,१.१ इत्युपोद्घातभाष्यमोमित्येतदक्षरमुद्गीथमुपासीत ।

ओमित्येतदक्षरं परमात्मनोऽभिधानं नेदिष्ठम् ।

तस्मिन्हि प्रयुज्यमाने स प्रसीदति प्रियनामग्रहण इव लोकः ।

तदिहेतिपरं प्रयुक्तमभिधायकत्वाद्व्यावर्तितं शब्दस्वरूपमात्रं प्रतीयते ।

तथा चार्चादिवत्परस्याऽत्मनः प्रतीकं सम्पद्यते ।

एवं नामत्वेन प्रतीकत्वेन च परमात्मोपासनसाधनं श्रेष्ठमिति सर्ववेदान्तेष्वगतम् ।

जपकर्मस्वाध्यायाद्यन्तेषु च बहुशः प्रयोगात्प्रसिद्धमस्य श्रैष्ठ्यम् ।

अतस्तदेतक्षरं वर्णात्मकमुद्गीथभक्त्यवयवत्वादुद्गीथशब्दवाच्यमुपासीत ।

कर्माङ्गावयवभूत ओङ्कारे परमात्मप्रतीके दृढामैकाग्र्यलक्षणां मतिं सन्तनुयात् ।

स्वयमेव श्रुतिरोङ्कारस्योद्गीथशब्दवाच्यत्वे हेतुमाहओमिति ह्युद्गायति ।

ओमित्यारभ्य हि यस्मादुद्गायत्यत उद्गीथ ओङ्कार इत्यर्थः ।

तस्योपव्याख्यानं तस्याक्षरस्योपव्याख्यानमेवमुपासनमेवंविभूत्येवंफलमित्यादिकथनमुपव्याख्यानम् ।

प्रवर्तत इति वाक्यशेषः ॥१ ॥

_______________________________________________________________________

१,१.२

एषां भूतानां पृथिवी रसः ।

पृथिव्या आपो रसः ।

अपामोषधयो रसः ।

ओषधीनां पुरुषो रसः ।

पुरुषस्य वाग्रसः ।

वाच ऋग्रसः ।

ऋचः साम रसः ।

साम्न उद्गीथो रसः ॥ १,१.२ ॥

__________

भाष्य १,१.२ एषां चराचराणां भूतानां पृथिवी रसो गतिः परायणमवष्टम्भः ।

पृथिव्या आपो रसोऽप्सु ह्योता च प्रोता च पृथिव्यतस्ता रसः पृथिव्याः ।

अपामोषधयो रसोऽप्परिणामत्वादोषधीनाम् ।

तासां पुरुषो रसोऽन्नपरिणामत्वात्पुरुषस्य ।

तस्यापि पुरुषस्य वाग्रसः ।

पुरुषावयवानां हि वाक्सारिष्ठा ।

अतो वाक्पुरुषस्य रस उच्यते ।

तस्या अपि वाच ऋग्रसः सारतरा ।

ऋचः साम रसः सारतरम् ।

तस्यापि साम्न उद्गीथः प्रकृतत्वादोङ्कारः सारतरः ॥२ ॥

_______________________________________________________________________

१,१.३

स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १,१.३ ॥

__________

भाष्य १,१.३ एवं स एष उद्गीथाख्य ओङ्कारो भूतादीनामुत्तरोत्तररसानामतिशयेन रसो रसतमः ।

परमः परमात्मप्रतीकत्वात् ।

परार्ध्योर्ऽधं स्थानं, परं च तदर्धं च परार्धं तदर्हतीति परार्ध्यः परमात्मस्थानार्हः परमात्मवदुपास्यत्वादित्यभिप्रायः ।

अष्टमः पृथिव्यादिरससंख्यायां यदुद्गीथो य उद्गीथः ॥३ ॥

_______________________________________________________________________

१,१.४

कतमा कतम र्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ १,१.४ ॥

__________

भाष्य १,१.४ वाच ऋग्रस इत्युक्तम् ।

कतमा सर्क्कतमत्तत्साम कतमो वा स उद्गीथः ।

कतमा कतमेति वीप्साऽदरार्था ।

ननु"वा बहूनां जातिपरिप्रश्ने डतमच्" ।

न ह्यत्र ऋग्जातिबहुत्वं कथं डतमच्प्रयोगः ।

नैष दोषः ।

जातौ परिप्रश्नो जातिपरिप्रश्न इत्येतस्मिन्विग्रहे जातावृग्व्यक्तीनां बहुत्वोपपत्तेः ।

न तु जातेः परिप्रश्न इति विगृह्यते ।

ननु जातेः परिप्रश्न इत्यस्मिन्विग्रहे कतमः कठ इत्याद्युदाहरणमुपपन्नं जातौ परिप्रश्न इत्यत्र तु न युज्यते ।

तत्रापि कठादिजातावेव व्यक्तिबहित्वाभिप्रायेण परिप्रश्न इत्यदोषः ।

यदि जातेः परिप्रश्नः स्यात्कतमा कतमर्गित्यादावुपसंख्यानं कर्तव्यं स्याद्विमृष्टं भवति विमर्शः कृतो भवति ॥४ ॥

_______________________________________________________________________

१,१.५

वागेवर्क् ।

प्राणः साम ।

ओमित्येतदक्षरमुद्गीथः ।

तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १,१.५ ॥

__________

भाष्य १,१.५ विमर्शे हि कृते सति प्रतिवचनोक्तिरुपपन्ना वागेवर्क्प्राणः सामेति ।

वागृचोरेकत्वेऽपि नाष्टमत्वव्याघातः पूर्वस्माद्वाक्यान्तरत्वादाप्तिगुणसिद्धय ओमित्येतदक्षरमुद्गीथ इति ।

वाक्प्राणावृक्सामयोनी इति वागेवर्क्प्राणः सामेत्युच्यते ।

यथाक्रममृक्सामयोन्योर्वाक्प्राणयोर्ग्रहणे हि सर्वासामृचां सर्वेषां च साम्नामवरोधः कृतः स्यात् ।

सर्वर्क्सामावरोधे चर्क्सामसाध्यानां च सर्वकर्मणामवरोधः कृतः स्यात् ।

तदवरोधे च सर्वे कामा अवरुद्धाः स्युः ।

ओमित्येतदक्षरमुद्गीथ इति भक्त्याशङ्का विनर्त्यते ।

तद्वा एतदिति मिथुनं निर्दिश्यते ।

किं तन्मिथुनमित्याह यद्वाक्च प्राणश्च सर्वऋक्सामकारणभूतौ मिथुनम् ।

ऋक्व साम चेति ऋक्सामकारणावृक्सामशब्दोक्तावित्यर्थः ।

न तु स्वतन्त्रमृक्च साम च मिथुनम् ।

अन्यथा हि वाक्च प्राणश्चेत्येकं मिथुनमृक्साम चापरं मिथुनमिति द्वे मिथुने स्याताम् ।

तथा च तदेतन्मिथुनमित्येकवचननिर्देषोऽनुपपन्नः स्यात् ।

तस्मादृक्सामयोन्योर्वाक्प्राणयोरेव मिथुनत्वम् ॥५ ॥

_______________________________________________________________________

१,१.६

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।

यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योऽन्यस्य कामम् ॥ १,१.६ ॥

__________

भाष्य १,१.६ तदेतदेवंलक्षणं मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।

एवं सर्वकामावाप्तिगुणविशिष्टं मिथुनमोङ्कारे संसृष्टं विद्यत इत्योङ्कारस्य सर्वकामावाप्तिगुणवत्त्वं प्रसिद्धम् ।

वाङ्मयत्वमोङ्कारस्य प्राणनिष्पाद्यत्वं च मिथुनेन संसृष्टत्वं मिथुनस्य कामापयितृत्वं प्रसिद्धमिति दृष्टान्त उच्यते ।

यथा लोके मिथुनौ मिथुनावयवौ स्त्रीपुंसौ यदा समागच्छतो ग्राम्यधर्मतया संयुज्येयानां तदाऽपयतः प्रापयतोऽन्योन्यस्येतरेतरस्य तौ कामम् ।

तथा च स्वात्मानुप्रविष्टेन मिथुनेन सर्वकामाप्तिगुणवत्त्वमोङ्कारस्य सिद्धमित्यभिप्रायः ॥६ ॥

_______________________________________________________________________

१,१.७

आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.७ ॥

__________

भाष्य १,१.७ तदुपासकोऽप्युद्गाता तद्धर्मा भवतीत्याहआपयिता ह वै कामानां यजमानस्य भवति य एतदक्षरमेवमाप्तिगुणवदुद्गीथमुपास्ते तस्यैतद्यथोक्तं फलमित्यर्थः ।

"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥७ ॥

_______________________________________________________________________

१,१.८

तद्वा एतदनुज्ञाक्षरम् ।

यद्धि किंचानुजानात्योमित्येव तदाह ।

एषो एव समृद्धिर्यदनुज्ञा ।

समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.८ ॥

__________

भाष्य १,१.८ समृद्धिगुणवांश्चोङ्कारः ।

कथम्तद्वा एतत्प्रकृमनुज्ञाक्षरमनुज्ञा च साक्षरं च तत् ।

अनुज्ञानुमतिरोङ्कार इत्यर्थः ।

कथमनुज्ञेत्याह श्रुतिरेव ।

यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वानुजानाति विद्वान्धनी वा तत्रानुमतिं कुर्वन्नोमित्येव तदाह ।

तथा च वेदे"त्रयस्त्रिंशदित्योमिति होवाच"इत्यादिना ।

तथा च लोकेऽपि तवेदं धनं गृह्णामीत्युक्त ओमित्याह ।

अत एषा उ एवैषैव समृद्धिर्यदनुज्ञा यानुज्ञा सा समृद्धिस्तन्मूलत्वादनुज्ञायाः ।

समृद्धो ह्योमित्यनुज्ञां ददाति तस्मात्समृद्धिगुणवानोङ्कार इत्यर्थः ।

समृद्धिगुणोपासकत्वात्तद्धर्मा सन्समर्धयिता ह वै कामानां यजमानस्य भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यादि पूर्ववत् ॥८ ॥

_______________________________________________________________________

१,१.९

तेनेयं त्रयी विद्या वर्तते ।

ओमित्याश्रावयति ।

ओमिति शंसति ।

ओमित्युद्गायति ।

एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥ १,१.९ ॥

__________

भाष्य १,१.९ अथेदानीमक्षरं स्तौत्युपास्यत्वात्प्ररोचनार्थम् ।

कथं, तेनाक्षरेण प्रकृतेनेयमृग्वेदादिलक्षणा त्रयी विद्या त्रयीविद्याविहितं कर्मेत्यर्थः ।

न हि त्रयी विद्यैवाऽश्रावणादिभिर्वर्तते कर्म तु तथा प्रवर्तत इति प्रसिद्धम् ।

कथमोमित्याश्रावत्योमिति शंसत्योमित्युद्गायतीति लिङ्गाच्च सोमयाग इति गम्यते ।

तच्च कर्मैतस्यैवाक्षरस्यापचित्यै पूजार्थम् ।

परमात्मप्रतीकं हि तत् ।

तदपचितिः परमात्मन एव सा ।

"स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः"इति स्मृतेः ।

महिम्ना रसेन ।

किञ्चैतस्यैवाक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैरित्यर्थः ।

तथैतस्यैवाक्षरस्य रसेन व्रीहियवादिरसनिर्वृत्तेन हविषेत्यर्थः ।

यागहोमाद्यक्षरेण क्रियते ।

तच्चाऽदित्यमुपतिष्ठते ।

ततो वृष्ट्यादिक्रमेण प्राणोऽन्नं च जायते ।

प्राणैरन्नेन च यज्ञस्तायते ।

अत उच्यतेऽक्षरस्य महिम्ना रस्न्ति ॥९ ॥

_______________________________________________________________________

१,१.१०

तेनोभौ कुरुतः ।

यश्चैतदेवं वेद यश्च न वेद ।

नाना तु विद्या चाविद्या च ।

यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १,१.१० ॥

__________

भाष्य १,१.१० तत्राक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितमाभिपतितेनाभरेणोभौ यश्चैतदक्षरमेवं व्याख्यातं वेद यश्च कर्ममात्रविदक्षरयाथात्म्यं न वेद तावुभौ कुरुतः कर्म ।

तयोश्च कर्मसामर्थ्यादेव फलं स्यात्किं तत्राक्षरयाथात्म्यविज्ञानेनेति ।

दृष्टं हि लोके हरीतकीं भक्षयतोस्तद्रसाभिज्ञेतरयोर्विरेचनम् ।

नैवम् ।

यस्मान्नाना तु विद्या चाविद्या च भिन्ने हि विद्याविद्ये ।

तुशब्दः पक्षव्यावृत्त्यर्थः ।

नोङ्कारस्य कर्माङ्गत्वमात्रविज्ञानमेव रसतमाप्तिसमृद्धिगुणवद्विज्ञानं किं तर्हि ततोऽभ्यधिकम् ।

तस्मात्तदङ्गाधिक्यात्फलाधिक्यं युक्तमित्यभिप्रायः ।

दृष्टं हि लोके वणिक्शबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् ।

तस्माद्यदेव विद्यया विज्ञानेन युक्तः सन्करोति कर्मश्रद्धया श्रद्दधानश्च सन्नुपनिषदा योगेन युक्तश्चेत्यर्थः ।

तदेव कर्म वीर्यवत्तरमविद्वत्कर्मणोऽधिकफलं भवतीति ।

विद्वत्कर्मणो वीर्यवत्तर[त्वटवचनादविदुषोऽपि कर्म वार्यदेव भवतीत्यभिप्रायः ।

न चाविदुषः कर्मण्यनधिकारः ।

औषस्त्ये काण्डेऽविदुषामप्यार्विज्यदर्शनात् ।

रसतमाप्तिसमृद्धिगुणवदक्षरमित्येकमुपासनम् ।

मध्ये प्रयत्नान्तरादर्शनात् ।

अनेकैर्हि विशेषणैरनेकधोपास्यत्वात्खल्वेतस्यैव प्रकृतस्योद्गीथाख्यस्याक्षरस्योपव्याख्यानं भवति ॥१०॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य प्रथम खण्डः

=======================================================================

१,२.१

देवासुरा ह वै यत्र संयेतिरे ।

उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १,२.१ ॥

__________

भाष्य १,२.१ देवासुरा देवाश्चासुराश्च ।

देवा दीव्यतेर्द्येतनार्थस्य शास्त्रोद्भासिता इन्द्रियवृत्तयः ।

अशिरास्तद्विरीताः स्वेष्वेवासुषु विष्वग्विषयासु प्राणनक्रियासु रमणात्स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव ।

ह वा इति पूर्ववृत्तोद्भासकौ निपातौ ।

यत्र यस्मिन्निमित्त इतरेतरविषयापहारलक्षणे संयेतिरे ।

सम्पूर्वस्य यततेः संग्रामार्थत्वमिति संग्रामं कृतवन्त उत्यर्थः ।

शास्रीयप्रकाशवृत्तयभिभवनाय प्रवृत्ताः स्वाभाविक्यस्तमोरूपा इन्द्रियवृत्तयोऽसुराः ।

तथा तद्विपरीताः शास्रार्थविषयविवेकज्योतिरात्मानो देवा स्वाभाविकतमोरूपासुराभिभवनाय प्रवृत्ता इत्यन्योन्याभिभवोद्भवरूपः संग्राम इव सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामोऽनादिकालप्रवृत्त इत्यभिप्रायः ।

स इहश्रुत्याऽख्यायिकारूपेण धर्माधर्मोत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतया ।

अत उभयेऽपि देवासुराः प्रजापतेरपत्यानीति प्राजापत्याः ।

प्रजापतिः कर्मज्ञानाधिकृतः पुरुषः ।

"पुरुष एवोक्थमयमेव महान्प्रजापतिः"इति श्रुत्यन्तरात् ।

तस्य हि शास्रीयाः स्वाभाविक्यश्च करणवृत्तयो विरुद्धा अपत्यानीव तदुद्भवत्वात् ।

तत्तत्रोत्कर्षापकर्षलक्षणनिमित्ते ह देवा उद्गीथभक्त्युपलक्षितमौद्गात्रं कर्माऽजह्रुराहृतवन्तः ।

तस्यापि केवलस्याऽहरणासम्भवाज्जोतिष्टोमाद्याहृतवन्त इत्यभिप्रायः ।

तत्किमर्थमाजह्रुरित्युच्यते अनेन कर्मणैनानसुरानभिभविष्याम इत्येवमभिप्रायाः सन्तः ॥१ ॥

_______________________________________________________________________

१,२.२

ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ।

तं ह असुराः पाप्मना विविधुः ।

तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।

पाप्मना ह्येष विद्धः ॥ १,२.२ ॥

__________

भाष्य १,२.२ यदा च तदुद्गीथं कर्माऽजिहीर्षवस्तदाते ह देवा नासिक्यं नासिकायां भवं चेतनावन्तं घ्राणं प्राणमुद्गीथकर्तारमुद्गीथभक्त्योपासांचक्रिरेझ्रुपासनण्टकृतवन्त इत्यर्थः ।

नासिक्यप्राणमदृष्ट्योद्गीथाख्यमक्षरमोङ्कारमुपासांचक्रिर इत्यर्थः ।

एवं हि प्रकृतार्थपरित्यागोऽप्रकृतार्थोपादानं च न कृतं स्यात् ।

खल्वेतस्यैवाक्षरस्येत्योङ्कारमुपासांचक्रिर इत्यर्थः ।

एवं हि प्रकृतार्थपरित्यागोऽप्रकृतार्थोपादानं च न कृतं स्यात् ।

खल्वेतस्यैवाक्षरस्येत्योङ्कारो ह्यापास्यतया प्रकृतः ।

ननूद्गीथोपलक्षितं कर्माऽहृतवन्त इत्यवोच इदानीमेव॑कथं नासिक्यप्राणदृष्ट्योङ्कारमुपासांचक्रिर इत्यात्थ ।

नैष दोषः ।

उद्गीथकर्मण्येव हि तत्कर्तृप्राणदेवतादृष्ट्योद्गीथभक्त्यवयवश्चोङ्कार उपास्यत्वेन विवक्षितो न स्वतन्त्रोऽतस्तादर्थ्येन कर्माऽहृतवन्त इति युक्तमेवोक्तम् ।

तमेवं देवैर्वृतमुद्गातारं हासुराः स्वाभाविकतम आत्मानो ज्योतीरूपं नासिक्यं प्राणं देवं स्वोत्थेन पाप्मनाधर्मासङ्गरूपेण विविधुर्विद्धवन्तः संसर्ग कृतवन्त इत्यर्थः ।

स हि नासिक्यः प्राणः कल्याणगन्धग्रहणाभिमानासङ्गाभिभूतविवेकविज्ञानो बभूव ।

स तेन दोषेण पाप्मसंसर्गी बभूव ।

तदिदमुक्तमसुराः पाप्मना विविधुरिति ।

यस्मादासुरेण पाप्मना विद्धस्तस्मात्तेन पाप्मना प्रेरितो घ्राणः प्राणो दुर्गन्धिग्राहकः प्राणिनाम् ।

अतस्तेनोभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च ।

पाप्मना ह्येष यस्माद्विद्धः ।

उभयग्रहणमविवक्षितम् ।

यस्योभयं हविरार्तिमार्छतीति यद्वत् ।

यदेवेदमप्रतिरूपं जिघ्रतीति समानप्रकरणश्रुतेः ॥२ ॥

_______________________________________________________________________

१,२.३६

अथ ह वाचमुद्गीथमुपासां चक्रिरे ।

तां हासुराः पाप्मना विविधुः ।

तस्मात्तयोभयं वदति सत्यं चानृतं च ।

पाप्मना ह्येषा विद्धा ॥ १,२.३ ॥

अथ ह चक्षुरुद्गीथमुपासां चक्रिरे ।

तद्धासुराः पाप्मना विविधुः ।

तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च ।

पाप्मना ह्येतद्विद्धम् ॥ १,२.४ ॥

अथ ह श्रोत्रमुद्गीथमुपासां चक्रिरे ।

तद्धासुराः पाप्मना विविधुः ।

तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।

पाप्मना ह्येतद्विद्धम् ॥ १,२.५ ॥

अथ ह मन उद्गीथमुपासां चक्रिरे ।

तद्धासुराः पाप्मना विविधुः ।

तस्मात्तेनोभयं संकल्पयते संकल्पनीयं च ।

पाप्मना ह्येतद्विद्धम् ॥ १,२.६ ॥

__________

भाष्य १,२.३६ मुख्यप्राणस्योपास्यत्वाय तद्विशुद्धत्वानुभवार्थोऽयं विचारः श्रुत्या प्रवर्तितः ।

अतश्चक्षुरादिदेवताः क्रमेण विचार्याऽसुरेण पाप्मना विद्धा इत्यपोह्यन्ते ।

समानमन्यत्, अथ ह वाचं चक्षुः श्रोत्रं मन इत्यादि ।

अनुक्ता अप्यन्यास्त्वग्रसमादिदेवता द्रष्टव्याः ।

"एवमु खल्वेता देवताः पाप्मभिः" इति श्रुत्यन्तरात् ॥३६ ॥

_______________________________________________________________________

१,२.७

अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासां चक्रिरे ।

तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ १,२.७ ॥

__________

भाष्य १,२.७ आसुरेण विद्धत्वाद्घ्राणादिदेवता अपोह्याथानन्तरं य एवायं प्रसिद्धो मुखे भवो मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराः पूर्ववदृत्वा प्राप्य विदध्वंसुर्विनष्टा अभिप्रायमात्रेण ।

अकृत्वा किञ्चिदपि प्राणस्य ।

कथं विनष्टा इत्यत्र दृष्टान्तमाहयथा लोकेऽश्मानमाखणं न शक्यते खनितुं कुद्दालादिभिरपि भेत्तुं न शक्योऽखण एवाऽखणस्तमृत्वा सामर्थ्याल्लोष्टः पांसुपिण्डः क्षुत्यन्तराच्चाश्मनि क्षिप्तोऽश्मभेदनाभिप्रायेण तस्याश्मनः किञ्चिदप्यकृत्वा स्वयं विध्वंसेत विदीर्येतैवं विदध्वंसुरित्यर्थः ॥७ ॥

_______________________________________________________________________

१,२.८

एवं यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ।

स एषोऽश्माखणः ॥ १,२.८ ॥

__________

भाष्य १,२.८ एवं विशुद्धोऽसुरैरधर्षितत्वात्प्राण इति एवंविदः प्राणात्मभूतस्येदं फलमाहयथाश्मानमिति ।

एष एव दृष्टान्तः ।

एवं हैव स विध्वंसते विनश्यति ।

कोऽसावित्याहय एवंविदि यथोक्तप्राणविदि पापं तदनर्हं कर्तु कामयत इच्छति यश्चाप्येनमभिदासति हिनस्ति प्राणविदं प्रत्याक्रोशताडनादि प्रयुङ्क्ते सोऽप्येवमेव विध्वंसत इत्यर्थः ।

यस्मात्स एष प्राणवित्प्राणभूतत्वादश्माखण इवाश्माखणोऽधर्षणीय इत्यर्थः ।

ननु नासिक्योऽपि प्राणो वाय्वात्मा यथा मुख्यस्तत्र नासिक्यः प्राणः पाप्मना विद्धः प्राण एव सन्न मुख्यः कथम् ।

नैष दोषः ।

नासिक्यस्तु स्थानकरणवैगुण्याद्विद्धो वाय्वात्मापि सन्मुख्यः स्थानदेवताबलीयस्त्वान्न विद्ध इति युक्तम् ।

यथा वास्यादयः शिक्षावत्पुरुषाश्रयाः कार्यविशेषं कुर्वन्ति नान्यहस्तगतास्तद्वद्दोषवद्घ्राणसचिवत्वाद्विद्धा घ्राणदेवता न मुख्यः ॥८ ॥

_______________________________________________________________________

१,२.९

नैवैतेन सुरभि न दुर्गन्धि विजानाति ।

अपहतपाप्मा ह्येषः ।

तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवति ।

एतमु एवान्ततोऽवित्त्वोत्क्रामति ।

व्याददात्येवान्तत इति ॥ १,२.९ ॥

__________

भाष्य १,२.९ यस्मान्न विद्धोऽसुरैर्मुख्यस्तस्मान्नैवैतेन सुरभि दुर्गन्धि वा विजानाति घ्राणेनैव तदुभयं विजानाति लोकः ।

अतश्च पाप्मकार्यादर्शनादपहतपाप्मापहतो विनाशितोऽपनीतः पाप्मा यस्मात्सोऽयमपहतपाप्मा ह्येष विशुद्ध इत्यर्थः ।

यस्माच्चाऽत्मम्भरयः कल्याणाद्यासङ्गवत्त्वाद्घ्राणादयो न तथाऽत्मम्भरिर्मुख्यः किं तर्हि सर्वार्थः ।

कथमिति, उच्यतेतेन मुख्येन यदश्नाति यत्पिबति लोकस्तेनाशितेन पीतेन चोतरान्घ्राणादीनवति पालयति ।

तेन हि तेषां स्थितिर्भवतीत्यर्थः ।

अतः सर्वम्भरः प्राणोऽतो विशुद्धः ।

कथं पुनर्मुख्याशितपीताभ्यां स्थितिरेषां गम्यत इति, उच्यतेएतं (तमु एव) मुख्यं प्राणं मुख्यप्राणस्य वृत्तिमन्नपाने इत्यर्थः ।

अन्ततोऽन्ते मरणकालेऽवित्त्वालब्ध्वोत्क्रामति ।

घ्राणादिप्राणसमुदाय इत्यर्थः ।

अप्राणो हि न शक्नोत्यशितुं पातुं वा ।

तेन तदोत्क्रान्तिः प्रसिद्धा घ्राणादिकलापस्य ।

दृश्यते ह्युत्क्रान्तौ प्राणस्याशिशिषा ।

अतो व्याददात्येवाऽस्यविदारणं करोतीत्यर्थः ।

तद्ध्यन्नालाभ उत्क्रान्तस्य लिङ्गम् ॥९ ॥

_______________________________________________________________________

१,२.१०

तं हाङ्गिरा उद्गीथमुपासां चक्रे ।

एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १,२.१० ॥

__________

भाष्य १,२.१० तं हाङ्गिरास्तं मुख्यं प्राणं हाङ्गिरा इत्येवङ्गुणमुद्गीथमुयासाञ्चक्रे बक इत्येव सम्बन्धं कृतवन्तः केचित् ।

एतमु एवाऽङ्गिरसं बृहस्पतिमयास्यं प्राणं मन्यन्त इति चनात् ।

भवत्येवं यथाश्रुतासम्भवे, सम्भवति तु यथाश्रुतमृषिचोदनायामपि श्रुत्यन्तरवत् ।

तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तमृषिमपि ।

तथा माध्यमा गृत्समदो विश्वामित्रो वामदेवोऽत्रिरित्यादि ऋषीनेव प्राणमापादयति श्रुतिः ।

तथैतानप्यृषीन्प्राणोपासकानङ्गिरोबृहस्पत्ययास्यान्प्राणं करोत्यभेदविज्ञानाय ।

"प्राणो ह पिता प्राणो माता"इत्यादिवच्च ।

तस्मादृषिरङ्गिरा नाम प्राण एव सन्नात्मानमङ्गिरसं प्राणमुद्गीथमुपासाञ्चक्र इत्येतत् ।

यद्यस्मात्सोऽङ्गानां प्राणः सन्रसस्तेनासावाङ्गिरसः ॥१० ॥

_______________________________________________________________________

१,२.१११२

तेन तं ह बृहस्पतिरुद्गीथमुपासां चक्रे ।

एतमु एव बृहस्पतिं मन्यन्ते ।

वाग्घि बृहती तस्या एषपतिः ॥ १,२.११ ॥

तेन तं हायास्य उद्गीथमुपासां चक्रे ।

एतमु एवायास्यं मन्यन्ते ।

आस्याद्यदयते ॥ १,२.१२ ॥

__________

भाष्य १,२.११,१२ तथा वाचो बृहत्याः पतिस्तेनासौ बृहस्पतिः ।

यथा यद्यस्मादास्यादयते निर्गच्छति तेनाऽयास्य ऋषिः प्राण एव सन्नित्यर्थः तथान्योऽप्युपासक आत्मानमेवाऽङ्गिरसादिगुणं प्राणमुद्गीथमुपासीतेत्यर्थः ॥१११२ ॥

_______________________________________________________________________

१,२.१३

तेन तं ह बको दाल्भ्यो विदां चकार ।

स ह नैमिशीयानामुद्गाता बभूव ।

स ह स्मैभ्यः कामानागायति ॥ १,२.१३ ॥

__________

भाष्य १,२.१३ न केवलमङ्गिरःप्रभृतयः उपासाञ्चक्रिरे ।

तं ह बको नाम दल्भ्यस्यापत्यं दाल्भ्यो विदाञ्चकार यथादर्शितं प्राणं विज्ञातवान् ।

विदित्वा च स ह नैमिशीयानां सत्त्रिणामुद्गाता बभूव ।

स च प्राणविज्ञानसामर्थ्यादेभ्यो नैमिशीयेभ्यः कामानागायति स्म हाऽगीतवान्किलेत्यर्थः ॥१३ ॥

_______________________________________________________________________

१,२.१४

आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।

इत्यध्यात्मम् ॥ १,२.१४ ॥

__________

भाष्य १,२.१४ तथान्योऽप्युद्गाताऽगाता ह वै कामानां भवति एवं विद्वान्यथोक्तगुणं प्राणमक्षरमुद्गीथमुपास्ते तस्यैतद्दृष्टं फलमुक्तम् ।

प्राणात्मभावस्त्वदृष्टम्"देवो भूत्वा देवानप्येति"इति श्रुत्यन्तरात्सिद्धमेवेत्यभिप्रायः ।

इत्यध्यात्ममेतदात्मविषयमुद्गीथोपासनमित्युक्तोपसंहारोऽधिदैवतोद्गीथोपासने वक्ष्यमाणे बुद्धिसमाधानार्थः ॥१४॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य द्वितीयः खण्डः

=======================================================================

१,३.१

अथाधिदैवतम् ।

य एवासौ तपति तमुद्गीथमुपासीत ।

उद्यन् वा एष प्रजाभ्य उद्गायति ।

उद्यंस्तमो भयमपहन्ति ।

अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १,३.१ ॥

__________

भाष्य १,३.१ अथानन्तरमधिदैवतं देवताविषयमुद्गीथोपासनं प्रस्तुतमुत्यर्थोऽनेकधोपास्यत्वादुद्गीथस्य ।

य एवासावादित्यस्तपति समुद्गीथमुपासीताऽदित्यदृष्ट्योद्गीथमुपासीतेत्यर्थः ।

तमुद्गीथमित्युद्गीथशब्दोऽक्षरवाची सन्कथमादित्ये वर्तत इति?उच्यते ।

उद्यन्नुद्गच्छन्वा एष प्रजाभ्यः प्रजार्थमुद्गायति प्रजानामन्नोत्पत्त्यर्थम् ।

न ह्यनुद्यति तस्मिन्व्रीह्यादेः पक्तिः स्यादत उद्गायतीवोद्गायति, यथैवोद्गातान्नार्थमत उद्गीथः सवितेत्यर्थः ।

किञ्चोद्यन्नैशं तमस्तज्जं च भयं प्रणिनामपहन्ति तमेवङ्गुणं सवितारं यो वेद सोऽपहन्ता नाशयिता ह वै भयस्य जन्ममरणादिलक्षणस्याऽत्मनस्तमसश्च तत्कारणस्याज्ञानलक्षणस्य भवति ॥१ ॥

_______________________________________________________________________

१,३.२

समान उ एवायं चासौ च ।

उष्णोऽयमुष्णोऽसौ ।

स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुम् ।

तस्माद्वा एतमिमममुं च उद्गीथमुपासीत ॥ १,३.२ ॥

__________

भाष्य १,३.२ यद्यपि स्थानभेदात्प्राणादित्यौ भिन्नाविव लक्ष्येते तथापि न स तत्त्वभेदस्तयोः ।

कथम्समान उ एव तुल्य एव प्राणः सवित्रा गुणतः सविता च प्राणेन ।

यस्मादुष्णोऽयं प्राण उष्णश्चासौ सविता ।

किञ्च स्वर इतीमं प्राणमाचक्षते कथयन्ति तथा स्वर इति॑प्रत्यास्वर इति चामुं सवितारम् ।

यस्मात्प्राणः स्वरत्येव न पुनर्मृतः प्रत्यागच्छति ।

सविता त्वस्तमित्वा पुनरप्यहन्यहनि प्रत्यागच्छति ।

अतः प्रत्यास्वरोऽस्माद्गुणतो नामतश्च समानावितरेतरं प्राणादित्यौ ।

अतः सतत्त्वाभेदादेतं प्राणमिमममुं चाऽदित्यमुद्गीथमुपासीत ॥२ ॥

_______________________________________________________________________

१,३.३

अथ खलु व्यानमेवोद्गीथमुपासीत ।

यद्वै प्राणिति स प्राणः ।

यदपानिति सोऽपानः ।

अथ यः प्राणापानयोः संधिः स व्यानः ।

यो व्यानः सा वाक् ।

तस्मादप्राणन्ननपानन् वाचमभिव्याहरति ॥ १,३.३ ॥

__________

भाष्य १,३.३ अथ खल्विति प्रकारान्तरेणोपासनमुद्गीथस्योच्यतेव्यानमेव वक्ष्यमाणलक्षणं प्राणस्यैव वृत्तिविशेषमुद्गीथमुपासीत ।

अधुना तत्सतत्त्वं निरूप्यतेयद्वै पुरुषः प्राणिति मुखनासिकाभ्यां वायुं बहिर्निःसारयति स प्राणाख्यो वायोर्वृत्तिविशेषो यदपानित्यपश्वसिति ताभ्यामेवान्तराकर्षति वायुं सोऽपानोऽपानाख्या वृत्तिः ।

ततः किमिति, उच्यतेअथ य उक्तलक्षणयोः प्राणापानयोः सन्धिस्तयोरन्तरा वृत्तिविशेषः स व्यानः, यः साङ्ख्यादिशास्रप्रसिद्धिः श्रुत्या विशेषनिरूपणान्नासौ व्यान इत्यभिप्रायः ।

कस्मात्पुनः प्राणापानौ हित्वा महताऽयासेन व्यानस्यैवोपासनमुच्यते ।

वीर्यवत्कर्महेतुत्वमित्याहयो व्यानः सा वाक् ।

व्यानकार्यत्वाद्वाचः ।

यस्माद्व्याननिर्वर्त्या वाक्तस्मादप्राणन्ननपानन्प्राणापानव्यापारावकुर्वन्वाचमभिव्याहरत्युच्चारयति लोकः ॥३ ॥

_______________________________________________________________________

१,३.४

या वाक्सर्क् ।

तस्मादप्राणन्ननपानन्नृचमभिव्याहरति ।

यर्क्तत्साम ।

तस्मादप्राणन्ननपानन् साम गायति ।

यत्साम स उद्गीथः ।

तस्मादप्रानन्ननपानन्नुद्गायति ॥ १,३.४ ॥

__________

भाष्य १,३.४ तथा वाग्विशेषामृचमृक्संस्थं च साम सामावयवं चोद्गीथमप्राणन्ननपानन्व्यानेनैव निर्वर्तयतीत्यभिप्रायः ॥४ ॥

_______________________________________________________________________

१,३.५

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ।

एतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १,३.५ ॥

__________

भाष्य १,३.५ न केवलं वागाद्यभिव्याहरणमेवातोऽस्मादन्यान्यपि यानि वीर्यवन्ति कर्माणि प्रयत्नाधिक्यनिर्वर्त्यानि यथाग्नेर्मन्थनमाजेर्मर्यादायाः सरणं धावनं दृढस्य धनुष आयमनमाकर्षणमप्राणन्ननपानंस्तानि करोति ।

अतोविशिष्टो व्यानः प्राणादिवृत्तिभ्यः ।

विशिष्टस्योपासनं ज्यायः फलवत्त्वाद्राजोपासनवत् ।

एतस्य हेतोरेतस्मात्कारणाद्व्यानमेवोद्गीथमुपासीत नान्यद्वृत्त्यन्तरम् ।

कर्मवीर्यवत्तरत्वं फलम् ॥५ ॥

_______________________________________________________________________

१,३.६

अथ खलूद्गीथाक्षराण्युपासीत उद्गीथ इति ।

प्राण एवोत् ।

प्राणेन ह्युत्तिष्ठति ।

वग्गीः ।

वाचो ह गिर इत्याचक्षते ।

अन्नं थम् ।

अन्ने हीदं सर्वं स्थितम् ॥ १,३.६ ॥

__________

भाष्य १,३.६ अथाधुना खलूद्गीथाक्षराण्युपासीत भक्त्यक्षराणि मा भूवन्नित्यतो विशिनष्टिउद्गीथ इति ।

उद्गीथनामाक्षराणीत्यर्थो नामाक्षरोपासनेऽपि नामवत एवोपासनं कृतं भवेदमुकमिश्रा इति यद्वत् ।

प्राण एवोत्, उदित्यस्मिन्नक्षरे प्राणदृष्टिः ।

कथं प्राणस्योत्त्वमित्याहप्राणेन ह्युत्तिष्ठति सर्वोऽप्राणस्यावसाददर्शनादतोऽस्त्युदः प्राणस्य च सामान्यम् ।

वाग्गीः ।

वाचो ह गिर इत्याचक्षते शिष्टाः ।

तथान्नं थमन्ने हीदं सर्वं स्थितमतोऽस्त्यन्नस्य थाक्षरस्य च सामान्यम् ॥६ ॥

_______________________________________________________________________

१,३.७

द्यौरेवोत् ।

अन्तरिक्षं गीः ।

पृथिवी थम् ।

आदित्य एवोत् ।

वायुर्गीः ।

अग्निस्थम् ।

सामवेद एवोत् ।

यजुर्वेदो गीः ।

ऋग्वेदस्थम् ।

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।

अन्नवानन्नादो भवति ।

य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १,३.७ ॥

__________

भाष्य १,३.७ त्रयाणां श्रुत्युक्तानि सामान्यानि तानि तेनानुरूपेण शेषेष्वपि द्रष्टव्यानि ।

द्यौरेवोदुच्चैः स्थानात् ।

अन्तरिक्षं गार्गिरणाल्लोकानाम् ।

पृथिवी थं प्राणिस्थानात् ।

आदित्य एवोदूर्ध्वत्वात् ।

वायुर्गीरग्न्यादीनां गिरणात् ।

अग्निस्थं यज्ञीयकर्मावस्थानात् ।

सामवेद एवोत्स्वर्गसंस्तुतत्वात् ।

यजुर्वेदो गीर्यजुषा प्रत्तस्य हविषो देवतानां गिरणात् ।

ऋग्वेदस्थमृच्यध्यूढत्वात्साम्नः ।

उद्गीथाक्षरोपासनफलमधुनोच्यतेदुग्धे दोग्ध्यस्मै साधकास्य ।

का सा वाक्, कं दोहम् ।

कोऽसौ दोह इत्याहयो वाचो दोहः ।

ऋग्वेदादिशब्दसाध्यं फलमित्यभिप्रायस्तद्वाचो दोहस्तं स्वयमेव वाग्दोग्ध्यात्मानमेव दोग्धि ।

किञ्चान्नवान्प्रभूतान्नोऽन्नादश्च दीप्ताग्निर्भवति ।

य एतानि यथोक्तान्येवं यथोक्तगुणान्युद्गीथाक्षराणि विद्वान्सन्नुपास्त उद्गीथ इति ॥७ ॥

_______________________________________________________________________

१,३.८

अथ खल्वाशीः समृद्धिः ।

उपसरणानीत्युपासीत ।

येन साम्ना स्तोष्यन् स्यात्तत्सामोपधावेत् ॥ १,३.८ ॥

__________

भाष्य १,३.८ अथ खल्विदानीमाशीःसमृद्धिराशिषः कामस्य समृद्धिर्यथा भवेत्तदुच्यत इति वाक्यशेषः ।

उपसरणान्युपसर्तव्यान्युपगन्तव्यानि ध्येयानीत्यर्थः ।

कथम्, इत्युपासीत, एवमुपासीत ।

तद्यथायेन साम्ना येन सामविशेषेण स्तोष्यन्स्तुतिं करिष्यन्स्याद्भवेदुद्गाता तत्सामोपधावेदुपसरेच्चिन्तयेदुत्पत्त्यादिभिः ॥८ ॥

_______________________________________________________________________

१,३.९

यस्यामृचि तामृचं, यदार्षेयं तमृषिं, यां देवतामभिष्टोष्यन् स्यात्तां देवतामुपधावेत् ॥ १,३.९ ॥

__________

भाष्य १,३.९ यस्यामृचि तत्साम तां चर्चमुपधावेद्देवतादिभिः ।

यदार्षेयं साम तं चर्षिम् ।

यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥९ ॥

_______________________________________________________________________

१,३.१०

येन च्छन्दसा स्तोष्यन् स्यात्तच्छन्द उपधावेत् ।

येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १,३.१० ॥

__________

भाष्य १,३.१० येन च्छन्दसा गायत्र्यादिना स्तोष्यन्स्यात्तच्छन्द उपधावेत् ।

येन स्तोमेन स्तोष्यमाणः स्यात् ।

स्तोमाङ्गफलस्य कर्तृगामित्वादात्मनेपदं स्तोष्यमाण इति ।

तं स्तोममुपधावेत् ॥१० ॥

_______________________________________________________________________

१,३.११

यां दिशमभिष्टोष्यन् स्यात्तां दिशमुपधावेत् ॥ १,३.११ ॥

__________

भाष्य १,३.११ यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेदधिष्ठात्रादिभिः ॥११ ॥

_______________________________________________________________________

१,३.१२

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तः ।

अभ्याशो ह यदस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १,३.१२ ॥

__________

भाष्य १,३.१२ आत्मानमुद्गाता स्वं रूपं गोत्रनामादिभिः सामादीन्क्रमेण स्वं चाऽत्मानमन्ततोऽन्त उपसृत्य स्तुवीत ।

कामं ध्यायन्नप्रमत्तः स्वरोष्मव्यञ्जनादिभ्यः प्रमादमकुर्वंस्ततोऽभ्याशः क्षिप्रमेव ह यद्यत्रास्मा एवंविदे स कामः समृध्येत समृद्धिं गच्छेत् ।

कोऽसौ, यत्कामो यः कामोऽस्य सोऽयं यत्कामः सन्स्तुवीतेति ।

द्विरुक्तिकादरार्था ॥१२॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य तृतीयः खण्डः

=======================================================================

१,४.१

ओमित्येतदक्षरमुद्गीथमुपासीत ।

ओमिति ह्युद्गायति ।

तस्योपव्याख्यानम् ॥ १,४.१ ॥

__________

भाष्य १,४.१ ओमित्येतदित्यादिप्रकृतस्याक्षरस्य पुनरुपादानमुद्गीथाक्षराद्युपासनान्तरितत्वादन्यत्र प्रसङ्गो मा भूदित्येवमर्थम् ।

प्रकृतस्यैवाक्षरस्यामृताभयगुणविशिष्टस्योपासनं विधातव्यमित्यारम्भः ।

ओमित्यादि व्याख्यातम् ॥१ ॥

_______________________________________________________________________

१,४.२

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ।

ते छन्दोभिरच्छादयन् ।

यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ॥ १,४.२ ॥

__________

भाष्य १,४.२ देवा वै मृत्योर्मारकाद्विभ्यतः किं कृतवन्त इत्युच्यते ।

त्रयीं विद्यां त्रयीविहितं कर्म प्राविशन्प्रविष्टवन्तो वैदिकं कर्म प्रारब्धवन्त इत्यर्थः ।

तन्मृत्योस्राणं मन्यमानाः ।

किञ्च ते कर्मण्यविनियुक्तैश्छन्दोभिर्मन्त्रैर्जपहोमादि कुर्वन्त आत्मानं कर्मान्तरेष्वच्छादयंश्छादितवन्तः ।

यद्यस्मादेभिर्मन्त्रैरच्छादयंस्तत्तस्माच्छन्दसां मन्त्राणां छादनाच्छन्दस्त्वं प्रसिद्धमेव ॥२ ॥

_______________________________________________________________________

१,४.३

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ।

ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १,४.३ ॥

__________

भाष्य १,४.३ तांस्तत्र देवान्कर्मपरान्मृत्युर्यथा लोके मत्स्यघातको मत्स्यमुदके नातिगम्भीरे परिपश्येद्बडिशोदकस्रावोपायसाध्यं मन्यमान एवं पर्यपश्यद्दृष्टवान्मृत्युः कर्मक्षयोपायेन साध्यान्देवान्मेन इत्यर्थः ।

क्वासौ देवान्ददर्शेत्युच्यतेऋचि साम्नि यजुषि ।

ऋग्यजुःसामसम्बन्धिकर्मणीत्यर्थः ।

ते नु देवा वैदिकेन कर्मणा संस्कृताः शुद्धात्मानः सन्तो मृत्योश्चिकीर्षितं विदितवन्तः ।

विदित्वा च त ऊर्ध्वा व्यावृत्ताः कर्मभ्य ऋचः साम्नो यजुष ऋग्यजुःसामसम्बद्धात्कर्मणोऽभ्युत्थायेत्यर्थः ।

तेन कर्मणा मृत्युभयापगमं प्रति निराशास्तदपास्यामृताभयगुणमक्षरं स्वरं स्वरशब्दितं प्राविशन्नेव प्रविष्टवन्तः ।

ओङ्कारोपासनपराः संवृत्ताः ।

एवशब्दोऽवधारणार्थः सन्समुच्चयप्रतिषेधार्थः ।

तदुपासनपराः संवृत्ता इत्यर्थः ॥३ ॥

_______________________________________________________________________

१,४.४

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरति एवं सामैवं यजुः ।

एष उ स्वरो यदेतदक्षरमेतदमृतमभयम् ।

तत्प्रविश्य देवा अमृता अभवन् ॥ १,४.४ ॥

__________

भाष्य १,४.४ कथं पुनः स्वरशब्दवाच्यत्वमक्षरस्येत्युच्यतेयदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुः ।

एष उ स्वरः ।

कोऽसौ यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य यथागुणमेवामृता अभयाश्चाभवन्देवाः ॥४ ॥

_______________________________________________________________________

१,४.५

स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति ।

तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ १,४.५ ॥

__________

भाष्य १,४.५ स योऽन्योऽपि देववदेवैतदक्षरमेवममृतमभयगुणं विद्वान्प्रणौति स्तौति ।

उपासनमेवात्र स्तुतिरभिप्रेता ।

स तथैवैतदेवाक्षरं स्वरममृतमभयं प्रविशति ।

तत्प्रविश्य च राजकुलं प्रविष्टानामिव राज्ञोऽन्तरङ्गबहिरङ्गतावन्न विशिष्टस्तदमृतो भवति न न्यूनता नाप्यधिकतामृतत्व इत्यर्थः ॥५॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य चतुर्थः खण्डः

=======================================================================

१,५.१

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।

असौ वा आदित्य उद्गीथ एष प्रणवः ।

ओमिति ह्येष स्वरन्नेति ॥ १,५.१ ॥

__________

भाष्य १,५.१ प्राणादित्यदृष्टिविशिष्टस्योद्गीथस्योपासनमुक्तमेवानूद्य प्रणवोद्गीथयोरेकत्वं कृत्वा तस्मिन्प्राणरश्मिभेदगुणविशिष्टदृष्ट्याक्षरस्योपासनमनेकपुत्रफलमिदानीं वक्तव्यमित्यारभ्यतेअथ खलु य उद्गीथः स प्रणवो बह्वृचानां यश्च प्रणवस्तेषां स एव च्छान्दोग्य उद्गीथशब्दवाच्यः ।

असौ वा आदित्य उद्गीथ एष प्रणवशब्दवाच्योऽपि स एव बह्वृचानां नान्यः ।

उद्गीथ आदित्यः कथम् ।

उद्गीथाख्यमक्षरमोमित्येतदेष हि यस्मात्स्वरन्नुच्चारयन्ननेकार्थत्वाद्धातूनाम् ।

अथवा स्वरन्गच्छन्नैति ।

अतोऽसावुद्गीथः सविता ॥१ ॥

_______________________________________________________________________

१,५.२

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।

रश्मींस्त्वं पर्यावर्तयात् ।

बहवो वै ते भविष्यन्ति ।

इत्यधिदैवतम् ॥ १,५.२ ॥

__________

भाष्य १,५.२ तमेतमु एवाहमभ्यगासिषमाभिमुख्येन गीतवानस्म्यादित्यरश्म्यभेदं कृत्वा ध्यानं कृतवानस्मीत्यर्थः ।

तेन तस्मात्कारणान्मम त्वमेकोऽसि पुत्र इति ह कौषीतकिः कुषीतकस्यापत्यं कौषीतकिः पुत्रमुवाचोक्तवान् ।

अतो रश्मीनादित्यं च भेदेन त्वं पर्यावर्तयात्पर्यावर्तयेत्यर्थः ।

त्वंयोगात् ।

एवं बहवो वै ते तव पुत्रा भविष्यन्तीत्यधि दैवतम् ॥२ ॥

_______________________________________________________________________

१,५.३

अथाध्यात्मम् ।

य एवायं मुख्यः प्राणस्तमुद्गीथमुपासित ।

ओमिति ह्येष स्वरन्नेति ॥ १,५.३ ॥

__________

भाष्य १,५.३ अथानन्तरमध्यात्ममुच्यते ।

य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतेत्यादि पूर्ववत् ।

तथोमिति ह्येष प्राणोऽपि स्वरन्नेत्योमिति ह्यनुज्ञां कुर्वन्निव वागादिप्रवृत्त्यर्थमेतोत्यर्थः ।

न हि मरणकाले मुमूर्षोः समीपस्थाः प्राणस्योङ्कारणं शृण्वन्तीति ।

एतत्सामान्यादादित्येऽप्योङ्करणमनुज्ञामात्रं द्रष्टव्यम् ॥३ ॥

_______________________________________________________________________

१,५.४

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।

प्राणांस्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १,५.४ ॥

__________

भाष्य १,५.४ एतमु एवाहमभ्यगासिषित्यादि पूर्ववदेव ।

अतो वागादीन्मुख्यं च प्राणं भेदगुणविशिष्टगुद्गीथं पश्यन्भूमानं मनसाभिगायतात् ।

पूर्ववदावर्तयेत्यर्थः ।

बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः ।

प्राणादित्यैकत्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यतेऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम् ॥४ ॥

_______________________________________________________________________

१,५.५

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।

होतृषदनाद्ध एवापि दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥ १,५.५ ॥

__________

भाष्य १,५.५ अथ खलु य उद्गीथ इत्यादिप्रणवोद्गीथैकत्वदर्शनमपक्तं तस्यैतत्फलमाहर्तुं शक्यम् ।

किं तद्धैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमुद्गात्रा स्वकर्मणि क्षतं कृतमित्यर्थः ।

तदनुसमाहरत्यनुसन्धत्त इत्यर्थः ।

चिकित्सयेव धातुवैषम्यसमीकरणमिति ॥५॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमाध्यायस्य पञ्चमः खण्डः

=======================================================================

१,६.१

इयमेवर्क् ।

अग्निः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

इयमेव सा ।

अग्निरमः ।

तत्साम ॥ १,६.१ ॥

__________

भाष्य १,६.१ अथेदानीं सर्वफलसम्पत्त्यर्थमुद्गीथस्योपासनान्तरं विधित्स्यतेइयमेव पृथिव्यृक् ।

ऋचि पृथिवीदृष्टिः कार्या ।

तथाग्निः साम ।

साम्न्यग्निदृष्टिः ।

कथं पृथिव्यग्न्योरृक्सामत्वमिति ।

उच्यते ।

तदेतत्तदेतदग्न्याख्यं सामैतस्यां पृथिव्यामृच्यध्यूढमधिगतमुपरिभावेन स्थितमित्यर्थः ।

ऋचीव साम ।

तस्मादत एव कारणादृच्यध्यूढमेव साम गीयत इदानीमपि सामगैः ।

यथा च ऋक्सामनी नात्यन्तं भिन्ने अन्योन्यं तथैतौ पृथिव्यग्निद्वयं सामैकशब्दाभिधेयत्वमापन्नं साम ।

तस्मान्नान्योन्यं भिन्नं पृथिव्यग्निद्वयं नित्यसंश्लिष्टमृक्सामनी इव ।

तस्माच्च पृथिव्यग्न्योरृक्सामत्वमित्यर्थः ।

सामाक्षरयोः पृथिव्यग्निदृष्टिविधानार्थमियमेव साग्निरम इति केचित् ॥१ ॥

_______________________________________________________________________

१,६.२३

अन्तरिक्षमेवर्क् ।

वायुः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

अन्तरिक्षमेव सा ।

वायुरमः ।

तत्साम ॥ १,६.२ ॥

द्यौरेवर्क् ।

आदित्यः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

द्यौरेव सा ।

आदित्योऽमः ।

तत्साम ॥ १,६.३ ॥

__________

भाष्य १,६.२,३ अन्तरिक्षमेवर्ग्वायुः सामेत्यादि पूर्ववत् ॥२३ ॥

_______________________________________________________________________

१,६.४

नक्षत्रान्येवर्क् ।

चन्द्रमाः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

नक्षत्राण्येव सा ।

चन्द्रमा अमः ।

तत्साम ॥ १,६.४ ॥

__________

भाष्य १,६.४ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ॥४ ॥

_______________________________________________________________________

१,६.५

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् ।

अथ यन्नीलं परःकृष्णं तत्साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मदृच्यध्यूढं साम गीयते ॥ १,६.५ ॥

__________

भाष्य १,६.५ अथ यदेतदादित्यस्य शुक्लं भाः शुक्ला दीप्तिः सैवर्क ।

अथ यदादित्ये नीलं परः कृष्णं परोऽतिशयेन कार्ष्ण्यं तत्साम ।

तद्ध्येकान्तसमाहितदृष्टेर्दृश्यते ॥५ ॥

_______________________________________________________________________

१,६.६

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ।

अथ यन्नीलं परःकृष्णं तदमः ।

तत्साम ।

अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्नः ॥ १,६.६ ॥

__________

भाष्य १,६.६ ते एवैते भाः शुक्लकृष्णत्वे सा चामश्च साम ।

अथ य एषोऽन्तरादित्ये आदित्यस्यान्तर्मध्ये हिरण्मयो हिरण्मय इव हिरण्मयः ।

न हि सुवर्णविकारत्वं देवस्य सम्भवति ।

ऋक्सामगेष्णत्वापहतपाप्मत्वासम्भवात् ।

न हि सौवर्णेऽचेतने पाप्मादिप्राप्तिरस्ति येन प्रतिषिध्येत ।

चाक्षुषे चाग्रहणात् ।

अतो लुप्तोपम एव हिरण्मयशब्दो ज्योतिर्मय इत्यर्थः ।

उत्तरेषवपि समाना योजना ।

पुरुषः पुरि शयनात्पूरयति वा स्वेनाऽत्मना जगदिति ।

दृश्यते निवृत्तचक्षुर्भिः समाहितचेतोभिर्ब्रह्मचर्यादिसाधनापेक्षम् ।

तेजस्विनोऽपि श्मश्रुकेशादयः कृष्णाः स्युरित्यतो विशिनष्टिहिरण्यश्मश्रुर्हिरण्यकेश इति ।

ज्योतिर्मयान्येवास्य श्मश्रूणि केशाश्चेत्यर्थः ।

आप्रणखात्प्रणखो नखाग्रं नखाग्रेण सह सर्वः सुवर्ण इव भारूप इत्यर्थः ॥६ ॥

_______________________________________________________________________

१,६.७

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।

तस्योदिति नाम ।

स एष सर्वेभ्यः पाप्मभ्य उदितः ।

उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १,६.७ ॥

__________

भाष्य १,६.७ तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोर्वशेषः ।

कथं?तस्य यथा कपेर्मर्कटस्याऽसः कप्यासः ।

आसेरुपवेशनार्थस्य करणे घञ् ।

कपिपृष्ठान्तो येनोपविशति ।

कप्यास इव पुण्डरीकमत्यन्ततेजस्व्येवमस्य देवस्याक्षिणी ।

उपमितोपमानत्वान्न हीनोपमा ।

तस्यैवङ्गुणविशिष्टस्य गौणमिदं नामोदिति ।

कथं गौणत्वम् ।

स एष देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्येभ्य इत्यर्थः ।

य आत्मापहतपाप्मेत्यादि वक्ष्यति ।

उदित उदित उद्गत इत्यर्थः ।

अतोऽसावुन्नामा ।

तमेवङ्गुणसम्पन्नमुन्नामानं यथोक्तेन प्रकारेण यो वेद सोऽप्येवमेवोदेत्युद्गच्छति सर्वेभ्यः पाप्मभ्यः ।

ह वा इत्यवधारणार्थौ निपातौ ।

उदेत्येवेत्यर्थः ॥७ ॥

_______________________________________________________________________

१,६.८

तस्यर्क्च साम च गेष्णौ ।

तस्मादुद्गीथः ।

तस्मात्त्वेव उद्गाता ।

एतस्य हि गाता ।

स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां च ।

इत्यधिदैवतम् ॥ १,६.८ ॥

__________

भाष्य १,६.८ तस्योद्गीथत्वं देवस्याऽदित्यादीनामिव विवक्षितत्वादाहतस्यर्क्च साम च गेष्णौ पृथिव्याद्युक्तलक्षणे पर्वणी ।

सर्वात्मा हि देवः ।

परापरलोककामेशितृत्वादुपपद्यते पृथिव्यग्न्यृक्सामगेष्णत्वम् ।

सर्वयोनित्वाच्च ।

यत एवमुन्नामाचासावृक्सामगेष्णश्च तस्मादृक्सामगेष्णत्वप्राप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्षप्रियत्वाद्देवस्य तस्मादुद्गीथ इति ।

तस्मात्तवेव हेतोरुदं गायतीत्युद्गाता ।

यस्माद्ध्येतस्य यथोक्तस्योन्नाम्नो गातासावतो युक्तोद्गातेति नामप्रसिद्धिरुद्गातुः ।

स एष देव उन्नामा ये चामुष्मादादित्यात्पराञ्चः परागञ्चनादूर्ध्वा लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च ।

"स दाधार पृथिवीं द्यामुतेमाम्"इत्यादिमन्त्रवर्णात् ।

किञ्च देवकामानामीष्ट इत्येतदधिदैवतं देवताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥८॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य षष्ठः खण्डः

=======================================================================

१,७.१

अथाध्यात्मम् ।

वागेवर्क् ।

प्राणः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

वागेव सा ।

प्राणोऽमः ।

तत्साम ॥ १,७.१ ॥

__________

भाष्य १,७.१ अथाधुनाध्यात्ममुच्यते ।

वागेवर्क्प्राणः साम ।

अधरोपरिस्थानत्वसामान्यात् ।

प्राणो घ्राणमुच्यते सह वायुना, वागेव सा प्राणोऽम इत्यादि पूर्ववत् ॥१ ॥

_______________________________________________________________________

१,७.२

चक्षुरेवर्क् ।

आत्मा साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

चक्षुरेव सा ।

आत्मामः ।

तत्साम ॥ १,७.२ ॥

__________

भाष्य १,७.२ चक्षुरेवर्गात्मा साम ।

आत्मेति च्छायात्मा तत्स्थत्वात्साम ॥२ ॥

_______________________________________________________________________

१,७.३

श्रोत्रमेवर्क् ।

मनः साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

श्रोत्रमेव सा ।

मनोऽमः ।

तत्साम ॥ १,७.३ ॥

__________

भाष्य १,७.३ श्रोत्रमेवर्ङ्मनः साम, श्रोत्रस्याधिष्ठातृत्वान्मनसः सामत्वम् ॥३ ॥

_______________________________________________________________________

१,७.४

अथ यदेतदक्ष्नः शुक्लं भाः सैवर्क् ।

अथ यन्नीलं परःकृष्णं तत्साम ।

तदेतदेतस्यामृच्यध्यूढं साम ।

तस्मादृच्यध्यूढं साम गीयते ।

अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा ।

अथ यन्नीलं परःकृष्णं तदमः ।

तत्साम ॥ १,७.४ ॥

__________

भाष्य १,७.४ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क ।

अथ यन्नीलं परः कृष्णमादित्य इव दृक्शक्त्यधिष्ठानं तत्साम ॥४ ॥

_______________________________________________________________________

१,७.५

अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क् ।

तत्साम ।

तदुक्थम् ।

तद्यजुः ।

तद्ब्रह्म ।

तस्य एतस्य तदेव रूपं यदमुष्य रूपम् ।

यावमुष्य गेष्णौ तौ तौ गोष्णौ ।

यन्नाम तन्नाम ॥ १,७.५ ॥

__________

भाष्य १,७.५ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते ।

पूर्ववत् ।

सैवर्गध्यात्मं वागाद्या पृथिव्याद्या चाधिदैवतम् ।

प्रसिद्धा च ऋक्पादबद्धाक्षरात्मिका ।

तथा साम ।

उक्थसाहचर्याद्वा स्तोत्रं सामोक्थं शस्त्रम् ।

उक्थादन्यत्तथा यजुः स्वाहास्वधावषडादि सर्वमेव वाग्यजुस्तत्स एव ।

सर्वात्मकत्वात्सर्वयोनित्वाच्चेति ह्यवोचाम ।

ऋगादिप्रकरणात्तद्ब्रह्मेति त्रयो वेदाः ।

तस्यैतस्य चाक्षुषस्य पुरुषस्य तदेव रूपमतिदिश्यते ।

किं तद्यदमुष्याऽदित्यपुरुषस्य ।

हिरण्मय इत्यादि यदधिदैवतमुक्तम् ।

यावमुष्य गेष्णौ पर्वणी तावेवास्यापि चाक्षुषस्य गेष्णौ ।

यच्चामुष्य नामोदित्युद्गीथ इति च तदेवास्य नाम ।

स्थानभेदाद्रूपगिणनामातिदेशादीशितृत्वविषयभेदव्यपदेशाच्चाऽदित्यचाक्षुषयोर्भेद इति चेत् ।

न ।

अमुनानेनैवेत्येकस्योभयात्मप्राप्त्यनुपपत्तेः ।

द्विधाभावेनोपपद्यत इति चेत् ।

वक्ष्यति हि स एकधा भवति त्रिधा भवतीत्यादि ।

न ।

चेतनस्यैकस्य निरवयवत्वाद्द्विधाभावानुपपत्तेः ।

तस्मादध्यात्माधिदैवतयोरेकत्वमेव ।

यत्तु रूपाद्यतिदेशो भेदकारणमवोचो न तद्भेदावगमाय ।

किं तर्हि स्थानभेदाद्भेदाशङ्का मा भूदित्येवमर्थम् ॥५ ॥

_______________________________________________________________________

१,७.६

स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति ।

तद्य इमे वीणायां गायन्त्येतं ते गायन्ति ।

तस्मात्ते धनसनयः ॥ १,७.६ ॥

__________

भाष्य १,७.६ स एष चाक्षुषः पुरुषो ये चैतस्मादाध्यात्मिकादात्मनोर्ऽवाञ्चोर्ऽवाग्गता लोकास्तेषां चेष्टे मनुष्यसम्बन्धिनां च कामानाम् ।

तत्स्माद्य इमे वीणायां गायन्ति गायकस्त एतमेव गायन्ति ।

यस्मादीश्वरं गायन्ति तस्मात्ते धनसनयो धनलाभयुक्ता धनवन्त उत्यर्थः ॥६ ॥

_______________________________________________________________________

१,७.७

अथ य एतदेवं विद्वान् साम गायत्युभौ स गायति ।

सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥ १,७.७ ॥

__________

भाष्य १,७.७ अथ य एतदेवं विद्वान्यथोक्तं देवमुद्गीथं विद्वान्साम गायत्युभौ स गायति चाक्षुषमादित्यं च ।

तस्यैवंविदः फलमुच्यतेसोऽमुनैवाऽदित्येन स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाऽप्नोति आदित्यान्तर्गतदेवो भूत्वेत्यर्थो देवकामांश्च ॥७ ॥

_______________________________________________________________________

१,७.८९

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च ।

तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १,७.८ ॥

कं ते काममागायानीति ।

एष ह्येव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ १,७.९ ॥

__________

भाष्य १,७.८ अथानेनैव चाक्षुषेणैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च चाक्षुषो भूत्वेत्यर्थः ।

तस्मादु हैवंविदुद्गाता ब्रूयाद्यजमानं कमिष्टं ते तव काममागायानीति ।

एष हि यस्मादुद्गाता कामागानस्योद्गानेन कामं सम्पादयितुमीष्टे समर्थ इत्यर्थः ।

कोऽसौ?य एवं विद्वान्साम गायति साम गायति ।

द्विरुक्तिरुपासनसमाप्त्यर्था ॥८९ ॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य सप्तमः खण्डः

=======================================================================

१,८.१

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।

ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १,८.१ ॥

__________

भाष्य १,८.१ अनेकधोपास्यत्वादक्षरस्य प्रकारान्तरेण परोवरीयस्त्वगुणफलमुपासनान्तरमानिनाय ।

इतिहासस्तु सुखावबोधनार्थः ।

त्रयस्त्रिसंख्याकाः ।

ह, इत्यैतिह्यार्थः ।

उद्गीथ उद्गीथज्ञानं प्रति कुशला निपुणा बभूवुः ।

कस्मिंश्चिद्देशे काले च निमित्ते वा समेतानामित्यभिप्रायः ।

न हि सर्वस्मिञ्जगति त्रयाणामेव कौशलमुद्गीथादिविज्ञाने ।

श्रूयन्ते ह्युषस्तिजानश्रुतिकैकेयप्रभृतयः सर्वज्ञकल्पाः ।

के ते त्रय इत्याहशिलको नामतः शलावतोऽपत्यं शालावत्यः ।

चिकितायनस्यापत्यं चैकितायनः ।

दल्भगोत्रो दाल्भ्यो द्व्यामुष्यायणो वा ।

प्रवाहणो नामतो जीवलस्यापत्यं जैवलिरित्येते त्रयस्ते होचुरन्योन्यमुद्गीथे वै कुशला निपुणा इति प्रसिद्धाः स्मः ।

अतो हन्त यद्यनुमतिर्भवतामुद्गीथ उद्गीथज्ञाननिमित्तां कथां विचारणां पक्षप्रतिपक्षोपन्यासेन वदामो वादं कुर्म इत्यर्थः ।

तथा च तद्विद्यसंवादे विपरीतग्रहणनाशोऽपूर्वविज्ञानोपजनः संशयनिवृत्तिश्चेति ।

अतस्तद्विद्यसंयोगः कर्तव्य इति चेतिहासप्रयोजनम् ।

दृश्यते हि शिलकादीनाम् ॥१ ॥

_______________________________________________________________________

१,८.२

तथेति ह समुपविविशुः ।

स ह प्रावहणो जैवलिरुवाच ।

भगवन्तावग्रे वदताम् ।

भ्रामणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १,८.२ ॥

__________

भाष्य १,८.२ तथेत्युक्त्वा ते समुपविविशुर्हेपविष्टवन्तः किल ।

तत्र राज्ञः प्रागल्भ्योपपत्तेः स ह प्रवाहणो जैवलिरुवाचेतरौ"भगवन्तौ पूजावन्तावग्रे पूर्वं वदताम्" ।

ब्राह्मणयोरिति लिङ्गाद्राजासौ ।

युवयोर्ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामि ।

अर्थरहितामित्यपरे वाचमिति विशेषणात् ॥२ ॥

_______________________________________________________________________

१,८.३

स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।

पृच्छेति होवाच ॥ १,८.३ ॥

__________

भाष्य १,८.३ उक्तयोः स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच"हन्त यद्यनुमंस्यसे त्वा त्वां पृच्छानी"त्युक्त इतरः"पृच्छे"ति होवाच ॥३ ॥

_______________________________________________________________________

१,८.४

का साम्नो गतिरिति ।

स्वर इति होवाच ।

स्वरस्य का गतिरिति ।

प्राण इति होवाच ।

अन्नस्य का गतिरिति ।

अन्नमिति होवाच ।

अन्नस्य का गतिरिति ।

आप इति होवाच ॥ १,८.४ ॥

__________

भाष्य १,८.४ लब्धानुमतिराहका साम्नः, प्रकृतत्वादुद्गीथस्य ।

उद्गीथो ह्यत्रोपास्यत्वेन प्रकृतः ।

"परोवरीयांसमुद्गीथम्"इति च वक्ष्यति ।

गतिराश्रयः परायणमित्येतत् ।

एवं पृष्टो दाल्भ्य उवाचस्वर इति ।

स्वरात्मकत्वात्साम्नः ।

यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति युक्तं मृदाश्रय इव घटादिः ।

स्वरस्य का गतिरिति, प्राण इति होवाच ।

प्राणनिष्पाद्यो हि स्वरस्तस्मात्सवरस्य प्राणो गतिः ।

प्राणस्य का गतिरित्यन्नमिति होवाच ।

अन्नावष्टम्भो हि प्राणः ।

"शुष्यति वै प्राण ऋतेऽन्नात्"इति हि श्रुतेः ।

"अन्नं दाम"इति च ।

अन्नस्य का गतिरित्याप इति होवाच ।

अप्सम्भवत्वादन्नस्य ॥४ ॥

_______________________________________________________________________

१,८.५

अपां का गतिरिति ।

असौ लोक इति होवाच ।

अमुष्य लोकस्य का गतिरिति ।

न स्वर्गं लोकमतिनयेदिति होवाच ।

स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।

स्वर्गसंस्तावं हि सामेति ॥ १,८.५ ॥

__________

भाष्य १,८.५ अपां का गतिरित्यसौ लोक इति ।

अमुष्माल्लोकाद्वृष्टिः सम्भवति ।

अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्य उवाचस्वर्गममुं लोकमतीत्याश्रयान्तरं साम न नयेत्कश्चिदिति होवाचाऽह ।

अतो वयमपि स्वर्गं लोकं सामाभिसंस्थापयामः ।

स्वर्गलोकप्रतिष्ठं साम जानीम इत्यर्थः ।

स्वर्गसंस्तावं स्वर्गत्वेन संस्तवनं संस्तावो यस्य तत्साम स्वर्गसंस्तावं हि यस्मात्"स्वर्गो वै लोकः सामवेद"इति श्रुतिः ॥५ ॥

_______________________________________________________________________

१,८.६

तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।

यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ १,८.६ ॥

__________

भाष्य १,८.६ तमितरः शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचअप्रतिष्ठितमसंस्थितं परोवरीयस्त्वेनासमाप्तगति सामेत्यर्थः ।

वा इत्यागमं स्मारयति किलेति च, दाल्भ्य ते तव साम ।

यस्त्वसहिष्णुः सामविदेतर्ह्येतस्मिन्काले ब्रूयात्कश्चिद्विपरीतविज्ञानमप्रतिष्ठितं साम प्रतिष्ठितमित्येवंवादापराधिनं मूर्धा शिरस्ते विपतिष्यति विस्पष्टं पतिष्यतीति ।

एवमुक्तस्यापराधिनस्तथैव तद्विपतेन्न संशयो न त्वाहं ब्रवीमीत्यभिप्रायः ।

ननु मूर्धपातार्ऽहं चेदपराधं कृतवानतः परेणानुक्तस्यापि पतेन्मूर्धा॑न चेदपराध्युक्तस्यापि नैव पतति ।

अन्यथाकृताभ्यागमः कृतनाशश्च स्याताम् ।

नैष दोषः ।

कृतस्य कर्मणः शुभाशुभस्य फलप्राप्तेर्देशकालनिमित्तापेक्षत्वात् ।

तत्रैवं सति मूर्धपातनिमित्तस्याप्यज्ञानस्य पराभिव्याहारनिमित्तापेक्षत्वमिति ॥६ ॥

_______________________________________________________________________

१,८.७

हन्ताहमेतद्भगवत्तो वेदानीति ।

विद्धीति होवाच ।

अमुष्य लोकस्य का गतिरिति ।

अयं लोक इति होवाच ।

अस्य लोकस्य का गतिरिति ।

न प्रतिष्ठां लोकमतिनयेदिति होवाच ।

प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।

प्रतिष्ठासंस्तावं हि सामेति ॥ १,८.७ ॥

__________

भाष्य १,८.७ एवमुक्तो दाल्भ्य आहहन्ताहमेतद्भगवत्तो वेदानि यत्प्रतिष्ठं सामेत्युक्तः प्रत्युवाच शालावत्यो विद्धीति होवाच ।

अमुष्य लोकस्य का गतिरिति पृष्टो दाल्भ्येन शालावत्योऽयं लोक इति होवाच ।

अयं हि लोको यागदानहोमादिभिरमुं लोकं पुष्यतीति ।

"इतः प्रदानं देवा उपजीवन्ति"इति हि श्रुतयः ।

प्रत्यक्षं हि सर्वभूतानां धरणी प्रतिष्ठेति ।

अतः साम्नोऽप्ययं लोकः प्रतिष्ठैवेति युक्तम् ।

अस्य लोकस्य का गतिरित्युक्त आह शालावत्यः ।

न प्रतिष्ठामिमं लोकमतीत्य नयेत्साम कश्चित् ।

अतो वयं प्रतिष्ठां लोकं सामाभिसंस्थापयामः ।

यस्मात्प्रतिष्ठासंस्तावं हि प्रतिष्ठात्वेन संस्तुतं सामेत्यर्थः ।

"इयं वै रथन्तरम्"इति च श्रुतिः ॥७ ॥

_______________________________________________________________________

१,८.८

तं ह प्रवाहणो जैवलिरुवाच ।

अन्तवद्वै किल ते शालावत्य साम ।

यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।

हन्ताहमेतद्भगवत्तो वेदानीति ।

विद्धीति होवाच ॥ १,८.८ ॥

__________

भाष्य १,८.८ तमेवमुक्तवन्तं ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य सामेत्यादि पूर्ववत् ।

ततः शालावत्य आहहन्ताहमेतद्भगवत्तो वेदानीति विद्धीति होवाचेतरोऽनुज्ञात आह ॥८॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्याष्टमः खण्डः

=======================================================================

१,९.१

अस्य लोकस्य का गतिरिति ।

आकाश इति होवाच ।

सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।

आकाशं प्रत्यस्तं यन्ति ।

आकाशो ह्येवैभ्यो ज्यायान् ।

आकाशः परायणम् ॥ १,९.१ ॥

__________

भाष्य १,९.१ अस्य लोकस्य का गतिरिति ।

आकाश इति होवाच प्रवाहणः ।

आकाश इति च पर आत्मा"आकाशो वै नामे"ति श्रुतेः ।

तस्य हि कर्म सर्वभूतोत्पादकत्वम् ।

तस्मिन्नेव हि भूतप्रलयः ।

तत्तेजोऽसृजत ।

तेजः परस्यां देवतायामिति हि वक्ष्यति ।

सर्वाणि ह वा इमानि भूतानि स्थावरजङ्गमान्याकाशादेव समुत्पद्यन्ते तेजोबन्नादिक्रमेण, सामर्थ्यात् ।

आकाशं प्रत्यस्तं यन्ति प्रलयकाले तेनैव विपरीतक्रमेण हि यस्मादाकाश एवैभ्यः सर्वेभ्यो भूतेभ्यो ज्यायान्महत्तरोऽतः स सर्वेषां भृतानां परमयनं परायणं प्रतिष्ठा त्रिष्वपि कालेष्वित्यर्थः ॥१॥

_______________________________________________________________________

१,९.२

स एष परोवरीयानुद्गीथः ।

स एषोऽनन्तः ।

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते ॥ १,९.२ ॥

__________

भाष्य १,९.२ यस्मात्परं परं वरीयो वरीयसोऽप्येष वरः परश्च वरीयाश्च रपोवरीयानुद्गीथः परमात्मा सम्पन्न इत्यर्थः ।

अत एव स एषोऽनन्तोऽविद्यामानान्तस्तमेतं परोवरीयांसं परमात्मभूतमनन्तमेवं विद्वान्परोवरीयांसमुद्गीथमुपास्ते ।

तस्यैतत्फलमाहपरोवरीयः परं परं वरीयो विशिष्टतरं जीवनं हास्य विदुषो भवति दृष्टं फलमदृष्टं च परोवरीयस उत्तरोत्तरविशिष्टतरानेव ब्रह्माकाशान्तांल्लोकाञ्जयति य एतदेवं विद्वानुद्गीथमुपास्ते ॥२ ॥

_______________________________________________________________________

१,९.३

तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।

यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति ॥ १,९.३ ॥

__________

भाष्य १,९.३ किं च तमेतमुद्गीथं विद्वानतिधन्वा नामतः शुनकस्यापत्यं शौनक उदरशाडिल्याय शिष्यायैतमुद्गीथदर्शनमुक्त्वोवाच ।

यावत्ते तव प्रजायां प्रजासन्ततावित्यर्थः ।

एनमुद्गीथं त्वत्सन्ततिजा वेदिष्यन्ते ज्ञास्यन्ति तावन्तं कालं परोवरीयो हैभ्यः प्रसिद्धेभ्यो लौकिकजीवनेभ्य उत्तरोत्तरविशिष्टतरं जीवनं तेभ्यो भविष्यति ॥३ ॥

_______________________________________________________________________

१,९.४

तथामुष्मिंल्लोके लोक इति ।

स य एतमेव विद्वानुपास्ते परोवरीय एव हास्यामुष्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ १,९.४ ॥

__________

भाष्य १,९.४ तथादृष्टेऽपि परलोकेऽमुष्मिन्परोवरीयांल्लोको भविष्यतीत्युक्तवाञ्शाण्डिल्यायातिधन्वा शौनकः ।

स्यादेतत्फलं पूर्वेषां महाभाग्यानां नैदंयुगीनानामित्याशङ्कानिवृत्तय आहस यः कश्चिदेतदेवं विद्वानुद्गीथमेतर्ह्युपास्ते तस्याप्येवमेव परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोके लोक इति ॥४॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य नवमः खण्डः

=======================================================================

१,१०.१

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १,१०.१ ॥

__________

भाष्य १,१०.१ उद्गीयोपासनप्रसङ्गेन प्रस्तावप्रतिहारविषयमप्युपासनं वक्तव्यमितीदमारभ्यते ।

आख्यायिका त सुखावबोधार्था ।

मटचीहतेषु मटच्योऽशनयस्ताभिर्हतेषु नाशितेषु कुरुषु कुरुसस्येष्वित्यर्थः ।

ततो दुर्भिक्षे जात आटिक्यानुपजातपयोधरादिस्त्रीव्यञ्जनया सह जाययोषस्तिर्ह नामतश्चक्रस्यापत्यं चाक्रायणः ।

इभो हस्ती तमर्हतीतीभ्य ईश्वरो हस्त्यारोहो वा तस्य ग्राम इभ्यग्रामस्तस्मिन्प्रद्राणकोऽन्नालाभात् ।

द्रा कुत्सायां गतौ ।

कृत्सितां गतिं गतोऽन्त्यावस्थां प्राप्त इत्यर्थः ।

उवासोषितवान्कस्यचिद्गृहमाश्रित्य ॥१ ॥

_______________________________________________________________________

१,१०.२

स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ।

तं होवाच ।

नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १,१०.२ ॥

__________

भाष्य १,१०.२ सोऽन्नार्थमटन्निभ्यं कुल्माषान्कुत्सितान्माषान्खादन्तं भक्षयन्तं यदृच्छयोपलभ्य बिभिक्षे याचितवान् ।

तमुषस्तिं होवाचेभ्यः ।

नेतोऽस्मान्मया भक्ष्यमाणादुच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते ।

यच्च ये राशौ मे ममोपनिहिताः प्रक्षिप्ता इमे भाजते किं करोमीत्युक्तः प्रत्युवाचोषस्तिः ॥२ ॥

_______________________________________________________________________

१,१०.३

एतेषां मे देहीति होवाच ।

तानस्मै प्रददौ ।

हन्तानुपानमिति ।

उच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १,१०.३ ॥

__________

भाष्य १,१०.३ एतेषामेतानित्यर्थः ।

मे मह्यं देहीति होवाच ।

तान्स इभ्योऽस्मा उषस्तये प्रददौ प्रदत्तवान् ।

अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्युक्तः प्रत्युवाच ।

उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्तवन्तं प्रत्युवाचेतरः ॥३ ॥

_______________________________________________________________________

१,१०.४

न स्विदेतेऽप्युच्छिष्टा इति ।

न वा अजीविष्यमिमानखादन्निति होवाच ।

कामो म उदपानमिति ॥ १,१०.४ ॥

__________

भाष्य १,१०.४ किं न स्विदेते कुल्माषा उप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कुल्माषानखादन्नभक्षयन्निति होवाच ।

काम इच्छातो मे ममोदकपानं लभ्यत इत्यर्थः ।

अतश्चैतामवस्यां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽगःस्पर्श इत्यभिप्रायः ।

तस्यापि जावितं प्रत्युपायान्तरेऽजुगुप्सिते सति जुगुप्सितमेतत्कर्म दोषाय ।

ज्ञानावलेपेन कुर्वतो नरकपातः स्यादेवेत्यभिप्रायः ।

प्रद्राणकशब्दश्रवणात् ॥४ ॥

_______________________________________________________________________

१,१०.५

स ह खादित्वातिशेषाञ्जायाया आजहार ।

साग्र एव सुभिक्षा बभूव ।

तान् प्रतिगृह्य निदधौ ॥ १,१०.५ ॥

__________

भाष्य १,१०.५ तांश्च स खादित्वातिशेषानतिशिष्टाञ्जायायै कारुण्यादाजहार ।

साऽटिक्यग्र एव कुल्माषप्राप्तेः सुभिक्षा शोभनभिक्षा लब्धान्नेत्येतद्बभूव संवृत्ता ।

तथापि स्त्रीस्वाभाव्यादनवज्ञाय तान्कुल्माषान्पत्युर्हस्तात्प्रतिगृह्य निदधौ निक्षिप्तवती ॥५ ॥

_______________________________________________________________________

१,१०.६

स ह प्रातः संजिहान उवाच ।

यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।

राजासौ यक्ष्यते ।

स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ १,१०.६ ॥

__________

भाष्य १,१०.६ स तस्याः कर्म जानन्प्रातरुषःकाले सञ्जिहानः शयनं निद्रां वा परित्यजन्नुवाच पत्न्याः शृण्वत्या यद्यदि वतेति खिद्यमानोऽन्नस्य स्तोकं लभेमहि तद्भुक्त्वान्नं समर्थो गत्वा लभेमहि धनमात्रां धनस्याल्पम् ।

ततोऽस्माकं जीवनं भविष्यतीति ।

धनलाभे च कारणमाहराजासौ नातिदूरे स्थाने यक्ष्यते ।

यजमानत्वात्तस्याऽत्मनेपदम् ।

स च राजा मा मां पात्रमुपलभ्य सर्वैरार्त्विज्यैरॄत्विक्कर्मभिरॄत्विक्कर्मप्रयोजनायेत्यर्थो वृणीतेति ॥६ ॥

_______________________________________________________________________

१,१०.७

तं जायोवाच ।

हन्त पत इम एव कुल्माषा इति ।

तान् खादित्वामुं यज्ञं विततमेयाय ॥ १,१०.७ ॥

__________

भाष्य १,१०.७ एवमुक्तवन्तं जायोवाचहन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्तास्त्वया कुल्माषा इति ।

तान्खादित्वामुं यज्ञं राज्ञो विततं विस्तारितमृत्विग्भिरेयाय ॥७ ॥

_______________________________________________________________________

१,१०.८

तत्रोद्गात्ःनास्तावे स्तोष्यमाणानुपोपविवेश ।

स ह प्रस्तोतरमुवाच ॥ १,१०.८ ॥

__________

भाष्य १,१०.८ तत्र च गत्वोद्गातॄनुद्गातृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः ।

उपविश्य स ह प्रस्तोतारमुवाच ॥८ ॥

_______________________________________________________________________

१,१०.९

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.९ ॥

__________

भाष्य १,१०.९ हे प्रस्तोतरित्यामन्त्र्याभिमुखीकरणाय ।

या देवता प्रस्तावं प्रस्तावभक्तिमनुगतान्वायत्ता तां चेद्देवतां प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे ।

तत्परोक्षेऽपि चेद्विपतेत्तस्य मूर्धा कर्ममात्रविदामनधिकार एव कर्मणि स्यात् ।

तच्चानिष्टमविदुषामपि कर्मदर्शनात् ।

दक्षिणमार्गश्रुतेश्च ।

अनधिकारे चाविदुषामुत्तर एवैको मार्गः श्रूयेत ।

न च स्मार्तकर्मनिमित्त एव दक्षिणः पन्थाः ।

यज्ञेन दानेनेत्यादिश्रतेः ।

तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्षमेव कर्मण्यनधिकारो न सर्वत्राग्निहोत्रस्मार्तकर्माध्ययनादिषु च ।

अनुज्ञायास्तत्र तत्र दर्शनात्कर्ममात्रविदामप्यधिकारः सिद्धः कर्मणीति ।

मूर्धा ते विपतिष्यतीति ॥९ ॥

_______________________________________________________________________

१,१०.१०११

एवमेवोद्गातारमुवाच ।

उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.१० ॥

एवमेव प्रतिहर्तारमुवाच ।

प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।

ते ह समारतास्तूष्णीमासां चक्रिरे ॥ १,१०.११ ॥

__________

भाष्य १,१०.१०११ एवमेवोद्गातारं प्रतिहर्तारमुवाचेत्यादि समानमन्यत् ।

ते प्रस्तोत्रादयः कर्मभ्यः समारता उपरताः सन्तो मूर्धपातभयात्तूष्णीमासांचक्रिरेऽन्यच्चाकुर्वन्तः अर्थित्वात् ॥१०११ ॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोधध्यायस्य दशमः खण्डः

=======================================================================

१,११.१

अथ हैनं यजमान उवाच ।

भगवन्तं वा अहं विविदिषाणीति ।

उषस्तिरस्मि चाक्रायण इति होवाच ॥ १,११.१ ॥

__________

भाष्य १,११.१ अथानन्तरं हैनमुषस्तिं यजमानो राजोवाच ।

भगवन्तं वै पूजावर्न्तमहं विविदिषामि वेदितुमिच्छामीत्युक्त उषस्तिरस्मि चाक्रायणस्तवापि श्रोत्रपथमागतो यदीति होवाचोक्तवान् ॥१ ॥

_______________________________________________________________________

१,११.२

स होवाच ।

भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम् ।

भगवतो वा अहमवित्त्यान्यानवृषि ॥ १,११.२ ॥

__________

भाष्य १,११.२ स ह यजमान उवाच सत्यमेवमहं भगवन्तं बहुगुणमश्रौषं सर्वैश्च ऋच्विक्कर्मभिरार्त्विज्यैः पर्यैषिषं पर्येषणं कृतवानस्मि ।

अन्विष्य भगवतो वा अहमवित्त्यालाभेनान्यानिमानवृषि वृतवानस्मि ॥२ ॥

_______________________________________________________________________

१,११.३

भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।

तथेति ।

अथ तर्ह्येत एव समतिसृष्टाः स्तुवताम् ।

यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति ।

तथेति ह यजमान उवाच ॥ १,११.३ ॥

__________

भाष्य १,११.३ अद्यापि भगवांस्त्वेव मे मम सर्वैरार्त्विज्यैरृत्विक्कर्मार्थमस्त्वित्युक्तस्तथेत्याहोषस्तिः ।

किन्त्वथैवं तर्ह्येत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्यक्प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम् ।

त्वया त्वेतत्कार्यम् ।

यावत्त्वेभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यजमान उवाच ॥३ ॥

_______________________________________________________________________

१,११.४

अथ हैनं प्रस्तोतोपससाद ।

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।

कतमा सा देवतेति ॥ १,११.४ ॥

__________

भाष्य १,११.४ अथ हैनमौषस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोषस्तिं विनयेनोपजगाम ।

प्रस्तोतर्या देवतेत्यादि मा मां मगवानवोचत्पूर्वम् ।

कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति ॥४ ॥

_______________________________________________________________________

१,११.५

प्राण इति होवाच ।

सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति ।

प्राणमभ्युज्जिहते ।

सैषा देवता प्रस्तावमन्वायत्ता ।

तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत्तथोक्तस्य मयेति ॥ १,११.५ ॥

__________

भाष्य १,११.५ पृष्टः प्राण इति होवाच ।

युक्तं प्रस्तावस्य प्राणो देवतेति ।

कथं, सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्षयित्वा प्राणात्मनैवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थः उत्पत्तिकाले ।

अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्तिं कृतवानसि यदि मूर्धा शिरस्ते व्यपतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति ।

अतस्त्वया साधु कृतम् ।

मया निषिद्धः कर्मणो यदुपरममकार्षीरित्यभिप्रायः ॥५ ॥

_______________________________________________________________________

१,११.६

अथ हैनमुद्गातोपससाद ।

उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।

कतमा सा देवता इति ॥ १,११.६ ॥

__________

भाष्य १,११.६ तथोद्गाता पप्रच्छ कतमा सोद्गीथभक्तिमनुगतान्वायत्ता देवतेति ॥६ ॥

_______________________________________________________________________

१,११.७

आदित्य इति होवाच ।

सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति ।

सैषा देवतोद्गीथमन्वायत्ता ।

तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १,११.७ ॥

__________

भाष्य १,११.७ पृष्ट आदित्य इति होवाच ।

सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैरूर्ध्वं सन्तं गायन्ति शब्दयन्ति स्तुवन्तीत्यभिप्रायः ।

उच्छब्दसामान्यात्प्रशब्दसामान्यादिव प्राणोऽतः सैषा देवतेत्यादि पूर्ववत् ॥७ ॥

_______________________________________________________________________

१,११.८

अथ हैनं प्रतिहर्तोपससाद ।

प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।

कतमा सा देवतेति ॥ १,११.८ ॥

__________

भाष्य १,११.८ एवमेवाथ हैनं प्रतिहर्तोपसाद कतमा सा देवता प्रतिहारमन्वायत्तेति ॥८ ॥

_______________________________________________________________________

१,११.९

अन्नमिति होवाच ।

सर्वाणि ह वा इमानि भूतन्यन्नमेव प्रतिहरमाणानि जीवन्ति ।

सैषा देवता प्रतिहारमन्वायत्ता ।

तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ १,११.९ ॥

__________

भाष्य १,११.९ पृष्टोऽन्नमिति होवाच ।

सर्वाणि ह वा इमानि भूतान्यन्नमेवाऽत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति ।

सैषा देवता प्रतिशब्दसामान्यात्प्रतिहारभक्तिमनुगता ।

समानमन्यत्तथोक्तस्य मयेति ।

प्रस्तावोद्गीथप्रतिहारभक्तीः प्राणादित्यान्नदृष्ट्योपासीतेति समुदायार्थः ।

प्राणाद्यापत्तिः कर्मसमृद्धिर्वा फलमिति ॥९॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्यैकादशः खण्डः

=======================================================================

१,१२.१

अथातः शौव उद्गीथः ।

तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १,१२.१ ॥

__________

भाष्य १,१२.१ अतीते खण्डेऽन्नाप्राप्तिनिमित्ता कष्टावस्थोक्तोच्छिष्टपर्युषितभक्षणलक्षणा ।

सा मा भूदित्यन्नलाभायाथानन्तरं शौवः श्वभिर्दृष्ट उद्गीथ उद्गानं सामातः प्रस्तूयते ।

तत्तत्र ह किल बको नामतो दल्भस्यापत्यं दाल्भ्यो ग्लावो वा नामतो मित्रायाश्चापत्यं मैत्रेयः ।

वाशब्दश्चार्थे ।

द्व्यामुष्यायणो ह्यसौ ।

वस्तुविषये क्रियास्विव विकल्पानुपपत्तेः ।

द्विनामा द्विगोत्र इत्यादि हि स्मृतिः ।

दृश्यते चोभयतः पिण्डभाक्त्वम् ।

उद्गीथे बद्धचित्तत्वादृषावनादराद्वा ।

वाशब्दः स्वाध्यायार्थः ।

स्वाध्यायं कर्तुं ग्रामाद्बहिरुद्वव्राजोद्गतवान्विविक्तदेशस्थोदकाभ्याशम् ।

उद्वव्राज प्रतिपालयाञ्चकारेति चैकवचनाल्लिङ्गादेकोऽसावृषिः ।

श्वोद्गीथकालप्रतिपालनादृषेः स्वाध्यायकरणमन्नकामनयेति लक्ष्यत इत्यभिप्रायः ॥१ ॥

_______________________________________________________________________

१,१२.२

तस्मै श्वा श्वेतः प्रादुर्बभूव ।

तमन्ये श्वान उपसमेत्योचुः ।

अन्नं नो भगवानागायतु ।

अशनायाम वा इति ॥ १,१२.२ ॥

__________

भाष्य १,१२.२ स्वाध्यायेन तोषिता देवतर्षिर्वा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तदनुग्रहार्थं प्रादुर्बभूव प्रादुश्चकार ।

तमन्ये शुक्लं श्वानं क्षुल्लकाः श्वान उपसमेत्योचुरुक्तवन्तोऽन्नं नोऽस्मभ्यं भगवानागायत्वागानेन निष्पादयत्वित्यर्थः ।

मुक्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्यायपरितोषिताः सन्तोऽनुगृह्णीयुरेनं स्वरूपमादायेति युक्तमेवं प्रतिपत्तुम् ।

अशनायाम वै बुभुक्षिताः स्मो वा इति ॥२ ॥

_______________________________________________________________________

१,१२.३

तान् होवाचेहैव मा प्रातरुपसमीयतेति ।

तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार ॥ १,१२.३ ॥

__________

भाष्य १,१२.३ एवमुक्ते श्वा श्वेत उवाच तान्क्षुल्लाकाञ्शुन इहैवास्मिन्नेव देशे मा मां प्रातः प्रातःकाल उपसमीयातेति ।

दैर्ध्यं छन्दसं समीयातेति, प्रमादपाठो वा ।

प्रातः कालकरणं तत्काल एव कर्तव्याझ्र्व्यताटर्थम् ।

अन्नदस्य वा सवितुरपराह्नेऽनाभिमुख्यात् ।

तत्तत्रैव ह बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपालयाञ्चकार प्रतीक्षणं कृतवानित्यर्थः ॥३ ॥

_______________________________________________________________________

१,१२.४

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुः ।

ते ह समुपविश्य हिञ्चक्रुः ॥ १,१२.४ ॥

__________

भाष्य १,१२.४ ते श्वानस्तत्रैवाऽगम्य ऋषेः समक्षं यथैवेह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणा ।

उद्गातृपुरुषाः संरब्धाः संलग्ना अन्योन्यमेव मुखेनान्योन्यस्य पुच्छं गृहीत्वाऽससृपुरासृप्तवन्तः परिभ्रमणं कृतवन्त इत्यर्थः ।

त एवं संसृप्य समुपविश्योपविष्टाः सन्तो हिं चक्रुर्हिङ्कारं कृतवन्तः ॥४ ॥

_______________________________________________________________________


१,१२.५

ओ३ अदा३ अ ।

ओं३ पिबा३ अ ।

ओं३ देवो वरुणः प्रजापतिः सविता२ऽन्नमिहा२ऽहरत् ।

अन्नपते३ऽन्नमिहा२ऽऽहरा२ऽऽहरो३ इति ॥ १,१२.५ ॥

__________

भाष्य १,१२.५ ओमदामों पिबामों देवो द्योतनात् ।

वरुणो वर्षणाज्जगतः ।

प्रजापतिः पालनात्प्रजानाम् ।

सविता प्रसवितृत्वात्सर्वस्याऽदित्य उच्यते ।

एतैः पर्यायैः स एवंभूत आदित्योऽन्नमस्मभ्यमिहाऽबरदाबरत्विति ।

त एवं हिं कृत्वा पुनरप्यूचुःस त्वं हेऽन्नपते ।

स हि सर्वस्यान्नस्य प्रसवितृत्वात्पतिः ।

न हि तत्पाकेन विना प्रभूतमन्नमणुमात्रमपि जायते प्राणिनाम् ।

अतोऽन्नपतिः ।

हेऽन्नपतेऽन्नमस्मभ्यमिहाऽहराऽहरेति ।

अभ्यास आदरार्थः ।

ओमिति ॥५॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य द्वादशः खण्डः

=======================================================================

१,१३.१

अयं वाव लोको हाउकारः ।

वायुर्हाइकारः ।

चन्द्रमा अथकारः ।

आत्मेहकारः ।

अग्निरीकारः ॥ १,१३.१ ॥

__________

भाष्य १,१३.१ भक्तिविषयोपासनं सामावयवसम्बद्धमित्यतः सामावयवान्तरस्तोभाक्षर विषयाण्युपासनान्तराणि संहतान्युपदिश्यन्तेऽनन्तरं सामावयवसम्बद्धत्वाविशेषातयं वावायमेव लोको हाउकारः स्तोभो रथन्तरे साम्नि प्रसिद्धः"इयं वै रथन्तरम्" इति ।

अस्मात्सम्बन्धसामान्याद्धाउकारस्तोभोऽयं लोक इत्येवमुपासीत ।

वायुर्हाकारः ।

वामदेव्ये सामनि हाइकारः प्रसिद्धः ।

वाय्वप्सम्बन्धश्च वामदेवस्य साम्नो योनिरित्यस्मात्सामान्याद्धाइकारं वायुदृष्ट्योपासीत ।

चन्द्रमा अथकारः ।

चन्द्रदृष्ट्याथकारमुपासीत ।

अन्ने हीदं स्थितम् ।

अन्नात्मा चन्द्रः ।

थकाराकारसामान्याच्च ।

आत्मेहकारः ।

इहेति स्तोभः प्रत्यक्षो ह्यात्मेति व्यपदिश्यते ।

इहेति च स्तोभः ।

तत्सामान्यात् ।

अग्निरीकारः ।

ईनिधनानि चाऽग्नेयानि सर्वाणि सामानीत्यतस्तत्सामान्यात् ॥१ ॥

_______________________________________________________________________


१,१३.२

आदित्य ऊकारः ।

निहव एकारः ।

विश्वे देवा औहोयिकारः ।

प्रजपतिर्हिङ्कारः ।

प्राणः स्वरः ।

अन्नं या ।

वाग्विराट् ॥ १,१३.२ ॥

__________

भाष्य १,१३.२ आदित्य ऊकारः ।

उच्चैरूर्ध्वं सन्तमादित्यं गायन्त्यूकारश्चायं स्तोभः ।

आदित्यदैवत्ये साम्नि स्तोभ ऊ इत्यादित्य ऊकारः ।

निहव इत्याह्वानमेकारः स्तोभः ।

एहीति चाऽह्वयन्तीति तत्सामान्यात् ।

विश्वे देवा औहोयिकारोवैश्वदेव्ये साम्नि दर्शनात् ।

प्रजापतिर्हिङ्कारः ।

आनिरुक्त्याद्धिङ्कारस्य चाव्यक्तत्वात् ।

प्राणः स्वरः ।

स्वर इति स्तोभः ।

प्राणस्य च स्वरहेतुत्वसामान्यात् ।

अन्नं या या इति स्तोभोऽन्नम् ।

अन्नेन हीदं यातीत्यतस्तत्सामान्यात् ।

वागिति स्तोभो विराडन्नं देवताविशेषो वा ।

वैराजे साम्नि स्तोभदर्शनात् ॥२ ॥

_______________________________________________________________________

१,१३.३

अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुङ्कारः ॥ १,१३.३ ॥

__________

भाष्य १,१३.३ अनिरुक्तोऽव्यक्तत्वादिदं वेदं वेति निर्वक्तुं न शक्यत इत्यतः सञ्चरो विकल्प्यमानस्वरूप इत्यर्थः ।

कोऽसावित्याहत्रयोदशः स्तोभो हुङ्कारः ।

अव्यक्तो ह्ययमतोऽनिरुक्तविशेष एवोपास्य इत्यभिप्रायः ॥३ ॥

_______________________________________________________________________

१,१३.४

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।

अन्नवानन्नादो भवति ।

य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद ॥ १,१३.४ ॥

__________

भाष्य १,१३.४ दुग्धेऽस्मै वाग्दोहमित्याद्युक्तार्थम् ।

य एतामेवं यथोक्तलक्षणां साम्नां सामावयवस्तोभाक्षरविषयामुपनिषदं दर्शनं वेद तस्यैतद्यथोक्तं फलमित्यर्थः ।

द्विरभ्यासोऽध्यायपरिसमाप्त्यर्थः ।

सामावयवविषयोपासनाविशेषपरिमाप्त्यर्थो वेति ॥४ ॥ ॥

इति छान्दोग्योपनिषच्छाङ्करभाष्ये प्रथमोध्यायस्य त्रयोदशः खण्डः

इति छान्दोग्योपनिषद्ब्राह्मणे प्रथमोध्यायः समाप्तः



Post a Comment

0 Comments

Ad Code