जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो



तदेतत्‌ सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि। तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥

लिप्यन्तरणम्

tadetat satyaṁ mantreṣu karmāṇi kavayo yānyapaśyaṁstāni tretāyāṁ bahudhā saṁtatāni | tānyācaratha niyataṁ satyakāmā eṣa vaḥ panthāḥ sukṛtasya loke ||

अन्वयः

कवयः मन्त्रेषु यानि कर्माणि अपश्यन् तत् एतत् सत्यम्। त्रेतायाम् तानि बहुधा सन्ततानि। सत्यकामाः नियतम् तानि आचरथ। सुकृतस्य लोके वः एषः पन्थाः ॥

अन्वयलिप्यन्तरणम्

kavayaḥ mantreṣu yāni karmāṇi apaśyan tat etat satyam| tretāyām tāni bahudhā santatāni| satyakāmāḥ niyatam tāni ācaratha| sukṛtasya loke vaḥ eṣaḥ panthāḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

॥ मुण्डकोपनिषत् ॥

द्वितीयः खण्डः

[ परविद्याङ्गम् अपरविद्या ]

अथ परा यया तदक्षरमधिगम्यते सा विद्या वेदितव्येत्युक्तं प्राक् । केन कस्मात्कथं वेदितव्येति जिज्ञासायां द्वितीयः खण्डः प्रारभ्यते । फले स्पृहयालवो हि जनाः प्रवर्तेरन्फलसाधनेष्वेव कर्मसु प्रथमम् । न ते विद्यायामस्यामधिकारिणः । यस्तु परीक्ष्य लोकान्कर्मचितान्प्राप्तनिर्वेदस्तेनेयमधिगन्तव्येति बोधयन्निर्वेदाय कर्मसु दोषमाविष्कर्तुमादौ कर्मगतिं निरूपयति - यदा लेलायत इत्यादिना । तर्हि मुमुक्षुणा कर्माण्यशेषाणि स्वरूपतस्त्याज्यान्येवेति मन्येत कश्चित्, न तथेत्यादावेव ज्ञापयति - तदेतत्सत्यमित्यनेन ।

तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।

तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥१॥

क्वचिदनवगतोऽप्युपदिष्टोऽर्थो नातिक्षतये । विपरीतमवगतो ह्यनर्थाय । तद्भाविनोऽपि भ्रमस्य युक्तं हि प्रथमतो निवारणम् । तत् - यदुपक्रमे परया विद्यया प्राप्यमित्युक्तम्, एतत् - अव्यवहितमन्त्रे सर्वज्ञः सर्वविदिति च यदुक्तम्, सत्यम् - स्वरूपतः स्वभावतश्च सततैकरूपतया सत्यशब्दवाच्यम् । कवयः - अतीन्द्रियार्थसाक्षात्कारसमर्था महर्षयो यान्यग्निहोत्रादीनि । कर्माणि, मन्त्रेष्वपश्यन् - मन्त्रैकप्रकाश्यानि साक्षात्कृतवन्तः । त्रेताग्निषु सम्बद्धानि तानि कर्माणि मुमुक्षवोऽपि यूयं न त्यजत, किन्तु सत्यकामाः - उक्तलक्षणे सत्ये परब्रह्मणि कामो येषां तथाविधा आचरत । लकारव्यत्ययश्छान्दसः ।

ननु यैः कर्मभिरयमसौ वा लोकस्तैरनुष्ठितैरवर्जनीयं लोकयोर्गतागतम्, उप्तं हि बीजं सजातीयमेवाङ्कुरमुत्पादयेदेवेत्यत्राह एष वः पन्थाः सुकृतस्य लोक इति । सुकृतसाध्येऽस्मिन्नमुष्मिन्वा लोके पन्थाः प्रापक एष एव - सत्यशब्दवाच्यः परमात्मैव । अयं भावः कर्मणां हि न फलजननसामर्थ्यं बीजादाविव स्वतः किमप्यस्ति, इन्द्रादिशरीरद्वारा परमात्मनः सपर्यारूपाण्येवेति स एव तत्तच्छरीरकस्तेन तेन कर्मणाऽऽराधितस्तत्तत्फलं प्रयच्छति वाञ्छितम्, यदि सकामा यूयं कुरुत तदाऽपि वः स एव पन्थास्तत्र कामे, तत् कामनान्तरं त्यक्त्वा तदेककामनया यद्याचर्यते कथं बन्धः प्रीतो हि परमात्मा वाञ्छितमेव तु फलं प्रयच्छेदिति । एतच्छब्दस्य परमात्मपरता कथमिति न शङ्क्यम् । सत्यकामा इत्यव्यवहितपदे हि सत्यशब्दः श्रूयते ।

यद्वा - किं नः कर्मणा सकामेनाकामेन वेत्यत्राह - एष वः पन्थाः सुकृतस्य लोक इति । यदि यूयं मुमुक्षामात्रेण सर्वथा त्यजत कर्म, इह लोके युष्माभिर्दुष्कृतमेव कृतं स्यात् । ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्' (भगवद्गीता -  ३.५), 'शरीरयात्राऽपि च वो न प्रसिध्येदकर्मणाम्' (भगवद्गीता -  ३.८), तथा च यथायथमाचरणेनावर्जनीयो दुराचारप्रसङ्गः, तस्मादिह लोके वः सुकृतस्य पन्थाः मार्ग एष एव सत्यकामतया कर्माचरणमेव न तु

त्यागः । यावल्लोकेन सम्बन्धस्तावदपरिहार्यत्वात्कर्मणः कर्तव्यमेव सत्यकामतया कर्म, लोकातिगत्वे तु न तदपेक्षेति भावः । यदा लेलायत इत्यादेरिवास्यापि कर्मगतिनिरूपणपरताश्रयणे न वयं प्रत्यवतिष्ठामहे, सत्यशब्दस्यापेक्षिकता श्रयणं तु सोढव्यम् ॥१॥

आङ्गल-अर्थः ॥

This is That, the Truth of things: works which the sages beheld in the Mantras were in the Treta manifoldly extended. Works do ye perform religiously with one passion for the Truth; this is your road to the heaven of good deeds.

हिन्दी-अर्थः

यह है 'वह' पदार्थों का 'सत्यतत्त्व'ː कवि-द्रष्टाओं ने मन्त्रों१ में जिन कर्म को देखा, वे त्रेतायुग२ में बहुधा विस्तारित हुए। उन कर्मों का एकनिष्ठ होकर 'सत्य' के लिए कामना करते हुए तुम नियमित आचरण करो; पुण्य कर्म-लोक (सुकृत-लोक) के लिए यही तुम्हारा पन्थ है।

शब्दावली

तत् एतत् सत्यम् - tat etat satyam - this is That, the Truth of things

कवयः - kavayaḥ - the sages

मन्त्रेषु - mantreṣu - in the Mantras

यानि कर्माणि - yāni karmāṇi - works which

अपश्यन् - apaśyan - beheld

त्रेतायाम् - tretāyām - in the Treta

तानि - tāni - those

त्रेतायाम् - tretāyām - in the Treta

बहुधा - bahudhā - manifoldly

सन्ततानि - santatāni - were extended

सत्यकामाः - satyakāmāḥ -

नियतम् - niyatam - religiously with one passion for the Truth

तानि आचरथ - tāni ācaratha - works do ye perform

सुकृतस्य लोके - sukṛtasya lok - to the heaven of good deeds

वः एषः पन्थाः - vaḥ eṣaḥ panthāḥ - this is your road

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ