Ad Code

तैत्तिरीयोपनिषद् भृगुवल्ली



तैत्तिरीयोपनिषद् भृगुवल्ली

प्रथमोऽनुवाकः

भृगुर्वै वारुणिः। वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तस्मा एतत् प्रोवाच। अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति।तं होवाच। यतो वा इमानि भूतानि जायन्ते।येन जातानि जीवन्ति। यत् प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्‌ ब्रह्मेति।स तपोऽतप्यत। स तपस्तप्त्वा॥

लिप्यन्तरणम्

bhṛgurvai vāruṇiḥ | varuṇaṁ pitaramupasasāra| adhīhi bhagavo brahmeti | tasmā etat provāca| annaṁ prāṇaṁ cakṣuḥ śrotraṁ mano vācamiti |taṁ hovāca | yato vā imāni bhūtāni jāyante |yena jātāni jīvanti | yat prayantyabhisaṁviśanti | tadvijijñāsasva | tad brahmeti |sa tapo'tapyata | sa tapastaptvā||

अन्वयः

भृगुः वै वारुणिः भगवः ब्रह्म अधीहि इति पितरं वरुणम् उपससार तस्मै सः वरुणः एतत् प्रोवाच अन्नम् प्राणम् चक्षुः श्रोत्रम् मनः वाचम् च ब्रह्मत्वेन वीजानीहि इति। ततः तम् उवाच ह यतः वै इमानि भूतानि जायन्ते जातानि येन जीवन्ति यत् प्रयन्ति प्रयन् अभिसंविशन्ति तत् विजिज्ञासस्व तत् ब्रह्म। सः तपः अतप्यत सः तपः तप्त्वा।

अन्वयलिप्यन्तरणम्

bhṛguḥ vai vāruṇiḥ bhagavaḥ brahma adhīhi iti pitaraṁ varuṇam upasasāra tasmai ( saḥ varuṇaḥ ) etat provāca annam prāṇam cakṣuḥ śrotram manaḥ vācam ( ca brahmatvena vījānīhi ) iti| ( tataḥ ) tam uvāca ha yataḥ vai imāni bhūtāni jāyante jātāni yena jīvanti yat prayanti prayan abhisaṁviśanti tat vijijñāsasva tat brahma | saḥ tapaḥ atapyata saḥ tapaḥ taptvā|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

भृगुवल्ली शान्तिमन्त्रः

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु मा विद्विषावहै ।

ओं शान्तिः शान्तिः शान्तिः ॥

प्रथमोऽनुवाकः

[ ब्रह्मजिज्ञासा ]

'सत्यं ज्ञानमनन्तं ब्रह्मेति सत्यत्वादिभिर्धर्मैर्ब्रह्मणः स्वरूपं निरूपितम् । तथाविधं ब्रह्म येन लक्ष्येत तल्लक्षणं प्रतिपाद्यते वल्ल्यामस्याम् ।

भृगुर्वै वारुणि: वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति । तं होवाच । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥

तपसो विद्यासाधनत्वं च ज्ञाप्यते - भृगुर्वै इत्यादि । आख्यायिकेयं विद्यास्तुतये । पित्रा प्रियाय पुत्रायोपदिष्टेति विद्या हि स्तुता भवति । वारुणि: - वरुणस्य सुतः भृगुः वरुणं पितरं ब्रह्मजिज्ञासया उपससार उपजगाम । भगवः - भगवन् अध अध्यापय ब्रह्म ब्रह्मोपदिशेति । उवाचेति शेषः । तस्मै पुत्राय जिज्ञासवे पिता एतत् प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमित्येतानि प्रोवाच । ननु ब्रह्मजिज्ञासुं प्रति कथमिदं प्रतिवचनम् ? अयमिदं ब्रह्मेति साक्षादुपदेशं नार्हति तपो हि यथावत्तत्प्रतिपत्तौ प्रथमं साधनम्, व्याकुलचेता अयम्, लक्षणं तु ब्रूमः, अनेन लक्षणेन ब्रह्म तपसा ज्ञास्यति - एष्वन्यतमो वाऽन्य एव वेति स्वयमेवेत्याशयेनैवमुक्त्वा लक्षणमाह यतो वा इत्यादिना । इमानि भूतानि आब्रह्मस्तम्बपर्यन्तानि चराचरलक्षणानि यतः यस्मात् । हेतौ पञ्चमी । जातानि । येन आत्मभूतेन हेतुना जीवन्ति । प्रयन्ति सन्ति लीयमानानि सन्ति यदभिसंविशन्ति । यत्प्रयन्ति मोक्षदशायामिति वा । तद्ब्रह्म तद्विजिज्ञासस्व । एतेन जन्मकारणत्वं स्थितिकारणत्वं लयकारणत्वं चेति त्रितयं समुदितं लक्षणमित्युक्तं भवति । प्रत्येकं चेल्लक्षणं विवक्षितं स्यात्, यतो वा इमानि भूतानि जायन्ते तद्ब्रह्म, येन जातानि जीवन्ति तद्ब्रह्म, यदभिसंविशन्ति तद्ब्रह्मेति प्रत्येकं ब्रह्मशब्द: श्रूयेत । न च तथा । यद्यपि एकैकमपि लक्षणं भवितुमर्हति, अनतिप्रसङ्गात् । अथापि जन्मकारणत्वमात्रे सति स्थितिलययोः कारणं किमन्यदिति शङ्कया परब्रह्मता न सिध्येत् तत्कारणान्तरव्यावृत्तिज्ञापनमुखेन परब्रह्मतादाय त्रयं समुदितं लक्षणं विवक्षितम् । विशेषोऽत्र प्रकाशिकायां बोध्यः । तदिदं पितुर्वचनमुपश्रुत्य ईदृशलक्षणलक्षितं किमिति जानन् तद्विज्ञानं विना तपसा न घटेतेति निश्चित्य स तपोऽतप्यत । स तपस्तप्त्वा - उत्तरेण सम्बन्धः ॥

॥ इतिङ्गल-अर्थः ॥

Bhrigu, Varuna's son, came unto his father Varuna and said “Lord, teach me the Eternal.” And his father declared it unto him thus “Food and Prana and Eye and Ear and Mind-even these.” Verily he said unto him “Seek thou to know that from which these creatures are born, whereby being born they live and to which they go hence and enter again; for that is the Eternal.” And Bhrigu concentrated himself in thought and by the askesis of his brooding

॥ हिन्दी-अर्थः ॥

वरुण के पुत्र भृगु ने अपने पिता वरुण के पास जाकर यह कहा-''भगवन् मुझे 'ब्रह्म' का ज्ञान दीजिये''। उनके पिता वरुण ने उनसे इस प्रकार कहा-''अन्न, प्राण, चक्षु, श्रोत्र एवं मन-ये भी। ''उहोंने भृगु से कहा, ''ये समस्त प्राणी कहाँ से उत्पन्न होते हैं, उत्पन्न होकर ये किसके द्वारा जीवित रहते हैं तथा तत्पश्चात् ये किसमें समाविष्ट हो जाते हैं, उसे तुम जानने का प्रयास करो, क्योंकि वह ही है 'ब्रह्म'। ''तथा भृगु अपने मनन में एकाग्र हो गये तथा अपने मनन की तप-ऊर्जा से...

शब्दावली

भृगुः - bhṛguḥ - Bhrigu

वै वारुणिः - vai vāruṇiḥ - Varuna's son

भगवः - bhagavaḥ - “ Lord”

ब्रह्म अधीहि इति - brahma adhīhi iti - “ teach me the Eternal.”

पितरम् वरुणम् उपससार - pitaram varuṇam upasasāra - came unto his father Varuna and said

सः वरुणः - saḥ varuṇaḥ - Varuna, his father

एतत् प्रोवाच - etat provāca - declared it unto him thus

अन्नम् - annam - Food

प्राणम् - prāṇam - Prana

चक्षुः - cakṣuḥ - Eye

श्रोत्रम् - śrotram - Ear

मनः - manaḥ - Mind

वाचम् - vācam - Speech

च ब्रह्मत्वेन वीजानीहि इति - ca brahmatvena vījānīhi iti - Seek thou to know ?

ततः - tataḥ - verily

तम् उवाच ह - tam uvāca ha - he said unto him

यतः वै - yataḥ vai - that from which

इमानि भूतानि - imāni bhūtāni - these creatures

जायन्ते - jāyante - are born

जातानि येन - jātāni yena - whereby being

जीवन्ति - jīvanti - they live

यत् प्रयन्ति - yat prayanti - and to which they go

प्रयन् अभिसंविशन्ति - prayan abhisaṁviśanti - hence and enter again

तत् विजिज्ञासस्व - tat vijijñāsasva - seek thou to know that

तत् ब्रह्म - for that is the Eternal - tat brahma

सः - saḥ - Bhrigu

तपः अतप्यत - tapaḥ atapyata - concentrated himself in thought

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the askesis of his brooding

तैत्तिरीयोपनिषद् भृगुवल्ली 

द्वितीयोऽनुवाकः

अन्नं ब्रह्मेति व्यजानात्‌। अन्नाद्‌ध्येव खल्विमानि भुतानि जायन्ते। अन्नेन जातानि जीवन्ति। अन्नं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय।पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।तं होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।स तपोऽतप्यत। स तपस्तप्त्वा॥

लिप्यन्तरणम्

annaṁ brahmeti vyajānāt | annāddhyeva khalvimāni bhutāni jāyante | annena jātāni jīvanti| annaṁ prayantyabhisaṁviśantīti | tadvijñāya punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti |taṁ hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |sa tapo'tapyata | sa tapastaptvā||

अन्वयः

सः अन्नं ब्रह्म इति व्यजानात् हि। अन्नात् एव खलु इमानि भूतानि जायन्ते जातानि अन्नेन जीवन्ति प्रयन्ति अन्नम् अभिसंविशन्ति इति। तत्। विज्ञाय भृगुः पुनः एव पितरं वरुणम् उपससार भगवः ब्रह्म अधीहि इति। पिता वरुणः तम् उवाच ह तपसा ब्रह्म विजिज्ञासस्व तपः ब्रह्म इति। सः तपः अतप्यत। सः तपः तप्त्वा।

अन्वयलिप्यन्तरणम्

(saḥ) annaṁ brahma iti vyajānāt hi| annāt eva khalu imāni bhūtāni jāyante jātāni annena jīvanti prayanti annam abhisaṁviśanti iti| tat| vijñāya ( bhṛguḥ ) punaḥ eva pitaraṁ varuṇam upasasāra bhagavaḥ brahma adhīhi iti| ( pitā varuṇaḥ ) tam uvāca ha tapasā brahma vijijñāsasva tapaḥ brahma iti| saḥ tapaḥ atapyata| saḥ tapaḥ taptvā|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

द्वितीयोऽनुवाकः

[ अन्ने ब्रह्मत्वपरिज्ञानम् ]

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्धयेव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥

प्रथममन्नं ब्रह्मेति व्यजानात् । कस्मात् ? उक्ताल्लक्षणात् । कथम् ? अन्नाद्धयेव खल्विमानि भूतानि जायन्ते । हीत्यस्य उत्तरत्रापि सम्बन्धः । जातान्यन्नेन हि जीवन्ति । प्रयन्त्यन्नं ह्यभिसंविशन्ति । तदेवं जन्मादिकारणत्वावधारणेन तत् अन्नं ब्रह्मेति विज्ञाय स्वयमपरितुष्यन् पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेत्युवाच । तं पिता उवाच उक्तंनाम लक्षणम् । तपसा तल्लक्षणलक्षितं विजिज्ञासस्व । तपो ब्रह्म - ब्रह्मप्रतिपत्तौ साधनम् । एवमुक्तः स तपोऽतप्यत । उत्तरेण सम्बन्धः ॥

॥ इति द्वितीयोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

He knew food for the Eternal. For from food alone, it appeareth, are these creatures born and being born they live by food, and into food they depart and enter again. And when he had known this, he came again to Varouna his father and said “Lord, teach me the Eternal.” And his father said to him “By askesis do thou seek to know the Eternal, for concentration in thought is the Eternal.” He concentrated himself in thought and by the energy of his brooding

॥ हिन्दी-अर्थः ॥

उन्होंने जाना कि अन्न ही 'ब्रह्म ' है। क्योंकि ऐसा प्रतीत होता है कि अन्न से ही समस्त प्राणी उत्पन्न होते हैं तथा उत्पन्न होकर ये अन्न के द्वारा ही जीवित रहते हैं तथा अन्न में ही ये पुनः लौटकर समाविष्ट हो जाते हैं। जब उन्होंने यह जान लिया तो वे पुनः अपने पिता वरुण के पास आये और बोले ''हे भगवन् मुझे 'ब्रह्म' की शिक्षा दीजिये।'' उनके पिता ने उनसे कहा, ''तप के द्वारा तुम 'ब्रह्म' को जानने का प्रयास करो, क्योंकि मनन में एकाग्रता ही 'ब्रह्म' है।'' भृगु अपने मनन में एकाग्र हो गये तथा अपने मनन की तपऊर्जा से...

शब्दावली

सः - saḥ - He

अन्नम् ब्रह्म इति व्यजानात् - annam brahma iti vyajānāt - knew food for the Eternal

हि - hi - For

अन्नात् एव - annāt eva - from food alone

खलु इमानि भूतानि जायन्ते - khalu imāni bhūtāni jāyante - are these creatures born

जातानि - jātāni - being born

अन्नेन जीवन्ति - annena jīvanti - they live by food

प्रयन्ति अन्नम् - prayanti annam - and into food they depart

अभिसंविशन्ति इति - abhisaṁviśanti iti - and enter again

तत् विज्ञाय - tat vijñāya - when he had known this

भृगुः - bhṛguḥ - he (Bhrigu)

पुनः एव पितरम् वरुणम् - punaḥ eva pitaram varuṇam - he came again to Varuna his father

उपससार - upasasāra - and said

भगवः ब्रह्म अधीहि इति - bhagavaḥ brahma adhīhi iti - “Lord, teach me the Eternal”

पिता वरुणः - pitā varuṇaḥ - his father (Varuna)

तम् उवाच - tam uvāca - said to him

ह तपसा - ha tapasā - by askesis

ब्रह्म विजिज्ञासस्व - brahma vijijñāsasva - do thou seek to know the Eternal

तपः - tapaḥ - concentration in thought

ब्रह्म इति - brahma iti - is the Eternal

सः तपः अतप्यत - saḥ tapaḥ atapyata - he concentrated himself in thought

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the energy of his brooding

तैत्तिरीयोपनिषद् भृगुवल्ली

तृतीयोऽनुवाकः

प्राणो ब्रह्मेति व्यजानात्‌।प्राणाद्‌ध्येव खल्विमानि भूतानि जायन्ते।प्राणेन जातानि जीवन्ति। प्राणं प्रयन्त्यभिसंविशन्तीति।तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तं होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।स तपोऽतप्यत। स तपस्तप्त्वा॥

॥ लिप्यन्तरणम् ॥

prāṇo brahmeti vyajānāt prāṇāddhyeva khalvimāni bhūtāni jāyante prāṇena jātāni jīvanti | prāṇaṁ prayantyabhisaṁviśantīti |tadvijñāya | punareva varuṇaṁ pitaramupasasāra| adhīhi bhagavo brahmeti | taṁ hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |sa tapo'tapyata | sa tapastaptvā||

॥ अन्वयः ॥

सः प्राणः ब्रह्म इति व्यजानात् हि प्राणात् एव खलु इमानि भूतानि जातानि जातानि प्राणेन जीवन्ति प्रयन्ति प्राणम् अभिसंविशन्ति इति॥ तत् विज्ञाय भृगुः पुनः एव पितरं वरूणंम् उपससार भगवः ब्रह्म अधीहि इति। पिता वरुणः तम् उवाच ह तपसा ब्रह्म विजिज्ञासस्व तपः ब्रह्मः इति। सः भृगुः तपः अतप्यत सः तपः तप्त्वा।

॥ अन्वयलिप्यन्तरणम् ॥

saḥ ) prāṇaḥ brahma iti vyajānāt hi prāṇāt eva khalu imāni bhūtāni jāatāni jātāni prāṇena jīvanti prayanti prāṇam abhisaṁviśanti iti|| tat vijñāya ( bhṛguḥ ) punaḥ eva pitaraṁ varūṇaṁm upasasāra bhagavaḥ brahma adhīhi iti| ( pitā varuṇaḥ ) tam uvāca ha tapasā brahma vijijñāsasva tapaḥ brahmaḥ iti| saḥ ( bhṛguḥ ) tapaḥ atapyata saḥ tapaḥ taptvā|

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तृतीयोऽनुवाकः

[ प्राणे ब्रह्मत्वपरिज्ञानम् ]

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्धयेव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥

पूर्ववत् ।

॥ इति तृतीयोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

He knew Prana for the Eternal. For from Prana alone, it appeareth, are these creatures born and being born they live by Prana and to Prana they go hence and return. And when he had known this, he came again to Varuna his father and said “Lord, teach me the Eternal.” But his father said to him “By askesis do thou seek to know the Eternal, for askesis in thought is the Eternal.” He concentrated himself in thought and by the energy of his brooding

॥ हिन्दी-अर्थः ॥

उन्होंने जाना कि 'प्राण' ही 'ब्रह्म' है। क्योंकि ऐसा प्रतीत होता है कि प्राणी से ही इन समस्त प्राणियों का जन्म होता है तथा उत्पन्न होकर ये प्राणों के द्वारा ही जीवित रहते हैं तथा प्राणों में ही ये पुनः लौटकर समाविष्ट हो जाते हैं। और जब उन्होंने यह जान लिया, वे पुनः अपने पिता वरुण के पास आये और बोले, ''हे भगवन् मुझे 'ब्रह्म' की शिक्षा दीजिये। किन्तु उनके पिता ने कहा, ''तुम तप के द्वारा 'ब्रह्म' को जानने का प्रयास करो, क्योंकि मनन में तप ही 'ब्रह्म' है।'' भृगु ने मनन में स्वयं को एकाग्र किया तथा अपने मनन को तप-ऊर्जा से...

॥ शब्दावली ॥

सः - saḥ - he

प्राणः ब्रह्म इति - prāṇaḥ brahma iti - Prana for the Eternal

व्यजानात् - vyajānāt - knew

हि - hi - for

प्राणात् एव खलु - prāṇāt eva khalu - from Prana alone

इमानि - imāni - these

भूतानि - bhūtāni - creatures

जातानि - jātāni - are born

जातानि - jātāni - being born

प्राणेन - prāṇena - by Prana

जीवन्ति - jīvanti - they live

प्रयन्ति प्राणम् - prayanti prāṇam - to Prana they go hence

अभिसंविशन्ति इति - abhisaṁviśanti iti - and return

तत् विज्ञाय - tat vijñāya - and when he had known this

भृगुः - bhṛguḥ - he (Bhrigu)

पुनः एव पितरम् वरूणंम् उपससार - punaḥ eva pitaram varūṇaṁm upasasāra - came again to Varouna his father and said

भगवः ब्रह्म अधीहि इति - bhagavaḥ brahma adhīhi iti - “Lord, teach me the Eternal.”

पिता वरुणः तम् उवाच - pitā varuṇaḥ tam uvāca - his father said to him

ह तपसा - ha tapasā - by askesis

ब्रह्म विजिज्ञासस्व - brahma vijijñāsasva - do thou seek to know the Eternal

तपः ब्रह्मः इति - tapaḥ brahmaḥ iti - for askesis in thought is the Eternal

सः भृगुः - saḥ bhṛguḥ - Bhrigu

तपः अतप्यत - tapaḥ atapyata - concentrated himself in thought

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the energy of his brooding

तैत्तिरीयोपनिषद् भृगुवल्ली

चतुर्थोऽनुवाकः

मनो ब्रह्मेति व्यजानात्‌। मनसो ह्येव खल्विमानि भूतानि जायन्ते। मनसा जातानि जीवन्ति। मनः प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय। पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति। तं होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति। स तपोऽतप्यत। स तपस्तप्त्वा॥

लिप्यन्तरणम्

mano brahmeti vyajānāt | manaso hyeva khalvimāni bhūtāni jāyante | manasā jātāni jīvanti | manaḥ prayantyabhisaṁviśantīti | tadvijñāya | punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti | taṁ hovāca | tapasā brahma vijijñāsasva | tapo brahmeti | sa tapo'tapyata | sa tapastaptvā||

अन्वयः

सः मनः ब्रह्म इति व्यजानात् हि मनसः एव खलु इमानि भूतानि जायन्ते जातानि मनसा जीवन्ति प्रयन्ति मनः अभिसंविशन्ति इति॥ तत् विज्ञाय भृगुः पुनः एव वरुणं पितरम् उपससार भगवः ब्रह्म अधीहि इति। पिता वरुणः तम् उवाच ह तपसा ब्रह्म विजिज्ञासस्व तपः ब्रह्मः इति। सः भृगुः तपः अतप्यत सः तपः तप्त्वा।

अन्वयलिप्यन्तरणम्

( saḥ ) manaḥ brahma iti vyajānāt hi manasaḥ eva khalu imāni bhūtāni jāyante jātāni manasā jīvanti prayanti manaḥ abhisaṁviśanti iti|| tat vijñāya ( bhṛguḥ ) punaḥ eva varuṇaṁ pitaram upasasāra bhagavaḥ brahma adhīhi iti| ( pitā varuṇaḥ ) tam uvāca ha tapasā brahma vijijñāsasva tapaḥ brahmaḥ iti| saḥ ( bhṛguḥ ) tapaḥ atapyata saḥ tapaḥ taptvā|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

चतुर्थोऽनुवाकः

[ मनसि ब्रह्मत्वज्ञानम् ]

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥

स्पष्टोऽर्थः ।

॥ इति चतुर्थोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

He knew mind for the Eternal. For from mind alone, it appeareth, are these creatures born and being born they live by mind, and to mind they go hence and return. And when he had known this, he came again to Varuna his father and said “Lord, teach me the Eternal.” But his father said to him “By askesis do thou seek to know the Eternal, for concentration of force is the Eternal.” He concentrated himself in thought and by the energy of his brooding

हिन्दी-अर्थः ॥

उन्होंने जाना कि 'मन' ही 'ब्रह्म' है। क्योंकि ऐसा प्रतीत होता है कि मन से ही ये समस्त प्राणी उत्पन्न होते हैं तथा उत्पन्न होकर ये मन के द्वारा ही जीवित रहते हैं तथा मन में ही ये पुनः लौटकर समाविष्ट हो जाते हैं। और जब उन्होंने यह जान लिया तो वे पुनः अपने पिता वरुण के पास आये और बोले, ''हे भगवन् मुझे 'ब्रह्म' का ज्ञान दीजिये। ''किन्तु उनके पिता ने उनसे कहा, ''तप के द्वारा ही तुम 'ब्रह्म' को जानने का प्रयास करो, क्योंकि शक्ति की एकाग्रता ही 'ब्रह्म' है। भृगु ने मनन में स्वयं को एकाग्र कर दिया तथा अपने मनन की तप-ऊर्जा से...

शब्दावली

सः - saḥ - He

मनः ब्रह्म इति व्यजानात् - manaḥ brahma iti vyajānāt - knew mind for the Eternal

हि मनसः एव खलु - hi manasaḥ eva khalu - for from mind alone, it appeareth

इमानि भूतानि - imāni bhūtāni - these creatures

जायन्ते - jāyante - are born

जातानि - jātāni - being born

मनसा जीवन्ति - manasā jīvanti - they live by mind

मनः प्रयन्ति - manaḥ prayanti - to mind they go hence

अभिसंविशन्ति इति - abhisaṁviśanti iti - and return

तत् विज्ञाय - tat vijñāya - and when he had known this

भृगुः - bhṛguḥ - he (Bhrigu)

पुनः एव पितरम् वरुणम् उपससार - punaḥ eva pitaram varuṇam upasasāra - came again to Varuna his father and said

भगवः ब्रह्म अधीहि इति - bhagavaḥ brahma adhīhi iti - “Lord, teach me the Eternal.”

पिता वरुणः तम् उवाच - pitā varuṇaḥ tam uvāca - his father said to him

ह तपसा - ha tapasā - by askesis

ब्रह्म विजिज्ञासस्व - brahma vijijñāsasva - do thou seek to know the Eternal

तपः ब्रह्मः इति - tapaḥ brahmaḥ iti - for askesis in thought is the Eternal

सः भृगुः - saḥ bhṛguḥ - Bhrigu

तपः अतप्यत - tapaḥ atapyata - concentrated himself in thought

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the energy of his brooding

तैत्तिरीयोपनिषद् भृगुवल्ली

पञ्चमोऽनुवाकः

विज्ञानं ब्रह्मेति व्यजानात्‌।विज्ञानाद्‌ध्येव खल्विमानि भूतानि जायन्ते।विज्ञानेन जातानि जीवन्ति।विज्ञानं प्रयन्त्यभिसंविशन्तीति। तद्विज्ञाय।पुनरेव वरुणं पितरमुपससार। अधीहि भगवो ब्रह्मेति।तं होवाच। तपसा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति।स तपोऽतप्यत। स तपस्तप्त्वा॥

लिप्यन्तरणम्

vijñānaṁ brahmeti vyajānāt |vijñānāddhyeva khalvimāni bhūtāni jāyante |vijñānena jātāni jīvanti |vijñānaṁ prayantyabhisaṁviśantīti | tadvijñāya punareva varuṇaṁ pitaramupasasāra | adhīhi bhagavo brahmeti |taṁ hovāca | tapasā brahma vijijñāsasva | tapo brahmeti |sa tapo'tapyata | sa tapastaptvā||

अन्वयः

सः विज्ञानम् ब्रह्म इति व्यजानात् हि विज्ञानात् एव खलु इमानि भूतानि जायन्ते जातानि विज्ञानेन जीवन्ति प्रयन्ति विज्ञानम् अभिसंविशन्ति इति॥ तत् विज्ञाय भृगुः पुनः एव वरुणं पितरम् उपससार भगवः ब्रह्म अधीहि इति। पिता वरुणः तम् उवाच ह तपसा ब्रह्म विजिज्ञासस्व तपः ब्रह्मः इति। सः भृगुः तपः अतप्यत सः तपः तप्त्वा।

अन्वयलिप्यन्तरणम्

( saḥ )vijñānam brahma iti vyajānāt hi vijñānāt eva khalu imāni bhūtāni jāyante jātāni vijñānena jīvanti prayanti vijñānam abhisaṁviśanti iti|| tat vijñāya ( bhṛguḥ ) punaḥ eva varuṇaṁ pitaram upasasāra bhagavaḥ brahma adhīhi iti| ( pitā varuṇaḥ ) tam uvāca ha tapasā brahma vijijñāsasva tapaḥ brahmaḥ iti| saḥ ( bhṛguḥ ) tapaḥ atapyata saḥ tapaḥ taptvā|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

पञ्चमोऽनुवाकः

[विज्ञानं ब्रह्म इति परिज्ञानम् ]

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्धयेव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तं होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । स तपोऽतप्यत । स तपस्तप्त्वा ॥

विज्ञानमत्र जीवः । इतरत् स्पष्टम् ।

॥ इति पञ्चमोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

He knew Knowledge for the Eternal. For from Knowledge alone, it appeareth, are these creatures born and being born they live by Knowledge and to Knowledge they go hence and return. And when he had known this, he came again to Varouna his father and said “Lord, teach me the Eternal.” But his father said to him “By askesis do thou seek to know the Eternal, for concentration of force is the Eternal.” He concentrated himself in thought and by the energy of his brooding

हिन्दी-अर्थः ॥

उन्होंने जाना कि 'विज्ञान' ही 'ब्रह्म' है। क्योंकि ऐसा प्रतीत होता है कि केवल विज्ञान से ही ये समस्त प्राणी उत्पन्न हुए हैं तथा उत्पन्न होकर 'विज्ञान ' के द्वारा ही ये जीवित रहते हैं तथा प्रयाण करके 'विज्ञान' में ही ये समाविष्ट हो जाते हैं। जब उन्होंने यह जान लिया तब वे अपने पिता वरुण के पास पुनः आये और बोले, ''हे भगवन् मुझे 'ब्रह्म' का ज्ञान दीजिये।'' किन्तु उनके पिता ने उनसे कहा, ''तप के द्वारा ही तुम 'ब्रह्म' को जानने का प्रयास करो, क्योंकि शक्ति की एकाग्रता ही 'ब्रह्म' है। भृगु ने मनन में अपने आपको एकाग्र कर दिया तथा अपने मनन की तप-ऊर्जा से...

शब्दावली

सः - saḥ - He

विज्ञानम् ब्रह्म इति व्यजानात् - vijñānam brahma iti vyajānāt - knew Knowledge for the Eternal

हि विज्ञानात् एव खलु - hi vijñānāt eva khalu - for from Knowledge alone, it appeareth

इमानि भूतानि - imāni bhūtāni - these creatures

जायन्ते - jāyante - are born

जातानि - jātāni - being born

विज्ञानेन जीवन्ति - vijñānena jīvanti - they live by Knowledge

प्रयन्ति - prayanti - to Knowledge they go hence

विज्ञानम् अभिसंविशन्ति इति - vijñānam abhisaṁviśanti iti - and return

तत् विज्ञाय - tat vijñāya - and when he had known this

भृगुः - bhṛguḥ - he (Bhrigu)

पुनः एव पितरम् वरुणम् उपससार - punaḥ eva pitaram varuṇam upasasāra - came again to Varuna his father and said

भगवः ब्रह्म अधीहि इति - bhagavaḥ brahma adhīhi iti - “Lord, teach me the Eternal”

पिता वरुणः तम् उवाच - pitā varuṇaḥ tam uvāca - his father said to him

ह तपसा - ha tapasā - by askesis

ब्रह्म विजिज्ञासस्व - brahma vijijñāsasva - do thou seek to know the Eternal

तपः ब्रह्मः इति - tapaḥ brahmaḥ iti - for askesis in thought is the Eternal

सः भृगुः - saḥ bhṛguḥ - Bhrigu

तपः अतप्यत - tapaḥ atapyata - concentrated himself in thought

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the energy of his brooding

तैत्तिरीयोपनिषद् भृगुवल्ली

षष्ठोऽनुवाकः

आनन्दो ब्रह्मेति व्यजानात्। आनन्दाध्येव खल्विमानि भूतानि जायन्ते। आनन्देन जातानि जीवन्ति। आनन्दं प्रयन्त्यभिसंविशन्तीति।सैषा भार्गवी वारुणी विद्या। परमे व्योमन्प्रतिष्ठिता।स य एवं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ंअहान्‌ कीर्त्या॥

लिप्यन्तरणम्

ānando brahmeti vyajānāt| ānandādhyeva khalvimāni bhūtāni jāyante| ānandena jātāni jīvanti | ānandaṁ prayantyabhisaṁviśantīti |saiṣā bhārgavī vāruṇī vidyā | parame vyomanpratiṣṭhitā |sa ya evaṁ veda pratitiṣṭhati | annavānannādo bhavati| mahānbhavati prajayā paśubhirbrahmavarcasena ṁahān kīrtyā||

अन्वयः

सः आनन्दः ब्रह्म इति व्यजानात् हि आनन्दात् एव खलु इमानि भूतानि जायन्ते जातानि आनन्देन जीवन्ति प्रयन्ति आनन्दम् अभिसंविशन्ति इति। सा एषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता यः एवं वेद सः प्रतितिष्ठति। अन्नवान् अन्नादः च भवति प्रजया पशुभिः ब्रह्मवर्चसेन च महान् भवति। कीर्त्या च महान् भवति ।

अन्वयलिप्यन्तरणम्

( saḥ ) ānandaḥ brahma iti vyajānāt hi ānandāt eva khalu imāni bhūtāni jāyante jātāni ānandena jīvanti prayanti ānandam abhisaṁviśanti iti| sā eṣā bhārgavī vāruṇī vidyā parame vyoman pratiṣṭhitā yaḥ evaṁ veda saḥ pratitiṣṭhati| annavān annādaḥ ( ca ) bhavati prajayā paśubhiḥ brahmavarcasena ( ca ) mahān bhavati| kīrtyā ( ca ) mahān ( bhavati )|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

षष्ठोऽनुवाकः

[ ब्रह्मविद्याफलम् ]

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति । सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥

भूयस्तपसा विशुद्धमना भृगुरन्नादिविज्ञानान्तस्यान्तरात्मभूतं तेभ्योऽत्यन्तविलक्षणमानन्दं ब्रह्मेत्यवधृतवान् । कस्मात् ? आनन्दाद्ध्येव खल्विमानि भूतानीत्यादि । जन्मादिकारणत्वादुक्तलक्षणात् । सैषा भार्गवी वारुणी - भृगुणा वरुणात् समधिगता विद्या परमे व्योमन् - परमव्योमशब्दवाच्ये आनन्दे परमात्मनि प्रतिष्ठिता अन्नादीनतिक्रम्य तस्मिन्नेव प्रतिष्ठिता, न तु तमतिक्रम्यान्यत्र प्रसर्पतीति यावत् । अथ विद्याफलमुच्यते - य एवं वेदेति । य एवमन्नादिक्रमेणानन्दं सकलजगज्जन्मस्थितिलयहेतुं वेद - उपास्ते स तस्मिन् प्रतितिष्ठति, ततश्च्यवति । तमानन्दं प्राप्य पुनर्नावर्तते इति यावत् । विद्यामाहात्म्याद्दृष्टं चेदं फलं तस्य सिद्ध्यतीत्याह - अन्नवानित्यादि । प्रभूतमन्नं सिद्ध्यति, अन्नादनसमर्थश्च भवति, अरोग: प्रदीप्तजाठराग्निर्भवतीत्येतत् । प्रजापशुभिर्ब्रह्मवर्चसेन महांश्च भवति, प्रजादिसमृद्धिर्भवतीति यावत् । कीर्त्या च महान् भवति ॥

॥ इति षष्ठोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

He knew Bliss for the Eternal. For from Bliss alone, it appeareth, are these creatures born and being born they live by Bliss and to Bliss they go hence and return. This is the lore of Bhrigu, the lore of Varouna, which hath its firm base in the highest heaven. Who knoweth, getteth his firm base, he becometh the master of food and its eater, great in progeny, great in cattle, great in the splendour of holiness, great in glory.

॥ हिन्दी-अर्थः ॥

उन्होंने जाना कि 'आनन्द' ही 'ब्रह्म' है। क्योंकि ऐसा प्रतीत होता है कि केवल 'आनन्द' से ही ये समस्त प्राणी उत्पन्न हुए हैं तथा उत्पन्न होकर आनन्द के द्वारा ही ये जीवित रहते हैं तथा प्रयाण करके 'आनन्द' में ही ये समाविष्ट हो जाते है। यही है भार्गवी (भृगु की) विद्या, यही है वारुणी (वरुण की) विद्या जिसकी परम व्योम द्युलोकः में सुदृढ प्रतिष्ठा है। जो यह जानता है, उसको भी सुदृढ प्रतिष्ठा मिलती है। वह अन्न का स्वामी (अन्नवान्) एवं अन्नभोक्ता बन जाता है। वह प्रजा सन्ततिः से, पशुधन से, ब्रह्मतेज से महान हो जाता है, वह कीर्ति से महान् बन जाता है।

शब्दावली

सः आनन्दः ब्रह्म इति व्यजानात् - saḥ ānandaḥ brahma iti vyajānāt - he knew Bliss for the Eternal

हि आनन्दात् एव - hi ānandāt eva - for from Bliss alone

खलु - khalu - it appeareth

इमानि भूतानि जायन्ते - imāni bhūtāni jāyante - are these creatures born

जातानि - jātāni - being born

आनन्देन जीवन्ति - ānandena jīvanti - they live by Bliss

आनन्दम् प्रयन्ति अभिसंविशन्ति इति - ānandam prayanti abhisaṁviśanti iti - to Bliss they go hence and return

सा एषा - sā eṣā - this is that

भार्गवी वारुणी विद्या - bhārgavī vāruṇī vidyā - the lore of Bhrigu, the son of Varuna

परमे व्योमन् - parame vyoman - in the highest heaven

प्रतिष्ठिता - pratiṣṭhitā - which hath its firm base

यः - yaḥ - which hath its firm base

एवम् वेद - evam veda - knoweth

सः प्रतितिष्ठति - saḥ pratitiṣṭhati - getteth his firm base

अन्नवान् - annavān - the master of food

अन्नादः च - annādaḥ ca - and its eater

भवति - bhavati - he becometh

प्रजया - prajayā - in progeny

पशुभिः - paśubhiḥ - in cattle

ब्रह्मवर्चसेन - brahmavarcasena - in the splendour of holiness

च महान् भवति - ca mahān bhavati - he becometh great

कीर्त्या च महान् - kīrtyā ca mahān - great in glory.

तैत्तिरीयोपनिषद्

भृगुवल्ली

सप्तमोऽनुवाकः

अन्नं न निन्द्यात्‌। तद् व्रतम्‌। प्राणो वा अन्नम्‌।शरीरमन्नादम्‌। प्राणे शरीरं प्रतिष्ठितम्‌। शरीरे प्राणः प्रतिष्ठितः। तदेतदन्नमन्ने प्रतिष्ठितम्‌।स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान्‌ कीर्त्या॥

लिप्यन्तरणम्

annaṁ na nindyāt | tad vratam | prāṇo vā annam |śarīramannādam | prāṇe śarīraṁ pratiṣṭhitam | śarīre prāṇaḥ pratiṣṭhitaḥ | tadetadannamanne pratiṣṭhitam |sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati | annavānannādo bhavati| mahān bhavati prajayā paśubhirbrahmavarcasena | mahān kīrtyā ||

अन्वयः ॥

अन्नं न निन्द्यात्। तत् व्रतम्। प्राणः वै अन्नं शरीरम् अन्नादम्। प्राणे शरीरं प्रतिष्ठितम् शरीरे प्राणः प्रतिष्ठितः। तत् एतत् अन्नम् अन्ने प्रतिष्ठितं यः एतत् अन्नम् अन्ने प्रतिष्ठितं वेद सः प्रतितिष्ठति। अन्नवान् अन्नादः च भवति प्रजया पशुभिः ब्रह्मवर्चसेन च महान् भवति। कीर्त्या च महान् भवति ।

अन्वयलिप्यन्तरणम्

annaṁ na nindyāt| tat vratam| prāṇaḥ vai annaṁ śarīram annādam| prāṇe śarīraṁ pratiṣṭhitam śarīre prāṇaḥ pratiṣṭhitaḥ| tat etat annam anne pratiṣṭhitaṁ yaḥ etat annam anne pratiṣṭhitaṁ veda saḥ pratitiṣṭhati| annavān annādaḥ ( ca ) bhavati prajayā paśubhiḥ brahmavarcasena ( ca ) mahān bhavati| kīrtyā ( ca ) mahān ( bhavati )|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

सप्तमोऽनुवाकः

[ ब्रह्मविद्याङ्गतया अनुष्ठेयानि व्रतानि ]

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् । सय एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥

तस्यास्य ब्रह्मविद्यानिष्ठस्येदं व्रतम्, यदन्नं समुपनतं तदपकृष्टमपि न निन्द्यादिति । अन्नं ह्यस्य ब्रह्मोपलब्धौ प्रथमं पर्व । अथोपासनविशेषो निरूप्यते प्राणशरीरादि यदिदं कार्यजातं तदखिलमन्नमन्नादं च पश्येदिति । ननु कः प्रसङ्गोऽस्यात्र, अविशुद्धसत्त्वो ब्रह्मविद्यायामनधिकारी यः स दर्शनेनानेन विशुद्धहृदयः सन्नधिकुर्यात् । सत्यां कामनायां फलं चेदं लभेतेति । प्रथमं ब्रह्मदृष्टावन्नं प्रस्तुतमिति च प्रसङ्गः । यदिदं पृथिव्यादिशरीरान्तं सर्वमेतदन्नान्नादो भयात्मकमर्वाचीनमनित्यम्, तस्यास्य सर्वस्य जन्मादि यतः, तद् ब्रह्म, इति विभागश्च ध्वन्यते । प्राणो वा अन्नं शरीरमन्नादः, कस्मात् निमित्तात् ?, उच्यते - प्राणे शरीरं प्रतिष्ठितम् असति प्राणे शरीरविनाशात्, यत् यत्प्रतिष्ठं तत्तस्यान्नं हि । सोऽयं प्राणः शरीरे प्रतिष्ठितः शरीरे ह्यन्तस्तिष्ठति, तस्मादाश्रयः प्राणस्य शरीरमिति प्राणः शरीरे प्रतिष्ठितः । तथा च शरीरमन्नं प्राणोऽन्नादश्चेत्यपि भवति । एवमनयोः परस्परप्रतिष्ठत्वेन यः प्राणलक्षणमन्नमन्ने शरीरलक्षणे प्रतिष्ठितं वेद - उपास्ते स प्रतितिष्ठति चिरमिह, प्रभूतान्नवान्भवति अन्नादश्च भवति प्रजादिभिः समृद्धो भवति, ब्रह्मणो वेदस्याधीतस्य यद्वर्चस्तेजस्तेन च सम्पन्नो भवति ॥ 

इति सप्तमोऽनुवाकः

आङ्गल-अर्थः ॥

Thou shalt not blame food; for that is thy commandment unto labour. Verily Prana also is food, and the body is the eater. The body is established upon Prana and Prana is established upon the body. Therefore food here is established upon food. He who knoweth this food that is established upon food, getteth his firm base, he becometh the master of food and its eater, great in progeny, great in cattle, great in the radiance of holiness, great in glory.

हिन्दी-अर्थः ॥

तुम अन्न की निन्दा नहीं करोगे; कारण, वह तुम्हारे श्रम का व्रत है। वस्तुतः प्राण भी अन्न है, तथा शरीर भोक्ता है। शरीर प्राण पर प्रतिष्ठित है तथा प्राण शरीर पर प्रतिष्ठित है। अतएव यहाँ अन्न पर अन्न प्रतिष्ठित है। जो इस अन्न पर प्रतिष्ठित अन्न को जानता है, वह स्वयं सुदृढ प्रतिष्ठा प्राप्त करता है, वह अन्न का स्वामी (अन्नवान्) एवं उसका भोक्ता बन जाता है। वह प्रजा (सन्तति) से, पशुधन से, ब्रह्मतेज से महान् बन जाता है, वह कीर्ति से महान् बन जाता है।

शब्दावली

अन्नम् न निन्द्यात् - annam na nindyāt - thou shalt not blame food

ततम् व्रतम् - tatam vratam - for that is thy commandment unto labour

प्राणः वै अन्नम् - prāṇaḥ vai annam - verily Prana also is food

शरीरम् - śarīram - the body

अन्नादम् - annādam - is the eater of the food

प्राणे - prāṇe - upon Prana

शरीरम् - śarīram - the body

प्रतिष्ठितम् - pratiṣṭhitam - is established

शरीरे - śarīre - upon the body

प्राणः - prāṇaḥ - Prana

प्रतिष्ठितः - pratiṣṭhitaḥ - is established

तत् - tat - therefore

एतत् अन्नम् - etat annam - food here

अन्ने प्रतिष्ठितम् - anne pratiṣṭhitam - is established upon food

यः - yaḥ - He who

एतत् अन्नम् अन्ने प्रतिष्ठितम् - etat annam anne pratiṣṭhitam - this food that is established upon food

वेद - veda - knoweth

सः प्रतितिष्ठति - saḥ pratitiṣṭhati - getteth his firm base

अन्नवान् - annavān - the master of food

अन्नादः - annādaḥ - its eater

च भवति - ca bhavati - he becometh

प्रजया - prajayā - in progeny

पशुभिः - paśubhiḥ - in cattle

ब्रह्मवर्चसेन - brahmavarcasena - in the splendour of holiness

च महान् भवति - ca mahān bhavati - he becometh great

कीर्त्या च महान् भवति - kīrtyā ca mahān bhavati - great in glory

तैत्तिरीयोपनिषद् भृगुवल्ली

अष्टमोऽनुवाकः

अन्नं न परिचक्षीत। तद् व्रतम्‌। आपो वा अन्नम्‌।ज्योतिरन्नादम्‌। अप्सु ज्योतिः प्रतिष्ठितम्‌। ज्योतिष्यापः प्रतिष्ठिताः। तदेतदन्नमन्ने प्रतिष्ठितम्‌।स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥

लिप्यन्तरणम्

annaṁ na paricakṣīta | tad vratam | āpo vā annam jyotirannādam | apsu jyotiḥ pratiṣṭhitam | jyotiṣyāpaḥ pratiṣṭhitāḥ | tadetadannamanne pratiṣṭhitam |sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati | annavānannādo bhavati| mahān bhavati prajayā paśubhirbrahmavarcasena| mahān kīrtyā||

अन्वयः

अन्नं न परिचक्षीत। तत् व्रतम्। आपः वै अन्नम्। ज्योतिः अन्नादम्। अप्सु ज्योतिः प्रतिष्ठितम् ज्योतिषि आपः प्रतिष्ठिताः। तत् एतत् अन्नम् अन्ने प्रतिष्ठितं वेद सः प्रतितिष्ठति। अन्नवान् अन्नादः च भवति प्रजया पशुभिः ब्रह्मवर्चसेन च महान् भवति। कीर्त्या च महान् भवति ।

अन्वयलिप्यन्तरणम्

annaṁ na paricakṣīta| tat vratam| āpaḥ vai annam| jyotiḥ annādam| apsu jyotiḥ pratiṣṭhitam jyotiṣi āpaḥ pratiṣṭhitāḥ| tat etat annam anne pratiṣṭhitaṁ veda saḥ pratitiṣṭhati| annavān annādaḥ ( ca ) bhavati prajayā paśubhiḥ brahmavarcasena ( ca ) mahān bhavati| kīrtyā ( ca ) mahān ( bhavati )|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

अष्टमोऽनुवाकः

[ अन्ननिन्दानिषेध: ]

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वाऽन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥

प्राणशरीरयोरन्नान्नादत्वेन परस्परप्रतिष्ठत्वेन च यो वेद, तस्येदं व्रतम्, अन्नं पात्रे समुपनतमवरमपि न परिचक्षीत न निराराकुर्यादिति । अब्ज्योतिषोरन्नान्नादत्वेन परस्परप्रतिष्ठत्वेन दर्शनं तत्फलं चोच्यते - आपो वा इत्यादिना । स्पष्टम् ॥

इत्यष्टमोऽनुवाकः

॥ आङ्गल-अर्थः ॥

Thou shalt not reject food; for that too is the vow of thy labour. Verily the waters also are food, and the bright fire is the eater. The fire is established upon the waters and the waters are established upon the fires. Here too is food established upon food. He who knoweth this food that is established upon food, getteth his firm base, he becometh the master of food and its eater, great in progeny, great in cattle, great in the radiance of holiness, great in glory.

॥ हिन्दी-अर्थः ॥

तुम अन्न का तिरस्कार नहीं करोगे; कारण, वह भी तुम्हारे श्रम का व्रत है। वस्तुतः जल भी अन्न हैं तथा ज्योतिर्मयी अग्नि भोक्ता है। अग्नि (ज्योति) जलों पर प्रतिष्ठित है तथा जल अग्नि पर प्रतिष्ठित हैं। यहाँ भी अन्न पर अन्न प्रतिष्ठित है। जो अन्न पर प्रतिष्ठित इस अन्न को जानता है, वह स्वयं दृढ प्रतिष्ठा प्राप्त-करता है। वह अन्न का स्वामी (अन्नवान्) एवं अन्नभोक्ता बन जाता है। वह प्रजा (सन्तति) से, पशुधन से, ब्रह्मतेज से महान् हो जाता है, वह कीर्ति से महान् बन जाता है।

शब्दावली

अन्नम् न परिचक्षीत - annam na paricakṣīta - thou shalt not reject food

तत् व्रतम् - tat vratam - for that too is the vow of thy labour

आपः वै अन्नम् - āpaḥ vai annam - verily the waters also are food

ज्योतिः - jyotiḥ - the bright fire

अन्नादम् - annādam - is the eater

अप्सु - apsu - upon the waters

ज्योतिः - jyotiḥ - the fire

प्रतिष्ठितम् - pratiṣṭhitam - is established

ज्योतिषि - jyotiṣi - upon the fires

आपः - āpaḥ - the waters

प्रतिष्ठिताः - pratiṣṭhitāḥ - are established

तत् - tat - here too

एतत् अन्नम् अन्ने प्रतिष्ठितम् - etat annam anne pratiṣṭhitam - is food established upon food

वेद - veda - he who knoweth this

सः प्रतितिष्ठति - saḥ pratitiṣṭhati - getteth his firm base

अन्नवान् - annavān - the master of food

अन्नादः - annādaḥ - its eater

च भवति - ca bhavati - he becometh

प्रजया - prajayā - in progeny

पशुभिः - paśubhiḥ - in cattle

ब्रह्मवर्चसेन - brahmavarcasena - in the splendour of holiness

च महान् भवति - ca mahān bhavati - he becometh great

कीर्त्या च महान् भवति - kīrtyā ca mahān bhavati - great in glory


तैत्तिरीय उपनिषद् भृगुवल्ली

नवमोऽनुवाकः

अन्नं बहु कुर्वीत। तद् व्रतम्‌। पृथिवी वा अन्नम्। आकाशोऽन्नादः। पृथिव्यामाकाशः प्रतिष्ठितः। आकाशे पृथिवी प्रतिष्ठिता।तदेतदन्नमन्ने प्रतिष्ठितम्‌।स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति। अन्नवानन्नादो भवति। महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन। महान् कीर्त्या॥

॥ लिप्यन्तरणम् ॥

annaṁ bahu kurvīta | tad vratam | pṛthivī vā annam| ākāśo'nnādaḥ | pṛthivyāmākāśaḥ pratiṣṭhitaḥ | ākāśe pṛthivī pratiṣṭhitā |tadetadannamanne pratiṣṭhitam |sa ya etadannamanne pratiṣṭhitaṁ veda pratitiṣṭhati | annavānannādo bhavati| mahānbhavati prajayā paśubhirbrahmavarcasena | mahān kīrtyā||

॥ अन्वयः ॥

अन्नं बहु कुर्वीत। तत् व्रतम् पृथिवी वै अन्नम् आकाशः अन्नादः पृथिव्याम् आकाशः प्रतिष्ठितः आकाशे पृथिवी प्रतिष्ठिता तत् एतत् अन्नम् अन्ने प्रतिष्ठितं यः एतत् अन्नम् अन्ने प्रतिष्ठितं वेद सः प्रतितिष्ठति। अन्नवान् अन्नादः च भवति प्रजया पशुभिः ब्रह्मवर्चसेन च महान् भवति। कीर्त्या च महान् भवति ।

॥ अन्वयलिप्यन्तरणम् ॥

annaṁ bahu kurvīta| tat vratam pṛthivī vai annam ākāśaḥ annādaḥ pṛthivyām ākāśaḥ pratiṣṭhitaḥ ākāśe pṛthivī pratiṣṭhitā tat etat annam anne pratiṣṭhitaṁ yaḥ etat annam anne pratiṣṭhitaṁ veda saḥ pratitiṣṭhati| annavān annādaḥ ( ca ) bhavati prajayā paśubhiḥ brahmavarcasena ( ca ) mahān bhavati| kīrtyā ( ca ) mahān ( bhavati )|

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

नवमोऽनुवाकः

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता । तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान् भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥

अपूज्योतिषी अन्नान्नादत्वेन यः पश्यति तस्येदं व्रतम्, अन्नं बहु कुर्वीत - बहु मन्वीतेति । अथ पृथिव्याकाशयोरन्नान्नादत्वेन दर्शनं तत्फलं चोच्यते - पृथिवी वेत्यादिना । व्याख्यातप्रायम् ॥

॥ इति नवमोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

Thou shalt increase and amass food; for that too is thy commandment unto labour. Verily, earth also is food and ether is the eater. Ether is established upon earth and earth is established upon ether. Here too is food established upon food. He who knoweth this food that is established upon food, getteth his firm base. He becometh the master of food and its eater, great in progeny, great in cattle, great in the radiance of holiness, great in glory.

॥ हिन्दी-अर्थः ॥

तुम अन्नवृद्धि तथा अन्न-संचय करोगे, कारण, वह भी तुम्हारे श्रम का व्रत है। वस्तुतः पृथ्वी भी अन्न है तथा आकाश अन्न का भोक्ता है। आकाश पृथ्वी पर प्रतिष्ठित है तथा पृथ्वी आकाश पर प्रतिष्ठित है। यहाँ भी अन्न पर अन्न प्रतिष्ठित है। जो अन्न पर प्रतिष्ठित इस अन्न को जानता है, स्वयं दृढ रूप से प्रतिष्ठित हो जाता है। वह अन्न का स्वामी (अन्नवान्) एवं अन्न का भोक्ता बन जाता है, वह प्रजा (सन्तति) से, पशुधन से, ब्रह्मतेज से महान् हो जाता है, वह कीर्ति से महान् बन जाता है।

॥ शब्दावली ॥

अन्नम् बहु कुर्वीत - annam bahu kurvīta - Thou shalt increase and amass food

तत् व्रतम् - tat vratam - that too is thy commandment unto labour

पृथिवी वै - pṛthivī vai - verily the earth (also) is

अन्नम् - annam - food

आकाशः - ākāśaḥ - ether is

अन्नादः - annādaḥ - the eater of the food

पृथिव्याम् - pṛthivyām - upon earth

आकाशः - ākāśaḥ - ether

प्रतिष्ठितः - pratiṣṭhitaḥ - is established

आकाशे - ākāśe - upon ether

पृथिवी - pṛthivī - earth

प्रतिष्ठिता - pratiṣṭhitā - is established

तत् एतत् - tat etat - here too is

अन्नम् - annam - food

अन्ने प्रतिष्ठितम् - anne pratiṣṭhitam - established upon food

यः - yaḥ - who

एतत् अन्नम् - etat annam - this food

अन्ने प्रतिष्ठितम् - anne pratiṣṭhitam - that is established upon food

वेद - veda - knoweth

सः प्रतितिष्ठति - saḥ pratitiṣṭhati - He getteth his firm base

अन्नवान् - annavān - the master of food

अन्नादः च - annādaḥ ca - its eater

भवति - bhavati - becometh

प्रजया - prajayā - in progeny

पशुभिः - paśubhiḥ - in cattle

ब्रह्मवर्चसेन च - brahmavarcasena ca - in the radiance of holiness

महान् भवति - mahān bhavati - becometh great

कीर्त्या च - kīrtyā ca - in glory

महान् भवति - mahān bhavati - becometh great

तैत्तिरीय उपनिषद् भृगुवल्ली

दशमोऽनुवाकः

न कञ्चन वसतौ प्रत्याचक्षीत। तद् व्रतम्‌।तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात्। अराध्यस्मा अन्नमित्याचक्षते।एतद्वै मुखतोऽन्नं राद्धम्। मुखतोऽस्मा अन्नं राध्यते। एतद् वा मध्यतोऽनं राद्धम्। मध्यतोऽस्मा अन्नं राध्यते।


॥ लिप्यन्तरणम् ॥

na kañcana vasatau pratyācakṣīta | tad vratam |tasmādyayā kayā ca vidhayā bahvannaṁ prāpnuyāt| arādhyasmā annamityācakṣate |etadvai mukhato'nnaṁ rāddham| mukhato'smā annaṁ rādhyate| etad vā madhyato'naṁ rāddham| madhyato'smā annaṁ rādhyate |

॥ अन्वयः ॥

वसतौ कम् चन न प्रात्यचक्षीत। तत् व्रतं तस्मात् यया कया च विधया बहु अन्नम् प्राप्नुयात्। अस्मै अन्नम् अराधि इति आचक्षते। मुखतः राद्धं यत् एतत् वै अन्नम् तत् अन्नम् अस्मै मुखतः राध्यते। मध्यतः राद्धम् यत् एतत् वै अन्नं तत् अन्नम् अस्मै मध्यतः राध्यते।

अन्वयलिप्यन्तरणम्

vasatau kam cana na prātyacakṣīta| tat vrataṁ tasmāt yayā kayā ca vidhayā bahu annam prāpnuyāt| asmai annam arādhi iti ācakṣate| mukhataḥ rāddhaṁ ( yat ) etat vai annam ( tat ) annam asmai mukhataḥ rādhyate| madhyataḥ rāddham ( yat ) etat vai annaṁ ( tat ) annam asmai madhyataḥ rādhyate|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

दशमोऽनुवाकः

[ अन्नदानमाहात्म्यम् ]

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते । एतद्वै मुखतोऽन्नं राद्धम् । मुखतोऽस्मा अन्नं राध्यते । एतद्वै मध्यतोऽन्नं राद्धम् । मध्यतोऽस्मा अन्नं राध्यते । एतद्वा अन्ततोऽन्नं राद्धम् । अन्ततोऽस्मा अन्नं राध्यते ॥१॥

पृथिव्याकाशे अन्नान्नादत्वेन पश्यतः इदं व्रतम्, न कञ्चन पथिकमन्यं वा निजवसतिमुपागतं वसतौ - निवासे विषये प्रत्याचक्षीत - निराकुर्यात् इति । निजवसतिमुपागतश्चेदप्रत्याख्येयः, स भोजयितव्यश्च । तदर्थं बह्वन्नं यया कया च विधया मुख्येन गौणेन वा प्रकारेण प्राप्नुयात् सम्पादयेदित्येतत् । मुख्यः प्रकारो याजनादि, गौणश्चेतरः । धर्मज्ञा ह्येवमाचक्षते - अस्मै वसतिमभ्यागतायास्मै अन्नं राद्धम् - निष्पन्नम्, यन्नः सदने निष्पन्नमन्नं तन्न नोऽर्थे निष्पन्नम्, अपि त्वतिथ्यभ्यागतजनायैव निष्पन्नमित्याचक्षते इति यावत् । तस्माद्वसतिमुपागतोऽवश्यं भोजयितव्य इति भावः । मुख्यमध्यमाधमभेदेन येयमन्ननिष्पत्तिर्भवति सर्वाऽपि सा अतिथ्यभ्यागतजनायैवेत्याह- एतद्वै मुखत इत्यादिना । मुखतः - प्रधानतः, प्राधान्येन यदेतदन्नं राद्धम्, तदप्यस्मै राध्यते । यन्मध्यतः, तदप्यस्मै । यदन्ततः - कनिष्ठतः, तदप्यस्मै । यदन्नं निष्पद्यते जगति सर्वमतिथ्यभ्यागतजनैकशेषभूतं धर्मज्ञा मन्यन्त इति यावत् ॥१॥

॥ आङ्गल-अर्थः ॥

Thou shalt not reject any man in thy habitation, for that too is thy commandment unto labour. Therefore in whatsoever sort do thou get thee great store of food. They say unto the stranger in their dwelling “Arise, the food is ready.” Was the food made ready at the beginning? To him also is food made ready in the beginning. Was the food made ready in the middle? To him also is food made ready in the middle. Was the food made ready at the end & last? To him also is the food made ready at the end and last, who hath this knowledge.

॥ हिन्दी-अर्थः ॥

तुम अपने आवास में आये किसी भी व्यक्ति की अवमानना नहीं करोगे, कारण, वह भी तुम्हारे श्रम का व्रत है। अतएव जिस किसी भी प्रकार से तुम प्रचुर अन्न संग्रह करो। अपने घर में आये अतिथि से कहा जाता है, "उठिये, अन्न (भोजन) प्रस्तुत है।'' क्या भोजन आरम्भ से ही तैयार कर दिया गया था? उसके लिए भी अन्न आरम्भ से ही तैयार हो जाता है। क्या भोजन सबसे अन्त में तैयार किया गया था? उसके लिए भी भोजन मध्य में तैयार हो जाता है। क्या भोजन सबसे अन्त में तैयार किया गया था? उसके लिए भी भोजन सबसे अन्त में तैयार होता है, जो ऐसा जानता है।

॥ शब्दावली ॥

वसतौ कम्चन - vasatau kamcana - any man in thy habitation

न प्रात्यचक्षीत - na prātyacakṣīta - thou shalt not reject

तत् व्रतम् - tat vratam - for that too is thy commandment unto labour

तस्मात् - tasmāt - therefore

यया कया च विधया - yayā kayā ca vidhayā - in whatsoever sort

बहु अन्नम् - bahu annam - great store of food

प्राप्नुयात् - prāpnuyāt - do thou get thee

अस्मै - asmai - unto the stranger in their dwelling

अन्नम् अराधि - annam arādhi - “Arise, the food is ready.”

इति आचक्षते - iti ācakṣate - they say

मुखतः - mukhataḥ - at the beginning

राद्धम् - rāddham - was the food made ready

यत् एतत् वै अन्नम् तत् अन्नम् मुखतः राध्यते - yat etat vai annam tat annam mukhataḥ rādhyate - is food made ready in the beginning

अस्मै - asmai - to him also

मध्यतः राद्धम् - madhyataḥ rāddham - was the food made ready in the middle?

यत् एतत् वै अन्नम् तत् अन्नम् अस्मै मध्यतः राध्यते - yat etat vai annam tat annam asmai madhyataḥ rādhyate - to him also is food made ready in the middle

अन्ततः राद्धम् - antataḥ rāddham - Was the food made ready at the end & last?

यत् एतत् वै अन्नम् तत् अन्नम् अस्मै अन्ततः राध्यते - yat etat vai annam tat annam asmai antataḥ rādhyate - to him also is food made ready at the end and last.

य एवं वेद। योगक्षेम इति प्राणापानयोः।कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ। इति मानुषीः समाज्ञाः।

॥ लिप्यन्तरणम् ॥

ya evaṁ veda | yogakṣema iti prāṇāpānayoḥ karmeti hastayoḥ | gatiriti pādayoḥ | vimuktiriti pāyau | iti mānuṣīḥ samājñāḥ |

॥ अन्वयः ॥

यः एवं वेद तस्य तादृशं फलम् उपनमेत् ।वाचि क्षेमः इति प्राणापानयोह् योग - क्षेम इति हस्तयोः कर्म इति पादयोः गतिः इति पायौ विमुक्तिः इति च ब्रह्म उपासीत । इति मानुषीः समाज्ञाः ।

अन्वयलिप्यन्तरणम्

yaḥ evaṁ veda ( tasya tādṛśaṁ phalam upanamet )|vāci kṣemaḥ iti prāṇāpānayoh yoga - kṣema iti hastayoḥ karma iti pādayoḥ gatiḥ iti pāyau vimuktiḥ iti ( ca brahma upāāsīta )| iti mānuṣīḥ ( samājñāḥ )|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ आध्यात्मिक-आधिदैविकोपासनानि ]

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । 

विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥२॥

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान् भवति । तन्मन इत्युपासीत । मानवान् भवति ॥३॥

तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । 

तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्तः सपत्ना: परि 

येऽप्रिया भ्रातृव्याः स यश्चायं पुरुषे यश्चासावादित्ये ॥४॥

य एवं वेद - वसतिमभ्यागता अवश्यमन्नदानेन सत्कर्तव्या इति, स यया कयाचन विधया बह्वन्नं प्राप्नुयादिति पूर्वेण सम्बन्धः । अथोपासनान्तराण्युपदिश्यन्ते, शरीरप्राणजलतेज:- पृथिव्याकाशान्युपास्यत्वेन पूर्वं प्रस्तुतानि तदनुबन्धीन्येवेहोपास्यतया प्रस्तूयन्त इति पूर्वेण सङ्गतान्येतानि । तत्र वागादीनि शरीरानुबन्धीनि, जलानुबन्धिनी वृष्टिः, तेजोऽनुबन्धि विद्युदादि, पृथिव्यनुबन्धि पश्वादि, आकाशं च तदेव । वाचि क्षेमदृष्टिं कुर्यात्, वाचा हि क्षेम: । एवं साध्यसाधनभावसम्बन्धेन तत्र तत्तदृष्टिविधिर्बोध्यः । मानुषीः समाज्ञाः वागादिशारीरा- लम्बनान्युपासनानि । अथ दैवी: - अधिदैवमुपासनान्युच्यन्त इति यावत् । यश इति पशुषु - पशवो यजनसाधनम्, यजनेन च यशः । पशवः पृथिव्यां जाता इति पृथिव्यनुबन्धिनः । ज्योतिरिति नक्षत्रेष्वित्येतत् । बलमिति विद्युतीत्यनेनाधिदैविकेन सङ्गतम् । उपस्थ इत्येतन्मानुषे सङ्गतम् । सर्वमित्याकाशे - सर्वस्य मूर्तजातस्याकाशेन सम्बन्धात् । तत् - आकाशं प्रतिष्ठेत्युपासीत सर्वमूर्तप्रतिष्ठास्पदत्वात्, अप्रकम्पत्वेन प्रतिष्ठात्वगुणयोगाद्वा । प्रतिष्ठात्वेन य उपास्ते स तत्क्रतुन्यायात् प्रतिष्ठावान् भवति । एवं महत्त्वगुणयोगात् मह इत्युपासीत, स महान्भवति । मन इत्युपासीत मननसाधनत्वगुणविशिष्टमुपासीत, स मानवान् मननसमर्थो भवति । तत् - आकाशं नम इत्युपासीत नमनगुणविशिष्टतयोपासीत । अस्मै उपासकाय सर्वे कामा: नम्यन्ते - स्वयमुपनमन्त इत्येतत् । तत् ब्रह्मेत्युपासीत, बृहत्त्वगुणयोगात् । स उपासको ब्रह्मवान् - बृहत्त्वगुणयोगवान् भवति । परितो म्रियन्तेऽनेनेति परिमरः - संहरणसाधनम्, ब्रह्मणो यत् संहरणसाधनं वायुः सोऽयमित्युपासीत । एनं द्विषन्तः सपत्ना: परितो म्रियन्ते । ये चाप्रियाः सपत्नास्तेऽपि म्रियन्ते । प्रसक्तान्युपासनान्युपदिष्टानि । अथ यत् प्रधानप्रकृतं परब्रह्म, तदुपासनमुपदिशति - स यश्चायमित्यादिना । आनन्दवल्ल्यामानन्दमयं परमात्मानं प्रस्तुत्य ' स यश्चायं पुरुषे यश्चासावादित्ये ' इति श्रुतम् इहापि अन्नादिक्रमेण तेभ्यो विलक्षणं तदन्तरात्मभूतमानन्दस्वरूपं जगज्जन्मादिकारणतया दृष्टत्वेन यदुपश्रुतम्, तदेवाधिकृत्य श्रूयते स यश्चायमित्यादि । व्याख्यातमेतत् ॥२-४॥

॥ आङ्गल-अर्थः ॥

As prosperity in speech, as getting & having in the main breath and the nether, as work in the hands, as movement in the feet, as discharge in the anus, these are the cognitions in the human.

॥ वाणी में क्षेम (समृद्धि) रूप में, प्राण तथा अपान-वायु में योग-क्षेम (प्राप्ति तथा उसके संरक्षण) रूप में, हाथों में कर्म के रूप में पैरों में गति के रूप में पायू (गुदा) विसर्जन के रूप में, ये सब हैं मानुषी समाज्ञा अर्थात् मनुष्यों में संज्ञान।

॥ शब्दावली ॥

यः एवम् वेद - yaḥ evam veda - who hath this knowledge

वाचि क्षेमः इति - vāci kṣemaḥ iti - as prosperity in speech

प्राणापानयोह् - prāṇāpānayoh - in the main breath and the nether

योग क्षेम इति - yoga kṣema iti - as getting & having

हस्तयोः - hastayoḥ - in the hands

कर्म इति - karma iti - as work

पादयोः - pādayoḥ - in the feet

गतिः इति - gatiḥ iti - as movement

पायौ - pāyau - in the anus

विमुक्तिः इति - vimuktiḥ iti - as discharge

इति मानुषीः समाज्ञाः - iti mānuṣīḥ samājñāḥ - these are the cognitions in the human

अथ दैवीः। तृप्तिरिति वृष्टौ। बलमिति बिद्युति यश इति पशुषु। ज्योतिरिति नक्षत्रेषु। प्रजातिरमृतमानन्द इत्युपस्थै। सर्वमित्याकाशे। तत्प्रतिष्ठेत्युपासीत। प्रतिष्ठावान् भवति। तन्मह इत्युपासीत। महान् भवति। तन्मन इत्युपासीत। मानवान् भवति। तन्नम इत्युपासीत। नम्यन्तेऽस्मै कामाः। तद् ब्रह्मोत्युपासीत। ब्रह्मवान् भवति। तद् ब्रह्मणः परिमर इत्युपासीत। पर्र्येणं भ्रियन्ते द्विषन्तः सपत्नाः। परि येऽप्रिया भातृब्याः। स यश्वायं पुरुषे। यश्वासावादित्ये। स एकः॥

लिप्यन्तरणम्

atha daivīḥ | tṛptiriti vṛṣṭau | balamiti bidyuti yaśa iti paśuṣu | jyotiriti nakṣatreṣu | prajātiramṛtamānanda ityupasthai | sarvamityākāśe | tatpratiṣṭhetyupāsīta | pratiṣṭhāvān bhavati | tanmaha ityupāsīta | mahān bhavati | tanmana ityupāsīta | mānavān bhavati | tannama ityupāsīta | namyante'smai kāmāḥ | tad brahmotyupāsīta | brahmavān bhavati | tad brahmaṇaḥ parimara ityupāsīta | parryeṇaṁ bhriyante dviṣantaḥ sapatnāḥ | pari ye'priyā bhātṛbyāḥ | sa yaśvāyaṁ puruṣe | yaśvāsāvāditye | sa ekaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

य एवं वेद। योगक्षेम इति प्राणापानयोः।कर्मेति हस्तयोः। गतिरिति पादयोः। विमुक्तिरिति पायौ। इति मानुषीः समाज्ञाः। इत्यत्र व्याख्यातम् ।

॥ आङ्ग in the divine; as satisfaction in the rain, as force in the lightning, as splendour in the beasts, as brightness in the constellations, as procreation and bliss and death conquered in the organ of pleasure, as the All in Ether. Pursue thou Him as the firm foundation of things & thou shalt get thee firm foundation. Pursue Him as Mahas, thou shalt become Mighty; pursue Him as Mind, thou shalt become full of mind; pursue Him as adoration, thy desires shall bow down before thee; pursue Him as the Eternal, thou shalt become full of the Spirit; pursue Him as the destruction of the Eternal that rangeth abroad, thou shalt see thy rivals and thy haters perish thick around thee and thy kin who loved thee not. The Spirit who is here in man & the Spirit who is there in the Sun, lo, it is One Spirit and there is no other.

हिन्दी-अर्थः

अब दैवी ज्ञान का कथन है; वृष्टि में तृप्ति के रूप में, विद्युत् में बल के रूप में पशुओं में भव्यता के रूप में, नक्षत्रों में ज्योति के रूप में, उपस्थ (प्रजननेन्द्रिय) में प्रजनन, आनन्द एवं मृत्यु पर विजय (अमृत) के रूप में, आकाश में 'सर्वम्' के रूप में। तुम प्रत्येक वस्तु की सुदृढ प्रतिष्ठा (आधार) के रूप में 'उसकी' उपासना करो तथा तुम्हें स्वयं दृढ प्रतिष्ठा प्राप्त होगी। तुम 'उसकी' 'महः' के रूप में उपासना करो, तुम स्वयं महान् बनोगे, तुम 'उसकी''मन' के रूप में उपासना करो, तुम स्वयं महान् बनोगे; तुम 'उसकी' नमन (भक्तिपूर्वक नमन) के रूप में उपासना करो, तुम्हारी कामनाएँ तुम्हारे सम्भुख नत हो जायेंगी; तुम उसकी 'ब्रह्म' के रूप में उपासना करो, तुम 'आत्मवान्' बनोगे तुम उसकी 'ब्रह्म' की संहारशक्ति के रूप में उपासना करो जो चारो ओर व्याप्त हो जाती है, तुम अपने उन शत्रुओं तथा अपने विद्वेषियों को विनष्ट होते देखोगे जो तुम्हारे चारों ओर एकत्रित थे तथा अपने उन स्वजनों को नष्ट होते देखोगे जो तुम्हें प्यार नहीं करते थे। देखो, यही मनुष्य में जो 'आत्मतत्त्व' है तथा वहाँ सूर्य में जो 'आत्मतत्त्व' है,

॥ शब्दावली ॥

अथ दैवीः - atha daivīḥ - then in the divine

वृष्टौ - vṛṣṭau - in the rain

तृप्तिः इति - tṛptiḥ iti - satisfaction

विद्युति - vidyuti - in the lightning

बलम् इति - balam iti - as force

पशुषु - paśuṣu - in the beasts

यश - yaśaḥ - as splendour

नक्षत्रेषु - nakṣatreṣu - in the constellations

ज्योतिः इति - jyotiḥ iti - as brightness

प्रजातिः अमृतम् आनन्दम् इति - prajātiḥ amṛtam ānandam iti - as procreation and bliss and death conquered

आकाशे सर्वम् इति - ākāśe sarvam iti - as the All in Ether

तत् प्रतिष्ठा इति - tat pratiṣṭhā iti - as the firm foundation of things

उपासीत - upāsīta - Pursue thou Him

प्रतिष्ठावन् भवति - pratiṣṭhāvan bhavati - thou shalt get thee firm foundation

तत् महः इति उपासीत - tat mahaḥ iti upāsīta - Pursue Him as Mahas

महान् भवति - mahān bhavati - thou shalt become Mighty

तत् मनः इति उपासीत - tat manaḥ iti upāsīta - pursue Him as Mind

मानवान् भवति - mānavān bhavati - thou shalt become full of mind

तत् नमः इति उपासीत - tat namaḥ iti upāsīta - pursue Him as adoration

अस्मै कामाः नम्यन्ते - asmai kāmāḥ namyante - thy desires shall bow down before thee

तत् ब्रह्म इति उपासीत - tat brahma iti upāsīta - pursue Him as the Eternal

ब्रह्मवान् भवति - brahmavān bhavati - thou shalt become full of the Spirit

ब्रह्मणः परिमरः इति - brahmaṇaḥ parimaraḥ iti - as the destruction of the Eternal Eternal that rangeth abroad

उपासीत - upāsīta - pursue Him

द्विसन्तः - dvisantaḥ - thy rivals

सपत्नाः - sapatnāḥ - thy haters

परि एनम् म्रियन्ते - pari enam mriyante - thou shalt see perish thick around thee and

ये अप्रियाः भ्रातृव्याः च परि म्रियते - ye apriyāḥ bhrātṛvyāḥ ca pari mriyate - thou shalt see perish thy kin who loved thee not

पुरुषे अयम् असौ - puruṣe ayam asau - the Spirit who is here in man

यः सः च आदित्ये - yaḥ saḥ ca āditye - and the Spirit who is there in the Sun

यः सः च एकः - yaḥ saḥ ca ekaḥ - it is One Spirit and there is no other


स य एवंवित्‌। अस्माल्लोकात् प्रेत्य। एतमन्नमयमात्मानमुपसङ्क्रम्य।एतं प्राणमयमात्मानमुपसङ्क्रम्य। एतं मनोमयमात्मानमुपसङ्क्रम्य। एतं विज्ञानमयमात्मानमुपसङ्क्रम्य। एतमानन्दमयमात्मानमुपसङ्क्रम्य। इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन्‌।एतत्‌ साम गायन्नास्ते। हा ३ वु हा ३ वु हा ३ वु

॥रणम् ॥

sa ya evaṁvit | asmāllokāt pretya| etamannamayamātmānamupasaṅkramya |etaṁ prāṇamayamātmānamupasaṅkramya | etaṁ manomayamātmānamupasaṅkramya | etaṁ vijñānamayamātmānamupasaṅkramya | etamānandamayamātmānamupasaṅkramya | imāllokankāmānnī kāmarūpyanusañcaran |etat sāma gāyannāste | hā 3 vu hā 3 vu hā 3 vu

अन्वयः

यः एवंवित् सः अस्मात् लोकात् प्रेत्य एतम् अन्नमयम् आत्मानम् उपसङ्क्रम्य एतं प्राणमयम् आत्मानम् उपसङ्कम्य। एतं मनोमयम् आत्मानम् उपसङ्क्रम्य एतं विज्ञानमयम् आत्मानम् उपसङ्क्रम्य एतम् आनन्दमयम् आत्मानम् उपसङ्क्रम्य कामन्नी कामरूपी इमान् लोकान् अनुसञ्चरन् एतत् साम गायन् आस्ते हा उ हा उ हा उ।

अन्वयलिप्यन्तरणम्

yaḥ evaṁvit saḥ asmāt lokāt pretya etam annamayam ātmānam upasaṅkramya etaṁ prāṇamayam ātmānam upasaṅkamya| etaṁ manomayam ātmānam upasaṅkramya etaṁ vijñānamayam ātmānam upasaṅkramya etam ānandamayam ātmānam upasaṅkramya kāmannī kāmarūpī imān lokān anusañcaran etat sāma gāyan āste hā u hā u hā u|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ उपासनाफलम् ]

स एवंविदस्माल्लोकात्प्रे त्यान्नमयाद्यन्तर्यामिणमानन्दमयमुपसङ्क्रामतीत्यानन्द- वल्ल्यामुक्तम्, तमुपसङ्क्रान्तस्य यः फले विशेषस्तं विस्तरेण वक्तुमुपक्रमते - स एवं विदित्यादिना आनन्दमयमात्मानमुपसङ्क्रम्येत्यन्तेन ।

स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य । एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन्। एतत्सामगायन्नास्ते हा ३ वुहा ३ वुहा ३ वु ॥५॥

व्याख्यातमेतत् । आनन्दवल्यामुपक्रमे 'सोऽश्रुते सर्वान् कामान् स ह ब्रह्मणा विपश्चिता' इति फले विशेषः सङ्क्षिप्योक्तः, स एवेह विशिष्योच्यते - इमान् लोकानित्यादिना । आनन्दमयं परं ब्रह्मोपसङ्क्रम्य एतत्सामगायन्नास्ते, न च पुनरावर्तते नाम कर्मगत्येव । अकर्मवश्यो ह्ययम् । अनुसञ्चरति नामेमान् लोकान् कामतः, सत्यसङ्कल्पो ह्ययमाविर्भूतस्वस्वरूपः । कामान्नी कामरूप्यनुसञ्चरति, न तु कर्मनियन्त्रित इवाकामान्नी अकामरूपी । 'स एकधा भवति त्रिधा भवति' 'स यदि पितृलोककामः स्यात् सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ते' (छांदोग्योपनिषद् - ७.२६.२) इति चान्यत्र श्रूयते । न चायं तानिमान् लोकान् अनात्मदर्शीव स्वतन्त्रान् (ब्रह्मण: पृथग्भूतान् ) अनुभवति । अपि तु ब्रह्मणा सहैव - ब्रह्मणोऽविभक्तान् तत्प्रकारभूतानेव । एतेन कथमानन्दमयमात्मानमुपसङ्क्रान्तस्यैतल्लोकानुभव इत्याशङ्काऽपास्ता । एवमनुसञ्चरन्नेतत् वक्ष्यमाणं साम गायन् आस्ते । हा ३ वुइत्यादि स्तोभाक्षराण्येतानि ॥५॥

॥ आङ्गल-अर्थः ॥

He who hath this knowledge, when he goeth from this world having passed to the Self which is of food; having passed to the Self which is of Prana; having passed to the Self which is of Mind; having passed to the Self which is of Knowledge; having passed to the Self which is of Bliss, lo he rangeth about the worlds & eateth what he will and taketh what shape he will and ever he singeth the mighty Sama. “Ho! ho! ho!

॥ हिन्दी-अर्थः ॥

वह 'एकमेव अद्वितीय आत्मा' ही है, इससे भिन्न अन्य कोई नहीं है। जो ऐसा जानता है, वह इस लोक से प्रयाण करता है तो 'अन्नमय आत्मा' को प्राप्त करके; इस 'प्राणमय आत्मा' को प्राप्त करके; इस 'मनोमय आत्मा' को प्राप्त करके; इस 'विज्ञानमय को प्रास्त करके; इस 'आनन्दमय आत्मा ' को प्राप्त करके वह इन लोकों में विचरण करता है तथा अपनी कामनानुसार भोजन करता है कामनानुसार रूप धारण करता है तथा सर्वदा इस महिमामय साम का करता रहता है। ''अहो! अहो! अहो!

शब्दावली

यः एवंवित् - yaḥ evaṁvit - he who hath this knowledge

सः अस्मात् लोकात् प्रेत्य - saḥ asmāt lokāt pretya - when he goeth from this world

एतम् अन्नमयम् आत्मानम् - etam annamayam ātmānam - to the Self which is of food

उपसङ्क्रम्य - upasaṅkramya - having passed

एतम् प्राणमयम् आत्मानम् उपसङ्कम्य - etam prāṇamayam ātmānam upasaṅkamya - having passed to the Self which is of Prana

एतम् मनोमयम् आत्मानम् उपसङ्क्र - etam manomayam ātmānam upasaṅkramya - having passed to the Self which is of Mind

एतम् विज्ञानमयम् आत्मानम् उपसङ्क्र - etam vijñānamayam ātmānam upasaṅkramya - having passed to the Self which is of Knowledge

एतम् आनन्दमयम् आत्मानम् उपसङ्क्र - etam ānandamayam ātmānam upasaṅkramya - having passed to the Self which is of Bliss

कामन्नी - kāmannī - eateth what he will

कामरूपी - kāmarūpī - taketh what shape he will

इमान् लोकान् अनुसञ्चरन् - imān lokān anusañcaran - he rangeth about the worlds

एतत् साम गायन् - etat sāma gāyan - he singeth the mighty Sama

आस्ते - āste - eateth what he will

हा उ - hā u - Ho!

हा उ - hā u - Ho!

हा उ - hā u - Ho!:

अहमन्नमहमन्नमहमन्नम्। अहमन्नादो२ऽहमन्नादो२आहमन्नादः। अहं श्लोककृदहं श्लोककृदहं श्लोककृत्। अहमस्मि प्रथमजा ऋता३स्य।पूर्वं देवेभ्योऽमृतस्य ना३भायि।यो मा ददाति स इदेव मा३वाः। अहमन्नमन्नमदन्तमा३द्मि। अहं विश्वं भुवनमभ्यभवा३म्‌।सुवर्न ज्योतीः। य एवं वेद। इत्युपनिषत्‌॥

लिप्यन्तरणम्

ahamannamahamannamahamannam| ahamannādo2'hamannādo2āhamannādaḥ| ahaṁ ślokakṛdahaṁ ślokakṛdahaṁ ślokakṛt| ahamasmi prathamajā ṛtā3sya pūrvaṁ devebhyo'mṛtasya nā3bhāyi |yo mā dadāti sa ideva mā3vāḥ| ahamannamannamadantamā3dmi| ahaṁ viśvaṁ bhuvanamabhyabhavā3m |suvarna jyotīḥ | ya evaṁ veda | ityupaniṣat||

अन्वयः

अहम् अन्नम् अहम् अन्नम् अहम् अन्नम् अहम् अन्नादः अहम् अन्नादः अहम् अन्नादः अहं श्लोककृत् अहं श्लोककृत् अहम् ऋतस्य प्रथमजाः देवेभ्यः पूर्वम् अमृतस्य ना भायि च अस्मि यः मा ददाति सः इत् एव मा अवाः। अहम् अन्नम् अन्नम् अदन्तम् अद्मि। अहं विश्वं भुवनम् अभ्यभवाम् अहं सुवर न ज्योतीः। यः एवं वेद सः उक्तं फलं अश्नुते इति उपनिषत्।

अन्वयलिप्यन्तरणम्

aham annam aham annam aham annam aham annādaḥ aham annādaḥ aham annādaḥ ahaṁ ślokakṛt ahaṁ ślokakṛt aham ṛtasya prathamajāḥ devebhyaḥ pūrvam amṛtasya nā bhāyi ( ca ) asmi yaḥ mā dadāti saḥ it eva mā avāḥ| aham annam annam adantam admi| ahaṁ viśvaṁ bhuvanam abhyabhavām ( ahaṁ ) suvara na jyotīḥ| yaḥ evaṁ veda ( saḥ uktaṁ phalaṁ aśnute ) iti upaniṣat|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

अहमन्नमहमन्नमहमन्नम् । अहमन्नादो ऽहमन्नादो ऽहमन्नादः । अहं श्लोककृदहं श्लोककृदहं श्लोककृत् । अहमस्मि प्रथमजा ऋत३स्य । पूर्वं देवेभ्योऽमृतस्य ना ३ भा ३ इ । यो मा ददाति स इदेव मा ३ वा ३: । अहमन्नमन्नमदन्तमा ३ द्मि । अहं विश्वं भुवनमभ्यभवा ३ म् । सुवर्णज्योती: । 

य एवं वेद । इत्युपनिषत् ॥६॥

( राध्यते विद्युति मानवान् भवत्येको हा ३ वु य एवं वेदैकं च । )

अत्र अहमिति आत्मना मुखेन (प्रकारेण) परमात्मा निर्दिश्यते । जातिगुणादिभिः प्रकारैर्धर्मीव । अयमेवानुभवप्रकारस्तत्त्वदर्शिन आविर्भूतस्वरूपस्य समुचितः । सर्वमेव हि परमात्मनः प्रकारतैकस्वभावम् । सर्वशरीरी हि सः । अतो यथावस्थितरूपेण परमात्मानमनुभवतो वचनमिदम् । यदन्नं यश्चान्नादः तदुभयमहमेव मच्छरीरकोऽन्नादशरीरक्श्च परमात्मैव । तदहमेवान्नमन्नादश्च । सर्वान्तरात्मभूतं सर्वैः प्रकारैरवस्थितमेकमपश्यन्तो हि व्यवहरन्त्यहमत्ता इदमन्नमिति । तत्त्वदर्शिनस्तु अहमन्नममेवान्नाद इति । सर्वैरुपश्लोक्यमानानां सर्गाद्याश्चर्यकर्मणां च कर्ता अहमेव । त्रिरुक्तिरनुभवदाढर्यं गमयति । उत्तरत्राप्यस्मत्पदेन परमात्मन एव निर्देश: । ऋतस्य सत्यभूतस्य मूर्तीमूर्तलक्षणस्य प्रथमजः प्रथमं जातो हिरण्यगर्भश्चाहमेव । देवेभ्यः सर्वेभ्यः पूर्वमेवाहमस्मि । अमृतस्य - मोक्षस्य नाभिः - नाभिरिवाश्रयभूतोऽहमेव । यो दाता मा - माम् ददाति स इत् एव (इदित्यनर्थको निपातः) स एव मा माम् अवा: - प्राप्तो भवति । देयं गोभूहिरण्यादि परमात्मनः पृथग्भूतं मत्वा यो ददाति स परमात्मानं नाप्नोति, किन्तु परमात्मनः प्रकारतया पश्यन् देयं मामेव (परमात्मानमेव) मत्वा यो ददाति स मां (परमात्मानं ) प्राप्नोति । यद्वा- यो गुरुः मां पात्राय शिष्याय ददाति स मां प्राप्तवान् । अहमेवान्नम् - अचेतनम् अन्नमचेतनमदन्तम्- भोक्तारं चेतनं चाद्मि - व्याप्नोमि । चेतनाचेतनजातं मया व्याप्तमित्येतत् । अहमेव प्रलयसमये इदं भुवनम् अभ्यभवम् - अभिभूतवान्, मयैव संहृतमित्येतत् । य एवं वेद स सुवर्णज्योतिः कमनीयप्रकाशमानदिव्यरूपो भवति । इत्युपनिषत् - भार्गवी विद्या सेयं समाप्तेत्येतत् ॥६॥

॥ इति दशमोऽनुवाकः ॥

॥ इति तैत्तिरीयोपनिषद्भाष्ये भृगुवल्ली ॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराजश्रीगोपालानन्दस्वामिविरचितं तैत्तिरीयोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

आङ्गल-अर्थः ॥

I am food! I am food! I am food! I am the eater of food! I am the eater! I am the eater! I am he who maketh Scripture! I am he who maketh! I am he who maketh! I am the firstborn of the Law; before the gods were, I am, yea at the very heart of immortality. He who giveth me, verily he preserveth me; for I being food, eat him that eateth. I have conquered the whole world and possessed it, my light is as the sun in its glory.” Thus he singeth, who hath the knowledge. This verily is Upanishad, the secret of the Veda.

हिन्दी-अर्थः

मैं अन्न हूँ! मैं अन्न हूँ! मैं अन्न अन्नभोक्ता हूँ! मैं अन्नभोक्ता हूँ! मैं अन्नभोक्ता हूँ! मैं 'श्लोककृत्' (श्रुतिकार हूँ! मैं श्लोककृत् हूँ! मैं श्लोककृत हूँ! मैं 'ऋत' से प्रथमजात हूँ; देवो के भी पूर्व अमृत के हृदय (केन्द्र) में मैं हूँ। जो मुझे देता है, वस्तुतः वही मेरी रक्षा करता है क्योंकि मैं ही अन्न हूँ, अतः जो मेरा भक्षण करता है मैं उसी का भक्षण करता हूँ। मैंने इस सम्पूर्ण विश्व को विजित कर लिया है तथा इसे अपने अधीन कर लिया है, सूर्य के ज्योतिर्मय रूप के समान है मेरा प्रकाश।" जो यह जानता है वह इसी प्रकार गान करता है। वस्तुतः यही है उपनिषद् यही है वेद का रहस्य। वह हम दोनों की एक साथ रक्षा करे, वह हम दोनों को एक साथ अपने अधीन कर ले, हम दोनों एक साथ शक्ति एवं वीर्य अर्जित करें। हमारा अध्ययन हम दोनों के लिए तेजस्वी हो, प्रकाश एवं शक्ति से परिपूर्ण हो। हम कदापि विद्वेष न करें। ॐ शान्तिः! शान्तिः! शान्तिः! हरिः ॐ!

शब्दावली

अहम् अन्नम् - aham annam - I am food!

अहम् अन्नम् - aham annam - I am food!

अहम् अन्नम् - aham annam - I am food!

अहम् अन्नादः - aham annādaḥ - I am the eater of food!

अहम् अन्नादः - aham annādaḥ - I am the eater of food!

अहम् अन्नादः - aham annādaḥ - I am the eater of food!

अहम् श्लोककृत् - aham ślokakṛt - I am he who maketh Scripture!

अहम् श्लोककृत् - aham ślokakṛt - I am he who maketh Scripture!

अहम् - aham - I am

प्रथमजाः ऋतस्य - prathamajāḥ ṛtasya - I am the firstborn of the Law

देवेभ्यः पूर्वम् - devebhyaḥ pūrvam - before the gods were

अमृतस्य ना भायि च अस्मि - amṛtasya nā bhāyi ca asmi - yea I am at the very heart of immortality

यः मा ददाति - yaḥ mā dadāti - he who giveth me

सः इत् एव मा अवाः - saḥ it eva mā avāḥ - verily he preserveth me

अहम् - aham - I am

अन्नम् - annam - food

अन्नम् अदन्तम् अद्मि - annam adantam admi - eat him that eateth the food

अहम् अभ्यभवाम् - aham abhyabhavām - I have conquered and possessed

विश्वम् भुवनम् - viśvam bhuvanam - the whole world

अहम् सुवर न ज्योतीः - aham suvara na jyotīḥ - my light is as the sun in its glory

यः - yaḥ - who

एवम् वेद - evam veda - thus he singeth who hath the knowledge

इति उपनिषत् - iti upaniṣat - this verily is Upanishad, the secret of the Veda

अथ उपनिषद् ॥



Post a Comment

0 Comments

Ad Code