Ad Code

॥ अथ उपनिषद् ॥ तैत्तिरीयोपनिषद् ब्रह्मानंदबल्ली



॥ अथ उपनिषद् ॥ तैत्तिरीयोपनिषद् 

ब्रह्मानंदबल्ली प्रथमोऽनुवाकः

हरिः ॐ। सह नाववतु। सह नौ भुनक्तु। सह वीर्यं करवावहै।तेजस्वि नावधीतमस्तु। मा विद्विषावहै।ॐ शान्तिः शान्तिः शान्तिः॥ ॐ ब्रह्मविदाप्नोति परम्‌। तदेषाऽभ्युक्ता।सत्यं ज्ञानमनन्तं ब्रह्म। यो वेद निहितं गुहायां परमे व्योमन्‌।सोऽश्नुते सर्वान्‌ कामान् सह ब्रह्मणा विपश्चितेति॥ तस्माद्वा एतस्मादात्मन आकाशः संभूतः। आकाशाद्वायुः।वायोरग्निः। अग्नेरापः। अद्‌भ्यः पृथिवी।पृथिव्या ओषधयः। ओषधीभ्योऽन्नम्‌। अन्नात्पुरुषः।स वा एष पुरुषोऽन्न्नरसमयः।तस्येदमेव शिरः। अयं दक्षिणः पक्षः। अयमुत्तरः पक्षः। अयमात्मा। इदं पुच्छं प्रतिष्ठा।तदप्येष श्लोको भवति।

लिप्यन्तरणम्

hariḥ om| saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai |tejasvi nāvadhītamastu| mā vidviṣāvahai |om śāntiḥ śāntiḥ śāntiḥ || om brahmavidāpnoti param | tadeṣā'bhyuktā |satyaṁ jñānamanantaṁ brahma | yo veda nihitaṁ guhāyāṁ parame vyoman |so'śnute sarvān kāmān saha brahmaṇā vipaściteti || tasmādvā etasmādātmana ākāśaḥ saṁbhūtaḥ | ākāśādvāyuḥ |vāyoragniḥ | agnerāpaḥ | adbhyaḥ pṛthivī pṛthivyā oṣadhayaḥ | oṣadhībhyo'nnam | annātpuruṣaḥ |sa vā eṣa puruṣo'nnnarasamayaḥ |tasyedameva śiraḥ| ayaṁ dakṣiṇaḥ pakṣaḥ | ayamuttaraḥ pakṣaḥ| ayamātmā | idaṁ pucchaṁ pratiṣṭhā |tadapyeṣa śloko bhavati|

अन्वयः

नो सह अवतु नौ सह भुनक्तु आवाम् सह वीर्यम् करवावहै नौ अधीतं तेजस्वि अस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः। ॐ ब्रह्मवित् परम् आप्नोति तत् एषा अभ्युक्ता ब्रह्म सत्यं ज्ञानम् अनन्तम्। यः गुहायां परमे व्योमन् निहितम् ब्रह्म वेद सः विपश्चिता ब्रह्मणा सह सर्वान् कामान् अश्नुते इति। तस्मात् एतस्मात् आत्मनः। वै आकाशः वायुः वायो अग्निः अग्नेः आपः अद्भ्यः पृथिवी पृथिव्या ओषधयः ओषधीभ्यः अन्नम्। अन्नात् पुरुषः च सम्भूताः सः वै एषः पुरुषः अन्न -रस -मयः तस्य इदम् एव शिरः अयं दक्षिणः पक्षः। अयम् उत्तरः पक्षः। अयम् आत्मा इदं पुच्छम् प्रतिष्ठा। तत् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

no saha avatu nau saha bhunaktu ( āvām ) saha vīryam karavāvahai nau adhītaṁ tejasvi astu mā vidviṣāvahai|om śāntiḥ śāntiḥ śāntiḥ| om brahmavit param āpnoti tat eṣā abhyuktā brahma satyaṁ jñānam anantam| yaḥ guhāyāṁ parame vyoman nihitam ( brahma ) veda saḥ vipaścitā brahmaṇā saha sarvān kāmān aśnute iti| tasmāt etasmāt ātmanaḥ| vai ākāśaḥ vāyuḥ vāyo agniḥ agneḥ āpaḥ adbhyaḥ pṛthivī pṛthivyā oṣadhayaḥ oṣadhībhyaḥ annam| annāt puruṣaḥ ( ca sambhūtāḥ ) saḥ vai eṣaḥ puruṣaḥ anna -rasa -mayaḥ tasya idam eva śiraḥ ayaṁ dakṣiṇaḥ pakṣaḥ| ayam uttaraḥ pakṣaḥ| ayam ātmā idaṁ puccham pratiṣṭhā | tat api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तैत्तिरीयोपनिषत्

आनन्दवल्ली

[ शान्तिमन्त्रः ]

विद्याप्राप्त्यन्तरायप्रशमनाय विद्यारम्भे पठनीयः शान्तिमन्त्रः प्रथमं श्राव्यते - सह नाविति ।

ओं । सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ।

ओं शान्तिः शान्तिः शान्तिः ।

योऽयमन्नमयादीनामात्मा तेभ्योऽन्य आन्तरः ।

यद्वेदनेन सत्ता स्याद् असत्ता यदवेदनात् ॥१॥

वाति वातो यतो भीतः सूर्यश्चोदेति यद्भयात् ।

तमानन्दमयं सर्वप्रशासकमुपास्महे ॥२॥

अधीयमानो मन्त्रः अधीयमाना विद्या वा अधीयमानविद्यागम्या वा देवता नौ शिष्याचार्यौ सहावतु - रक्षतु अनर्थात् । अन्यतरमात्ररक्षणस्यानिष्टत्वं गम्यते सहशब्देन । सह नौ भुनक्तु - अर्थं भोजयतु, अन्तर्भावितो णिच् । अनर्थाद्रक्षणमर्थप्रापणं चेत्युभयमाशंस्यते । अध्ययनेनाध्यापनेन च वीर्यं विद्यायाः फलाधायकं शक्तिप्रकर्षलक्षणं सहैव करवावहै । नौ इदमधीतं तेजस्व्यस्तु - परैरनभिभाव्यमस्तु । मा विद्विषावहै आवयोरविद्वेषः सततमनुवर्तताम् । अध्ययनाध्यापनयोः प्रमादतोऽपि धर्मात् प्रस्खलने यो विद्वेषप्रसङ्गः समा भूत् । प्रमादतोऽपि तथाविधं प्रस्खलनं मा भूदित्येतत् ।

प्रथमोऽनुवाकः

[ आनन्दमयविद्या ]

ब्रह्मविद्या प्रस्तूयते - तत्रादौ साधनफले निर्दिशति - ब्रह्मविदिति ।

ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ।

सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति । तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् अन्नात् पुरुषः । तस्य इदमेव शिरः । अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥१॥

एतेन प्रथममभिधेयप्रयोजननिर्देशादधिकारिणां शुश्रूषायामभ्युपायः प्रदर्शितो भवति । ब्रह्मवित् परमाप्नोति - यदन्यतो ब्रह्मविद्यायास्तदखिलमपरम्, विद्यया यदाप्यते तदेव तु परम् । स्वरूपतः स्वभावतश्च यन्निरतिशयबृहत्तदेव ब्रह्म, यस्तद्वेद उपास्ते स परं तदेवाप्नोति, यदेव निरतिशयबृहत्तदेव हि परम् । यदुपास्यते तदेव च प्राप्यते, तत्क्रतुन्यायात् । न ह्यन्यदुपास्यमन्यत् प्राप्यम् । तत् ब्रह्माधिकृत्य एषा ऋक् अभ्युक्ता - समाम्नाता । ब्राह्मणोक्तमर्थं मन्त्रोऽयं व्याचष्ट इत्येतत् । सकलेतरव्यावृत्तं ब्रह्मणः स्वरूपमभिधीयते - सत्यमित्यादिना । सत्यम् - निरुपाधिकसत्तायोगि, रूपान्तरनामान्तरभजनानर्हमेव तु तथाभूतम् । एतेनाचेतनात्प्रधानात्तत्तत् संसृष्टाज्जीवाच्च व्यावृत्तिर्गम्यते । ज्ञानम् - नित्यासङ्कुचित - ज्ञानगुणसारत्वात्, एतेन मुक्तेभ्यो व्यावृत्तिर्गम्यते । ते ह्याविमुक्तेः सङ्कुचितज्ञाना: प्राक् । अनन्तम् - देशतः कालतो वस्तुतो वा योऽन्तः परिच्छेदस्तद्रहितम् । अस्मिन् देशे नास्तीत्येष देशतः परिच्छेदः, तद्रहितम्, सर्वत्र व्याप्तेः । अस्मिन् समये नास्तीत्ययं कालपरिच्छेदः, तद्रहितम्, नित्यत्वात् । वस्तुस्वभावतो योऽन्तः स वस्तुतः परिच्छेदः, सा च सातिशयता, तद्रहितम्, निरतिशयस्वभावमित्येतत् । एतेन नित्या व्यावृत्ता: । यद्वा - इदमिदं न भवतीति प्रतीत्यनर्हता वस्तुतोऽपरिच्छेदः, सर्वान्तर्यामितया सर्वप्रकारत्वेन सर्ववस्तुसामानाधिकरण्यार्हम् । सर्वात्मत्वात् सर्वं ब्रह्मेति भवति हि निर्देश: । यद्वा - अस्मिन् देशे नास्ति, अस्मिन् काले नास्तीतिवत् अस्मिन् वस्तुनि नास्तीति निषेधो वस्तुत: परिच्छेद:, तद्रहितम्, सर्ववस्तुषु अन्तर्यामितयाऽनुप्रवेशात् ।

तदिदं परं ब्रह्म गुहायां हृदयगुहायां निहितं यो वेद - उपास्ते । एतेन 'ब्रह्मविदाप्नोति पर' मित्यस्मिन्वाक्ये ब्रह्मविदित्येतद्व्याख्यातम् । अथ 'आप्नोति पर 'मित्येतद्व्याख्यातम् परमे व्योमन्नित्यादिना । स उपासकः परमे व्योमन् परव्योम्न्यक्षरे दिव्यस्थाने सर्वान् कामान् - काम्यन्त इति कल्याणगुणाः, ते च परस्य ब्रह्मणः, तान् ब्रह्मणा सह अश्रुते - अनुभवति, ब्रह्म तदीयदिव्यगुणांश्चानुभवतीति यावत् । दध्ना सहौदनं भुङ्गे इतिवत् कर्मसाहित्यमिह विवक्षितम् । न च सहशब्दयोगादनुभवे ब्रह्मणोऽप्राधान्यं गम्येत, नहि तदीयैर्गुणैरनुभूयमानैस्तस्याप्राधान्यम् । ब्रह्मणो निर्विशेषत्वं प्रतिक्षेप्तुं ब्रह्म विशिनष्टि - विपश्चितेति । सर्वज्ञत्वं सर्वशक्त्यादिकल्याणगुणानामुपलक्षकम् ।

नन्वयमन्वयोऽनुपपन्नः । ऋक्लक्षणानन्वयात् । अर्थवशेन पादव्यवस्था हि ऋचो लक्षणमुच्यते । वाक्यार्थश्चायमुपपाद्यमानः श्रूयमाणपादव्यवस्थाननुगुणः । नैतत् । यत्रार्थवशेन पादव्यवस्थेत्येतदुपलक्षणमात्रम् । अत एव व्याख्यातार: अर्थवशेन वृत्तवशेन वा पादव्यवस्थेत्याचक्षते । अर्थवशेन पादव्यवस्थायामाग्रहे त्वयमर्थः हृदयगुहायां यद्वयोम - आकाशम्, परमम् - प्रकृष्टं बाह्याकाशात् परब्रह्मणोऽभिव्यक्तिस्थानं तदिति तस्य परमता, तत्र निहितं यो वेद, स उपासकः सह - युगपदेव सर्वान् कामान् - तैस्तैः काम्यन्ते ये मानुषानन्दादयो हैरण्यगर्भानन्दपर्यन्ताः, तान् सर्वानानन्दान् युगपदेवानुभवति, न तु पुण्यविशेषनियन्त्रिताः कर्मपरिपाककालभेदेनेव । कथमिदमुपपद्यते आह - ब्रह्मणा - अनुभूयमानेन ब्रह्मणा साधनेन, स ह्यानन्दमय:, सर्व एव मानुषानन्दप्रभृतय आनन्दाः समुद्रे गोष्पदवदन्तर्गता एव, तत् अनवधिकानन्दमयेन तेनानुभूयमानेन युगपदेव सर्वानानन्दाननुभवन्ति । ब्रह्मानन्दे सर्वानन्दसमन्वयं 'सैषाऽऽनन्दस्य मीमांसा भवतीत्यादिना श्रावयिष्यति श्रुतिः । पराभिमतान्वयानुसारेणायमर्थ उन्नीतः । प्राचां व्याख्यानमनुसृत्य प्रदर्शितः पूर्वं वाक्यार्थः श्रेयान् । ब्रह्मविदाप्नोतीत्यत्र प्रस्तुतं ब्रह्म मन्त्रे 'सत्यं ज्ञानमनन्त'मित्यनेनेषद्विवृतम् ।

अधुना तद्विस्तरेण व्याख्यातुं प्रवर्तते तस्माद्वा एतस्मादित्यादिना । तस्मात् - ब्रह्मविदाप्नोतीति ब्राह्मणे प्रस्तुतात्, एतस्मात् सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रोक्तात्, आत्मनः सर्वान्तरात्मनः, आकाशः सम्भूतः, आकाशाद्वायुर्वायोरग्निरग्नेराप अद्द्भ्यः पृथिवी आकाशादीनामुपादानमात्मा यत्प्रस्तुतं ब्रह्मेत्युक्तं भवति । नन्वात्मनोऽर्थान्तरमाकाशादि, कथं तस्यात्मोपादानं भवितुमर्हति । नैतत् । अनन्यदेव कार्यमाकाशादि, आत्मन इत्युपादानताश्रुतेः । ननु व्याहतमेतत्, अचेतनं ह्याकाशादिशब्दैः श्रूयते । नैतत् । आकाशादिशरीरकं ब्रह्मैवाकाशादिशब्दैर्बोध्यते । सर्वान्तर्यामिणः स्वेतरसर्वप्रकारतया तत्तद्रूपेण प्रकारविशेषेण निर्देशो हि सूपपन्नः, तत्त्वस्थित्यानुगुण्यात् । सद्विद्यायां तत्तेज ऐक्षतेति चेतनधर्मेणैव निर्देश: । पृथिव्या ओषधयः ओषधीभ्य अन्नम्, अन्नात् पुरुषः शिरः पाण्यादिलक्षणः, सोऽयं पुरुष: अन्नरसमय: - अन्नरसप्रचुरः, अस्थिमांसादयो ह्यन्नरसविकृतय एव । तस्यास्य पुरुषस्य शिरःपाण्यादिलक्षणतां प्रदर्शयति - तस्येति । तस्य इदमेव शिरः - यदिदं दृश्यते प्रसिद्धं शिरः इदमेव शिरः । इदमेवेत्यवधारणात् प्राणमयादिषु कल्प्यमानेभ्यः शिरःप्रभृतिभ्यो व्यावृत्तिर्गम्यते । अयं दक्षिणः पक्षः - दक्षिण: पाणि: । अयमुत्तरः पक्षः - वामः पाणि: । अयमेव प्रसिद्ध आत्मा मध्यकायः । धारकत्वेन प्राधान्यादात्मेत्युच्यते । यदिदं प्रसिद्धं चरण- द्वयमाधारत्वात्पुच्छमुच्यते । प्रतितिष्ठत्यनयेति प्रतिष्ठा । चरणेन हि पुरुषः प्रतितिष्ठति । तत् - अन्नमयमधिकृत्य एष वक्ष्यमाणः श्लोको भवति ॥१॥

इति प्रथमोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

OM. The knower of Brahman attaineth the Highest; for this is the verse that was declared of old, “Brahman is Truth, Brahman is Knowledge, Brahman is the Infinite, he that findeth Him hidden in the cavern heart of being; in the highest heaven of His creatures, lo he enjoyeth all desire and he abideth with the Eternal, even with that cognisant and understanding Spirit.” This is the Self, the Spirit, and from the Spirit ether was born; and from the ether, air; and from the air, fire; and from the fire, the waters; and from the waters, earth; and from the earth, herbs and plants; and from the herbs and plants, food; and from food man was born. Verily, man, this human being, is made of the essential substance of food. And this that we see is the head of him, and this is his right side and this is his left; and this is his spirit & the self of him; and this is his lower member whereon he resteth abidingly. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

हरिः ॐ। 'वह' हम दोनों की एक साथ रक्षा करे। 'वह' एक साथ हम दोनों को अपने अधीन कर ले। हम एक साथ शक्ति एवं वीर्य अर्जित करें। हमारा अध्ययन हम दोनों के लिए तेजस्वी हो, प्रकाश एवं शक्ति से परिपूरित हो। हम कदापि विद्वेष न करें। ॐ शान्तिः! शान्तिः! शान्तिः! ॐ। ब्रह्मवेत्ता 'परम तत्त्व' को प्राप्त करता है; क्योंकि प्राचीन ऋचाओं में यही कथन है, '''ब्रह्म' 'सत्य' है, 'ब्रह्म' 'ज्ञान' है 'ब्रह्म' 'अनन्त' है।'' जो व्यक्ति सत्ता की हृद्गुहा में निहित 'उसको' खोज लेता है 'उसके' ही प्राणियों को परम व्योम में 'उसे' पा लेता है, वही समस्त कामनाओं को परितृप्त करता है तथा वही उस विज्ञानमय तथा बोधपूर्ण 'अन्तरात्मा' के साथ 'ब्रह्म' में निवास करता है। यही हैं 'आत्मा' 'आत्मतत्त्व'। इसी 'आत्मतत्त्व' से आकाश उत्पन्न हुआ; तथा आकाश से वायु; वायु से अग्नि; तथा अग्नि से जलों की उत्पत्ति हुई; जलों से पृथ्वी की, पृथ्वी से औषधियों की, एवं औषधियों से अन्न और अन्न से मनुष्य की उत्पत्ति हुई। वास्तव में यह मनुष्य, यह मानव सत्ता अन्न के रस से, उसके तत्त्व से ही निर्मित है। और यह जिसे हम देख रहे हैं, उसका शिर है, और यह उसका दक्षिण पक्ष है तथा यह उसका वाम पक्ष है; तथा यह उसका अन्तरात्मा है एवं यह है उसका निम्नांग जिस पर वह स्थिर रूप से प्रतिष्ठित रहता है। जिसके विषय में 'श्रुति' का यह वचन है।

शब्दावली

नौ - nau - us

सह - saha - together

अवतु - avatu - may He protect

नौ - nau - us

सह - saha - together

भुनक्तु - bhunaktu - may He possess

सह - saha - together

वीर्यम् - vīryam - strength and virility

करवावहै - karavāvahai - may we make unto us

नौ अधीतम् - nau adhītam - may our study

तेजस्वि अस्तु - tejasvi astu - be full to us of light and power

मा विद्विषावहै - mā vidviṣāvahai - may we never hate

ॐ शान्तिः शान्तिः शान्तिः - om śāntiḥ śāntiḥ śāntiḥ - OM! Peace, peace, peace.

- om - OM

ब्रह्मवित् - brahmavit - the knower of Brahman

परम् आप्नोति - param āpnoti - attaineth the Highest

तत् एषा अभ्युक्ता - tat eṣā abhyuktā - for this is the verse that was declared of old

ब्रह्म सत्यम् - brahma satyam - Brahman is Truth

ज्ञानम् - jñānam - Brahman is Knowledge

अनन्तम् - anantam - Brahman is the Infinite

यः - yaḥ - who

गुहायाम् - guhāyām - in the cavern heart of being

परमे व्योमन् - parame vyoman - in the highest heaven of His creatures

निहितम् - nihitam - hidden

वेद - veda - findeth

सः - saḥ - he

विपश्चिता ब्रह्मणा सह - vipaścitā brahmaṇā saha - and he abideth with the Eternal even

सर्वान् कामान् - sarvān kāmān - all desire

अश्नुते इति - aśnute iti - he enjoyeth

तस्मात् एतस्मात् आत्मनः वै - tasmāt etasmāt ātmanaḥ vai - and from this Spirit

आकाशः सम्भूतः - ākāśaḥ sambhūtaḥ - ether was born

आकाशः वायुः - ākāśaḥ vāyuḥ - and from the ether, air

वायो अग्निः - vāyo agniḥ - and from the air, fire

अग्नेः आपः - agneḥ āpaḥ - and from the fire, the waters

अद्भ्यः पृथिवी - adbhyaḥ pṛthivī - and from the waters, earth

पृथिव्या ओषधयः - pṛthivyā oṣadhayaḥ - and from the earth, herbs and plants

ओषधीभ्यः अन्नम् - oṣadhībhyaḥ annam - and from the herbs and plants, food

अन्नात् पुरुषः - annāt puruṣaḥ - and from food man was born

सः वै एषः पुरुषः - saḥ vai eṣaḥ puruṣaḥ - Verily, man, this human being

अन्नरसमयः - annarasamayaḥ - is made of the essential substance of food

तस्य - tasya - of him

इदम् एव शिरः - idam eva śiraḥ - this that we see is the head

अयम् दक्षिणः पक्षः - ayam dakṣiṇaḥ pakṣaḥ - and this is his right side

अयम् उत्तरः पक्षः - ayam uttaraḥ pakṣaḥ - and this is his left

च सम्भूताः - ca sambhūtāḥ -

अयम् आत्मा - ayam ātmā - and this is his spirit & the self of him

इदम् पुच्छम् प्रतिष्ठा - idam puccham pratiṣṭhā - and this is his lower member whereon he resteth abidingly

तत् अपि - tat api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture


तैत्तिरीयोपनिषद् ब्रह्मानन्दवल्ली

द्वितीयोऽनुवाकः

अन्नाद्वै प्रजाः प्रजायन्ते। याः काश्च पृथिवीं श्रिताः। अथो अन्नेनैव जीवन्ति। अथैनदपियन्त्यन्ततः। अन्नं हि भूतानां ज्येष्ठम्‌। तस्मात्‌ सर्वौषधमुच्यते।सर्वं वै तेऽन्नमाप्नुवन्ति। येऽन्नं ब्रह्मोपासते। अन्नं हि भूतानां ज्येष्ठम्‌। तस्मात्‌ सर्वौषधमुच्यते। अन्नाद्‌ भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। अद्यतेऽत्ति च भूतानि। तस्मादन्नं तदुच्यत इति।तस्माद्वा एतस्मादन्नरसमयात्‌। अन्योऽन्तर आत्मा प्राणमयः।तेनैष पूर्णः। स वा एष पुरुषविध एव।तस्य पुरुषविधताम्‌। अन्वयं पुरुषविधः।तस्य प्राण एव शिरः। व्यानो दक्षिणः पक्षः। अपान उत्तरः पक्षः। आकाश आत्मा।पृथिवी पुच्छं प्रतिष्ठा। तदप्येष श्लोको भवति।

लिप्यन्तरणम्

annādvai prajāḥ prajāyante | yāḥ kāśca pṛthivīṁ śritāḥ| atho annenaiva jīvanti | athainadapiyantyantataḥ | annaṁ hi bhūtānāṁ jyeṣṭham | tasmāt sarvauṣadhamucyate |sarvaṁ vai te'nnamāpnuvanti | ye'nnaṁ brahmopāsate| annaṁ hi bhūtānāṁ jyeṣṭham | tasmāt sarvauṣadhamucyate| annād bhūtāni jāyante | jātānyannena vardhante| adyate'tti ca bhūtāni | tasmādannaṁ taducyata iti |tasmādvā etasmādannarasamayāt | anyo'ntara ātmā prāṇamayaḥ |tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |tasya puruṣavidhatām | anvayaṁ puruṣavidhaḥ |tasya prāṇa eva śiraḥ | vyāno dakṣiṇaḥ pakṣaḥ| apāna uttaraḥ pakṣaḥ | ākāśa ātmā pṛthivī pucchaṁ pratiṣṭhā | tadapyeṣa śloko bhavati|

अन्वयः

याः काः च प्रजाः पृथिवीं श्रिताः अन्नात् वै ताः प्रजायन्ते अथो अन्नेन एव जीवन्ति अथ अन्ततः एनत् अपियन्ति अन्नं हि भूतानां ज्येष्ठम् तस्मात् अन्नं सर्वौषधं इति उच्यते। ये वै अन्नम् ब्रह्म इति उपासते ते सर्वंम् अन्नम् आप्नुवन्ति। अन्नं हि भूतानाम् ज्येष्ठं तस्मात् सर्वौषधमुच्यते। अन्नात्। भूतानि। जायन्ते जातानि अन्नेन बर्धन्ते भूतानि अद्यते अत्ति च तस्मात् तत् अन्नम् उच्यते। इति।तस्मात् वै एतस्मात् अन्नरसमयात्। अन्यः अन्तरः प्राणमयः आत्मा अस्ति तेन एषः पूर्णः। सः वै एषः पुरुषः - विधिः एव तस्य पुरुष - विधताम् अनु अयं पुरुष -विधः प्राणः एव तस्य शिरः व्यानः तस्य दक्षिणः पक्षः अपानः तस्य उत्तरः पक्षः आकाशः तस्य आत्मा पृथिवी तस्य पुच्छं च प्रतिष्ठा च । तद् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

yāḥ kāḥ ca prajāḥ pṛthivīṁ śritāḥ annāt vai ( tāḥ ) prajāyante atho annena eva jīvanti atha antataḥ enat apiyanti annaṁ hi bhūtānāṁ jyeṣṭham tasmāt ( annaṁ ) sarvauṣadhaṁ ( iti ) ucyate| ye vai annam brahma ( iti ) upāsate te sarvaṁm annam āpnuvanti| annaṁ hi bhūtānām jyeṣṭhaṁ tasmāt sarvauṣadhamucyate| annāt| bhūtāni | jāyante jātāni annena bardhante bhūtāni adyate atti ca tasmāt tat annam ucyate| iti|tasmāt vai etasmāt annarasamayāt| anyaḥ antaraḥ prāṇamayaḥ ātmā ( asti ) tena eṣaḥ pūrṇaḥ| saḥ vai eṣaḥ puruṣaḥ - vidhiḥ eva tasya puruṣa - vidhatām anu ayaṁ puruṣa -vidhaḥ prāṇaḥ eva tasya śiraḥ vyānaḥ ( tasya ) dakṣiṇaḥ pakṣaḥ apānaḥ ( tasya ) uttaraḥ pakṣaḥ ākāśaḥ ( tasya ) ātmā pṛthivī ( tasya )pucchaṁ ( ca ) pratiṣṭhā ( ca )| tad api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

द्वितीयोऽनुवाकः

[ अन्नमयकोशमहिमा ]

अन्नमयः स्तूयते ।

अन्नाद्वै प्रजाः प्रजायन्ते । या: काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते इति । तस्माद्वा एतस्मादन्नरसमयात् अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥१॥

अन्नाद्वै रसात्मना परिणतात् प्रजाः प्रजायन्ते । कास्ता: ?, याः काश्च पृथिवीं श्रिताः न सङ्ख्याताः किन्त्वसङ्ख्याताः पृथिव्याश्रयाः सर्वा एव प्रजाः । जाताश्च ता अन्नेनैव जीवन्ति । अन्ततः - अवसाने एतदेवान्नमपियन्ति - अभिसंविशन्ति । अन्ने विलीयन्त इति यावत् । भूतानां पार्थिवानां सर्वेषामन्नमेव हि यस्मात् ज्येष्ठम्, तस्मात् सर्वौषधमुच्यते सर्वविधमौषधं देहारोग्यकरमुच्यते । येऽन्नं ब्रह्मेत्युपासते ते सर्वमन्नमाप्नुवन्ति । अन्ने ब्रह्मदृष्टौ निमित्तं समानगुणयोगमाह - अन्नं हीत्यादिना । ब्रह्म सर्वतो ज्येष्ठम्, इदं च भूतेभ्यः, ब्रह्म तापत्रयदाहनिवारकत्वात्परममौषधम् इदं च प्रायो देहोपचायकमिति सर्वौषधम् । भूतज्येष्ठत्वमुपपाद्यते - अन्नादित्यादिना । ब्रह्मदृष्टिनिमित्तभूतगुणसाम्यमेव वा । अन्नाद्भूतानि जायन्ते जीवन्ति वर्धन्ते च । भूतजननादिहेतुत्वसाम्यादन्ने ब्रह्मदृष्टिर्युक्तेति भावः । अन्नशब्दनिर्वचनमाह - अद्यत इति । इदमपि स्तुतिशेषभूतम् । यस्मादनुदिनं सर्वैर्भूतैरद्यते, अत एव अदनकर्मत्वात्, स्वयमत्ति चान्ते भूतानि, तस्माददनकर्तृत्वाच्चान्नमुच्यते । इतिः समाप्तौ ।

आकाशादिक्रमेणात्मनः सम्भूतो यः पुरुषः प्रस्तुतः सोऽयमन्नरसमयो निरूपितः । यद्वेदनादाप्नोति परम्, यतस्तस्मादात्मन इमाकाशादिपुरुषान्तं जगत्, तमात्मानं स्थूलारुन्धतीन्यायेन प्रदर्शयन्नुपक्रमते - तस्माद्वा इति । यः सर्वस्योपादानमात्मा स एतस्मिन्नेवान्तर्वर्तते, अस्मादन्नरसमयादन्यः । स कः ? प्राणमयः, सर्वान्तरस्य सर्वतः सूक्ष्मतमस्यात्मनः सहसा सोऽयमिति बोधयितुमशक्यतया प्राणमयादिक्रमेण तदवबोधनम्, यद्यपि पामरा अन्नरसमयान्नापरं मन्येरन्नात्मानम्, परमस्मादन्नरसमयादन्य एव स इति अन्नरसमयात्प्रच्याव्यात्मदृष्टिं तस्यान्तरे क्वचित्सा दृष्टिः प्रथमं सङ्क्रामिता, क्रमशस्ततस्ततः प्रच्याव्य साक्षादन्तरात्मन्यानन्दमये परब्रह्मणि तां दृष्टिं व्यवस्थापयिष्यति । योऽयं पञ्चवृत्तिः प्राणः स प्राणवृत्तिप्राचुर्यात् प्राणमय उच्यते । तेन प्राणमयेन एषः - अन्नरसमयः पूर्णः - व्याप्तः । सोऽयं प्राणमयोऽपि पुरुषविध एव - पुरुषाकृतिरेव, न वास्तवं पुरुषाकृतित्वम्, किन्तु - तस्यान्नरसमयस्य पुरुषविधतामनु - अनुकृत्य अयमपि पुरुषविधः । अत्रापि शिरःपाण्यात्मपुच्छात्मना पुरुषविधता निरूप्यत इति भावः । किं शिरः कौ पक्षौ क आत्मा किं पुच्छम् ? आह - प्राण इत्यादि । प्राण: - प्राणवृत्ति: । आकाश आत्मा - मध्यकायः, आकाशाधारो ह्ययं वायुः प्राणः, पृथिवी पुच्छं प्रतिष्ठा - मध्यकायस्थानीयस्याकाशस्य हि पृथिव्या उपरि स्थिति: । तत् मध्यकायाश्रयत्वेन पुच्छत्वेन निरूपणम् । यद्वा - आकाश: - आकाशस्थो वायुवृत्तिविशेषः समानाख्यः । पृथिवी - पृथिव्यधिष्ठिता देवता, सा ह्याध्यात्मिकस्य प्राणस्य धारयित्रीति । तत् - तस्मिन् प्राणमये एष वक्ष्यमाणः श्लोको भवति । 

॥ इति द्वितीयोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

Verily all sorts and races of creatures that have their refuge upon earth, are begotten from food; thereafter they live also by food and 'tis to food again that they return at the end and last. For food is the eldest of created things and therefore they name it the Green Stuff of the Universe. Verily they who worship the Eternal as food, attain the mastery of food to the uttermost; for food is the eldest of created things and therefore they name it the Green Stuff of the Universe. From food all creatures are born and being born they increase by food. Lo it is eaten and it eateth; yea it devoureth the creatures that feed upon it, therefore it is called food from the eating. Now there is a second and inner Self which is other than this that is of the substance of food; and it is made of the vital stuff called Prana. And the Self of Prana filleth the Self of food. Now the Self of Prana is made in the image of a man; according as is the human image of the other, so is it in the image of the man. The main Breath is the head of him, the breath pervasor is his right side and the lower breath is his left side; ether is his spirit which is the self of him, earth is his lower member whereon he resteth abidingly. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

वस्तुत: पृथ्वी पर रहने वाले प्राणियों की सभी प्रजातियाँ अन्न से ही उत्पन्न होती हैं; इसीलिए वे अन्न से ही जीवित रहती हैं तथा अन्त में, पुनः अन्न में ही विलीन हो जाती हैं। क्योंकि सृष्ट पदार्थों में ज्येष्ठतम है अन्न, इसीलिए उसे 'सवोषधरूप'-'समस्त विश्व का 'हरित तत्त्व' कहा जाता है। वस्तुतः जो 'ब्रह्म' की अन्न के रूप में उपासना करते हैं वे अन्न पर पूर्ण प्रभुत्व प्राप्त कर लेते हैं; क्योंकि अन्न ही समस्त सृष्ट पदार्थों में ज्येष्ठतम है और इसीलिए वह सवौषधम् 'अर्थात्' 'समस्त विश्व का हरित तत्त्व' कहा जाता है। सभी प्राणियों का जन्म अन्न से ही होता है तथा उत्पन्न होने पर वे अन्न से ही बढ़ते हैं। यह खाया जाता है, तथा यह खाता है, हाँ, जो जीव इस पर पलते हैं उन्हें यह खा जाता है, इसी कारण यह अन्न कहलाता है। इस अन्न-रसमय 'आत्मा' से भिन्न एक अन्य 'अन्तरात्मा' है जो 'प्राणतत्त्व' से बना हुआ है : प्राणमय आत्मा। 'प्राणमय' आत्मा 'अन्नमय' आत्मा को परिव्याप्त किये रहता है। यह प्राणमय आत्मा मनुष्य के समान ही आकार धारण करता है; जिस प्रकार वह मानवाकार होता है, वैसे ही यह भी मानवाकार होता है। प्राण-वायु ही इसका शिर है, व्यान-वायु उसका दक्षिण पक्ष है, अपान-वायु उसका वाम पक्ष है; आकाश उसका अन्तरात्मा है जो कि उसका आत्मा है, पृथ्वी उसका निम्नांग है जिस पर वह स्थिर रूप से प्रतिष्ठित रहता है। जिसके विषय में 'श्रुति' का यह वचन है।

॥ शब्दावली ॥

याः काः च प्रजाः - yāḥ kāḥ ca prajāḥ - all sorts and races of creatures

पृथिवीम् श्रिताः - pṛthivīm śritāḥ - that have their refuge upon earth

अन्नात् वै - annāt vai - verily, from food

प्रजायन्ते - prajāyante - are begotten

अथो - atho - thereafter

अन्नेन एव - annena eva - also by food

जीवन्ति - jīvanti - they live

अथ अन्ततः - atha antataḥ - and at the end

एनत् अपि यन्ति - enat api yanti - 'tis to food again that they return last

अन्नम् हि - annam hi - for food is

भूतानाम् - bhūtānām - of created things

ज्येष्ठम् - jyeṣṭham - the eldest

तस्मात् - tasmāt - and therefore

सर्वौषधम् - sarvauṣadham - it the Green Stuff of the Universe

उच्यते - ucyate - they name

ये वै - ye vai - verily they who

अन्नम् ब्रह्म - annam brahma - the Eternal as food

उपासते - upāsate - worship

ते - te - they

सर्वम् अन्नम् - sarvam annam - the mastery of food to the uttermost

आप्नुवन्ति - āpnuvanti - attain

अन्नम् हि - annam hi - for food is

भूतानाम् ज्येष्ठम् - bhūtānām jyeṣṭham - the eldest of created things

तस्मात् - tasmāt - and therefore

सर्वौषधमुच्यते - sarvauṣadhamucyate - they name it the Green Stuff of the Universe

अन्नात् - annāt - from food

भूतानि जायन्ते - bhūtāni jāyante - all creatures are born

जातानि - jātāni - and being born

अन्नेन बर्धन्ते - annena bardhante - they increase by food

अद्यते अत्ति च भूतानि - adyate atti ca bhūtāni - it is eaten and it eateth; yea it devoureth the creatures that feed upon it,

तस्मात् - tasmāt - therefore

तत् अन्नम् उच्यते - tat annam ucyate - it is called food from the eating

तस्मात् वै एतस्मात् - tasmāt vai etasmāt - than this that is

अन्नरसमयात् - annarasamayāt - of the substance of food

अन्यः अन्तरः आत्मा - anyaḥ antaraḥ ātmā - now there is a second and inner Self which is other

प्राणमयः - prāṇamayaḥ - it is made of the vital stuff called Prana

तेन एषः पूर्णः - tena eṣaḥ pūrṇaḥ - the Self of Prana filleth the Self of food

सः वै एषः पुरुषविधः एव - saḥ vai eṣaḥ puruṣavidhaḥ eva - now the Self of Prana is made in the image of a man

तस्य पुरुषविधताम् अनु - tasya puruṣavidhatām anu - according as is the human image of the other

अयम् पुरुषविधः - ayam puruṣavidhaḥ - so is it in the image of the man

प्राणः एव - prāṇaḥ eva - the main Breath

तस्य शिरः - tasya śiraḥ - is the head of him

व्यानः - vyānaḥ - the breath pervasor

दक्षिणः पक्षः - dakṣiṇaḥ pakṣaḥ - is his right side

अपानः - apānaḥ - the lower breath

उत्तरः पक्षः - uttaraḥ pakṣaḥ - is his left side

आकाशः - ākāśaḥ - ether

आत्मा - ātmā - is his spirit which is the self of him

पृथिवी - pṛthivī - earth whereon

पुच्छम् प्रतिष्ठा च - puccham pratiṣṭhā ca - is his lower member he resteth abidingly

तद् अपि - tad api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture

तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

तृतीयोऽनुवाकः

प्राणं देवा अनु प्राणन्ति। मनुष्याः पशवश्च ये।प्राणो हि भूतानामायुः। तस्मात्‌ सर्वायुषमुच्यते।सर्वमेव त आयुर्यन्ति। ये प्राणं ब्रह्मोपासते।प्राणो हि भूतानामायुः। तस्मात्‌ सर्वायुषमुच्यत इति।तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मात्प्राणमयात्‌। अन्योऽन्तर आत्मा मनोमयः।तेनैष पूर्णः। स वा एष पुरुषविध एव।तस्य पुरुषविधताम्‌। अन्वयं पुरुषविधः।तस्य यजुरेव शिरः। ऋग्दक्षिणः पक्षः। सामोत्तरः पक्षः। आदेश आत्मा। अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा।तदप्येष श्लोको भवति॥

लिप्यन्तरणम्

prāṇaṁ devā anu prāṇanti | manuṣyāḥ paśavaśca ye prāṇo hi bhūtānāmāyuḥ | tasmāt sarvāyuṣamucyate |sarvameva ta āyuryanti | ye prāṇaṁ brahmopāsate prāṇo hi bhūtānāmāyuḥ | tasmāt sarvāyuṣamucyata iti |tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya | tasmādvā etasmātprāṇamayāt | anyo'ntara ātmā manomayaḥ |tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |tasya puruṣavidhatām | anvayaṁ puruṣavidhaḥ |tasya yajureva śiraḥ | ṛgdakṣiṇaḥ pakṣaḥ | sāmottaraḥ pakṣaḥ| ādeśa ātmā | atharvāṅgirasaḥ pucchaṁ pratiṣṭhā |tadapyeṣa śloko bhavati ||

अन्वयः

ये देवाः मनुष्याः पशवः च सन्ति ते सर्वे प्राणम् अनु प्राणन्ति। प्राणः हि भूतानाम् आयुः तस्मात् प्राण सर्वायुषं इति उच्यते । ये प्राणं ब्रह्म इति उपासते ते सर्वम् एव आयुः यन्ति। प्राणः हि भूतानाम् आयुः तस्मात् सः सर्वायुषम् उच्यते इति तस्य पूर्वस्य यः शारीरः आत्मा सः एषः एव। तस्मात् वै एतस्मात् प्राणमयात् आत्मनः अन्यः अन्तरः मनोमयः आत्मा अस्ति । तेन एषः पूर्णः। सः वै एषः पुरुषविधः एव। तस्य पुरुषविधताम्। अनु अयं पुरुषविधः। यजुः एव तस्य शिरः ऋक् दक्षिणः पक्षः साम उत्तरपक्षः आदेशः आत्मा अथर्वाङ्गिरसः। तस्य पुच्छं च प्रतिष्ठा च । तद् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

ye devāḥ manuṣyāḥ paśavaḥ ca ( santi te sarve ) prāṇam anu prāṇanti| prāṇaḥ hi bhūtānām āyuḥ tasmāt ( prāṇa ) sarvāyuṣaṁ ( iti ( ucyate )| ye prāṇaṁ brahma ( iti ) upāsate te sarvam eva āyuḥ yanti| prāṇaḥ hi bhūtānām āyuḥ tasmāt ( saḥ ) sarvāyuṣam ucyate iti tasya pūrvasya yaḥ śārīraḥ ātmā ( saḥ ) eṣaḥ eva| tasmāt vai etasmāt prāṇamayāt ( ātmanaḥ ) anyaḥ antaraḥ manomayaḥ ātmā ( asti )| tena eṣaḥ pūrṇaḥ | saḥ vai eṣaḥ puruṣavidhaḥ eva| tasya puruṣavidhatām| anu ayaṁ puruṣavidhaḥ | yajuḥ eva tasya śiraḥ ṛk dakṣiṇaḥ pakṣaḥ sāma uttarapakṣaḥ ādeśaḥ ātmā atharvāṅgirasaḥ| ( tasya ) pucchaṁ ( ca ) pratiṣṭhā ( ca ) | tad api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तृतीयोऽनुवाकः

[ प्राणमयकोशमीमांसा ]

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते इति । तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मात्प्राणमयात् अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तर: पक्ष: । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥

देवा मनुष्याः पशवश्च सर्व एव प्राणमनु प्राणन्ति जीवन्ति, प्राणायत्तजीवना इति यावत् । कस्मात् ?, प्राणो हि भूतानामायुः, श्रूयते चान्यत्र - 'यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदेवायुः' (कौ.उ.३.१५) इति । तस्मात् सर्वायुषमुच्यते - आयुरेव आयुषम् । ये प्राणं ब्रह्मेत्युपासते ते सर्वमेवायुः - पूर्णमायुर्यन्ति - प्राप्नुवन्ति, न तेषामपमृत्युरिति यावत् । तत्र हेतुरुच्यते प्राणो हि भूतानामित्यादि । अत एव न पौनरुक्त्यम् । एवं प्राणमये समारोपितामात्मबुद्धिं ततोऽन्यत्रापसारयति - तस्यैष एव शारीर आत्मा यः पूर्वस्येति । सोऽयं प्राणमय एवान्नमयान्तस्य कार्यवर्गस्यात्मेति न मन्तव्यम्, तस्य प्राणमयस्याप्यन्य एव भवति शारीर आत्मा - यस्येदं सर्वं शरीरम् स शारीर आत्मा यः पूर्वस्यान्नमयस्य । अन्नमय व प्राणमयोऽपि नान्तरात्मा, उभयोस्तयोरन्य एवान्तरात्मेत्येतत् । स कः ?, आह - मनोमय इति मनोवृत्तिप्राचुर्यात् मनोमय उच्यते । तेनैष पूर्ण इत्यादि व्याख्यातप्रायम् । यजुरेव शिरः - यद्यपि यजुरादि वाग्रूपम्, अथापि तत्तद्विषयकज्ञानजनकमनोव्यापार इह यजुरादिशब्देन विवक्षितः । आदेशः - विधिनिषेधलक्षणमनुशासनम् । अथर्वाङ्गिरसः - तैर्दृष्टा मन्त्रविशेषाः । तन्मनोमयमधिकृत्य एष - वक्ष्यमाणः श्लोको भवति ।

। इति तृतीयोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

The Gods live and breathe under the dominion of Prana and men and all these that are beasts; for Prana is the life of created things & therefore they name it the LifeStuff of the All. Verily they who worship the Eternal as Prana attain mastery of Life to the uttermost; for Prana is the life of created things and therefore they name it the LifeStuff of the All. And this Self of Prana is the soul in the body of the former one which was of food. Now there is yet a second and inner Self which is other than this that is of Prana, and it is made of Mind. And the Self of Mind filleth the Self of Prana. Now the Self of Mind ismade in the image of a man; according as is the human image of the other, so is it in the image of the man. Yajur is the headof him and the Rigveda is his right side and the Samaveda is his left side: the Commandment is his spirit which is the self of him, Atharvan Ungirus is his lower member whereon he resteth abidingly. Whereof this is the Scripture.

हिन्दी-अर्थः

'प्राण' के साम्राज्य में ही देवगण निवास करते एवं निश्वास लेते हैं, इसी प्रकार जो मानव हैं तथा जो पशु है वे भी; क्योंकि 'प्राण' ही समस्त भूत-पदार्थों (सृष्ट पदार्थों) का जीवन है, इसीलिए उसे ''सर्वायुष'' अर्थात् 'सबका जीवन-तत्त्व' कहा जाता है। वस्तुतः जो 'ब्रह्म' की 'प्राण' के रूप में उपासना करते हैं वे 'जीवन' पर पूर्ण प्रभुत्व प्राप्त कर लेते हैं; क्योंकि 'प्राण' ही समस्त भूत-पदार्थों का जीवन है, इसीलिए उसे 'सर्वायुष ''अर्थात् 'सबका जीवनतत्त्व' कहा जाता है। और यह प्राणमय 'आत्मरूप' पूर्वरूप शरीर जो अन्नमय था, उसके अन्दर आत्मा है। इस प्राणमय 'आत्मा' से भिन्न, एक अन्य 'अन्तरात्मा' है जो 'मनस्तत्त्व' से निर्मित है: मनोमय आत्मा। इस 'मनोमय आत्मा' से यह 'प्राणमय आत्मा' परिव्याप्त रहता है। और यह 'मनोमय आत्मा' मानवाकार में ही रचित है; जिस प्रकार अन्य का भी मानव रूप है उसी प्रकार इसका भी मानव रूप है। यजुर्वेद जिसका शिर है, ऋग्वेद उसका दक्षिण पक्ष है तथा सामवेद उसका वाम पक्ष है: परम 'आदेश' उसकी आत्मा है जो कि उसका आत्मस्वरूप है। अथर्व अंगिरस उसका निम्न अंग है जिस पर वह स्थिररूप से प्रतिष्ठित है। जिसके विषय में 'श्रुति' का यह वचन है।

शब्दावली

ये देवाः - ye devāḥ - The Gods

मनुष्याः - manuṣyāḥ - men

पशवः - paśavaḥ - beasts

- ca - and

सन्ति ते सर्वे - santi te sarve - all these that are

प्राणम् अनु - prāṇam anu - under the dominion of Prana

प्राणन्ति - prāṇanti - live and breathe

प्राणः हि - prāṇaḥ hi - for Prana is

भूतानाम् - bhūtānām - of created things

आयुः - āyuḥ - the life

तस्मात् - tasmāt - therefore

प्राण - prāṇa - it (Prana)

सर्वायुषम् - sarvāyuṣam - the Life Stuff of the All

इति उच्यते - iti ucyate - they name

ये - ye - they who

प्राणम् - prāṇam - Prana

ब्रह्म - brahma - the Eternal

इति - iti - as

उपासते - upāsate - worship

ते - te - they

सर्वम् एव - sarvam eva - to the uttermost

आयुः यन्ति - āyuḥ yanti - attain mastery of Life

प्राणः हि - prāṇaḥ hi - for Prana is

भूतानाम् आयुः - bhūtānām āyuḥ - the life of created things

तस्मात् - tasmāt - therefore

सः उच्यते - saḥ ucyate - they name it

सर्वायुषम् इति - sarvāyuṣam iti - the Life Stuff of the All

तस्य पूर्वस्य - tasya pūrvasya - of the former one which was of food

यः शारीरः आत्मा - yaḥ śārīraḥ ātmā - the soul in the body

सः एषः एव - saḥ eṣaḥ eva - this Self of Prana

तस्मात् वै - tasmāt vai - now there is yet

एतस्मात् प्राणमयात् आत्मनः - etasmāt prāṇamayāt ātmanaḥ - this that is of Prana

अन्यः - anyaḥ - other than

अन्तरः - antaraḥ - inner Self

मनोमयः - manomayaḥ - made of Mind

आत्मा अस्ति - ātmā asti - there is a second and inner Self

तेन - tena - (by) the Self of Mind

एषः - eṣaḥ - the Self of Prana

पूर्णः - pūrṇaḥ - filleth

सः वै - saḥ vai - now the Self of Mind

एषः पुरुषविधः एव - eṣaḥ puruṣavidhaḥ eva - is made in the image of a man

तस्य पुरुषविधताम् - tasya puruṣavidhatām - according as is the human image of the other

अनु अयम् पुरुषविधः - anu ayam puruṣavidhaḥ - so is it in the image of the man

यजुः एव - yajuḥ eva - Yajur is

तस्य शिरः - tasya śiraḥ - the head of him

ऋक् - ṛk - the Rigveda

दक्षिणः पक्षः - dakṣiṇaḥ pakṣaḥ - is his right side

साम - sāma - Samaveda

उत्तरपक्षः - uttarapakṣaḥ - is his left side

आदेशः - ādeśaḥ - the Commandment

आत्मा - ātmā - his spirit which is the self of him

अथर्वाङ्गिरसः - atharvāṅgirasaḥ - Atharvan Angirasa

तस्य पुच्छम् - tasya puccham - his lower member

प्रतिष्ठा च - pratiṣṭhā ca - whereon he resteth abidingly

तद् अपि - tad api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture


तैत्तिरीयोपनिषद् ब्रह्मानन्दवल्ली 

चतुर्थोऽनुवाकः

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्‌। न बिभेति कदाचनेति।तस्यैष एव शारीर आत्मा। यः पूर्वस्य। तस्माद्वा एतस्मान्मनोमयात्‌। अन्योऽन्तर आत्मा विज्ञानमयः।तेनैष पूर्णः। स वा एष पुरुषविध एव।तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य श्रद्धैव शिरः।ऋतं दक्षिणः पक्षः।सत्यमुत्तरः पक्षः। योग आत्मा। महः पुच्छं प्रतिष्ठा।तदप्येष श्लोको भवति॥

लिप्यन्तरणम्

yato vāco nivartante | aprāpya manasā saha| ānandaṁ brahmaṇo vidvān | na bibheti kadācaneti |tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya | tasmādvā etasmānmanomayāt | anyo'ntara ātmā vijñānamayaḥ |tenaiṣa pūrṇaḥ | sa vā eṣa puruṣavidha eva |tasya puruṣavidhatām| anvayaṁ puruṣavidhaḥ | tasya śraddhaiva śiraḥ |ṛtaṁ dakṣiṇaḥ pakṣaḥ |satyamuttaraḥ pakṣaḥ | yoga ātmā | mahaḥ pucchaṁ pratiṣṭhā |tadapyeṣa śloko bhavati ||

अन्वयः

यतः वाचः मनसा सह अप्राप्य निवर्तन्ते ब्रह्मणः आनन्तं विद्वान् न कदाचन बिभेति इति। तस्य पूर्वस्य यः शरीरः आत्मा सः एषः एव। तस्मात् वै एतस्मात् मनोमयात् अन्यः अन्तरः आत्मा विज्ञानमयः तेन एषः पूर्णः। सः वै एषः पुरुषविधः एव। तस्य पुरुषविधताम् अनु अयं पुरुषविधः। श्रद्धा एव तस्य शिरः ऋतं तस्य दक्षिणः पक्षः सत्यं तस्य उत्तरः पक्षः योगः तस्य आत्मा महः पुच्छं च प्रतिष्ठा च । तद् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

yataḥ vācaḥ manasā saha aprāpya nivartante brahmaṇaḥ ānantaṁ vidvān na kadācana bibheti iti| tasya pūrvasya yaḥ śarīraḥ ātmā ( saḥ ) eṣaḥ eva| tasmāt vai etasmāt manomayāt anyaḥ antaraḥ ātmā vijñānamayaḥ tena eṣaḥ pūrṇaḥ | saḥ vai eṣaḥ puruṣavidhaḥ eva| tasya puruṣavidhatām anu ayaṁ puruṣavidhaḥ| śraddhā eva tasya śiraḥ ṛtaṁ ( tasya dakṣiṇaḥ pakṣaḥ satyaṁ ( tasya ) uttaraḥ pakṣaḥ yogaḥ ( tasya ) ātmā mahaḥ pucchaṁ ( ca ) pratiṣṭhā ( ca )| tad api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

च चतुर्थोऽनुवाकः [विज्ञानमयकोशमीमांसा ]

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति । तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्मान्मनोमयात् अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥

यतो ब्रह्मानन्दात् इयत्तारहितात् अप्राप्य पारं वाचो मनसा सह निवर्तन्ते, तथाविधमनवधि ब्रह्मानन्दं योगसुसंस्कृतेन मनसा विद्वान् न जातु कुतोऽपि बिभेति । अपैति संसरणभीतिरिति यावत् । इयं च मनसः स्तुतिः, सकलभयनिवारकब्रह्मानन्दानुभवोपकरण - त्वनिरूपणात् । अथ मनोमये समारोपितामात्मबुद्धि ततोऽन्यत्रापसारयति तस्यैष एवेत्यादिना । व्याख्यातप्रायम् । विज्ञानमयः विज्ञानप्रचुरो विज्ञाता जीवः । श्रद्धादयो ज्ञानस्यैवावस्थाविशेषलक्षणा ज्ञातुर्जीवस्य धर्मभूता इति तत्तदवच्छिन्नं ज्ञातुः स्वरूपमेव श्रद्धादिशब्दैर्निर्दिश्य शिरस्त्वादिना रूप्यते । योगोऽपि ध्यानविशेषलक्षण इति ज्ञानविशेष एव । महः - योगविरोधिनिरसनसामर्थ्यलक्षणम् । विज्ञानमयमधिकृत्यैष - वक्ष्यमाणः श्लोको भवति ॥

इति चतुर्थोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

The delight of the Eternal from which words turn away without attaining and the mind also returneth baffled, who knoweth the delight of the Eternal? He shall fear nought now or hereafter. And this Self of Mind is the soul in the body to the former one which was of Prana. Now there is yet a second and inner Self which is other than this which is ofMind and it is made of Knowledge. And the Self of Knowledge filleth the Self of Mind. Now the KnowledgeSelf is made in the image of a man; according as is the human image of the other, so is it in the image of the man. Faith is the head of him, Law is his right side, Truth is his left side; Yoga is his spirit which is the self of him; Mahas (the material world) is his lower member whereon he resteth abidingly. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

'ब्रह्म' का वह आनन्द जहाँ से वाणी कुछ भी प्राप्त किए बिना लौट आती है तथा मन भी विस्मय से चकित होकर लौट आता है, 'ब्रह्म' के उस आनन्द को कौन जानता है? वह अब और फिर कदापि भयभीत नहीं होगा। इससे पहले वाले शरीर में, जो 'प्राणमय' था, यह 'मनोमय पुरुष' ही उसकी आत्मा है। इस 'मनोमय आत्मा' से भी अन्य एक 'अन्तरात्मा' है जो 'विज्ञान' तत्त्व से निर्मित है। और यह 'विज्ञानात्मा' 'मनोमय आत्मा' को परिव्याप्त किये रहता है। यह 'विज्ञानात्मा' मनुष्य की ही रूपाकृति धारण करता है; जिस प्रकार अन्य की भी मानवाकृति होती है, उसी प्रकार यह भी मानवाकृति में होता है। 'श्रद्धा' ही उसका शिर है, 'विधान' (ऋतम्) उसका दक्षिण पक्ष है, 'सत्य उसका वाम पक्ष है;' 'योग' उसकी अन्तरात्मा है जो कि उसक आत्मस्वरूप है; 'महः' (भौतिक जगत्) उसका निम्नांग है जिस पर वह स्थिररूप से प्रतिष्ठित रहता है। जिसके विषय में 'श्रुति' का यह वचन है।

॥ शब्दावली ॥

यतः - yataḥ - from which

वाचः - vācaḥ - words

मनसा सह - manasā saha - the mind also

अप्राप्य - aprāpya - without attaining

निवर्तन्ते - nivartante - returneth baffled

ब्रह्मणः आनन्तम् - brahmaṇaḥ ānantam - the delight of the Eternal

विद्वान् - vidvān - who knoweth

न बिभेति इति - na bibheti iti - He shall fear nought

कदाचन - kadācana - now or hereafter

तस्य पूर्वस्य यः - tasya pūrvasya yaḥ - to the former one which was of Prana

शरीरः आत्मा - śarīraḥ ātmā - the soul in the body

सः एषः एव - saḥ eṣaḥ eva - this Self of Mind is

तस्मात् वै - tasmāt vai - Now there is yet

एतस्मात् मनोमयात् अन्यः - etasmāt manomayāt anyaḥ - which is other than this which is of Mind

अन्तरः आत्मा - antaraḥ ātmā - a second and inner Self

विज्ञानमयः - vijñānamayaḥ - it is made of Knowledge

तेन - tena - (by) the Self of Knowledge

एषः - eṣaḥ - the Self of Mind

पूर्णः - pūrṇaḥ - filleth

सः वै - saḥ vai - Now the Self of Mind

एषः पुरुषविधः एव - eṣaḥ puruṣavidhaḥ eva - is made in the image of a man

तस्य पुरुषविधताम् - tasya puruṣavidhatām - according as is the human image of the other

अनु अयम् पुरुषविधः - anu ayam puruṣavidhaḥ - so is it in the image of the man

श्रद्धा - śraddhā - Faith

एव तस्य शिरः - eva tasya śiraḥ - is the head of him

ऋतम् - ṛtam - Law

तस्य - tasya - his

दक्षिणः - dakṣiṇaḥ - right

पक्षः - pakṣaḥ - side

सत्यम् - satyam - Truth

तस्य उत्तरः पक्षः - tasya uttaraḥ pakṣaḥ - is his left side

योगः - yogaḥ - Yoga

तस्य - tasya - his

आत्मा - ātmā - spirit which is the self of him

महः - mahaḥ - Mahas(the material world)

पुच्छम् च - puccham ca - is his lower member

प्रतिष्ठा च - pratiṣṭhā ca - whereon he resteth abidingly

तद् अपि - tad api - Whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture

तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

पञ्चमोऽनुवाकः

विज्ञानं यज्ञं तनुते। कर्माणि तनुतेऽपि च।विज्ञानं देवाः सर्वे।ब्रह्म ज्येष्ठमुपासते। विज्ञानं ब्रह्म चेद्वेद।तस्माच्चेन्न प्रमाद्यति। शरीरे पाप्मनो हित्वा।सर्वान् कामान् समश्नुत इति। तस्यैष एव शारीर आत्मा।यः पूर्वस्य। तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः तेनैष पूर्णः।स वा एष पुरुषविध एव। तस्य पुरुषविधताम्। अन्वयं पुरुषविधः। तस्य प्रियमेव शिरः। मोदो दक्षिणः पक्षः।प्रमोद उत्तरः पक्षः। आनन्द आत्मा। ब्रह्म पुच्छं प्रतिष्ठा।तदप्येष श्लोको भवति॥

॥ लिप्यन्तरणम् ॥

vijñānaṁ yajñaṁ tanute | karmāṇi tanute'pi ca |vijñānaṁ devāḥ sarve |brahma jyeṣṭhamupāsate | vijñānaṁ brahma cedveda |tasmāccenna pramādyati | śarīre pāpmano hitvā |sarvān kāmān samaśnuta iti | tasyaiṣa eva śārīra ātmā |yaḥ pūrvasya | tasmādvā etasmādvijñānamayāt| anyo'ntara ātmā''nandamayaḥ tenaiṣa pūrṇaḥ |sa vā eṣa puruṣavidha eva | tasya puruṣavidhatām| anvayaṁ puruṣavidhaḥ | tasya priyameva śiraḥ | modo dakṣiṇaḥ pakṣaḥ pramoda uttaraḥ pakṣaḥ | ānanda ātmā | brahma pucchaṁ pratiṣṭhā |tadapyeṣa śloko bhavati ||

॥ अन्वयः ॥

विज्ञानम्। यज्ञं तनुते कर्माणि च अपि तनुते। सर्वे देवाः विज्ञानं ज्येष्ठम् ब्रह्म इति उपासते। यः कश्चित् विज्ञानं ब्रह्म वेद चेत् - तस्मात् न प्रमाद्यति चेत् सः शरीरे पाप्मनः हित्वा। सर्वान् कामान् समश्नुते। इति। तस्य पूर्वस्य यः शरीरः आत्मा सः एषः एव। तस्मात् वै एतस्मात् विज्ञानमयात् अन्यः अन्तरः आत्मा आनन्तमयः तेन एषः पूर्णः। सः वै एषः पुरुषविधः एव। तस्य पुरुसविधताम् अनु अयं पुरुषविद्घः। प्रियम् एव तस्य शिरः मोदः तस्य दक्षिणः पक्षः प्रमोदः तस्य उत्तरः पक्षः आनन्तः तस्य आत्मा ब्रह्म तस्य पुच्छं च प्रतिष्ठा च । तद् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

vijñānam| yajñaṁ tanute karmāṇi ca api tanute| sarve devāḥ vijñānaṁ jyeṣṭham brahma ( iti ) upāsate| ( yaḥ kaścit ) vijñānaṁ brahma veda cet - tasmāt na pramādyati cet ( saḥ ) śarīre pāpmanaḥ hitvā| sarvān kāmān samaśnute| iti| tasya pūrvasya yaḥ śarīraḥ ātmā ( saḥ ) eṣaḥ eva | tasmāt vai etasmāt vijñānamayāt anyaḥ antaraḥ ātmā ānantamayaḥ tena eṣaḥ pūrṇaḥ| saḥ vai eṣaḥ puruṣavidhaḥ eva| tasya purusavidhatām anu ayaṁ puruṣavidghaḥ| priyam eva tasya śiraḥ modaḥ ( tasya ) dakṣiṇaḥ pakṣaḥ pramodaḥ ( tasya ) uttaraḥ pakṣaḥ ānantaḥ ( tasya ) ātmā brahma ( tasya ) pucchaṁ ( ca ) pratiṣṭhā ( ca )| tad api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

पञ्चमोऽनुवाकः

[विज्ञानमयकोशविचारः ]

विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्रुते इति । तस्यैष एव शारीर आत्मा यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मा आनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ।

विज्ञानमिति । अयं विज्ञानशब्दो विज्ञातर्यात्मनि वर्तते । विज्ञातुः स्वरूपं स्वयम्प्रकाशतया ज्ञानैकनिरूपणीयतया च विज्ञानशब्देन निर्देशमर्हति । 'कृत्यल्युटो बहुलम्' (पाणमनीयसूत्रम् - ३.३.११३) इत्यनुशासनात् कर्तरि ल्युट् वा । नन्द्यादित्वा श्रयणात् कर्तरि ल्युर्वा । श्रूयते च 'यो विज्ञाने तिष्ठन्' इति काण्वानां पाठः ‘आत्मनि तिष्ठन्नित्यस्य माध्यन्दिनपाठस्य स्थाने । विज्ञातृपरतयैव च तनुते इति कर्त्राख्यातोपपत्तिः । सोऽयं विज्ञानैकलक्षणो जीवात्मा यज्ञं तनुते, कर्माणि च लौकिकानि तनुते । सर्वे देवाः सर्वे सत्त्वप्रकृतयो विज्ञानम् - जीवात्मानं ब्रह्मज्येष्ठम् - ब्रह्मणः प्रधानात् - प्रकृष्टमुपासते । प्रकृतिविलक्षणत्वेनोपासते इति यावत् । तमिमं विज्ञानात्मानं ब्रह्म चेद्वेद अपहतपाप्मत्वादिना गुणाष्टकेन सरूपतया ब्रह्मेत्युपासीत, ब्रह्मरूपतया वेदेति यावत् । तस्मात् - तथोपास्यमानात् अन्तिमसमये न प्रमाद्यति चेत् अन्तिमस्मरणमपि तद्विषयं स्याच्चेदित्येतत् । शरीरे प्रारब्धफले वर्तमानः सन्नेव पाप्मनः पूर्वोत्तराघान् हित्वा सर्वान् कामान् समश्नुते देहपातानन्तरम् । शरीरे पाप्मनः, शरीरयोगेन सम्पादितान् पाप्मनो हित्वेति वा । विज्ञानमये समारोपितामन्तरात्मबुद्धिं ततोऽन्यत्रापसारयति तस्यैष एवेत्यादिना । व्याख्यातप्रायम् । आनन्दमयः आनन्दप्रचुरः, निरवधिकानन्दः परमात्मा । स्वयमानन्दस्वरूप आनन्दगुणकश्चेत्यानन्दप्रचुरता युक्ता नाम। आनन्दविशेषविशिष्टवेषेण शिरःपक्षादिनिरूपणं क्रियते - तस्य प्रियमेवेत्यादिना । आनन्दस्यैवावस्थाविभेदाः प्रियादयः । ब्रह्मण आनन्दरूपस्याप्यानन्दत्वेन मध्यकायतां ब्रह्मत्वेन पुच्छतेति विवेकः । ब्रह्मणः अन्नमयादिष्ववयवत्वेनानिरूपणादानन्दमय एव तथा निरूपणात् ब्रह्मविदाप्नोतीत्युपक्रान्तं ब्रह्म आनन्दमय एवेति गम्यते । स्थूलारुन्धतीन्यायेन ज्ञाप्यमानस्यान्तरात्मनो निरूपणविश्रान्तिरानन्दमय एवेति व्यक्तम् । पूर्वपर्यायेष्विवान्योऽन्तर आत्माऽऽनन्दमयादिति उत्तरत्राश्रवणात् । तस्यैष एव शारीर आत्मा यः पूर्वस्येति तु आनन्दमयस्यानन्यात्मताज्ञापनाय । आनन्दमयमधिकृत्यैष श्लोको भवति ।

॥ इति पञ्चमोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

Knowledge spreadeth the feast of sacrifice and knowledge spreadeth also the feast of works; all the gods offer adoration to him as to Brahman and the Elder of the Universe. For if one worship Brahman as the knowledge and if one swerve not from it neither falter, then he casteth sin from him in this body and tasteth all desire. And this Self of Knowledge is the soul in the body to the former one which was of Mind. Now there is yet a second and inner self which is other than this which is of Knowledge and it is fashioned out of Bliss. And the Self of Bliss filleth the Self of Knowledge. Now the Bliss Self is made in the image of a man; according as is the human image of the other, so is it made in the image of the man. Love is the head of Him; Joy is His right side; pleasure is His left side; Bliss is His spirit which is the self of Him; the Eternal is His lower member wherein He resteth abidingly. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

विज्ञान यज्ञ के रस को विस्तृत करता है तथा विज्ञान कर्म के रस को भी विस्तृत करता है; सभी देवगण उसकी 'ब्रह्म' के रूप में तथा 'विश्व के ज्येष्ठ' के रूप में उपासना करते हैं। क्योंकि यदि कोई ब्रह्म की 'विज्ञान' के रूप उपासना करे तथा उससे न विमुख हो न ही उसमें प्रमाद करे, तो वह इसी शरीर में पापों से मुक्त होकर समस्त कामनाओं का आस्वादन करता है। तथा यह 'विज्ञानमय' आत्मा इससे पूर्व वर्णित मनोमय शरीर में आत्मा-सदृश है। अब इस 'विज्ञानमय आत्मा' से भी अन्य एक अन्तरात्मा है जो 'आनन्द' से निर्मित है। तथा, 'आनन्दमय आत्मा' 'विज्ञानमय आत्मा' में परिव्याप्त रहता है। और यह 'आनन्दात्मा' मानवाकृति में ही रचित होता है; जिस प्रकार अन्य भी मानवरूप हैं, उसी प्रकार यह भी मानवरूप है। 'प्रेम' (प्रियं भाव) 'इसका' शिर है 'मोद' (हर्ष) 'इसका' दक्षिण पक्ष है 'प्रमोद' (सुख) 'इसका' वाम पक्ष है; 'आनन्द' 'इसका' अन्तरात्मा है जो कि 'उसका' आत्मस्वरूप है; शाश्वत तत्त्व-'ब्रह्म' 'इसका' निम्नांग है जिसमें 'वह' स्थिरभाव से प्रतिष्ठित रहता है। जिसके विषय में 'श्रुति' का यह वचन है।

॥ शब्दावली ॥

विज्ञानम् - vijñānam - Knowledge

यज्ञम् - yajñam - the feast of sacrifice

तनुते - tanute - spreadeth

कर्माणि च अपि - karmāṇi ca api - also the feast of works

तनुते - tanute - spreadeth

सर्वे देवाः - sarve devāḥ - all the gods

विज्ञानम् - vijñānam - to him (to Knowledge)

ज्येष्ठम् - jyeṣṭham - the Elder of the Universe

ब्रह्म इति - brahma iti - as to Brahman

उपासते - upāsate - offer adoration

यः कश्चित् - yaḥ kaścit - For if one

विज्ञानम् ब्रह्म वेद चेत् - vijñānam brahma veda cet - worship Brahman as the knowledge

तस्मात् - tasmāt - from it

न प्रमाद्यति - na pramādyati - swerve not, neither falter

चेत् - cet - if

सः - saḥ - he

शरीरे - śarīre - in this body

पाप्मनः हित्वा - pāpmanaḥ hitvā - casteth sin (from him)

सर्वान् कामान् - sarvān kāmān - all desire

समश्नुते इति - samaśnute iti - tasteth

तस्य पूर्वस्य यः शरीरः आत्मा - tasya pūrvasya yaḥ śarīraḥ ātmā - the soul in the body to the former one which was of Mind

सः एषः एव - saḥ eṣaḥ eva - this Self of Knowledge is

तस्मात् वै - tasmāt vai - Now there is yet

एतस्मात् विज्ञानमयात् अन्यः अन्तरः - etasmāt vijñānamayāt anyaḥ antaraḥ - a second and inner self which is other than this which is of Knowledge

आनन्तमयः - ānantamayaḥ - fashioned out of Bliss

तेन - tena - (by) the Self of Bliss

एषः - eṣaḥ - the Self of Knowledge

पूर्णः - pūrṇaḥ - filleth

सः वै - saḥ vai - Now the Self of Mind

एषः पुरुषविधः एव - eṣaḥ puruṣavidhaḥ eva - is made in the image of a man

तस्य पुरुसविधताम् - tasya purusavidhatām - according as is the human image of the other

अनु अयम् पुरुषविद्घः - anu ayam puruṣavidghaḥ - so is it in the image of the man

प्रियम् - priyam - Love

एव तस्य शिरः - eva tasya śiraḥ - is the head of Him

मोदः - modaḥ - Joy

तस्य - tasya - His

दक्षिणः पक्षः - dakṣiṇaḥ pakṣaḥ - right side

प्रमोदः - pramodaḥ - pleasure

तस्य - tasya - His

उत्तरः पक्षः - uttaraḥ pakṣaḥ - left side

आनन्दः - ānandaḥ - Bliss

तस्य आत्मा - tasya ātmā - spirit which is the self of Him

ब्रह्म - brahma - the Eternal

तस्य पुच्छम् च - tasya puccham ca - is His lower member

प्रतिष्ठा च - pratiṣṭhā ca - wherein He resteth abidingly

तद् अपि - tad api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture


तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

षष्ठोऽनुवाकः

असन्नेव स भवति। असद् ब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुरिति।तस्यैष एव शारीर आत्मा। यः पूर्वस्य। अथातोऽनुप्रश्नाः। उताविद्वानमुं लोकं प्रेत्य।कश्चन गच्छती३ उ। आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता ३ उ। सोऽकामयत।बहु स्यां प्रजायेयेति। स तपोऽतप्यत। स तपस्तप्त्वा।इदं सर्वमसृजत। यदिदं किञ्च। तत् सृष्ट्वा तदेवानुप्राविशत्‌। तदनुप्रविश्य। सच्च त्यच्चाभवत्। निरुक्तं चानिरुक्तं च। निलयनं चानिलयनं च।विज्ञानं चाविज्ञानं च। सत्यं चानृतं च सत्यमभवत्‌।यदिदं किं च। तत्सत्यमित्याचक्षते।तदप्येष श्लोको भवति॥

॥ लिप्यन्तरणम् ॥

asanneva sa bhavati | asad brahmeti veda cet| asti brahmeti cedveda | santamenaṁ tato viduriti |tasyaiṣa eva śārīra ātmā | yaḥ pūrvasya| athāto'nupraśnāḥ | utāvidvānamuṁ lokaṁ pretya kaścana gacchatī3 u| āho vidvānamuṁ lokaṁ pretya kaścitsamaśnutā 3 u | so'kāmayata |bahu syāṁ prajāyeyeti | sa tapo'tapyata | sa tapastaptvā |idaṁ sarvamasṛjata | yadidaṁ kiñca | tat sṛṣṭvā tadevānuprāviśat | tadanupraviśya | sacca tyaccābhavat| niruktaṁ cāniruktaṁ ca | nilayanaṁ cānilayanaṁ ca |vijñānaṁ cāvijñānaṁ ca | satyaṁ cānṛtaṁ ca satyamabhavat |yadidaṁ kiṁ ca| tatsatyamityācakṣate |tadapyeṣa śloko bhavati||

॥ अन्वयः ॥

ब्रह्म असत् इति वेद चेत् सः असन् एव भवति ब्रह्म अस्ति इति वेद चेत् ततः एनं सन्तं विदुः इति। तस्य पूर्वस्य यः शरीरः आत्मा सः एषः एव। अथ अतः अनुप्रश्नाः उत कः चन अविद्वान् प्रेत्य अमुं लोकं गच्छति आहो कः चित् विद्वान् प्रेत्य अमुं लोकं समश्नुते उ बहु स्याम् प्रजायेय - इति सः अकामयत।सः तपः तप्त्वा इदं सर्वम् असृजत - यत् इदं किंच। तत् स्पृष्ट्वा तत् एव अनुप्राविशत्। तत् अनुप्रविश्य सत् च त्यत् च अभवत् सः निरुक्तं च अनिरुक्तं च निलयनं च अनिलयनं च विज्ञानं च अविज्ञानं च सत्यं च अनृतं च अभवत् । यत् इदं किं च सत्यम् अभवत् तत् सत्यम् इति आचक्षते। तत् अपि एषः श्लोकः भवति।

॥ अन्वयलिप्यन्तरणम् ॥

brahma asat iti veda cet saḥ asan eva bhavati brahma asti iti veda cet tataḥ enaṁ santaṁ viduḥ iti| tasya pūrvasya yaḥ śarīraḥ ātmā ( saḥ ) eṣaḥ eva| atha ataḥ anupraśnāḥ uta kaḥ cana avidvān pretya amuṁ lokaṁ gacchati āho kaḥ cit vidvān pretya amuṁ lokaṁ samaśnute u bahu syām prajāyeya - iti saḥ akāmayata |saḥ tapaḥ taptvā idaṁ sarvam asṛjata - yat idaṁ kiṁca| tat spṛṣṭvāā tat eva anuprāviśat| tat anupraviśya sat ca tyat ca abhavat ( saḥ ) niruktaṁ ca aniruktaṁ ca nilayanaṁ ca anilayanaṁ ca vijñānaṁ ca avijñānaṁ ca satyaṁ ca anṛtaṁ ca ( abhavat )| yat idaṁ kiṁ ca satyam abhavat tat satyam iti ācakṣate| tat api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

षष्ठोऽनुवाकः

[ ब्रह्मप्रतिपादनम् ]

असन्नेव स भवति असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुरिति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्रश्नाः । उता विद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ आहो विद्वानमुं लोकं प्रेत्य कश्चन समश्नुता३ उ । सोऽकामयत बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा इदं सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य सच्च त्यच्चाभवत् । निरुक्तंचानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किञ्च । तत्सत्यमित्याचक्षते । तदप्येष श्लोको भवति ॥

असन्नेवेति आनन्दमयस्यैवेयं स्तुतिः, आनन्दमयादनन्यदेव हि ब्रह्म । एतेन पुच्छस्यैवेवं स्तुतिः पुच्छमेव तु ब्रह्मेत्येतदपास्तम् । अन्नमयादिपर्यायेषु अन्नमयादिरेव स्तूयते न पुच्छं शिरो वा, तदवयवस्तुतिरिति प्रकरणाननुगुणम् । ब्रह्म नास्तीति चेद्वेद, ब्रह्म वेदेति यत् तन्नास्ति चेदिति वा । स पुरुषः असन्नेव भवति - अहमयमस्मीति व्यवहरन्नप्यसत्कल्प एव सः, स ह्यर्थविधुरः, योऽर्थविधुरः स सन्नेव । सतो ह्यर्थान्वयो लक्षणम् । अस्ति ब्रह्मेति चेद्वेद सन्तमेनं तत्त्वदर्शिनो विदुः । ब्रह्मवेदनात्सत्ता तदवेदनादसत्तेत्येतत् । तस्यैष एवेति आत्मान्तरास्तित्वशङ्का व्यावर्त्यते । सोऽयमानन्दमय अनन्यात्मेति यावत् । ब्रह्मविदाप्नोति पर' मित्यत्र प्रस्तुतस्य ब्रह्मणः स्वरूपं निरूपितम्, अथ आप्नोतीत्यनेन विवक्षितां प्राप्तिं विशदीकर्तुं प्रवर्तते - अथात इत्यादिना । अथ आनन्दमयं परं ब्रह्मेत्येतन्निरूपणानन्तरम्, । अतः आप्नोतीति पूर्वमाप्तेः प्रस्तुतत्वादेव अनुप्रश्ना भवन्ति । प्रश्नरूपमाह - उतेत्यादिना । उता इति दीर्घश्छान्दसः । विद्वान् - ब्रह्मोपासकः प्रेत्य अमुं लोकं परमं व्योम गच्छती, प्लुतः प्रश्नव्यञ्जकः । उत न गच्छति इहैव ब्रह्माप्नोति ? इत्यर्थात्प्रश्नान्तरं गम्यते । अयमपरः प्रश्नः आहो विद्वानमुं लोकं प्राप्याश्रुते कामान् ? उत नाश्रुते, ब्रह्मणा सहैकीभवति ? इत्यार्थिकोऽनुप्रश्नः। प्रश्नमिमं प्रतिवक्तुमारभते - सोऽकामयतेत्यादिना । विद्वानमुं लोकं प्राप्य निरतिशयानन्तकल्याणगुणविशिष्टं ब्रह्मानुभवतीति प्रतिवचनं प्रतिपिपादयिषितम्, जगत्स्रष्टृत्वोपपादनमुखेन तु कल्याणगुणयोगो निरूपणीय: । तदुपपाद्यते सोऽकामयतेत्यादिना । एतेन निर्विशेषब्रह्मात्मभावो नैःश्रेयसमित्यपास्तम् । परमकारणं हि परं ब्रह्म, तच्च सत्यसङ्कल्पत्वसर्वात्मताद्यनेकगुणविशिष्टम् । सः आत्मा सर्वान्तर आनन्दमय: अकामयत, किमिति ?, बहु स्यां प्रजायेयेति । एतेन चेतनानधिष्ठितजडप्रकृतिकत्ववादः चेतनाधिष्ठितजडप्रकृतिकत्ववादः निमित्तोपादानानन्यत्वप्रतिषेधपक्षश्च व्युदस्तः । कामनाश्रवणमात्रात् नायं संसरणधर्मेव, संसरन् पुरुषो ह्यनाप्तकामः कामयते केवलम्, कामनया च नियन्त्रितः खिद्यते च, अयं च स्वतन्त्रः कामयते लीलायै, यथाकामं सृजति च । ईष्टे ह्येषः । स एषः देवादिरूपेण बहु स्याम्, प्रजायेय चाकाशादिरूपेणेत्यकामयत । यद्वा - बहु स्यामित्येतदेव बहु प्रजायेयेत्यनेन व्याख्यायते । एतेन - बहुभवनं न बौद्धमाभासमात्रं न वा नभस इवौपाधिकम्, किन्तु वास्तवम्, बहुधा प्रजननादिति गम्यते । असत्यप्यर्थतत्त्वे अवभासमात्रमिति तु बौद्धाः, 'बहिर्वदवभासते' इति । प्रजननमप्याभासमात्रमिति तु तदनुगामिनः । तथा च प्राप्तम् - न बह्विव स्यामिति सङ्कल्पः, किन्तु बहु स्यामेवेति । अयमाशयः प्रजायेयेत्यनेन प्रकाशितो भवति । न चाविकृतस्य प्रजननमनुपपन्नम् । नामरूपविभागापत्तिमात्रं हि प्रजननम् । तद्विभागापत्तिश्च स्वतनुद्वारेणेति न स्वरूपे विकारप्रसङ्गः । कृतबहुभवनसङ्कल्पः सः तपोऽतप्यत - तप आलोचने, पर्यालोचनमकरोत्, जगद्रचनाप्रकारपर्यालोचनमकरोत् । स तपस्तप्त्वा पर्यालोच्य देवादिविषमभावापन्नमिदं सर्वं यथाकर्म असृजत । यदिदं किञ्च नैकमप्यत्र तत्सृष्ट्यगोचरमस्तीत्येतत् । तत् सृष्ट्वा तदेवानुप्राविशत् । ननु सर्वदा सर्वत्र व्याप्तस्य कोऽयमनुप्रवेशः ?, पुष्कलाभिव्यक्त्यर्हः स्थितिविशेषोऽयम् । उक्तं चोपनिषत्प्रकाशिकायाम् ‘गोजठरगतवत्सवत् सर्वव्याप्तस्य ब्रह्मणः प्रत्येकं सर्ववस्तुषु पुष्कलाभिव्यक्त्यर्हः स्थितिविशेष एवानुप्रवेशः' इति । अयमेव स्थितिविशेष: 'यो वेद निहितं गुहायाम्' इति पूर्वं हृदयगुहानिहितत्वलक्षण: प्रतिपादितः । तदनुप्रविश्य सच्च त्यच्चाभवत् - सततैकरूपश्चेतनः सदित्युच्यते, पूर्वपूर्वावस्थापरित्यागेन परिणामस्वभावमचेतनं त्यदित्युच्यते, चेतनाचेतनयोरनुप्रवेशेन तत्तद्रूपोऽभूत्, तत्तन्नामरूपभागभूदिति यावत् । परस्यैव ब्रह्मणः सृज्य - वस्त्वनुप्रवेशमूलकं सृज्यतत्तन्नामरूपभाक्त्वं भवतीति यावत् । सोऽयमानन्दमयः परमात्मा बहु स्यामिति सङ्कल्प्य यथासङ्कल्पं सर्वमिदं सृष्ट्वा तत्र तत्रानुप्रविश्य तत्तद्रूपो भूत्वा स्वयं बहुरूपोऽभवत् । अनेनोपादानोपादेयभाव: परब्रह्मणो निरूपितः । सर्वभावेऽपि परस्य ब्रह्मणो न विकृततेत्याह निरुक्तं चानिरुक्तं चेत्यादिना । जातिगुणादिभिर्यन्निरुच्यते तन्निरुक्तमचेतनमाकाशादि, यतैर्निर्वक्तुमशक्यं तदनिरुक्तं चेतनजातम्, तदेव चेतनाचेतनजातं प्रकारान्तरेण निर्दिश्यते निलयनं चानिलयं च विज्ञानं चाविज्ञानं चेति । चेतनतत्त्वमचेतनाधारत्वात् निलयनमुच्यते, निलयनादन्यदाधेयभूतमचेतनजातमनिलयनमुच्यते, विज्ञानस्वाभाव्याद्विज्ञानं चेतनः, ततोऽन्यदविज्ञानमचेतनजातम्, सततैकरूपतया चेतनजातं सत्यम्, विकारास्पदतयाऽचेतनजातमनृतमुच्यते । परं ब्रह्म चेतनाचेतनयोरनुप्रवेशेन अनिरुक्तादिलक्षणचेतनजातं निरुक्तत्वादिलक्षणाचेतनजातं भवदपि स्वयं सत्यमेव अविकृतमेवाभवत् । अत एव ब्रह्मस्वरूपयाथात्म्यविदः यदिदं किञ्च आकाशादिभूतजातं देवमनुष्यादिप्राणिजातं वा सर्वं तत् सत्यमित्याचक्षते - शास्त्रदृष्ट्या ब्रह्मेत्येवाचक्षते । तत् - तस्मिन्नेवार्थे, ब्रह्मैव बहुधा प्रविभक्तमित्यस्मिन्नर्थे एष - वक्ष्यमाणः श्लोको भवति । 

॥ इति षष्ठोऽनुवाकः ॥

॥ आङ्गल-अर्थः ॥

One becometh as the unexisting, if he knows the Eternal as negation; but if one knoweth of the Eternal that He is, then men know him for the saint & the one reality. And this Self of Bliss is the soul in the body to the former one which was of Knowledge. And thereupon there arise these questions. “When one who hath not the Knowledge, passeth over to that other world, doth any such travel farther? Or when one who knoweth, hath passed over to the other world, doth any such enjoy possession?” The Spirit desired of old “I would be manifold for the birth of peoples.” Therefore He concentrated all Himself in thought, and by the force of His brooding He created all this universe, yea all whatsoever existeth. Now when He had brought it forth, He entered into that He had created, He entering in became the Is here and the May Be there; He became that which is defined and that which hath no feature; He became this hous`ed thing and that houseless; He became Knowledge and He became Ignorance; He became Truth and He became falsehood. Yea He became all truth, even whatsoever here existeth. Therefore they say of Him that He is Truth. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

यदि कोई 'ब्रह्म' को 'असत्' रूप समझता है तो वह स्वयं असत् समान (अस्तित्वहीन) बन जाता है; किन्तु यदि वह 'ब्रह्म' को इस रूप में जानता है कि वह है, तो लोग उसे सन्त की तरह जानते हैं तथा वह उनके लिए एक यथार्थ सत्य है। और यह 'आनन्दात्मा' 'विज्ञानमय आत्मा' के लिए शरीर में आत्मा-सदृश है। और इसके विषय में ये प्रश्न उठते हैं-''जब कोई इस 'ज्ञान' के बिना इस लोक से अन्य लोक में प्रयाण करता है तो क्या ऐसा व्यक्ति उससे भी आगे यात्रा करता है? अथवा ऐसा कोई व्यक्ति जो विद्वान् है, जब इस लोक से अन्य लोक में प्रयाण करता है तो क्या वह प्रभुत्व का आनन्दभोग करता है?" 'परमात्म तत्त्व' ने आदिकाल में कामना की ''मैं अपनी प्रजा के जन्म के हेतु बहुरूप हो जाऊँ।" अतः 'उसने' 'स्वयं' को पूर्णतया चिन्तन में एकाग्र किया, तथा 'अपने' चिन्तन की शक्ति से, अपने तप से 'उसने' इस समस्त विश्व की सृष्टि की, हाँ, जो कुछ भी विद्यमान है, उसको रचा। और फिर जब 'उसने' यह रच डाला तो जो 'उसने' रचा उसी में 'वह ' प्रवेश कर गया, तथा प्रविष्ट होकर यहाँ 'है' (सत्) बन गया वहाँ 'सम्भाव्य' (त्यच्) बन गया; 'वह' 'निरुक्त' (निर्वचनीय) तथा 'अनिरुक्त' (अनिर्वचनीय) बन गया; 'वह' 'निलयन' अर्थात् आवासभूत तत्त्व तथा 'अनिलयन' अर्थात् आवासरहित तत्त्व बन गया; वही 'ज्ञान' बन गया तथा 'वही' 'अज्ञान' बन गया; 'वही' 'सत्य' बन गया तथा 'वही' अनृतं अर्थात् असत्य बन गया। सम्पूर्ण सत्य 'वही' बन गया, जो कुछ भी यहाँ विद्यमान है वह सब कुछ 'वही' बन गया। इसीलिए 'उसके' विषय में कहा जाता है कि 'वह' 'सत्य-स्वरूप' है। जिसके सम्बन्ध में श्रुति का यह वचन है।

शब्दावली

ब्रह्म असत् - brahma asat - the Eternal as negation

इति वेद चेत् - iti veda cet - if he knows

सः - saḥ - One

असन् - asan - the unexisting

एव भवति - eva bhavati - becometh as

ब्रह्म अस्ति इति वेद चेत् - brahma asti iti veda cet - but if one knoweth of the Eternal that He is

ततः - tataḥ - then

एनम् सन्तम् विदुः इति - enam santam viduḥ iti - men know him for the saint & the one reality

तस्य पूर्वस्य - tasya pūrvasya - the former one which was of Knowledge

यः शरीरः आत्मा - yaḥ śarīraḥ ātmā - the soul in the body

सः एषः एव - saḥ eṣaḥ eva - this Self of Bliss is

अथ अतः - atha ataḥ - And thereupon

अनुप्रश्नाः उत - anupraśnāḥ uta - there arise these questions

कः - kaḥ - one

चन - cana - When

अविद्वान् - avidvān - who hath not the Knowledge

प्रेत्य गच्छति - pretya gacchati - passeth over

अमुम् लोकम् - amum lokam - to that other world

आहो - āho - Or when

कः चित् विद्वान् - kaḥ cit vidvān - one who knoweth

अमुम् लोकम् प्रेत्य - amum lokam pretya - hath passed over to the other world

समश्नुते उ - samaśnute u - doth any such enjoy possession?

बहु स्याम् - bahu syām - I would be manifold

प्रजायेय इति - prajāyeya iti - for the birth of peoples

सः - saḥ - The Spirit

अकामयत - akāmayata - desired of old

सः तपः तप्त्वा - saḥ tapaḥ taptvā - by the force of His brooding

इदम् सर्वम् - idam sarvam - all this universe

असृजत - asṛjata - He created

यत् इदम् किंच - yat idam kiṁca - all whatsoever existeth

तत् स्पृष्ट्वा - tat spṛṣṭvāā - Now when He had brought it forth ?

तत् एव अनुप्राविशत् - tat eva anuprāviśat - He entered into that He had created

तत् अनुप्रविश्य - tat anupraviśya - He entering in

सत् च - sat ca - the 'Is' here

त्यत् च - tyat ca - the 'May Be' there

अभवत् - abhavat - became

सः - saḥ - He

निरुक्तम् च - niruktam ca - that which is defined

अनिरुक्तम् च - aniruktam ca - that which hath no feature

निलयनम् च - nilayanam ca - this housed thing

अनिलयनम् च - anilayanam ca - that houseless

विज्ञानम् च - vijñānam ca - Knowledge

अविज्ञानम् च - avijñānam ca - Ignorance

सत्यम् च - satyam ca - Truth

अनृतं च - anṛtaṁ ca - falsehood

अभवत् - abhavat - became

यत् इदम् किम् च - yat idam kim ca - even whatsoever here existeth

सत्यम् अभवत् - satyam abhavat - He became all truth

तत् - tat - Therefore

सत्यम् इति आचक्षते - satyam iti ācakṣate - they say of Him that He is Truth

तत् अपि - tat api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture


तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

सप्तमोऽनुवाकः

असद् वा इदमग्र आसीत्‌। ततो वै सदजायत।तदात्मानं स्वयमकुरुत।तस्मात् तत्सुकृतमुच्यत इति।यद्वै तत्सुकृतम्‌। रसो वै सः। रसं ह्येवायं लब्ध्वानन्दी भवति। को ह्येवान्यात् कः प्राण्यात्‌। यदेष आकाश आनन्दो न स्यात्‌।एष ह्येवानन्द याति।यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते। अथ सोऽभयं गतो भवति।यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते।थ तस्य भयं भवति। तत्वेव भयं विदुषो मन्वानस्य।तदप्येष श्लोको भवति॥

लिप्यन्तरणम्

asad vā idamagra āsīt | tato vai sadajāyata |tadātmānaṁ svayamakuruta |tasmāt tatsukṛtamucyata iti |yadvai tatsukṛtam | raso vai saḥ| rasaṁ hyevāyaṁ labdhvānandī bhavati | ko hyevānyāt kaḥ prāṇyāt | yadeṣa ākāśa ānando na syāt |eṣa hyevānanda yāti |yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṁ pratiṣṭhāṁ vindate | atha so'bhayaṁ gato bhavati |yadā hyevaiṣa etasminnudaramantaraṁ kurute |tha tasya bhayaṁ bhavati | tatveva bhayaṁ viduṣo manvānasya |tadapyeṣa śloko bhavati||

अन्वयः

अग्रे असत् वै इदम् आसीत् ततः वै सत् अजायत। तत् आत्मानं स्वयम् अकुरुत। तस्मात् तत् सुकृतम् उच्यते इति यत् वै तत् सुकृतम्। सः वै रसः। अयं रसं हि लब्ध्वा आनन्दी। भवति। कः हि एव अन्यात् कः प्राण्यात् यत् एषः आनन्दः आकाशे न स्यात् एषः हि एव आनन्दायाति। एषः यदा हि एव अदृश्ये अनात्म्ये अनिरुक्ते अनिलयने अभयं प्रतिष्ठां विन्दते अथ सः अभयं गतः भवति। यदा हि एव एषः एतस्मिन् उ दरम् अन्तरं कुरुते अथ तस्य भयं भवति तत् तु एव अमन्वानस्य विदुष्सः भयम्। तत् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

agre asat vai idam āsīt tataḥ vai sat ajāyata| tat ātmānaṁ svayam akuruta| tasmāt tat sukṛtam ucyate iti yat vai tat sukṛtam| saḥ vai rasaḥ| ayaṁ rasaṁ hi labdhvā ānandī| bhavati| kaḥ hi eva anyāt kaḥ prāṇyāt yat eṣaḥ ānandaḥ ākāśe na syāt eṣaḥ hi eva ānandāyāti| eṣaḥ yadā hi eva adṛśye anātmye anirukte anilayane abhayaṁ pratiṣṭhāṁ vindate atha saḥ abhayaṁ gataḥ bhavati | yadā hi eva eṣaḥ etasmin u daram antaraṁ kurute atha tasya bhayaṁ bhavati tat tu eva amanvānasya viduṣsaḥ bhayam| tat api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

सप्तमोऽनुवाकः

[ अभयप्रतिष्ठा ]

असत्कार्यवादव्यावर्तनमुखेन सत्कार्यवादं प्रकाशयन् एकस्यैवावस्थाभेदेनोपादानोपादेय- भावं च ज्ञापयन् ब्रह्मणो जगदुपादानतां निरूपयति असद्वेति ।

असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वैतत्सुकृतं रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते ऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति । तत्त्वेव भयं विदुषो मन्वानस्य । तदप्येष श्लोको भवति ॥

अग्रे - सृष्टेः प्राक् आसीत्, न हि विना हेतुं कार्यं स्यात् । किं तदाऽऽसीत् ?, इदम् आसीत्, सृष्टेः प्राक् इदमासीदिति व्याहतम् । नैतत् । असदासीत् इदंशब्दाभिप्रेतनामरूप- विभागरहितमासीत् । एतेन असदासीदिति व्याहतमिति शङ्काया नावकाशः, न ह्यसदित्यनेनात्यन्तासत्ता विवक्षिता । ततो वै सदजायत नामरूपविभागावस्थरहितादत एव सूक्ष्मात् तस्मात् इदं सत् नामरूपप्रविभक्तमजायत । न चान्य आसीदसतः सद्भावापादकः, तदेवात्मानमसद्रूपेणावस्थितं स्वयं विभक्तनामरूपमकुरुत । नामरूपविभागापन्नस्थूलचिद- चिच्छरीरकमिदं ब्रह्म प्राक् नामरूपविभागरहितसूक्ष्मचेतना - चेतनशरीरकमासीत्, तदेव स्वयं स्वात्मानं सदकुरुत, नामरूपविभागापन्नस्थूलचिद- चिच्छरीरकमकुरुतेति भावः । ननु कथमयं भावो गम्यते । प्रकरणात् । प्रकरणं हि ब्रह्मण उपादानतानिरूपणे प्रवर्तते । तत् इदमित्यनेन ब्रह्मणोऽनन्यदेव ग्राह्यम्; दृश्यमानप्रपञ्चमात्रपरिग्रहे आनुमानिकप्रधानारभ्यजगद्वाद: कापिलः प्रोक्तः स्यात् । तथा सत्यौपनिषदः पक्ष एव समुल्लङ्घितः स्यात् तत् इदंशब्देन समुपलभ्यमान- स्थूलचेतनाचेतनप्रपञ्चमुखेन ब्रह्म बोध्यते । गवादिशब्दैर्जात्यादिमुखेन व्यक्तिरिव । जात्यादिरिव जगत् ब्रह्मणोऽपृथक्सिद्धविशेषणम् । तस्मात् यस्मात् स्वयमेव स्वात्मानमकुरुत तस्मात् तत् ब्रह्म सुकृतम् - सुखेन कृतं कार्यं यस्य तथाभूतमुच्यते, अक्लिष्टकार्यं ब्रह्मेति यावत् । यत्रान्यदारम्भकमारब्धा चान्यः, तत्र कारणभेदेन कार्यस्य न सुखेन सिद्धिः, यत्र सर्वविधकारणभाव एकस्यैव, तत्र न कार्यसिद्धौ क्लेशः । इतिशब्दः श्लोकपरिसमाप्तौ । तस्यैवास्य परस्य ब्रह्मण उपास्यत्वं प्राप्यत्वं च निरूपयन्नाह - यद्वैतत्सुकृतमित्यादिना । यद्वैतत्सुकृतं ब्रह्म रसो वै सः, स ह्यानन्दस्वरूप आनन्दमयश्च । अयमुपासको रसं तमेव लब्ध्वा ह्यानन्दीभवति । तद्रसभूत आनन्दमयः स एवोपास्य: प्राप्यश्च। सकलफलप्रदश्च स एव, यद्येष आकाशः - प्रकाशमय आनन्दः - परमात्मा न स्यात् इह को वाऽन्यात् को वा प्राण्यात् अननलक्षणं लौकिकसुखयोगं प्राणनलक्षणमापवर्गिकसुखं च कः प्राप्नुयात्, अननप्राणनहेतु: स एवेत्यर्थः । यद्वा - अननं सामान्यतो जीवनम्, प्रकृष्टमननमपहतपाप्मत्वादिलक्षणस्वाभाविकरूपाभिनिष्पत्तिलक्षणम्, एतदुभयं परमात्मायत्तमिति । यद्वा - अन्यात् प्राण्यादिति क्रियाभेदग्रहणं प्राणापानादि- वृत्तिभेदोपलक्षकम्, यद्ययमानन्दमयोऽन्तरात्मतया न सन्निहितः स्यात् को वा प्राणापानादिवृत्ती: प्रवर्तयितुं प्रभवेत् । तथा चान्यत्र श्रूयते 'ऊर्ध्वं प्राणमुन्नयति अपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वेदेवा उपासते' (कठोपनिषद् - २.२.३) इति, इति भावः । एष एवानन्दं प्रापयति च । एष उपासकः यदा एतस्मिन् अदृश्ये चक्षुराद्यगोचरे अनात्म्ये - अशरीरे ( प्राकृतशरीररहिते) अत एवानिरुक्ते - नामजात्यादिनिरुक्तिशून्ये अनिलयने - अनाधारे आनन्दमये परब्रह्मणि अभयम् भयाभावाय प्रतिष्ठां निरन्तरस्मृतिलक्षणां विन्दते, अथ तस्योपासकस्य अभयम् - आत्यन्तिकी भयनिवृत्तिर्भवति । यदा उपासक एतस्मिन्नल्पमप्यन्तरम् - स्मृतिविच्छेदं पूर्वोक्तप्रतिष्ठाव्यवधानलक्षणं कुरुते अथ तस्य भयं भवति सांसारिकम् । न तस्य संसारभयनिवृत्तिरिति यावत् । प्रतिष्ठापदेन योऽर्थोऽवगम्यते तत्प्रतिद्वन्द्व्यर्थकेनैव ह्यन्तरपदेन भाव्यम्, प्रतिष्ठा च प्रकर्षेण निष्ठा, सा च निरन्तरस्मृतिलक्षणैव, तस्या विरोध्यन्तरं च स्मृतिविच्छेद एव, तदयमेवान्तरपदार्थ: समुचितः । अविदुषां साधारणमिदं सांसारिकभयम् । विदुषो मन्वानस्य - मननैकशीलस्य तु तत्त्वेव स्मृतिविच्छेद- लक्षणमन्तरमेव स्वतो भयम् । प्रमादतोऽपि स्मृतिविच्छेदे विच्छेदमेव ते भयं मन्यन्त इति भावः । तथा च वचनम् - ‘यन्मुहूर्तं क्षणं वाऽपि वासुदेवो न चिन्त्यते । सा हानिस्तन्महच्छिद्रं सा भ्रान्ति: सा च विक्रिया ॥' (गरुडपुराणम् - २२२.२२) इति । तत् - तस्मिन्नर्थे, आनन्दमयविषये इति यावत् । एषोऽपि श्लोको भवति ॥

इति सप्तमोऽनुवाकः

॥ आङ्गल-अर्थः ॥

In the beginning all this Universe was NonExistent and Unmanifest, from which this manifest Existence was born. Itself created itself; none other created it. Therefore they say of it the well and beautifully made. Lo this that iswell and beautifully made, verily it is no other than the delight behind existence. When he hath gotten him this delight, then it is that this creature becometh a thing of bliss; for who could labour to draw in the breath or who could have strength to breathe it out, if there were not that Bliss in the heaven of his heart, the ether within his being? It is He that is the fountain of bliss; for when the Spirit that is within us findeth his refuge and firm foundation in the Invisible Bodiless Undefinable and Unhoused Eternal, then he hath passed beyond the reach of Fear. But when the Spirit that is within us maketh for himself even a little difference in the Eternal, then he hath fear, yea the Eternal himself becometh a terror to such a knower who thinketh not. Whereof this is the Scripture.

॥ हिन्दी-अर्थः ॥

आरम्भ में यह सम्पूर्ण विश्व 'असत्' (अस्तित्वहीन) एवं 'अव्यक्त' था, इसी में से इस 'व्यक्त सत्ता' का प्रादुर्भाव हुआ। उसने अपना सृजन 'स्वयं' ही किया; अन्य किसी ने उसको नहीं सृजा। इसी कारण इसके सम्बन्ध में कहा जाता है यह 'सुकृत' अर्थात् बहुत सुचारु एवं सुन्दर रूप से रचा गया है। और यह जो बहुत अच्छी तरह तथा सुन्दरता से रचा गया है यह वस्तुतः अन्य कुछ नहीं, इस अस्तित्व के पीछे छिपा हुआ आनन्द, रस ही है। जब प्राणी इस आनन्द को, इस रस को प्राप्त कर लेता है तो वह स्वयं आनन्दमय बन जाता है; कारण, यदि उसकी सत्ता के हृदयाकाश में यह आनन्द न हो तो कौन है जो प्राणों को अन्दर ले पाने का श्रम कर पायेगा अथवा किसके पास प्राणों को बाहर छोड़ने की शक्ति होगी? 'यही' है जो आनन्द का स्रोत है; क्योंकि जब हमारी 'अन्तरात्मा' उस 'अदृश्य', 'अशरीरी' (अनात्म्य) अनिर्दशं (अनिरुक्त) एवं 'अनिलयन' 'ब्रह्म' में आश्रय ग्रहण करके दृढ़ रूप से 'उस' प्रतिष्ठित हो जाता है, तब वह 'भय' की पकड़ से बाहर हो जाता है। किन्तु जब हमारी 'अन्तरात्मा' स्वयं के लिए 'ब्रह्म ' में स्वल्पमात्र भी भेद करती है, तो वह भयभीत होता है; जो विद्वान् मननशील नहीं है, उसके लिए स्वयं 'ब्रह्म' ही एक भय बन जाता है। जिसके विषय में 'श्रुति' का यह वचन है।

शब्दावली

अग्रे - agre - in the beginning

असत् वै - asat vai - Non-Existent and Unmanifest

इदम् आसीत् - idam āsīt - all this Universe was

ततः वै - tataḥ vai - from which

सत् - sat - this manifest Existence

अजायत - ajāyata - was born

तत् - tat - that itself

आत्मानम् स्वयम् अकुरुत - ātmānam svayam akuruta - created itself (none other created it)

तस्मात् - tasmāt - therefore

तत् सुकृतम् - tat sukṛtam - the well and beautifully made

इति उच्यते - iti ucyate - they say of it

यत् वै - yat vai - this that is

तत् सुकृतम् - tat sukṛtam - is well and beautifully made

सः वै - saḥ vai - verily it is (no other than)

रसः - rasaḥ - the delight behind existence

अयम् रसम् - ayam rasam - this delight

हि लब्ध्वा - hi labdhvā - when he hath gotten

आनन्दी भवति - ānandī bhavati - a thing of bliss then it is that this creature becometh

कः हि एव अन्यात् - kaḥ hi eva anyāt - for who could labour to draw in the breath ?

कः प्राण्यात् - kaḥ prāṇyāt - who could have strength to breathe it out

यत् एषः आनन्दः - yat eṣaḥ ānandaḥ - that this Bliss

आकाशे - ākāśe - in the heaven of his heart

न स्यात् - na syāt - if there were not

एषः हि एव - eṣaḥ hi eva - it is He that

आनन्दायाति - ānandāyāti - is the fountain of bliss

एषः - eṣaḥ - he that is the fountain of bliss

यदा हि एव - yadā hi eva - for when

अदृश्ये - adṛśye - in the Invisible

अनात्म्ये - anātmye - in the Bodiless

अनिरुक्ते - anirukte - in the Undefinable

अनिलयने - anilayane - in the Unhoused Eternal

अभयम् प्रतिष्ठाम् - abhayam pratiṣṭhām - his refuge and firm foundation

विन्दते - vindate - findeth

अथ - atha - then

सः - saḥ - he

अभयम् गतः भवति - abhayam gataḥ bhavati - hath passed beyond the reach of Fear

यदा हि एव - yadā hi eva - but when

एषः - eṣaḥ - the Spirit

एतस्मिन् - etasmin - that is within us

उ दरम् अन्तरम् कुरुते - u daram antaram kurute - maketh for himself even a little difference in the Eternal

अथ - atha - then

तस्य भयम् भवति - tasya bhayam bhavati - he hath fear

तत् तु एव - tat tu eva - the Eternal himself

अमन्वानस्य - amanvānasya - a knower who thinketh not

विदुष्सः भयम् - viduṣsaḥ bhayam - becometh a terror ?

तत् अपि - tat api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture

तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

अष्टमोऽनुवाकः

भीषाऽस्माद्वातः पवते। भीषोदेति सूर्यः।भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चम इति।सैषाऽऽनन्दस्य मीमांसा भवति।युवा स्यात्साधुयुवाऽध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः। तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दाः। ते ये शतं मानुषा आनन्दाः। स एको मनुष्यगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य।ते ये शतं मनुष्यगन्धर्वाणामानन्दाः।स एको देवगन्धर्वाणामानन्दः। श्रोत्रियस्य चाकामहतस्य।ते ये शतं देवगन्धर्वाणामानन्दाः।स एकः पितृणां चिरलोकलोकानामानन्दः।श्रोत्रियस्य चाकामहतस्य। ते ये शतं पितृणां चिरलोकलोकानामानन्दाः।स एकः आजानजानां देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य।ते ये शतम् आजानजानां देवानामानन्दाः।स एकः कर्मदेवानां देवानामानन्दः। ये कर्मणा देवानपियन्ति। श्रोत्रियस्य चाकामहतस्य।ते ये शतं कर्मदेवानां देवानामानन्दाः। स एको देवानामानन्दः। श्रोत्रियस्य चाकामहतस्य।ते ये शतं देवानामानन्दाः। स एक इन्द्रस्यानन्दः। श्रोत्रियस्य चाकामहतस्य। ते ये शतमिन्द्रस्यानन्दाः।स एको बृहस्पतेरानन्दः। श्रोत्रियस्य चाकामहतस्य।ते ये शतं बृहस्पतेरानन्दाः। स एकः प्रजापतेरानन्दः।श्रोत्रियस्य चाकामहतस्य। ते ये शतं प्रजापतेरानन्दाः।स एको ब्रह्मण आनन्दः। श्रोत्रियस्य चाकामहतस्य॥ स यश्चायं पुरुषे। यश्चासावादित्ये। स एकः।स य एवंवित्‌। अस्माल्लोकात्प्रेत्य। एतमन्नमयमात्मानमुपसङ्क्रामति।एतं प्राणमयमात्मानमुपसङ्क्रामति। एतं मनोमयमात्मानमुपसङ्क्रामति।एतं विज्ञानमयमात्मानमुपसङ्क्रामति। एतमानन्दमयमात्मानमुपसङ्क्रामति।तदप्येष श्लोको भवति॥

लिप्यन्तरणम्

bhīṣā'smādvātaḥ pavate | bhīṣodeti sūryaḥ |bhīṣā'smādagniścendraśca | mṛtyurdhāvati pañcama iti |saiṣā''nandasya mīmāṁsā bhavati |yuvā syātsādhuyuvā'dhyāyakaḥ| āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ | tasyeyaṁ pṛthivī sarvā vittasya pūrṇā syāt| sa eko mānuṣa ānandāḥ | te ye śataṁ mānuṣā ānandāḥ| sa eko manuṣyagandharvāṇāmānandaḥ | śrotriyasya cākāmahatasya |te ye śataṁ manuṣyagandharvāṇāmānandāḥ |sa eko devagandharvāṇāmānandaḥ | śrotriyasya cākāmahatasya |te ye śataṁ devagandharvāṇāmānandāḥ |sa ekaḥ pitṛṇāṁ ciralokalokānāmānandaḥ |śrotriyasya cākāmahatasya | te ye śataṁ pitṛṇāṁ ciralokalokānāmānandāḥ |sa ekaḥ ājānajānāṁ devānāmānandaḥ| śrotriyasya cākāmahatasya |te ye śatam ājānajānāṁ devānāmānandāḥ |sa ekaḥ karmadevānāṁ devānāmānandaḥ | ye karmaṇā devānapiyanti | śrotriyasya cākāmahatasya |te ye śataṁ karmadevānāṁ devānāmānandāḥ | sa eko devānāmānandaḥ | śrotriyasya cākāmahatasya |te ye śataṁ devānāmānandāḥ | sa eka indrasyānandaḥ| śrotriyasya cākāmahatasya | te ye śatamindrasyānandāḥ |sa eko bṛhaspaterānandaḥ | śrotriyasya cākāmahatasya |te ye śataṁ bṛhaspaterānandāḥ | sa ekaḥ prajāpaterānandaḥ |śrotriyasya cākāmahatasya | te ye śataṁ prajāpaterānandāḥ |sa eko brahmaṇa ānandaḥ | śrotriyasya cākāmahatasya|| sa yaścāyaṁ puruṣe | yaścāsāvāditye |sa ekaḥ |sa ya evaṁvit | asmāllokātpretya | etamannamayamātmānamupasaṅkrāmati |etaṁ prāṇamayamātmānamupasaṅkrāmati | etaṁ manomayamātmānamupasaṅkrāmati |etaṁ vijñānamayamātmānamupasaṅkrāmati | etamānandamayamātmānamupasaṅkrāmati |tadapyeṣa śloko bhavati||

अन्वयः

अस्मात् भीषा वातः पवते अस्मात् भीषा सूर्यः उदेति अस्मात् भीषा अग्निः च इन्द्रः च पञ्चमः मृत्युः च धावति इति। सा एसा आनन्दस्य मीमांसा भवति आशिष्ठः द्रढिष्थः बलिष्ठः अध्यायकः साधु युवा। युवा स्यात् वित्तस्य पूर्णा इयं सर्वा पृथिवी तस्य स्यात् सः एकः मानुषः आनन्दः। ते ये शतं मानुषाः आनन्दाः सः मनुष्य -गन्धर्वाणाम् एकः आनन्दः। अकाम -हतस्य श्रोत्रियस्य च। ते ये शतं मनुष्य - गन्धर्वाणाम् आनन्दाः सः देवगन्धर्वाणां एकः आनन्दः ते ये शतं देवगन्धर्वाणाम् आनन्दाः सः चिरलोक लोकानां पितृणां एकः आनन्दः ते ये शतं चिरलोकलोकानां पितृणाम् आनन्दाः सः आजानजानां देवानाम् एकः आनदः ते ये शतं आजानजानां देवानां आनन्दाः सः कर्मदेवानां देवानांम् एकः आनन्दः ये कर्मणा अपि देवान् यन्ति। ते ये शतं कर्मदेवानां देवानाम् आनन्दाः सः देवानाम् एकः आनन्दः ते ये शतं देवानाम् आनन्दाः सः इन्द्रस्य एकः आनन्दः ते ये शतं इन्द्रस्य आनन्दाः सः बृहस्पतेः एकः आनदः ते ये शतं बृहस्पतेः आनन्दाः सः प्रजापतेः एकः आनन्दः ते ये शतं प्रजापतेः आनन्दः सः ब्रह्मणः एकः आनन्दः। सः च अयं पुरुषे यः आदित्ये असौ च यः सः एकः। यः एवं - वित् सः अस्मात् लोकात् प्रेत्य एतम् अन्नमयम् आत्मानम् उपसङ्क्रामति एतं प्राणमयम् आत्मानम् उपसङ्क्रामति एतं मनोमयम् आत्मानम् उपसङ्क्रामति एतं विज्ञानमयम् आत्मानम् उपसङ्क्रामति। तत् अपि एषः श्लोकः भवति।

अन्वयलिप्यन्तरणम्

asmāt bhīṣā vātaḥ pavate ( asmāt bhīṣā sūryaḥ udeti ) asmāt bhīṣā agniḥ ca indraḥ ca pañcamaḥ mṛtyuḥ ( ca ) dhāvati iti| sā esā ānandasya mīmāṁsā bhavati āśiṣṭhaḥ draḍhiṣthaḥ baliṣṭhaḥ adhyāyakaḥ sādhu yuvā| yuvā syāt vittasya pūrṇā iyaṁ sarvā pṛthivī tasya syāt saḥ ekaḥ mānuṣaḥ ānandaḥ | te ye śataṁ mānuṣāḥ ānandāḥ saḥ manuṣya -gandharvāṇām ekaḥ ānandaḥ | akāma -hatasya śrotriyasya ca| te ye śataṁ manuṣya - gandharvāṇām ānandāḥ saḥ devagandharvāṇāṁ ekaḥ ānandaḥ te ye śataṁ devagandharvāṇām ānandāḥ saḥ ciraloka lokānāṁ pitṛṇāṁ ekaḥ ānandaḥ te ye śataṁ ciralokalokānāṁ pitṛṇām ānandāḥ saḥ ājānajānāṁ devānām ekaḥ ānadaḥ te ye śataṁ ājānajānāṁ devānāṁ ānandāḥ saḥ karmadevānāṁ devānāṁm ekaḥ ānandaḥ ye karmaṇā api devān yanti| te ye śataṁ karmadevānāṁ devānām ānandāḥ saḥ devānām ekaḥ ānandaḥ te ye śataṁ devānām ānandāḥ saḥ indrasya ekaḥ ānandaḥ te ye śataṁ indrasya ānandāḥ saḥ bṛhaspateḥ ekaḥ ānadaḥ te ye śataṁ bṛhaspateḥ ānandāḥ saḥ prajāpateḥ ekaḥ ānandaḥ te ye śataṁ prajāpateḥ ānandaḥ saḥ brahmaṇaḥ ekaḥ ānandaḥ| saḥ ca ayaṁ puruṣe yaḥ āditye asau ca yaḥ saḥ ekaḥ| yaḥ evaṁ - vit saḥ asmāt lokāt pretya etam annamayam ātmānam upasaṅkrāmati etaṁ prāṇamayam ātmānam upasaṅkrāmati etaṁ manomayam ātmānam upasaṅkrāmati etaṁ vijñānamayam ātmānam upasaṅkrāmati| tat api eṣaḥ ślokaḥ bhavati|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

अष्टमोऽनुवाकः

[ आनन्दमीमांसा ]

उक्तं सर्वप्राणिप्राणनमानन्दमयायत्तमिति । न केवलं प्राणनमात्रमानन्दमयायत्तं किं तु पवनादिमहाभूतचेष्टितमादित्यादिग्रहपरिभ्रमणमिन्द्राद्यसाधारणलोकनिर्वहणादिव्यापारः मृत्योः संहरणव्यापारश्च सर्वमानन्दमयायत्तमित्यधुनोच्यते ।

भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति । सैषाऽऽनन्दस्य मीमांसा भवति । युवा स्यात् साधु युवाध्यापकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितॄणां चिरलोकलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्यानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्यानन्दाः । स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य । स यश्चायं पुरुषे यश्चासावादित्ये स एकः । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति । एतं प्राणमयमात्मानमुपसङ्क्रामति । एतं मनोमयमात्मानमुपसङ्क्रामति । एतं विज्ञानमयमात्मानमुपसङ्क्रमाति। एतमानन्दमयमात्मानमुपसङ्क्रामति । तदप्येष श्लोको भवति ॥

अस्मात् - आनन्दमयात्परब्रह्मण: भीषा - भीत्या वातः पवते । भीषा सूर्य: प्रत्यहं काले काल उदेति । अस्माद्भीत्या अग्निरिन्द्रश्च स्वस्वकार्यं निर्वहतः । पञ्चमो मृत्युरस्माद्भीत्या अतन्द्रितः स्वकार्ये धावति । इति आनन्दमयस्य परममैश्वर्यमुपवणितं भवति । आनन्दप्रचुरस्य परस्य ब्रह्मणः निरवधिकानन्दलक्षणम् आनन्दप्राचुर्यं गमयितुमानन्दस्य मीमांसा - विचारो भवति । स्वयं युवा स्यात् । यूनां च स्वयमध्यापकः स्यात् । एतेन सवयसामध्यापक- त्वमैश्वर्यमुक्तं भवति । साधु - सम्यक्स्वरवर्णादिभ्रंशरहितम् । अध्यापकः । आशिष्ठ: - अशनसमर्थः । अरोग इत्येतत् । द्रढिष्ठः - शारीरबलसम्पन्नः । बलिष्ठः - मानसबलसम्पन्नः । सर्वेयं पृथिवी वित्तपूर्णा तस्य स्यात् - तदधीना स्यात् । सम्राडित्येतत् । तस्य योऽयमानन्दः स एको मानुष आनन्दः । सोऽयं मानुषानन्दः श्रोत्रियस्य - श्रुतवेदान्तस्य ब्रह्मनिष्ठस्य अकामहतस्य - कामै: प्राकृतैरनुपहतस्य मुक्तस्य भवति । समुद्रे गोष्पदवत् ब्रह्मानन्दे निरवधौ मानुषानन्दोऽप्यन्तर्गत इत्येतत् । ते ये शतं मानुषा आनन्दाः स एकः मनुष्यगन्धर्वाणामानन्दः - मनुष्या एव सन्तस्तपोबलेन विद्याबलेन वाऽन्तर्धानादिशक्तिविशेषं प्राप्ताः मनुष्यगन्धर्वा उच्यन्ते । सोऽयं मनुष्यगन्धर्वानन्दः श्रोत्रियस्य चाकामहतस्य - अतिरोहितार्थमेतत् । ते ये शतमित्यादि - शतगुणितोत्तरक्रमेण देवगन्धर्वादीनामानन्दानभ्यस्य तेषां ब्रह्मानन्देऽन्तर्गततां प्रदर्श्य ब्रह्मानन्दस्य सर्वतः प्रकृष्टतां प्रदर्शयन्ती सेयमानन्दमीमांसाऽऽनन्दमयशब्दाभिप्रेतमानन्दप्राचुर्यं निगमयति । देवगन्धर्वाः - देवलोके निवसन्तो गन्धर्वाः । चिरकालस्थायी लोकश्चिरलोकः, स लोको येषां ते चिरलोकलोकाः । आजानो देवलोकः, तस्मिन् स्मार्तकर्मोपात्तैः सुकृतैः सञ्जाताः आजानजा देवाः । श्रौतकर्मोपात्तैः सुकृतैरग्नीन्द्रादिसायुज्यं प्राप्ताः कर्मदेवाः । देवा: - वसुरुद्रादयः । इन्द्रः प्रसिद्धः । तथा बृहस्पतिश्च । प्रजापतिश्चतुर्मुखः । ते ये शतं प्रजापतेरानन्दाः स एकः ब्रह्मण: - 'ब्रह्मविदाप्नोति पर 'मिति प्रस्तुतस्य परस्य ब्रह्मणः आनन्दः । न च एक इति निर्देशाद् ब्रह्मानन्दस्य परिच्छिन्नता । प्रजापत्यानन्दात्प्रकृष्टताज्ञापनमात्रे तात्पर्यात् । 'इषुवत्सविता गच्छतीति वचनस्य गतिमान्द्यनिवृत्तौ तात्पर्यवत् । तस्यास्य आनन्दमयस्य परस्य ब्रह्मणः उपासनास्थानविशेषं गमयन्ती श्रुतिरियं देवताविशेषतां व्यनक्ति - स यश्चायमित्यादिना । यश्चासावादित्ये - 'हिरण्यश्मश्रुर्हिरण्यकेशः आप्रणखात्सर्व एव सुवर्ण:' (छांदोग्योपनिषद् - १.६.६ ) इति श्रुतः, यश्चायं पुरुषे विज्ञानमयस्याप्यन्तरात्मतया हृदयगुहायां सन्निहितः स एकः - अभिन्नः । हृदयगुहावर्तितया तादृशदिव्यविग्रहविशिष्टत्वेन च ध्यानं कर्तव्यमित्येतत् । एवं प्राप्यत्वोपयुक्ता गुणा उपवर्णिताः । 'उताहो विद्वानमुं लोक' मित्यादिना पूर्वं प्रस्तुतानां प्रश्नानामुत्तरमाह - स य एवमित्यादिना । एवंवित्स उपासकः अस्माल्लोकात्प्रारब्धावसाने प्रेत्य अर्चिरादिना मार्गेण निर्गत: एतमन्नमयम् अन्नमयान्तर्यामिणम् एतं मनोमयं मनोमयान्तर्यामिणम्, एतं विज्ञानमयं विज्ञानमयान्तर्यामिणम् एतमानन्दमयमात्मानम् उपसङ्क्रामति - प्राप्नोति । अत्र प्रेत्य सङ्क्रामतीत्युक्त्या प्राप्तृप्राप्ययोर्भेदः देशविशेषगमनं चेति मुक्तौ विशेषो निरूपितो भवति । तस्मिन् मीमांसिते आनन्दप्राचुर्ये एष वक्ष्यमाणः श्लोको भवति ॥

इत्यष्टमोऽनुवाकः

आङ्गल-अर्थः ॥

Through the fear of Him the Wind bloweth; through the fear of Him the Sun riseth; through the fear of Him Indra and Agni and Death hasten in their courses. Behold this exposition of the Bliss to which ye shall hearken. Let there be a young man, excellent & lovely in his youth, a great student; let him have fair manners and a most firm heart and great strength of body, and let all this wide earth be full of wealth for his enjoying. That is the measure of bliss of one human being. Now a hundred and a hundredfold of the human measure of bliss, is one bliss of men that have become angels in heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of angelic bliss is one bliss of Gods that are angels in heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of divine angelic bliss is one bliss of the Fathers whose world of heaven is their world for ever. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of bliss of the Fathers whose worlds are for ever, is one bliss of the Gods who are born as Gods in heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of bliss of the firstborn in heaven, is one bliss of the Gods of work who are Gods, for by the strength of their deeds they depart and are Gods in heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of bliss of the Gods of work, is one bliss of the great Gods who are Gods for ever. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of divine bliss, is one bliss of Indra, the King in Heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of Indra's bliss is one bliss of Brihaspati, who taught the Gods in heaven. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of Brihaspati's bliss, is one bliss of Prajapati, the Almighty Father. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. A hundred and a hundredfold of this measure of Prajapati's bliss, is one bliss of the Eternal Spirit. And this is the bliss of the Vedawise whose soul the blight of desire not toucheth. The Spirit who is here in a man and the Spirit who is there in the Sun, it is one Spirit and there is no other. He who knoweth this, when he hath gone away from this world, passeth to this Self which is of food; he passeth to this Self which is of Prana; he passeth to this Self which is of Mind; he passeth to this Self which is of Knowledge; he passeth to this Self which is of Bliss. Whereof this is the Scripture.

हिन्दी-अर्थः ॥

'उसके' भय से ही वायु बहती है; 'उसके' भय से सूर्य उदित होता है; 'उसके' भय से इन्द्र, अग्नि तथा मृत्यु अपने कार्यों में वेगपूर्वक प्रवृत्त होते हैं। देखो यह आनन्द की मीमांसा है जिसे तुम सुनोगे। कोई नवयुवक हो, जो अपने यौवन के उत्तम रूप तथा माधुर्य से भरा हुआ हो, जो श्रेष्ठ अध्येता (विद्यार्थी) हो, उसका शिष्ट आचरण हो, दृढभावों वाला हृदय हो तथा बलिष्ठ शरीर हो तथा यह सम्पूर्ण विस्तृत वसुन्धरा उसके आनन्द भोग के लिए वित्तपूर्णा (धन-धान्यपूर्णा) हो। यह है एक मनुष्य के आनन्द का परिमाण। अब ऐसे सौ-सौ मानुष-आनन्द उन मनुष्यों के लिए एक आनन्द है जो स्वर्ग में गन्धर्व बन चुके हैं। यह है आनन्द वेदविद् (श्रोत्रिय) का, जिसकी आत्मा को काम का प्रहार छूता तक नहीं। ऐसे सौ-सौ मनुष्यगन्धर्व आनन्द के परिमाण से बना है स्वर्ग में रहने वाले गन्धर्वरूपी देवों का एक आनन्द (देवगन्धर्व आनन्द)। और, यह है आनन्द वेदविद् (श्रोत्रिय) का, जिसकी आत्मा को काम का प्रहार छूता तक नहीं। और ऐसे सौ-सौ देवगन्धर्व आनन्दों को मिलाने से बनता है उन 'पितरों' का एक आनन्द जिनका स्वर्ग लोक ही चिरलोक है। और यह है आनन्द वेदविद् (श्रोत्रिय) का, जिसकी आत्मा को काम का प्रहार छूता तक नहीं। और चिरलोकवासी पितरों के इस परिमाण वाले आनन्द के सौ-सौ आनन्दों के बराबर है उन देवों का एक आनन्द जो स्वर्ग में देवरूप में जन्म लेते हैं। और यह है आनन्द वेदविद् (श्रोत्रिय) का, जिसकी आत्मा को काम का प्रहार छूता तक नहीं। स्वर्गलोक में हीं आरम्भ से जन्में देवों के आनन्द का सौ-सौ गुने के बराबर है उन कर्मदेवों का एक आनन्द, जो अपने सत्कर्मों के बल से प्रयाण करके स्वर्ग में 'देव' बन गये हैं। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। कर्मदेवों के ऐसे सौ-सौ आनन्दों के बराबर है उन देवों का एक आनन्द जो महान् देव हैं तथा जो नित्य-चिरन्तन देव हैं। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। और देवों के इस दिव्य आनन्द के सो-सौ गुने के बराबर है स्वर्गपति इन्द्र का एक आनन्द। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। इन्द्र के इस आनन्द जैसे सौ-सौ आनन्दों के बराबर है स्वर्ग में देवों के गुरु बृहस्पति का एक आनन्द। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। बृहस्पति के सौ-सौ आनन्दों के बराबर है 'शक्तिशाली परमपिता' प्रजापति का एक आनन्द। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। प्रजापति के सौ-सौ आनन्दों के बराबर है 'ब्रह्म' (शाश्वत-परमात्म-तत्त्व) का एक आनन्द। और यह है आनन्द वेदविद् (श्रोत्रिय) का जिसकी आत्मा को काम का प्रहार छूता तक नहीं। 'परमात्मतत्त्व' जो यही एक मनुष्य में है तथा 'परमात्मतत्त्व' जो वहाँ सूर्य में है, यह एक ही है, इससे अन्य कोई नहीं है। जो यह जानता है, वह इस लोक से जब प्रयाण करता है तब इस 'अन्नमय आत्मा' में संक्रमण करता है, वह 'प्राणमय आत्मा' में संक्रमण करता है; वह 'मनोमय आत्मा' में संक्रमण करता है; वह 'विज्ञानमय आत्मा' में संक्रमण करता है; वह 'आनन्दमय आत्मा' में संक्रमण करता है। इसके विषय में भी यह श्लोक (श्रुति-वचन) है।

शब्दावली

अस्मात् भीषा - asmāt bhīṣā - through the fear of Him

वातः - vātaḥ - the Wind

पवते - pavate - bloweth

अस्मात् भीषा सूर्यः उदेति - asmāt bhīṣā sūryaḥ udeti - through the fear of Him the Sun riseth

अस्मात् - asmāt - through the fear of Him

अग्निः च - agniḥ ca - Agni and

इन्द्रः - indraḥ - Indra

पञ्चमः मृत्युः च - pañcamaḥ mṛtyuḥ ca - and Death

धावति - dhāvati - hasten in their courses

सा एसा - sā esā - Behold this

आनन्दस्य मीमांसा भवति - ānandasya mīmāṁsā bhavati - exposition of the Bliss to which ye shall hearken

आशिष्ठः - āśiṣṭhaḥ - one with fair manners

द्रढिष्थः - draḍhiṣthaḥ - one with a most firm heart

बलिष्ठः - baliṣṭhaḥ - one with great strength of body

अध्यायकः - adhyāyakaḥ - a great student

साधुयुवा - sādhuyuvā - a young man, excellent & lovely in his youth

स्यात् - syāt - let there be

वित्तस्य पू - vittasya pūrṇā - full of wealth

इयम् सर्वा पृथिवी - iyam sarvā pṛthivī - all this wide earth

तस्य स्यात् - tasya syāt - for his enjoying

सः आनन्दः - saḥ ānandaḥ - that is the measure of bliss of

एकः मानुषः - ekaḥ mānuṣaḥ - one human being

ते ये शतं - te ye śataṁ - now a hundred and a hundredfold

मानुषाः आनन्दाः - mānuṣāḥ ānandāḥ - the human measure of bliss

सः मनुष्य गन्धर्वार्णाम् - saḥ manuṣya gandharvārṇām - of men that have become angels in heaven

एकः आनन्दः - ekaḥ ānandaḥ - is one bliss

अकामहतस्य - akāmahatasya - whose soul the blight of desire not toucheth

श्रोत्रियस्य च - śrotriyasya ca - (this is the bliss) of the Vedawise

ते ये शतम् - te ye śatam -

मनुष्य गन्धर्वाणाम् आनन्दाः - manuṣya gandharvāṇām ānandāḥ - of this measure of angelic bliss

सः देवगन्धर्वाणाम् - saḥ devagandharvāṇām - is one bliss of Gods that are angels in heaven

एकः आनन्दः ते ये शतम् - ekaḥ ānandaḥ te ye śatam -

देवगन्धर्वाणाम् आनन्दाः - devagandharvāṇām ānandāḥ - this measure of divine angelic bliss

सः चिरलोकलोकानाम् पितृणाम् - saḥ ciralokalokānām pitṛṇām - of the Fathers whose world of heaven is their world for ever

एकः आनन्दः - ekaḥ ānandaḥ - one bliss

ते ये शतम् आनन्दाः - te ye śatam ānandāḥ - A hundred and a hundredfold of this measure of divine angelic bliss

चिरलोकलोकानाम् पितृणाम् - ciralokalokānām pitṛṇām - of the Fathers whose world of heaven is their world for ever

सः एकः आनन्दाः - saḥ ekaḥ ānandāḥ - one bliss

आजानजानाम् देवानाम् - ājānajānām devānām - Gods who are born as Gods in heaven

ते ये शतम् - te ye śatam - a hundred and a hundredfold (of this measure of bliss)

आजानजानाम् देवानाम् - ājānajānām devānām - of the firstborn in heaven

आनदः - ānadaḥ - bliss

सः एकः आनदः - saḥ ekaḥ ānadaḥ - this measure of bliss

कर्मदेवानाम् देवानाम् - karmadevānām devānām - of the Gods of work who are Gods

सः एकः आनन्दाः - saḥ ekaḥ ānandāḥ - this measure of bliss

ये अपि देवान् यन्ति - ye api devān yanti - they  and are Gods in heaven

कर्मणा - karmaṇā - by the strength of their deeds

ते ये शतम् - te ye śatam - a hundred and a hundredfold (of this measure of bliss)

कर्मदेवानाम् देवानाम् आनन्दः - karmadevānām devānām ānandaḥ - this measure of bliss of the Gods of work

सः देवानाम् एकः आनन्दः - saḥ devānām ekaḥ ānandaḥ - is one bliss of the great Gods who are Gods for ever

ते ये शतम् - te ye śatam - a hundred and a hundredfold (of this measure of bliss)

देवानाम् आनन्दाः - devānām ānandāḥ - this measure of bliss … is one bliss of the great Gods

सः - saḥ - this measure of divine bliss

इन्द्रस्य एकः आनदः - indrasya ekaḥ ānadaḥ - is one bliss of Indra

ते ये शतम् - te ye śatam - a hundred and a hundredfold

इन्द्रस्य आनन्दः - indrasya ānandaḥ - this measure of Indra's bliss

सः बृहस्पतेः एकः आनन्दाः - saḥ bṛhaspateḥ ekaḥ ānandāḥ - is one bliss of Brihaspati, who taught the Gods in heaven

ते ये शतम् बृहस्पतेः आनन्दः - te ye śatam bṛhaspateḥ ānandaḥ - a hundred and a hundredfold of this measure of Brihaspati's bliss

सः प्रजापतेः एकः आनन्दः - saḥ prajāpateḥ ekaḥ ānandaḥ - is one bliss of Prajapati, the Almighty Father

ते ये शतम् प्रजापतेः आनन्दः - te ye śatam prajāpateḥ ānandaḥ - a hundred and a hundredfold of this measure of Prajapati's bliss

सः ब्रह्मणः एकः आनन्दः - saḥ brahmaṇaḥ ekaḥ ānandaḥ - is one bliss of the Eternal Spirit

सः च यः आदित्ये - saḥ ca yaḥ āditye - the Spirit who is there in the Sun

असौ अयम् पुरुषे - asau ca ayam puruṣe - the Spirit who is here in a man

यः सः एकः - yaḥ saḥ ekaḥ - it is one Spirit and there is no other

यः एवम् वित् - yaḥ evam vit - he who knoweth this

सः अस्मात् लोकात् प्रेत्य - saḥ asmāt lokāt pretya - when he hath gone away from this world

एतम् अन्नमयम् आत्मानम् - etam annamayam ātmānam - this Self which is of food

उपसङ्क्रामति - upasaṅkrāmati - he passeth to

एतम् प्राणमयम् आत्मानम् - etam prāṇamayam ātmānam - this Self which is of Prana

उपसङ्क्रामति - upasaṅkrāmati - he passeth to

एतं मनोमयम् आत्मानम् - etaṁ manomayam ātmānam - to this Self which is of Mind

उपसङ्क्रामति - upasaṅkrāmati - he passeth to

एतम् विज्ञानमयम् आत्मानम् - etam vijñānamayam ātmānam - this Self which is of Knowledge

उपसङ्क्रामति - upasaṅkrāmati - he passeth to

तत् अपि - tat api - whereof

एषः श्लोकः भवति - eṣaḥ ślokaḥ bhavati - this is the Scripture

तैत्तिरीयोपनिषद्

ब्रह्मानन्दवल्ली

नवमोऽनुवाकः

यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान्। न बिभेति कुतश्चनेति। एतं ह वाव न तपति।किमहं साधु नाकरवम्‌। किमहं पापमकरवमिति।स य एवं विद्वानेते आत्मानं स्पृणुते।उभे ह्येवैष एते आत्मानं स्पृणुते। य एवं वेद। इत्युपनिषत्‌॥

लिप्यन्तरणम्

yato vāco nivartante | aprāpya manasā saha| ānandaṁ brahmaṇo vidvān| na bibheti kutaścaneti | etaṁ ha vāva na tapati kimahaṁ sādhu nākaravam | kimahaṁ pāpamakaravamiti |sa ya evaṁ vidvānete ātmānaṁ spṛṇute |ubhe hyevaiṣa ete ātmānaṁ spṛṇute | ya evaṁ veda | ityupaniṣat||

॥ अन्वयः ॥

यतः वाचः अप्राप्य मनसा सह निवर्तन्ते। ब्रह्मणः आनन्दं विद्वान् कुतश्चन न बिभेति। एतं ह वाव न तपति - अहं किं पापम् अकरवम् इति। सः यः एवं विद्वान् एते उभे आत्मानं स्पृणुते। यः एवम् वेद एषः आत्मानं स्पृणुते। इति उपनिषद्।

अन्वयलिप्यन्तरणम्

yataḥ vācaḥ aprāpya manasā saha nivartante| brahmaṇaḥ ānandaṁ vidvān kutaścana na bibheti| etaṁ ha vāva na tapati - ahaṁ kiṁ pāpam akaravam iti| saḥ yaḥ evaṁ vidvān ete ubhe ātmānaṁ spṛṇute| yaḥ evam veda eṣaḥ ātmānaṁ spṛṇute| iti upaniṣad|

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

नवमोऽनुवाकः

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चति । एतं ह वाव न तपति किमहं साधु नाकरवम् । किमहं पापमकरवमिति । स य एवं विद्वानेते आत्मानं स्पृणुते । उभे ह्येवैष एते आत्मानं स्पृणुते । य एवं वेद । इत्युपनिषत् ॥

यतो निरतिशयानन्दाद्वाचः अप्राप्य पारम् इयत्तालक्षणं मनसा सह निवर्तन्ते तादृशं निरतिशयं ब्रह्मानन्दं विद्वान् - निरतिशयानन्दब्रह्मोपासक इत्येतत् । न बिभेति कुतश्चन सकलभयातीतो भवतीत्येतत् । अनेन 'अभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति' इत्युक्तोऽर्थः व्याख्यातो भवति । अहं किं साधु नाकरवम्, अहं किमिति पापमकरवम्, इति सुकृताकरणदुष्कृतकरणचिन्ते एतं विद्वांसं न तपतः । तौ हि तापौ स्वर्गमभिलषतः नरकपाताद्भीतस्य च भवतः । अकामकामस्य विद्याविहतपाप्मनोऽस्य न तयोः प्रसङ्गः । एते साध्वसाधु च य एवं विद्वान् - अनाचरितमाचरितं वा नार्थाय नानर्थायेति च जानन् आत्मानं स्पृणुते - रक्षति । य एवमुभे एते वेद, एष ह्यात्मानं स्पृणुते। पुनरुक्तिरियमुक्तार्थदाढर्याय । 

इति नवमोऽनुवाकः ॥

इति तैत्तिरीयोपनिषद्भाष्ये आनन्दवल्ली ॥

आङ्गल-अर्थः ॥

The Bliss of the Eternal from which words turn back without attaining and mind also returneth baffled, who knoweth the Bliss of the Eternal? He feareth not for aught in this world or elsewhere. Verily to him cometh not remorse and her torment saying “Why have I left undone the good & why have I done that which was evil?” For he who knoweth the Eternal, knoweth these that they are alike his Spirit; yea, he knoweth both evil and good for what they are and delivereth Spirit, who knoweth the Eternal. And this is Upanishad, the secret of the Veda. Together may He protect us, together may He possess us, together may we make unto us strength & virility. May our reading be full of light and power. May we never hate. OM Peace! Peace! Peace! Hari OM!

हिन्दी-अर्थः ॥

'ब्रह्म' का वह आनन्द जहाँ से कुछ भी प्राप्त किए बिना वाणी वापिस लौट आती है तथा मन भी जहाँ पहुँच कर विस्मय से चकित होकर लौट आता है, 'ब्रह्म' के उस आनन्द को कौन जानता है? वह चाहे इस जगत् में, चाहे अन्यत्र, कहीं भी, भयभीत नहीं होता। वास्तव में उसको कोई सन्ताप (दुःख) नहीं होता तथा ये पीड़ापूर्ण भाव उसके मन में नहीं आते-''मैंने सत्कर्म को करना क्यों छोड़ दिया तथा मैंने उस पापकर्म का आचरण को क्यों किया? क्योंकि जो 'नित्यब्रह्म' को जानता है वह इन्हें जानता है, वह यह जानता है कि ये उसके 'आत्मतत्त्व' के समान ही हैं; हाँ,वह जानता है कि ये शुभ एवं अशुभ दोनों क्या हैं तथा 'ब्रह्म' को ऐसा जानते हुए वह आत्मा को मुक्त करता है। और यही है उपनिषद्, यही है वेद का रहस्य। 'वह' हम दोनों की एक साथ रक्षा करे; 'वह' एक साथ हम दोनों को अपने अधीन कर ले, हम एक साथ शक्ति एवं वीर्य अर्जित करें। हम दोनों का अध्ययन हमारे लिए तेजस्वी हो, प्रकाश एवं शक्ति से परिपूरित हो। हम कदापि विद्वेष न करें। ॐ शान्तिः शान्तिः। शान्तिः। हरिः ॐ।

शब्दावली

यतः - yataḥ - the Bliss of the Eternal from which

वाचः अप्राप्य - vācaḥ aprāpya - words (turn back) without attaining

मनसा सह निवर्तन्ते - manasā saha nivartante - mind also returneth baffled

ब्रह्मणः आनन्दम् - brahmaṇaḥ ānandam - the Bliss of the Eternal

विद्वान् - vidvān - who knoweth

कुतश्चन - kutaścana - in this world or elsewhere

बिभेति - na bibheti - he feareth not

एतम् ह - etam ha - verily to him

वाव न तपति - vāva na tapati - cometh not remorse and her torment

किम् अहम् साधु न अकरवम् - kim aham sādhu na akaravam - why have I left undone the good

अहम् किम् पापम् अकरवम् इति - aham kim pāpam akaravam iti - why have I done that which was evil

सः यः - saḥ yaḥ - for he who

एवम् विद्वान् - evam vidvān - knoweth the Eternal

एते उभे आत्मानम् स्पृणुते - ete ubhe ātmānam spṛṇute - knoweth these that they are alike his Spirit, knoweth both evil and good for what they are

यः एवम् वेद - yaḥ evam veda - he knoweth

एषः आत्मानम् स्पृणुते - eṣaḥ ātmānam spṛṇute - delivereth Spirit

इति उपनिषद् - iti upaniṣad - and this is Upanishad

सह - saha - Together

नौ - nau - us

अवतु - avatu - may He protect

सह नौ भुनक्तु - saha nau bhunaktu - together may He possess us

सह - saha - together

वीर्यम् करवावहै - vīryam karavāvahai - may we make unto us strength & virility

नौ आधीतम् - nau ādhītam - our reading

तेजस्वि अस्तु - tejasvi astu - may be full of light and power

मा विद्विषावहै - mā vidviṣāvahai - may we never hate each other

ॐ - om - OM

शान्तिः - śāntiḥ - Peace!

शान्तिः - śāntiḥ - Peace!

शान्तिः - śāntiḥ - Peace!

॥ अथ उपनिषद् ॥

अगला खण्ड भृगुबल्ली

Post a Comment

0 Comments

Ad Code