Sanskrit Divine Knowledge of slokas संस्कृत सुभाषित



अहम्पूरुषो भारतीयोऽस्मि नूनं

न धैर्यङ्कदाचित्त्यजेयं विपत्सु ।

स्वकर्तव्यनिष्ठां न वा विस्मरेयं

यतिष्ये स्वराष्त्रस्य कल्याणहेतोः ॥1


अहम्भारती स्त्री स्वयं शक्तिरूपा

मयि श्रीश्च दुर्गा तथा शारदा च ।

त्यजेयं कदाचिन्न शीलाभिमानं

विरोद्धुं तु सिद्धाहमन्याय्यरूहीः ॥ 2॥


अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं ।

अहो सुमनसां प्रीतिर्वामदक्षिणयोः समा ॥ 3॥


अङ्गारा अञ्जलिस्था हि दाहयन्ति करद्वयम् ।

अहो दुर्मनसां वैरं वामदक्षिणयोः समम् ॥ 4॥


अनुदिनमनुतापेनास्म्यहं राम तप्तः

परमकरुणमोहं छिन्धि मायासमेतम् ।

इदमतिचपलं मे मानसं दुर्निवारं

भवति च बहुखेदस्त्वां विना धाव शीघ्रम् ॥ 5॥


अतिकुपिताऽपि सुजना योगेन मृदूभवन्ति न तु नीचाः । हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानाम् ॥ 6॥

 

अस्यां सखे बधिरलोकनिवासभूमौ

किं कूजितेन किल कोकिल कोमलेन ।

एते हि दैवहतकास्तदभिन्नवर्णं

त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ 7॥


अत्तुं वाञ्चति वाहनं गणपतेराखुं क्षुधार्तः फणी

तं च क्रौंचपतेः शिखी च गिरिजासिंहोऽपि नागाननम् ।

गौरी जह्नुसुतामसूयति कलानाथं कपालानलः

निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥ 8॥


अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।

चत्वारि तस्य वर्धन्ते आयुर्विद्या यशो बलम् ॥ 9॥


अम्बा यस्य उमादेवी जनको यस्य शङ्करः ।

विद्या ददाति सर्वेभ्यः स नः पातु गजाननः ॥ 10॥


अस्थिरं जीवितं लोके अस्थिरे धनयौवने ।

अस्थिराः पुत्रदाराश्च धर्मः कीर्तिद्र्वयं स्थिरं ॥ 11॥


आकाशात् पतितं तोयं यथा गच्छति सागरम् ।

सर्वदेवनमस्कारः केशवं प्रतिगच्छति ॥ 12॥


आत्मार्थम् जीवलोके च को न जीवति मानवः ।

परं परोपकाराय यो जीवति स जीवति ॥ 13॥


आचारः परमो धर्मः आचारः परमं तपः ।

आचारः परमं ज्ञानमाचारात् किं न साध्यते ॥ 14॥


आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।

नीयते स वृथा येन प्रमादः सुमहानहो ॥ 15॥


आस्ते भग आसीनस्य ऊध्र्वस्तिष्ठति तिष्ठतः ।

शेते निपद्यमानस्य चराति चरतो भगः ॥ 16॥


आपद्गतं हससि किं द्रविणान्ध मूढ

लक्ष्मीस्थिरा न भवतीति किमत्र चित्रम् ।

एतान् प्रपश्यसि घटां जलयन्त्रचक्रे

रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः ॥ 17॥


आशा नाम महुष्याणां काचिदाश्चर्यशृङ्खला ।

यया बद्धा प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥ 18॥


आत्मनः परितोषाय कवेः काव्यं तथापि तत् ।

स्वामिनो देहलीदीपसममन्योपकारकम् ॥ 19॥


आत्मनः मुखदोषेण बध्यन्ते शुकसारिकाः ।

बकास्तत्र न बध्यन्ते मौनं सर्वाथसाधनम् ॥ 20॥


आदानस्य प्रदानस्य कर्तव्यस्य च कर्मणः ।

क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ 21॥


आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।

विनये वंशपरीक्षा शीलपरीक्षा धनक्षये भवति ॥ 22॥


आत्मपक्षं परित्यज्य परपक्षेषु यो रतः ।

स परैर्हन्यते मूढः नीलवर्णशृगालवत् ॥ 23॥


आशुशब्दस्य अन्तेन कलायाः प्रथमेन च ।

विहगो यो भवेत्तस्य वर्णम् शीघ्रं निवेदय ॥ 24॥


आततायिनमायान्तमपि वेदान्तपारगम् ।

जिघांसन्तं जिघांसीयात् न तेन ब्रह्महा भवेत् ॥ 25॥


आदौ रामतपोवनाभिगमनं हत्वा मृगं काञ्चनं

वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।

वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं

पश्चाद्रावण कुम्भकर्णहननं एतधि रामायणम् ॥ 26॥


आदौ देवकिदेवगर्भजननं गोपीगृहे वर्धनं

मायापुतनजीवितापहरणं गोवर्धनोद्धारणम् ।

कंसच्छेदनकौरवादिहननं कुन्तीतनूजावनं

एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ॥ 27॥


आदौ श्रीभरताख्यभूपतिकुले भक्तोत्तमाः पाण्डवाः

तेषामन्धसुताः शतः कपटिका दुर्भ्रातरः कौरवाः ।

बन्धुद्वेशकरं हि कौरवकुलं भेजे रणे दुर्गतिम् ।

गीता तारयति स्म कृष्णभजकान्नेतन्महाभारतम् ॥ 28॥


इच्छेयेत् विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।

वाग्वादमर्थसम्बन्धं तस्याः स्त्रीपरिभाषणम् ॥ 29॥


ईक्षणं द्विगुणं प्रोक्तं भाषणस्येति वेधसा ।

अक्षिणि द्वे मनुष्याणां जिंव्हा त्वेकैव निर्मिता ॥ 30॥


उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ 31॥


उत्तमो नातिवक्ता स्यात् अधमो बहु भाषते ।

न काञ्चने ध्वनिस्तादृक् यादृक् कांस्ये प्रजायते ॥ 32॥


उपकारोऽपि नीचानां अपकारो हि जायते ।

पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ 33॥


उत्साहो बलवानार्य नास्त्युत्साहात् परं बलम् ।

सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥ 34॥


उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।

पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ 35॥


उत्तमा आत्मन्ः ख्याताः पितुः ख्याताश्च मध्यमाः ।

अधमा मातुलात् ख्याताः श्वशुराच्चाधमाधमाः ॥ 36॥


उदारस्य तृणं वित्तं शूरस्य मरणं तृणम् ।

विरक्तस्य तृणं भार्या निःस्पृहस्य तृणं जगत् ॥ 36॥


एक एव तपः कुर्यात् द्वौ स्वाध्यायपरौ हितौ ।

त्रयोऽधिका वा क्रीडायां प्रवासेऽपि च ते मताः ॥ 37॥


एकः स्वादु न भुञ्जीत नैकः सप्तेषु जागृयात् ।

एको न गच्छेदध्वानं नैकश्चार्थान् विचिन्तयेत् ॥ 38॥


एकचक्रो रथो यन्ता विकलो विषमा हयाः ।

आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलम् ॥ 39॥


एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।

वासितं तद्वनं सर्वम् सुपुत्रेण कुलं यथा ॥ 40॥


एको हि दोशो गुणसन्निपाते निमज्जतीन्दोरिति यो बभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र्यदोशो गुणराशिनाशी ॥ 41॥


एते सत्पुरुषा परार्थघटकाः स्वार्थान् परित्यज्य ये

सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।

तेऽमी मानवराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ 42॥


एको ना विंशतिः स्त्रीणां स्नानार्थम् शरयूं गताः ।

विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥ 43॥


ऐक्यं बलं समाजस्य तदभावे स दुर्बलः ।

तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिणः ॥ 44॥


ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।

कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ 45॥


ऋग्वेदोऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ।

चत्वारः सन्ति ते वेदाः मान्याः सर्वत्र पूजिताः ॥ 46॥


ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च ।

पुनः पुनः प्रवर्धन्ते तस्माच्छेषं न रक्षयेत् ॥ 47॥


क्षमा बलमशक्तानां शाक्तानां भूषणं क्षमा ।

क्षमा वशीकृते लोके क्षमया किं न सिध्यति ॥ 48॥


कार्यार्थी भजते लोकः यावत्कार्यम् न सिध्यति ।

उत्तीर्णे च परे पारे नौकाया किं प्रयोजनम् ॥ 49॥


काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।

वसन्तसमये प्राप्ते काकः काकः पिकः पिकः ॥ 50॥


क्षुद्रो हि समये प्राप्ते बलिष्ठमपि रक्षति ।

प्राज्ञा यूयं विजानीत मा मा निन्दत कञ्चन ॥ 51॥


कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः ।

वामदेवो वसिष्ठश्च मुनयः सप्त विश्रुताः ॥ 52॥


को न याति वशं लोके मुखे पिण्डेन पूरितः ।

मृदङ्गो मुखलेपेन करोति मधुरध्वनिम् ॥ 53॥


काकः पद्मवने रतिं न कुरुते हंसो न कूपोदके

मूर्खः पण्डितसङ्गमे न रमते दासो न सिंहासने ।

दुष्टः सज्जनसङ्गमं न सहते नीचं जनं सेवते

या यस्य प्रकृतिः स्वभावनियता केनापि न त्यज्यते ॥ 54॥


क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति ।

अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥ 55॥


कमले कमला शेते हरः शेते हिमालये ।

क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ॥ 56॥


कुलीनता सदाराध्या सुप्रतिष्ठां यदीच्छसि ।

आत्मवैभवलाभार्थम् गुणवान् शीलवान् भव ॥ 57॥


कविः करोति काव्यानि रसं जानाति पण्डितः ।

तरुः सृजति पुष्पाणि मरुद्वहति सौरभम् ॥ 58॥


कार्या च महदाकाङ्क्षा क्षुद्राकाङ्क्षा कदापि न ।

यथाकाङ्क्षा तथा सिद्धिर्निरीहो नाश्नुते महत् ॥ 59॥


का पाण्डुपत्नी गृहभूषणं किं

को रामशत्रुः किमगस्तिजन्म ।

को सूर्यपुत्रो विपरीतपृच्छा

कुन्ती सुतो रावणकुम्भकर्णः ॥ 60॥


कस्तूरी जायते कस्मात् को हन्ति करिणां शतम् ।

किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते ॥ 61॥


कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।

बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ॥ 62॥


करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ 63॥


के शवं पतितं दृष्ट्वा पाण्डवा हर्शनिर्भराः ।

रुदन्ति कौरवाः सर्वे भो भो के शव के शव ॥ 64॥


क्वचित् दुष्टः क्वचित् तुष्टः

दुष्टस्तुष्टः क्वचित् क्वचित् ।

अव्यवस्थितचित्तानां

प्रसादोऽपि भयङ्करः ॥ 65॥


कं सञ्जधान कृष्णः का शीतलवाहिनी गङ्गा ।

के दारपोषणरताः कं बलवन्तं न बाधते शीतम् ॥ 66॥


क्वचित् काणो भवेत्साधुः क्वचित् गानी पतिव्रता ।

विरलदन्तो क्वचिन्मूर्खो खल्वाटो निर्धनः क्वचित् ॥ 67॥


काव्येषु नाटकं रम्यं तत्र रम्यं शकुन्तला ।

तत्रापि च चतूर्थोऽङ्को तत्र श्लोकचतुष्टयम् ॥ 68॥


किमप्यस्तु स्वभावेन सुन्दरं वाप्यसुन्दरम् ।

यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम् ॥ 69॥


कस्यचित् किमपि नो हरणीयं

मर्मवाक्यमपि नोच्चरणीयम् ।

श्रीपतेः पदयुगं स्मरणीयं

लीलया भवजलं तरणीयम् ॥ 70॥


कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।

को विदेशः सुविद्यानां कः परः प्रियवादिनम् ॥ 71॥


केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः ।

केचित् ज्ञानावलोकेन केचिद्दुष्टैस्तु नाषिताः ॥ 72॥


काचं मणिं काञ्चनमेकसूत्रे

मुग्धा निबध्नन्ति किमत्र चित्रम् ।

विचारवान् पाणिनिरेकसूत्रे

श्वानं युवानं मघवानमाह ॥ 73॥


कौशिकेन स किल क्षितीश्वरः राममध्वरविघातशान्तये ।

काकपक्षधरमेत्य याचितस्तेजसां हि न वयः समीक्ष्यते ॥ 74॥


कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।

करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ 75॥


किसलयानि कुतः कुसुमानि वा

क्व च फलानि तथा नववीरुधाम् ।

अयमकारणकारुणिको न चेत्

वितरतीह पयांसि पयोधरः ॥ 76॥


कल्पद्रुमः कल्पितमेव सूते

सा कामधुक् कामितमेव दोग्धि ।

चिन्तामणिश्चिन्तितमेव दत्ते

सतां तु सङ्गः सकलं प्रसूते ॥ 77॥


करोति स्वमुखेनैव बहुधान्यस्य खण्डनम् ।

नमः पतनशीलाय मुसलाय खलाय च ॥ 78॥


किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।

अयुक्तियुक्तं रोगाय युक्तियुक्तं यथा स्मृतम् ॥ 79॥


कवयः किं न पश्यन्ति किं न भक्षन्ति वायसाः ।

मद्यपाः किं न जल्पन्ति किं न कुर्वन्ति योषितः ॥ 80॥


काके शौचं द्यूतकारे च सत्यं

सर्पे शान्तिः स्त्रीषु कामोपशान्तिः ।

क्लीबे धैर्यम् मद्यपे तत्त्वचिन्ता

भूपे सख्यं केन दृष्टं श्रुतं वा ॥ 81॥


कमले कमलोत्पत्तिः श्रूयते न तु दृष्यते ।

बाले तव मुखाम्भोजे कथमिन्दीवरद्वयम् ॥ 82॥


कथं गुरूनहं संख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 83॥


कालो वा कारणं राज्ञः राजा वा कालकारणं ।

इति ते संशयो मा भूत् राजा कालस्य कारणम् ॥ 84॥


किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।

कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ 85॥


कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः ।

नुतपदकमला कमला स्तुतपदकमला करोतु मे कमलम् ॥ 86॥


करोति शोभामलके स्त्रियाः को

दृष्या न कान्ता विधिना च कोक्ता ।

अङ्गे तु कस्मिन् दहन्ं पुरारेः

सिन्दूरबिन्दुः विधवाललाटे ॥ 87॥


क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टां दशां

आपन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि ।

मत्तेभेन्द्रविभिन्नकुम्भकवलग्रासैकबद्धस्पृहः

किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ 88॥


किं वाससेति तत्र विचारणीयं

वासः प्रधानं खलु योग्यतायै ।

पीताम्बरं वीक्ष्य ददौ स्वकन्यां

दिगम्बरं वीक्ष्य विषं समुद्रः ॥ 89॥


केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः

न स्नानं न विलोपनं न कुसुमं नालङ्कृता मूर्धजाः ।

वाण्येका समलङ्करोति पुरुषं या संस्कृता र्धायते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ 90॥


कुलीनैः सह सम्पर्कं सज्जनैः सह मित्रतां ।

ज्ञातिभिश्च सह मेलं कुर्वाणो न विनश्यति ॥ 91॥


काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ 92॥


कर्तव्यमाचरन् कार्यमकर्तव्यमनाचरन् ।

तिष्ठति प्रकृताचारे स वै आर्य इति स्मृतः ॥ 93॥


खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।

दशाननोऽहरत् सीतां बन्धनं तु महोदधेः ॥ 94॥


खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा

श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वाञ्छति ।

अज्ञान् ज्ञानवतोऽप्यनेन हि वशीकर्तुं समर्थो भवेत्

कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः सङ्ग्रहः ॥ 95॥


खद्योतो द्योतते तावत् यावत् न उद्यते शशिः ।

उदिते तु सह्स्रांशे न खद्योतो न चन्द्रमाः ॥ 96॥


गच्छन् गगग्नमार्गेण नित्यं लोकान् प्रकाशयन् ।

वर्धयन् चेतनान् सर्वान् प्रदीपो राजते रविः ॥ 97॥


गते शोको न कर्तव्यो भविष्यं नैव चिन्तयेत् ।

वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥ 98॥


गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः ।

यतन्ते धान्यलाभाय तैः साकं हि वसाम्यहम् ॥ 99॥


गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।

गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ 100॥


गुणैरुत्तुङ्गता याति नोत्तुङ्गेनासनेन वै ।

प्रासादशिखरस्थोऽपि काको न गरुडायते ॥ 101॥


गुणाः कुर्वन्ति दूतत्त्वं दूरेऽपि वसतां सताम् ।

केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः ॥ 102॥


गर्जसि मेघ न यच्छसि तोयं चातकपक्षी व्याकुलितोऽहम् ।

दैवादिह यदि दक्षिणवातः क्व त्वं क्वाहं क्व च जलपातः ॥ 103॥


गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः ।

नीचो वदति न कुरुते वदति न साधुः करोत्येव ॥ 104॥


गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।

अथ वा विद्यया विद्या चतूर्थो नोपलभ्यते ॥ 105॥


गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।

राजहंस तव सैव शुक्लता चीयते न च न चापचीयते ॥ 106॥


गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ 107॥


गुणेष्वनादरं भ्रातः पूर्णश्रीरपि मा कृथाः ।

सम्पूर्णोऽपि घटः कूपे गुणछेदात्पतत्यधः ॥ 109॥


गौरवं प्राप्यते दानान्नतु वित्तस्य सञ्चयात् ।

स्थितिरुच्चैः पयोदानां पयोधीनामधस्थितिः ॥ 110॥


गवीशपत्रो नगजापहारी कुमारतातः शशिखण्डमौलिः ।

लङ्केशसम्पूजितपादपद्मः पायादनादिः परमेश्वरो नः ॥ 111॥


गर्वाय परपीडायै दुर्जनस्य धनं बलम् ।

सज्जनस्य तु दानाय रक्षणाय च ते सदा ॥ 112॥


घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।

येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥ 113॥


घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् 

छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ।

दग्धं दग्धं पुनरपि पुनः काञ्चन्ं कान्तवर्णम् 

प्राणान्तेऽपि हि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ 114॥


चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः ।

चन्द्रचन्दनयोर्मध्ये शीतला साधुसङ्गतिः ॥ 115॥


चितां प्रज्वलितां दृष्ट्वा वैद्यो विस्मयमागतः ।

नाहं गतो न मे भ्राता कस्येतद् हस्तलाघवम् ॥ 116॥


चतुरः सखि मे भर्ता यल्लिखति तद् परो न वाचयति ।

तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥ 117॥


चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।

अतोऽभिलाषो यदि ते सुखे स्याच्चित्तप्रसादे प्रथमं यतस्व ॥ 118॥


चलत्येकेन पादेन तिष्ठत्येकेन पण्डितः ।

नासमीक्ष्यापरं स्थानं पूर्वमायातनं त्यजेत् ॥ 119॥


चिन्तनीया हि विपदामादावेव प्रतिक्रिया ।

न कूपखनन्ं युक्तं प्रदीप्ते वह्निना गृहे ॥ 120॥


चित्ते भ्रान्तिर्जायते मद्यपानात् भ्रान्ते चित्ते पापचर्यामुपैति ।

पापं कृत्वा दुर्गतिं याति मूढास्तस्मान्मद्यं नैव पेयं न पेयम् ॥ 121॥


चिता चिन्ता समाप्रोक्ता बिन्दुमात्रं विशेषता ।

सजीवं दहते चिन्ता निर्जीवं दहते चिता ॥ 123॥


चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या ।

इह हि भविष्यति भवतो नयनयुगादेव वारिणं पूरः ॥ 124॥


छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।

फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ॥ 125॥


जीवनं स्वं परार्थाय नित्यं यच्छत मानवाः ।

इति सन्देशमाख्यातुं समुद्रं यान्ति निम्नगाः ॥ 126॥


जनैर्जनहितार्थाय जनानामेव निर्मितं ।

लोकतन्त्रं भारतस्य वसुधायां विराजते ॥ 127॥


जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः ।

सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥ 128॥


ज्येष्ठत्त्वं जन्मना नैव गुणैज्र्येष्ठत्त्वमुच्यते ।

गुणात् गुरुत्वमायाति दुग्धं दधि घृतं क्रमात् ॥ 129॥


जन्मदाता अन्नदाता विद्यादाता तथैव च ।

कन्यादाता भयत्राता पञ्चैते पितरः स्मृताः ॥ 130॥


तृणं खादिति केदारे जलं पिबति पल्वले ।

दुग्धं यच्छति लोकेभ्यो धेनुर्नो जननी प्रिया ॥ 131॥


तदेवास्यं परं मित्रं यत्र सङ्क्रमति द्वयं ।

दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ 132॥


त्याग एक गुणः श्लाघ्यः किमन्यैर्गुणराषिभिः ।

त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः ॥ 133॥


तातेन कथितं पुत्र पत्रं लिख ममाज्ञया ।

नतेन लिखितं पत्रं पितुराज्ञा म लङ्घिता ॥ ४॥


ते यान्ति तीर्थेषु बुधाः ये शम्भोर्दूरवर्तिनः ।

यस्य गौरीश्वरश्चित्ते तीर्थं भोज परं हि सः ॥ ५॥


त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च ।

तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥ ६॥


ताडिताः पीडिता ये स्युस्तान्ममेत्यभ्युदीरयेत् ।

स साधुरवगन्तव्यस्तत्र द्रष्टव्य ईश्वरः ॥ ७॥


तृणादपि लघुस्तूलं तूलादपि च याचकः ।

वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति ॥ ८॥


तुष्टोऽपि राजा यदि सेवकेभ्यः भाग्यात्परं नैव ददाति किञ्चित् ।

अहर्निशं वर्षति वारिवाहास्तथापि पत्रत्रितयः पलाशः ॥ ९॥


तिलवत्स्निग्धं मनोऽस्तु वाण्यां गुडवन्माधुर्यम् 

तिलगुडलड्डुकवत् सम्बन्धे अस्तु सुवृत्तत्वम् ।

अस्तु विचारे शुभसङ्क्रमणं मङ्गलाय यशसे 

कल्याणी सङ्क्रान्तिरस्तु वः सदाहमाशंसे ॥ १०॥


दधि मधुरं मधु मधुरं द्राक्षा मधुरा सुधापि मधुरैव ।

तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥ १॥


द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।

सुभाशितरसस्याग्रे सुधा भीता दिवङ्गता ॥ २॥


दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वन्दे रधुनन्दनम् ॥ ३॥


दानेन तुल्यं सुहृदास्ति नान्यो लोभाच्च नान्योऽस्ति रिपुः पृथिव्याम् ।

विभूषणं शीलसमं न चान्यत् सन्तोषतुल्यं धनमस्ति नान्यत् ॥ ४॥


दरिद्रता धीरतया विराजते कुरूपता शीलगुणेन राजते ।

कुभोजनं चोष्णतया विराजते कुवस्त्रता शुभ्रतया विराजते ॥ ५॥


दुर्जनः प्रियवादीति नैतद्विश्वासकारणम् ।

मधु तिष्ठति जिंव्हाग्रे हृदये तु हलाहलम् ॥ ६॥


दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत् ।

उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ७॥


दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्तव्यः ।

पश्येह मधुकरीणां सञ्चितार्थम् हरन्त्यन्ये ॥ ८॥


दाता क्षमी गुणग्राही स्वामी दुःखेन लभ्यते ।

शुचिर्दक्षोऽनुरक्तश्च जाने भृत्योऽपि दुर्लभः ॥ ९॥


दुर्जनदूषितमनसां पुंसाम् सुजनेऽपि नास्ति विश्वासः ।

दुग्धेन दग्धवदनस्तक्रं फूत्कृत्य पामरः पिबति ॥ १०॥


दैवमवेति संचिन्त्य स्वोद्योगं न नरस्त्यजेत् ।

अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥ ११॥


दुन्दुभिस्तु नितरामचेतनस्तन्मुखादपि धनं धनं धनम् ।

इत्थमेव निनादः प्रवर्तते किं पुनर्यदि भवेत्सचेतनः ॥ १२॥


दुर्जनैः सह वासो हि ध्रुवं नाशाय कल्पते ।

काकस्य सहवासेन हंसो नष्टो वृथा पुरा ॥ १३॥


द्वाविमौ पुरुषौ लोके सुर्यमण्दलभेदिनौ ।

परिव्राट् योगयुक्तश्च रणस्याभिमुखे हतः ॥ १४॥


द्वन्द्वो द्विगुरपि चाहं मद्गेहे नित्यमव्ययी भावः ।

तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥ १५॥


दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भ्वति ॥ १६॥


दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।

मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १७॥


दिवसेनैव तत्कुर्याद् येन रात्रौ सुखं वसेत् ।

पूर्वे वयसि तत्कुर्याद् येन वृद्धः सुखी भवेत् ॥ १८॥


देशाटनं राजसभाप्रवेशो व्यापारिविद्वज्जनसङ्गतिश्च ।

सर्वेषु शास्त्रेष्ववलोकनं च चातुर्यमूलानि भवन्ति पञ्च ॥ १९॥


दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥ २०॥


दर्शने स्पर्शणे वापि श्रवणे भाषणेऽपि वा ।

यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ॥ २१॥


ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।

भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ २२॥


दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यं ।

अल्पक्लेशं मरणं दारिद्र्यं त्वनन्तकं दुःखम् ॥ २३॥


दातुर्याचकयोर्भेदः कराभ्यामेव दर्शितः ।

एकस्य गच्छतोऽधस्तादुपर्यन्यस्य तिष्ठताम् ॥ २४॥


धनमलब्धं काङ्क्षेत लब्धं रक्षेदवेक्षणात् ।

रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत् ॥ २५॥


धवलयति समग्रं चन्द्रमा जीवलोकं 

किमिति निजकलङ्कं नात्मसंस्थं प्रमार्ष्टि ।

भवति विदितमेतद् प्रायशः सज्जनानां 

परहितनिरतानामादरो नात्मकार्ये ॥ २६॥


धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।

धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ २७॥


न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः ।

न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ १॥


नारिकेलसमाकारा दृश्यन्तेऽपि हि सज्जनाः ।

अन्ये बदरिकाकारा बहिरेव मनोहराः ॥ २॥


न हि कश्चित् विजानाति किं कस्य श्वो भविश्यति ।

अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥ ३॥


नरो हि मलिनैर्वस्त्रैः यत्र क्वापि निषीदति ।

तथा चलितशीलस्तु शेषं शीलं न रक्षति ॥ ४॥


नरस्याभरणं रूपं रूपस्याभरणं गुणः ।

गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा ॥ ५॥


न कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः ।

कारणेनैव जायन्ते मित्राणि रिपवोऽपि वा ॥ ६॥


नागो भाति मदेन कं जलरुहैर्नित्योत्सवैर्मन्दिरं 

शीलेनैव नरो जवेन तुरगः पूर्णेन्दुना शर्वरी ।

वाणी व्याकरणेन हंसमिथुनैर्वापी सभा पण्दितैः 

सत्पुत्रेण कुलो बुधेन वसुधा कीत्र्या च लोकत्रयम् ॥ ७॥


न भूतपूर्वम् न कदापि वार्ता हेम्नः कुरङ्गो न कदापि दृष्टः ।

तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥ ८॥


न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते ।

तस्मात् दयां नरः कुर्यात् यथात्मनि तथा परे ॥ ९॥


नमस्ते सर्वदेवानां वरदासि हरेः प्रिया ।

या गतिस्त्वत्प्रसन्नानां सा मे स्यात्तव दर्शनात् ॥ १०॥


नवं पुरातनं वापि लेखं पश्यन्ति पण्डिताः ।

सारमासाद्य तुष्यन्ति निःसारं च त्यजन्ति ते ॥ ११॥


नमस्ते शारदे देवी वीणा पुस्तकधारिणि ।

विद्यारम्भं करिष्यामि प्रसन्ना भव सर्वदा ॥ १२॥


न चोरहार्यं न च राजहार्यं न भ्रातृभाज्यं न च भारकारी ।

व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ॥ १३॥


न दुर्जनः सज्जनतामुपैति बहुप्रकारैरपि सेव्यमानः ।

भूयोऽपि सिक्तः पयसा घृतेन न निम्बवृक्षः मधुरत्वमेति ॥ १४॥


नमन्ति फलिता वृक्षा नमन्ति च बुधा जनाः ।

शुष्ककाष्ठानि मूर्खाश्च भिद्यन्ते न नमन्ति च ॥ १५॥


नक्रः स्वस्थानमासाद्य राजेन्द्रमपि कर्षति ।

स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ १६॥


नमस्ते शारदे देवी काश्मीरपुरवासिनि ।

त्वामहं प्रार्थये देवि विद्यादानं च देहि मे ॥ १७॥


निर्विषेणापि सर्पेण कर्तव्या महती फणा ।

विषमस्तु न चाप्यस्तु फटाटोपो भयङ्करः ॥ १८॥


न हि ज्ञानसमं लोके पवित्रं चान्यसाधनं ।

विज्ञानं सर्वलोकानामुत्कर्षाय स्मृतं खलु ॥ १९॥


नरनारीसमुत्पन्ना सा स्त्री देहविवर्जिता ।

अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥ २०॥


 

न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।

गृहं तु गृहिणीहीनं कान्तारादतिरिच्यति ॥ २१॥ 


न देवो विद्यते काष्ठे न पाषाणे न मृन्मये ।

भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ॥ २२॥


न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा ।

कपालिना मौलिधृतापि जाह्नवी प्रयाति रत्नाकरमेव सर्वदा ॥ २३॥


निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु 

लक्ष्मीः स्थिरा भवतु गच्छतु वा यथेष्टम् ।

अद्यैव वा मरणमस्तु युगान्तरे वा 

न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ २४॥


न भीतो मरणादस्मि केवलं दूषितं यशः ।

विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमं किल ॥ २५॥


नमो दीपशिखे तुभ्यमन्धकारं निरस्यसि ।

प्रयच्छसि धनं स्वास्थ्यं कल्याणाय च जायसे ॥ २६॥


नाभिषेको न संस्कारः सिंहस्य क्रियते वने ।

विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ २७॥


न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो ।

मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ २८॥


न भूप्रदानं न सुवर्णदानं न गोप्रदानं न तथान्नदानम् ।

यथा वदन्तीह महाप्रदानं सर्वेषु दानेष्वभयप्रदानम् ॥ २९॥


न पण्डिताः साहसिका भवन्ति श्रुत्वापि ते सन्तुलयन्ति तत्त्वम् ।

तत्त्वं समादाय समाचरन्ति स्वार्थं प्रकुर्वन्ति परस्य चार्थम् ॥ ३०॥


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

नचैनं क्लेदयत्यापो न शोषयति मारुतः ॥ ३१॥


नानाधर्मनिगूढतत्त्वनिचिता यत्संस्कृती राजते 

सेयं भारतभूर्नितान्तरुचिरा मातैव नः सर्वदा ।

तस्या उन्नतिहेतवे हि भवतां ज्ञानं तथा मे बलम् 

सम्पन्ना बलशालिनी विजयताम् मे मातृभूः सर्वदा ॥ ३२॥


नरपतिहितकर्ता द्वेष्यतां याति लोके 

जनपदहितकर्ता त्यज्यते पार्थिवेन ।

इति महति विरोधे विद्यमाने समाने 

नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ ३३॥


नायं प्रयाति विकृतिं विरसो न यः स्यात् 

न क्षीयते बहुजनैर्नितरां निपीतः ।

जाड्यं निहन्ति रुचिमेति करोति तृप्तिं 

नूनं सुभाशितरसोऽन्यरसातिशायी ॥ ३४॥


निवृत्तो यस्तु मद्येभ्यः जितात्मा बुद्धिपूर्वकः ।

विकारैः स्पृश्यते जातु न स शारीरमानसैः ॥ ३५॥


निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः 

लक्षेशः क्षितिपालतां क्षितिपतिः चक्रेशतां वाञ्छति ।

चक्रेषः पुनरिन्द्रतां सुरपतिः ब्राह्मं पदं वाञ्छति 

ब्रह्मा शैवपदं शिवो हरिपदं चाशावधिं को गतः ॥ ३६॥


न व्याधिर्न विषं नापत्तथा नाधिश्च भूतले ।

खेदाय स्वशरीरस्थं मौख्र्यमेकं यथा नृणाम् ॥ ३७॥


न तेन स्थविरो भवति येनास्य पलितं शिरः ।

स वै युवाप्यधीयानो देवास्तं स्थविरं विदुः ॥ ३८॥


निर्गुणेश्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।

न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥ ३९॥


नृत्यं मयूराः कुसुमानि वृक्षाः दर्भानुपात्तान्विजहुर्हरिण्यः ।

तस्याः प्रपन्ने समदुःखभावमत्यन्तमासीद्रुदितं वनेऽपि ॥ ४०॥


नृपस्य वर्णाश्रमपालनं यत्स एव धर्मो मनुना प्रणीतः 

निर्वासिताप्येवमतस्त्वयाहं तपस्विसामान्यमवेक्षणीया ।

तथेति तस्या प्रतिगृह्य वाचं रामानुजे दृष्टिपथं व्यतीते 

सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः ॥ ४१॥


नक्षत्रभूषणं चन्द्रो नारीणां भूषणं पतिः ।

पृथिवीभूषणं राजा विद्या सर्वस्य भूषणं ॥ ४२॥


नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।

येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥ ४३॥


नमः सर्वविदे तस्मै व्यासाय कविवेधसे ।

चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ ४४॥


परित्राणाय साधूनां विनाशाय च दुश्कृताम् ।

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ १॥


परोपकारकरणं नूनं हस्तस्य भूषणम् ।

पूज्येषु च नमस्कारः उत्तराङ्गस्य भूषणम् ॥ २॥


पोषयन्ति पयो दत्त्वा यथा वत्सान् तथा जनान् ।

नित्यं समानया प्रीत्या धेनवो मातरो नृणाम् ॥ ३॥


पादपानां भयं वातात् पद्मानां शिशिराद्भयम् ।

पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥ ४॥


प्रथमे नार्जिता विद्या द्वीतीये नार्जितं धनं ।

तृतीये नार्जितं पुण्यं चतूर्थे किं करिष्यति ॥ ५॥


पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।

नादन्ति स्वस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ॥ ६॥


परोपकारशून्यस्य धिङ् मनुष्यस्य जीवनम् ।

यावन्तः पशवस्तेशां चर्माप्युपकरोति हि ॥ ७॥


पक्षिणां बलमाकाशो मत्स्यानामुदकं बलम् ।

दुर्बलस्य बलं राजा बालानां रोदनं बलम् ॥ ८॥


पिपीलिकार्जितं धान्यं मक्षिकासञ्चितं मधु ।

लुब्धेन सञ्चितं द्रव्यं समूलं हि विनश्यति ॥ ९॥


परोपदेशे पाण्दित्यं सर्वेषां सुकरं नृणाम् ।

विस्मरन्तीह शिष्टत्त्वं स्वकार्ये समुपस्थिते ॥ १०॥


पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं ।

मूढैः पाषाणखण्डेषु रत्नं संज्ञा विधीयते ॥ ११॥


परान्नं प्राप्य दुर्बुद्धे मा प्राणेषु दयां कुरु ।

दुर्लभानि परान्नानि प्राणा जन्मनि जन्मनि ॥ १२॥


पानीयं पातुमिच्छामि त्वत्तः कमललोचने ।

यदि दास्यसि नेच्छामि न दास्यसि पिबाम्यहम् ॥ १४॥


प्रारभ्यते न खलु विघ्नभयेन नीचैः 

प्राभ्य विघ्नविहता विरमन्ति मध्याः ।

विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः 

प्रारब्धमुत्तमजना न परित्यजन्ति ॥ १४॥


प्रलये पवनाघातैः प्रचलन्ति नगा अपि ।

कृच्छेऽपि न चलत्येव धीराणां निश्चला मतिः ॥ १५॥


पुस्तकेषु च नाधीतं नाधीतं गुरुसन्निधौ ।

न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १६॥


पुस्तकस्था तु या विद्या परहस्तगतं धनं ।

कार्यकाले समुत्पन्ने न सा विद्या न तद्धनम् ॥ १७॥


परिश्रमो मिताहारः भेषजे सुलभे मम 

नित्यं ते सेवमानस्य व्याधिर्भ्यो नास्ति मे भयम् ।

धनिकस्तु तदाकण्र्य स्वायत्तं भेषजद्वयं 

सेवनीयं तदेवेति निश्चित्य गृहमागतः ॥ १८॥


प्राणनाशेऽपि कुर्वीत परेषां मानवो हितम् ।

दिशः सुगन्धयत्येव वह्नौ क्षिप्तोऽपि चन्दनः ॥ १९॥


पराधिकारचर्चाम् यः कुर्यात् स्वामिहितेच्छया ।

स निषीदति चीत्कारात् गर्दभस्ताडितो यथा ॥ २०॥


पङ्गो धन्यस्त्वमसि न गृहं यासि योऽर्थी परेषाम् 

धन्योऽन्ध त्वं धनमवदतां नेक्षसे यन्मुखानि ।

श्लाघ्यो मूक त्वमसि कृपणं स्तौषि नार्थाशया यः 

स्तोतव्यस्त्वं बधिर गिरं यः खलानां न शृणोऽसि ॥ २१॥


पुष्पेऽस्ति गन्धो मधुरो नारिकेले जलं तथा ।

परमेशस्य सा लीला यतः स सर्वशक्तिमान् ॥ २२॥


प्रारम्भगुर्वी क्षयिणी क्रमेन गुर्वी पुरा वृद्धिमती च पश्चात् ।

दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्रिः खलसज्जनानाम् ॥ २३॥


पञ्चैते देवतरवः मन्दारः पारिजातकः ।

सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ २४॥


प्राणभूतञ्च यत्तत्त्वं सारभूतं तथैव च ।

संस्कृतौ भारतस्यास्य तन्मे यच्छतु संस्कृतम् ॥ २५॥


प्राणां त्यजति देशार्थम् पण्दितानां सहायकः ।

य आचरति कल्याणं लोके मानं स विन्दति ॥ २६॥


प्रथमवयसि पीतं तोयमल्पं स्मरन्तः 

शिरसि निहितभारा नारिकेला नराणाम् ।

ददति जलमनल्पास्वादमाजीवितान्तं 

न हि कृतमुपकारं साधवो विस्मरन्ति ॥ २७॥


पश्चाद्बर्हं वहति विपुलं चित्रितं दीप्तिमन्तम् 

काले काले व्यजनमिव तं विस्तृतं यः करोति ।

शीर्षे कान्तं वहति तरलं पिच्छकानां कलापं 

कोऽयं पक्षी रुचिरवदनो नर्तने च प्रवीणः ॥ २८॥


पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।

सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥ २९॥


पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।

अद्यापि तत्तुल्य कवेरभावात् अनामिका सार्थवती बभूव ॥ ३०॥


पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम् 

नानाख्यानककेसरं हरिकथासम्बोधनाबोधितम् ।

लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा 

भूयाद्भारतपङ्कजं कलिमलप्रध्वंसि नः श्रेयसे ॥ ३१॥


पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयम् 

व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।

अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं 

अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥ ३२॥


प्रमदा मदिरा लक्ष्मीः विज्ञेया त्रिविधा सुरा ।

दृष्ट्वैवोन्मादयत्येका पीता चान्यातिसञ्चयात् ॥ ३३॥


पुनर्वित्तं पुनर्मित्रं पुनर्भाया पुनर्मही ।

एतत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः ॥ ३४॥


प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्मात् तदेव वक्तव्यं वचने किं दरिद्रता ॥ ३५॥


पिनाकफणिबालेन्दुभस्ममन्दाकिनीयुता ।

पवर्गरचिता मूर्तिरपवर्गप्रदास्तु नः ॥ ३६॥


पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः ।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे ॥ ३७॥


फणिनो बहवः सन्ति भेकभक्षणतत्पराः ।

एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ १॥


फलं स्वेच्छालभ्यं प्रतिदिनमखेदं क्षितिरुहां 

पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।

मृदुस्पर्शा शय्या सुललितलतापल्लवमयी 

सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २॥


बालो वा यदि वा वृद्धो युवा वा गृहमागतः ।

तस्य पूजा विधातव्या सर्वस्याभ्यागतो गुरुः ॥ ३॥


बहुभिर्न विरोद्धव्यं दुर्जनैः सज्जनैरपि ।

स्फुरन्तमपि नागेन्द्रं भक्षयन्ति पिपीलिकाः ॥ ४॥


बालस्यापि रवेः पादाः पतन्त्युपरि भूभृतां ।

तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ ५॥


बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति ।

आख्याहि भद्रे प्रियदर्शनस्य न गंगदत्तः पुनरेति कूपं ॥ ६॥


ब्रह्मन्नध्ययनस्य नैष समयस्तूष्णीं बहिः स्थीयतां 

स्वल्पं जल्प बृहस्पते जडमते, नैषा सभा वज्रिणः ।

वीणां संहर नारद स्तुतिकथालापैरलं तुम्बुरो 

सीतारल्लकभल्लभग्नहृदयः स्वस्थो न लंकेश्वरः ॥ ७॥


भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती ।

तस्यां हि काव्यं मधुरं तस्मादपि सुभाशितम् ॥ ८॥


भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् ।

देया विद्यार्थिने विद्या देयमन्नं क्षुधातुरे ॥ ९॥


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः ।

कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥ १०॥


भ्रमन् वनान्ते नवमंजरीषु न षट्पदो गन्धफलीमजिघ्रत् ।

सा किं न रम्या स च किं न रन्ता बलीयसी केवलमीश्वरेच्छा ॥ ११॥


भो दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।

पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ॥ १२॥


भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।

बाणशूद्रकहर्षाणां काव्यभाषास्ति संस्कृतम् ॥ १३॥


भीष्मद्रोणतटा जयद्रथजला गान्धारनीलोत्पला 

शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।

अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी 

सोत्तीर्णा खलु पाण्डवैर्रणनदी कैवर्तकः केशवः ॥ १४॥


भोजनान्ते पिबेत् तक्रं दिनान्ते च पिबेत् पयः ।

निशान्ते च पिबेत् वारि किं वैद्येन प्रयोजनं ॥ १५॥


माता मित्रं पिता चेति स्वभावात् त्रितयं हितं ।

कार्यकारणतश्चान्ये भवन्ति हितबुद्धयः ॥ १॥


मनो मधुकरो मेघो मद्यपो मत्कुणो मरुत् ।

मा मदो मर्कटो मत्स्यो मकारा दश चंचलाः ॥ २॥


मात्रा समं नास्ति शरीरपोषणं

चिन्तासमं नास्ति शरीरशोषणं ।

मित्रं विना नास्ति शरीर तोषणं 

विद्यां विना नास्ति शरीरभूषणं ॥ ३॥


मुखं पद्मदलाकारं वाणी चन्दनशीतला ।

हृदयं क्रोधसंरक्तं त्रिविधं धूर्तलक्षणम् ॥ ४॥


मयूरो विहगो रम्यः आनन्दयति मानवान् ।

पृष्ठे सरस्वती तस्य उपविष्टेति मन्यते ॥ ५॥


मूर्खस्य पंच चिह्नानि गर्वो दुर्वचनं तथा ।

क्रोधश्च दृढवादश्च परवाक्येष्वनादरः ॥ ६॥


मूकं करोति वाचालं पंगुं लंघयते गिरिम् ।

यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥ ७॥


मणिना वलयं वलयेन मणिः मणिना वलयेन विभाति करः ।

पयसा कमलं कमलेन पयः पयसा कमलेन विभाति सरः ॥ ८॥


मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।

लुब्धकधीवरपिशुनः निष्कारणवैरणो जगति ॥ ९॥


मर्कटस्य सुरापानं तस्य वृश्चिकदंशनम् ।

तन्मध्ये भूतसंचारो यद्वा तद्वा भविष्यति ॥ १०॥


मृगा मृगैः संगमुपव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः ।

मूर्खाश्च मूर्खैः सुधयः सुधीभिः समानशीलव्यसनेषु सख्यं ॥ ११॥


महाजनस्य संसर्गः कस्य नोन्नतिकारकः ।

पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् ॥ १२॥


महानुभावसंसर्गः कस्य नोन्नतिकारकः ।

रत्याम्बु जाह्नवीसंगात् त्रिदशैरपि वन्द्यते ॥ १३॥


मा निशाद प्रतिष्ठां त्वं अगमः शाश्वतीः समाः ।

यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ॥ १४॥


मलिनैरलकैरेतैः शुक्लत्वं प्रकटीकृतम् ।

तद्रोषादिव निर्याता वदनाद्रदनावलिः ॥ १५॥


मृदुरित्यवजानन्ति तीक्ष्ण इत्युद्विजन्ति च ।

तीक्ष्णकाले भवेत्तीक्ष्णो मृदुकाले मृदुर्भवेत् ॥ १६॥


मारात्परः शूरतरो न कश्चित् पराभवः स्त्रीहरणान्न चान्यः ।

तथापि नाब्धिं प्रविवेश रामो बबन्ध सेतुं विजयी सहिष्णुः ॥ १७॥


मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा 

क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः ।

धृष्टः पाश्र्वे वसति नियतं दूरतश्चाप्रगल्भः 

सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १८॥


यत्र रामकथागानं तत्रास्ते हनुमान् यथा ।

संस्कृतध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ २१॥


यदेवोपनतं दुःखात् सुखं तद्रसवत्तरम् ।

निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ २२॥


यः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।

यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ २३॥


योगक्षेमाय राष्ट्रस्य सभ्यतायाश्च संस्कृतेः ।

नैवान्यो विद्यते पन्था लोकसंघटनं विना ॥ २४॥


यां चिन्तयामि सततं मयि सा विरक्ता 

साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः ।

अस्मत्कृते च परितुष्यति काचिदन्या 

धिक् तां च तं च मदनं च इमां च मां च ॥ २५॥


ययोरैव समं वित्तं ययोरैव समं कुलम् ।

तयोर्मैत्रिर्विवाहश्च न तु पुष्टविपुष्टयोः ॥ २६॥


यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोऽंशसम्भवम् ॥ २७॥


यः पूतनामारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः ।

यशोदयालंकृतमूर्तिरव्यात् पतिर्यदूनामथवा रघूणाम् ॥ २८॥


यदि वा याति गोविन्दो मथुरातः पुनः सखी ।

राधाया नयनद्वन्द्वे राधानामविपर्ययः ॥ २९॥


यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।

यत्र तास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३०॥


यत्र नास्ति दधिमन्थनघोषः तत्र नो लघुलघुनि शिशुनि ।

यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि ॥ ३१॥


रूपयौवनसम्पन्ना विशालकुलसम्भवाः ।

विद्याहीना न शोभन्ते निर्गन्धाः किंशुका यथा ॥ १॥


राष्ट्रध्वजो राष्ट्रभाषा राष्ट्रगीतं तथैव च ।

एतानि मानचिह्नानि सर्वदा हृदि धार्यताम् ॥ २॥


रत्नैर्महार्हैस्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् ।

सुधां विना न प्रययुर्विरामं न निश्चिदार्थाद्विरमन्ति धीराः ॥ ३॥


रात्रिर्गमिष्यति भविष्यति सुप्रभातं 

भास्वानुदेष्यति हसिष्यति पंकजश्रीः ।

इत्थं विचिन्तयति कोषगते द्विरेफे 

हा हन्त हन्त नलिनीं गज उज्जहार ॥ ४॥


रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् 

अम्भोदा बहवो वसन्ति गगने सर्वेपि नैकादृशाः ।

केचिद्वृष्टीभिरार्दयन्ति धरणीं गर्जन्ति केचिद्वृथा 

यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५॥


रात्रौ जानु दिवा भानु कृशानुः सन्ध्ययोद्र्वयोः ।

पश्य शीतं मया नीतं जानुभानुकृशानुभिः ॥ ६॥


रामायणम् महाकाव्यम् महाभारतमेव च ।

उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ७॥


रथस्यैकं चक्रं भुजगयामिता सप्ततुरगाः 

निरालम्बो मार्गश्चरणविकलः सारथिरपि ।

रविर्यात्यन्तं प्रतिदिनमपारस्य नभसः 

क्रियासिधिः सत्त्वे भवति महतां नोपकरणे ॥ ८॥


रजकश्चर्मकारश्च नटो वरुड एव च ।

कैवर्तभेदभिल्लाश्च सप्तैते चान्त्यजाः स्मृताः ॥ ९॥


रे रे रासभ वस्त्रभारवहनात्कुग्रासमश्नासि किं 

राजाश्वावसथं प्रयाहि चणकाभ्यूषान् सुखं भक्षय ।

सर्वान् पृच्छवतो हयानिति वदन्त्यत्राधिकारे स्थिता 

राजा तैरुप्दिष्टमेव मनुते सत्यं तटस्थाः परे ॥ १०॥


रामाद्याचय मेदिनीं धनपतेर्बीजं बलाल्लांगलम् 

प्रेतेशान्महिषं तवास्ति वृषभः फालं त्रिशूलादपि ।

शक्ताहं तव चान्नदानकरणे स्कन्दोऽपि गोरक्षणे 

खिन्नाहं तव याचनात् कुरु कृषिं भिक्षाटनं मा कृथाः ॥ ११॥


रामाभिषेके मदविह्वलायाः हस्ताच्च्युतो हेमघटस्तरुण्याः ।

सोपानमासाद्य करोति शब्दं ठा ठं ठ ठं ठं ठ ठ ठं ठ ठं ठः ॥ १२॥


लब्ध्वा तीक्ष्णं रवेस्तेजः शान्तं शीतकरो वहन् ।

सर्वान् सन्तोषयन् सोमः ओषधीशो विराजते ॥ १३॥


लालयेत् पंचवर्षाणि दशवर्षाणि ताडयेत् ।

प्राप्ते तु षोडशे वर्षे पुत्रे मित्रवदाचरेत् ॥ १४॥


लोभमूलानि पापानि संकटानि तथैव च ।

लोभात्प्रवर्तते वैरं अतिलोभात्विनश्यति ॥ १५॥


लक्ष्मीः कौस्तुभपारिजातकसुराधन्वन्तरीचन्द्रमाः 

गावः कामदुहः सुरेश्वरगजो रम्भादि देवांगनाः ।

अश्वः सप्तमुखः विषं हरिधनु शंखोऽमृतं चाम्बुधेः 

रत्नानीह चतुर्दशं प्रतिदिनं कुर्वन्तु वो मंगलम् ॥ १६॥


लालने बहवो दोषास्ताडने बहवो गुणाः ।

अतश्छात्रश्च पुत्रश्च ताडयेन्न तु लालयेत् ॥ १७॥


लोभाविष्टो नरो वित्तम् वीक्ष्यते न तु संकटम् ।

दुग्धं पश्यति मार्जारी न तथा लगुडाहतिम् ॥ १८॥


लाघवं कर्मसामथ्र्यं स्थैर्यम् क्लेशसहिष्णुता ।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ॥ १९॥


लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाः ।

शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥ २०॥ 


विद्याधिदेवता साक्षात् धन्या देवी सरस्वती ।

यत्प्रसादेन कुर्वन्ति काव्यानि कवयः खलु ॥ १॥


विषादप्यमृतं ग्राह्यं अमेध्यादपि काङ्चनम् ।

अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ २॥


वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् ।

वृथा दानम् समर्थस्य वृथा दीपो दिवापि च ॥ ३॥


विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।

व्याधितस्यौषधं मित्रम् धर्मो मित्रं मृतस्य च ॥ ४॥


वन्दे सरस्वतीं देवीं उत्तमाङ्गेन सर्वदा ।

मुखेन तां प्रशंसामि हस्ताभ्यां पूजयामि च ॥ ५॥


वृक्षाणामधिराजो नु नित्यमाम्रो विराजते ।

गन्धच्छायापुष्पफलैः यो रञ्जयति दुःखितान् ॥ ६॥


वृश्चिकस्य विषं पृच्छे मक्षिकाया मुखे विषम् ।

तक्षकस्य विषं दन्ते सर्वाङ्गे दुर्जनस्य तत् ॥ ७॥


वसन्त्यरण्येषु चरन्ति दुर्वां पिबन्ति तोयानि वने स्थितानि ।

तथापि निघ्नन्ति मृगान् नरा वृथा को लोकमाराधयितुं समर्थः ॥ ८॥


विरला जानन्ति गुणान् विरलाः कुर्वन्ति निर्धने स्नेहम् ।

विरलाः परकार्यरताः परदुःखेनापि दुःखिता विरलाः ॥ ९॥


विद्या विवादाय धनं मदाय खलस्य शक्तिः परपीडनाय ।

साधोस्तु सर्वं विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय ॥ १०॥


वरं दरिद्रः श्रुतिशास्त्रपारगो न चापि मूर्खो बहुरत्नसंयुतः ।

सुलोचना जीर्णपटापि शोभते न नेत्रहीना कनकैरलङ्कृता ॥ ११॥


वरं भृत्यविहीनस्य जीवनं श्रमपूरितं ।

मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १२॥


वरं बालो वरं वृद्धो न तु मूर्खोत्तमः खलु ।

मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति ॥ १३॥


विकृतिं नैव गच्छन्ति सङ्गदोषेण साधवः ।

आवेष्टितं महासर्पैश्चन्दनं न विषायते ॥ १४॥


वदनं प्रसादसदनं सदयं हृदयं सुधामुचो वाचः ।

करणं परोपकरणं येषं केषां न ते वन्द्याः ॥ १५॥


वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।

निर्विघ्नं कुरु मे देव शुभकार्येषु सर्वदा ॥ १६॥


वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।

देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ १७॥


वाल्मीकिगिरिसम्भूता रामसागरगामिनी ।

पुनातु भुवनं पुण्या रामायणमहानदी ॥ १८॥


वरं वनं वरं भैक्ष्यं वरं भारोपजीवनं ।

पुंसां विवेकहीनानां सेवया न धनार्जनम् ॥ १९॥


वज्रादपि कठोराणि मृदूनि कुसुमादपि ।

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ २०॥


विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरुचिव्र्यसनं श्रुतौ प्रकृतिसिद्धमियं हि महात्मनाम् ॥ २१॥


वैद्यराज नमस्तुभ्यं यमराजसहोदर ।

यमस्तु हरति प्राणान् वैद्यो प्राणान् धनानि च ॥ २२॥


वितर वारिद वारि दवातुरे चिरपिपासितचातकपोतके ।

प्रचलिते मरुति क्षणमन्यथा क्व च भवान् क्व पयः क्व च चातकः ॥ २३॥


वनानि दहतो वह्नेः सखा भवति मारुतः ।

स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ॥ २४॥


वरमेको गुणी पुत्रो न तु मूर्खशतान्यपि ।

एकश्चन्द्रस्तमो हन्ति न तु तारागणोऽपि च ॥ २५॥


वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।

न मूर्खजनसंसर्गः सुरेन्द्रभुवनेष्वपि ॥ २६॥


व्यायामात् लभते स्वास्थ्यं दीर्घायुष्यं बलं सुखम् ।

आरोग्यं परमं भाग्यं स्वास्थ्यं सर्वार्थसाधनम् ॥ २७॥


वसन्ति कानने वृक्षाः फलपुष्पैश्च भूषिताः ।

आम्रं विना परं चित्तं कोकिलस्य न तुष्यति ॥ २८॥


वरं बुद्धिर्न सा विद्या विद्यया बुद्धिरुत्तमा ।

बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ २९॥


विलक्षणः शब्दकोषः विद्यते तव भारति ।

व्ययेन वर्धते नित्यं क्षयं गच्छति सञ्चयात् ॥ ३०॥


वेदान्तानां पुराणानां शास्त्रानां च तथैव च ।

मन्त्राणां तन्त्रसूत्राणामाद्यभाषास्ति संस्कृतम् ॥ ३१॥


वासंसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि ।

तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ ३२॥


वातोल्लासितकल्लोल धिक् ते सागरगर्जनम् ।

यस्य तीरे तृषाक्रान्तः पान्थः पृच्छति वापिकम् ॥ ३३॥


व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।

ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥ ३४॥


वृक्षाग्रवासी न च पक्षिराजः

त्रिनेत्रधारी न च शूलपाणिः ।

त्वग्वस्त्रधारी न च सिद्धयोगी

जलं च बिभ्रन्न घटो न मेघः ॥ ३५॥


वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ३६॥


व्रजत्यधोऽधो यात्युचैर्नरः स्वैरेव कर्मभिः ।

खनितेव हि कूपस्य प्रासादस्येव कारकः ॥ ३७॥


विश्वाभिरामगुणगौरवगुम्फितानां

रोषोऽपि निर्मलधियां रमणीय एव ।

लोकप्रियैः परिमलैः परिपूरितस्य

काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ३८॥


विराटनगरे राजन् कीचकादुपकीचकम् ।

अत्र क्रियापदं गुप्तं मर्यादा दशवार्शिकि ॥ ३९॥


वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्

मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।

व्यालो माल्यगुणायते विषारसः पीयूशवस्र्हायते

यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ ४०॥


सदाचारेण सर्वेषां शुद्धं भवति मानसम् ।

निर्मलं च विशुद्धं च मानसं देवमन्दिरम् ॥ १॥


सुभाषितरसास्वादः सज्जनैः सह सङ्गतिः ।

सेवा विवेकिभूपस्य दुःखनिर्मूलनं त्रयम् ॥ २॥


सदयं हृदयं यस्य भाषितं सत्यभूषितम् ।

देहः परहिते यस्य कलिस्तस्य करोति किम् ॥ ३॥


सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् ।

न नित्यं लभते दुःखं न नित्यं लभते सुखम् ॥ ४॥


स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा नराः ।

इति विज्ञाय मतिमान् स्वस्थानं न परित्यजेत् ॥ ५॥


सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्पराः ।

बुधजने गुरुता विमलं यशः भवति पुण्यतरोः फलमीदृशम् ॥ ६॥


सुन्दरोऽपि सुशीलोऽपि कुलीनोऽपि महाधनः ।

न शोभते विना विद्यां विद्या सर्वस्य भूषणम् ॥ ७॥


सर्वे यत्र विनेतारः सर्वे पण्डितमानिनः ।

सर्वे महत्त्वमिच्छन्ति राष्ट्रं तदवसीदति ॥ ८॥


स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।

सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ ९॥


समुद्रवसने देवि पर्वतावलिभूषिते ।

विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १०॥


सर्वथा सन्त्यजेद्वादं न कञ्चिन्मर्मणि स्पृशेत् ।

सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ॥ ११॥


सूर्यं भर्तारमुत्सृज्य पर्वतं मारुतं गिरिम् ।

स्वजातिं मूषिका प्राप्ता स्वभावो दुरतिक्रमः ॥ १२॥


स जातो येन जातेन याति वंशः समुन्नतिम् ।

परिवर्तिनि संसारे मृतः को वा न जायते ॥ १३॥


सम्पूर्णकुम्भो न करोति शब्दम् अर्धो घटो घोषमुपैति नूनम् ।

विद्वान् कुलीनो न करोति गर्वं मुढास्तु जल्पन्ति गुणैर्वीहीनाः ॥ १४॥


सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।

तत्र सौरभनिर्माणे चतुरश्चतुराननः ॥ १५॥


सम्पदो महतामेव महतामेव चापदः ।

वर्धते क्षीयते चन्द्रो न तु तारागणः क्वचित् ॥ १६॥


सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी ।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी ॥ १७॥


सेवितव्यो महावृक्षः फलच्छायासमान्वितः ।

यदि दैवात् फलं नास्ति छाया केन निवार्यते ॥ १८॥


सर्वत्र देशे गुणवान् शोभते प्रेरितो नरः ।

मणिः शीर्शे गले बाहौ यत्र कुत्रापि शोभते ॥ १९॥


स्वयं पञ्चमुखः पुत्रौ गजाननषडाननौ ।

दिगम्बरः कथं जीवेत् अन्नपूर्णा न चेद्गृहे ॥ २०॥


स्वयं महेषः श्वशुरः नगेशः सखः धनेशः तनयो गणेशः ।

तथापि भीक्षाटनमेव शम्भोः बलीयसी केवलमीश्वरेच्छा ॥ २१॥


सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते

मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।

स्वात्यां सागरशुक्तिमध्यपतितं सन्मौक्तिकं ज्ञायते

प्रायेणोत्तममध्यमाधमदशा संसर्गतो जायते ॥ २२॥


सज्जनस्य हृदयं नवनीतं यद्वदन्ति कवयस्तदलीकं ।

अन्यदेहविलसत्परितापात् सज्जनो द्रवति नो नवनीतम् ॥ २३॥


सुखं हि दुःखान्यनुभूय शोभते

घनान्धकारेश्विव दीपदर्शनम् ।

सुखात्तु यो याति नरो दरिद्रतां

धृतः शरीरेण मृतः स जीवति ॥ २४॥


सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गेहिनी

वृत्तिर्वन्यफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।

तद्ध्यानामृतपूरमग्नमनसां येषामियं निवृतिः

तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा ॥ २५॥


स्वस्ति श्रीभोजराजन् त्वमखिलभुवने धार्मिकः सत्यवक्ता

पित्रा ते सङ्गृहीता नवनवतिमिता रत्नकोट्यो मदीयाः ।

तास्त्वं देहीति राजन् सकलबुधजनैर्ज्ञायते सत्यमेतद्

नो वा जानन्ति यत्तन्मम कृतिमपि नो देहि लक्षं ततो मे ॥ २६॥


सुलभाः पुरुषा लोके सततं प्रियवादिनः ।

अप्रियस्य च शब्दस्य वक्ता श्रोता च दुर्लभः ॥ २७॥


सप्तैतानि न पूर्यन्ते पूर्यमाणान्यनेकशः ।

स्वामी पयोधिरुदरं कृपणोऽग्निर्यमो गृहम् ॥ २८॥


सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।

दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ २९॥


सुभाषितेन गीतेन युवतीनां च लीलया ।

यस्य न द्रवते चित्तं स वै मुक्तोऽथवा पशुः ॥ ३०॥


सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

प्रकृतिरियं सत्त्ववतां तेजसां हि न वयः समीक्ष्यते ॥ ३१॥


साहित्य सङ्गीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः ।

तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पषूणाम् ॥ ३२॥


सरस्वतीं नमस्यामि चेतनानां हृदि स्थिताम् ।

मतिदां वरदां शुद्धां वीणाहस्तवरप्रदाम् ॥ ३३॥


सर्पा पिबन्ति पवनं न च दुर्बलास्ते

शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।

कन्दैः फलैर्मुनिवराः क्षपयन्ति कालां

सन्तोष एव पुरुषस्य परं निधानम् ॥ ३४॥


संस्कृतं देवभाषास्ति वेदभाषास्ति संस्कृतम् ।

प्राचीनज्ञानभाषा च संस्कृतं भद्रमण्डनम् ॥ ३५॥


सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु पण्डिताः समदर्शनाः ॥ ३६॥


स्वायत्तमेकान्तहितं विधात्रा विनिर्मितं छादनमज्ञतायाः ।

विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ३७॥


साक्षराः विपरीताश्चेद्राक्षसा एव केवलम् ।

सरसो विपरीतश्चेत्सरसत्त्वं न मुञ्चति ॥ ३८॥


स्वातन्त्र्यो हि मनुष्याणामधिकारो स्वभावजः ।

तमहं प्रार्थये नित्यं लोकमान्यवचस्त्विदम् ॥ ३९॥


सत्यं ब्रूयात् प्रियं ब्रूयत् न ब्रूयात् सत्यमप्रियं ।

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ॥ ४०॥


स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।

आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ ४१॥


स्नेहं दयां च सौख्यं च यदि वा जीवनमपि ।

उद्धारणाय नारीणां मुञ्चतो नास्ति मे व्यथा ॥ ४२॥


सन्तोषामृततृप्तानां यत्सुखं शान्तचेतसाम् ।

कुतस्तद्धनलुब्धानां एतश्चेतश्च धावताम् ॥ ४३॥


सर्पदुर्जनयोर्मध्ये वरं सर्पो न दुर्जनः ।

सर्पो दशति कालेन दुर्जनस्तु पदे पदे ॥ ४४॥


संहितैकपदे नित्या नित्या धातूपसर्गयोः ।

नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ४५॥


सच्छिद्रनिकटे वासो न कर्तव्यः कदाचन ।

घटी पिबति पानीयं ताड्यते झल्लरी यथा ॥ ४६॥


सहसा विदधीत न क्रियां अविवेकः परमापदां पदम् ।

वृणुते हि विमृश्यकारिणं गुणलुब्धा स्वयमेव सम्पदा ॥ ४७॥


सरस्वति नमस्तुभ्यं वरदे कामरूपिणी ।

विश्वरूपे विशालाक्षी विद्यां देहि शुभङ्करि ॥ ४८॥


सर्पराज नमामि त्वां क्रूरमप्युपकारकम् ।

क्षेत्रं रक्षसि चास्माकं शुद्धस्त्वं सुन्दरस्तथा ॥ ४९॥


एक टिप्पणी भेजें

If you have any Misunderstanding Please let me know

और नया पुराने