पद्यसङ्ग्रहः
नत्वा तां परमेश्वरीं शिवकरीं श्रीभारतीं भास्वतीं
गङ्गातीरनिवासिना सुकविना लोकोपकारार्थिना ।
नानापण्डितवक्त्रनिर्गतवतां निर्मीयते केनचित्
पद्यानामिह सङ्ग्रहोऽमृतकथाप्रस्तावविस्तारिणाम् ॥ १॥
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहु-
र्दोषान्वेषणमेव मत्सरयुषां नैसर्गिको दुर्ग्रहः ।
कासारेऽपि विकाशिपङ्कजचये खेलन्मराले पुनः
क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः सम्बूकमन्वेषते ॥ २॥
अतिरमणीये काव्येऽपि पिशुनो दूषणमन्वेषयति ।
अतिरमणीये वपुषि व्रणमिव मक्षिकानिकरः ॥ ३॥
कीर्तिः स्वर्गतरङ्गिणीभिरभितो वैकुण्ठमास्रावितं
क्षोणीनाथ तव प्रतापतपनैः सन्तापितः क्षीरधिः ।
इत्येवं दयितायुगेन हरिणा त्वं याचितः स्वाश्रयं
हृत्पद्मं हरये श्रिये स्वभवनं कण्ठं गिरे दत्तवान् ॥ ४॥
रवेः कवेः किं समरस्य सारं कृषेर्भयं किं किमदन्ति भृङ्गाः ।
सदा भयं ब्रह्मपदञ्च केषां भागीरथीतीरसमाश्रितानाम् ॥ ५॥
वासः काञ्चनपिञ्चरे नृपकराम्भोजैस्तनूमार्जनं
भक्ष्यं स्वादुरसालदाडिमफलं पेयं सुधाभं पयः ।
पाठः संसदि रामनाम सततं धीरस्य कीरस्य मे
हाहा हन्त तथापि जन्मविटपिक्रोडं मनो धावति ॥ ६॥
उदयति यदि भानुः पश्चिमे दिग्विभागे
विकसति यदि पद्मः पर्वतानां शिखाग्रे ।
प्रचलति यदि मेरुः शीततां याति वह्नि-
र्न चलति खलु वाक्यं सज्जनानां कदाचित् ॥ ७॥
निर्वाणदीपे किमु तैलदानं चौरे गते वा किमु सावधानम् ।
वयोगते किं वनिताविलासः पयोगते किं खलु सेतुबन्धः ॥ ८॥
वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः ।
वरमपि घोरे नरके पतनं न च धनगर्वितBआन्धवशरणम् ॥ ९॥
कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या ।
मूर्खश्च पुत्रो विधवा च कन्या विनाग्निना सन्दहते शरीरम् ॥ १०॥
वरं मौनं कार्यं न च वचनमुक्तं यदनृतं
वरं क्लैब्यं पुंसां न च परकलत्राभिगमनम् ।
वरं भैक्ष्याशित्वं न च परधनास्वादनसुखं
वरं प्राणत्यागो न च पिशुनवादेष्वभिरतिः ॥ ११॥
निःस्वो वष्टि शतं शती दशशतं लक्षं सहस्राधिपः
लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेश्वरत्वं पुनः ।
चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्राह्मं पदं वाञ्छति
ब्रह्मा विष्णुपदं हरिः शिवपदं त्वाशावधिं के गताः ॥ १२॥
ख्यातः शक्रो भगाङ्गो विधुरपि मलिनो माधवो गोपजातो
वेश्यापुत्रो वसिष्ठः सरुजपदयमः सर्वभक्ष्यो हुताशः ।
व्यासो मत्स्योदरीयः सलवण उदधिः पाण्डवा जारजाता
रुद्रः प्रेतास्थिधारी त्रिभुवनवसतां कस्य दोषो न जातः ॥ १३॥
तुरगशतसहस्रं गोगजानाञ्च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम् ।
विमलकुलवधूनां कोटिकन्याश्च दद्यात् न हि न हि सममेतैरन्नदानं प्रधानम् ॥ १४॥
कालिदासकविता नवं वयः माहिषं दधि सशर्करं पयः ।
ऐणमांसमबला च कोमला सम्भवन्तु मम जन्मजन्मनि ॥ १५॥
नाक्षराणि पठता किमपाठि पाठितोपि किमु विस्मृत एव ।
इत्थमर्थिजनसंशयदोला खेलनां खलु चकार नकारः ॥ १६॥
लक्ष्मणसेन उवाच -
शैत्यनाम गुणस्तवैव त्वदनु स्वाभाविकी स्वच्छता
किं ब्रूमः शुचितां भवन्त्यशुचयः स्पर्शेन यस्याः परे ।
किञ्चातः परमं तव स्तुतिपदं त्वं जीवनं देहिनां
त्वं चेन्नीचपथेन गच्छसि पयः कस्त्वां निरोद्धुं क्षमः ॥ १७॥
वल्लाल उवाच -
तापो नापगतस्तृषा न च कृशा धौता न धूली तनो-
र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा ।
दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा नवा पद्मिनी
प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ १८॥
तत्पुत्र उवाच -
परीवादस्तथ्यो भवति वितथो वापि महतां
अतथ्यस्तथ्यो वा हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटितहताशेषतमसो
रवेस्तादृक्तेजो न हि भवति कन्यां गतवतः ॥ १९॥
राजोवाच -
सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका
विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि ।
स किं नात्रेः पुत्रो न किमु हरचूडार्चनमणि-
र्न वा हन्ति ध्वान्तं जगदुपरि किं वा न वसति ॥ २०॥
इति श्रीकविभट्टकृतः पद्यसङ्ग्रहः समाप्तः ॥
0 Comments
If you have any Misunderstanding Please let me know