नीतिसारम्
गिरौ कलापी गगणे पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्माः ।
इन्दुर्द्विलक्षं कुमुदस्य वन्धुर्यो यस्य मित्रं न हि तस्य दूरम् ॥ १॥
माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते
भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते ।
अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमात्रं सुहृत्
तस्मादर्थमुपार्जयस्व च सखे स्वार्थस्य सर्वेवशाः ॥ २॥
धनैर्निष्कुलीनाः कुलीना भवन्ति
धनैरापदं मानवा निस्तरन्ति ।
धनेभ्यः परो वान्धवो नास्ति लोके
धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ ३॥
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्मर्थेन कौरवैः ॥ ४॥
त्रिविक्रमोऽभूदपि वामनोऽसौ
स सूकरश्चेति स वै नृसिंहः ।
नीचैरनीचैरतिनीचनीचैः
सर्वैरुपायैः फलमेव साध्यम् ॥ ५॥
चलच्चित्तं चलद्वित्तं चलज्जीवनयौवनम् ।
चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति ॥ ६॥
स जीवति यशो यस्य कीर्तिर्यस्य स जीवति ।
अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ७॥
वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
सर्वत्रैवं विचारेण नाहारे न च मैथुने ॥ ८॥
क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे ।
अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥ ९॥
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रसीदति ।
अकारणद्वेषि मनस्तु यस्य
कथं जनस्तं परितोषयिष्यति ॥ १०॥
दश व्याघ्रा जिताः पूर्वं सप्तसिंहास्त्रयो गजाः ।
पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया ॥ ११॥
सिंह उवाच -
गच्छ सूकर भद्रन्ते ब्रूहि सिंहो मया जितः ।
पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥ १२॥
उद्योगिनं पुरूषसिंहमुपैति लक्ष्मी-
र्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या
यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १३॥
एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया
पूरुस्त्वेको भुवनविजयी मन्मथो दुर्निवारः ।
शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः
स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ १४॥
अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् ।
शीतलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ १५॥
अपमानं पुरष्कृत्य मानं कृत्वा च पृष्ठके ।
स्वकार्यमुद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ १६॥
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति योऽवभाषे ।
नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥ १७॥
कृतस्य करणं नास्ति मृतस्य मरणं तथा ।
गतस्य शोचना नास्ति ह्येतद्वेदविदाम्मतम् ॥ १८॥
नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि ।
कुशकण्टकविविङ्वोऽपि प्राप्तकालो न जीवति ॥ १९॥
निमग्नस्य पयोराशौ पर्वतात् पतितस्य च ।
तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २०॥
करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २१॥
इति श्रीमहाकवि घटकर्पर विरचितं नीतिसारं समाप्तम् ॥
0 Comments
If you have any Misunderstanding Please let me know