Ad Code

अघोरकवचम् अघोरमूर्तिकवचम्

अघोरकवचम् अघोरमूर्तिकवचम् 



ॐ श्रीगणेशाय नमः । अथ अघोरकवचं लिख्यते । श्री अघोरभैरवाय नमः । भैरवी उवाच - भगवन्करुणाम्भोधे शास्त्राम्भोनिधिपारग । पुराऽस्माकं वरो दत्तः तं दातुं मे क्षमो भव ॥ १॥ भैरव उवाच - सत्यं पुरा वरो दत्तो वरं वरय पार्वति । यत्किञ्चिन्मनसीष्टं स्यात्तद्दातुं ते क्षमोऽस्म्यहम् ॥ २॥ देवी उवाच - अघोरस्य महादेव कवचं देवदुर्लभम् । शीघ्रं मे दयया ब्रूहि यद्यहं प्रेयसी तव ॥ ३॥ भैरव उवाच - अघोरकवचं वक्ष्ये महामन्त्रमयं परम् । रहस्यं परमं तत्त्वं न चाख्येयं दुरात्मने ॥ ४॥ अस्य श्री अघोरकवचस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्रीकालाग्निरुद्रो देवता । क्ष्मीं बीजं क्ष्मां शक्तिः क्ष्मः कीलकं श्री अघोर विद्यासिद्ध्यर्थं कवचपाठे विनियोगः ॥ अथ मन्त्रः अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ ॐ अघोरो मे शिवः पातु श्री मेऽघोरो ललाटकम् । ह्रीं घोरो मेऽवतां नेत्रे क्लीं घोरो मेऽवताच्छती ॥ ५॥ सौःतरेभ्योऽवताङ्गडौक्षी नासां पातु सर्वतः क्षं । मुखं पातु मे शर्वोऽघोरः सर्वोऽवताङ्गलम् ॥ ६॥ घोरश्च मेऽवतात्स्कन्धौ हस्तौ ज्वलन्नमोऽवतु । ज्वलनः पातु मे वक्षः कुक्षिं प्रज्वलरुद्रकः ॥ ७॥ पार्श्वौ प्रज्वलरूपेभ्यो नाभिं मेऽघोररूपभृत् । शिश्नं मे शूलपाणिश्च गुह्यं रुद्रः सदावतु ॥ ८॥ कटिं मेऽमृतमूर्तिश्च मेढ्रेऽव्यान्नीलकण्ठकः । ऊरू चन्द्रजटः पातु पातु मे त्रिपुरान्तकः ॥ ६॥ जङ्घे त्रिलोचनः पातु गुल्फौ याज्ञियरूपवान् । अघोरोऽङ्घ्री च मे पातु पादौ मेऽघोरभैरवः ॥ १०॥ पादादिमूर्धपर्यन्तमघोरात्मा शिवोऽवतु । शिरसः पादपर्यन्तं पायान्मेऽघोरभैरवः ॥ ११॥ प्रभाते भैरवः पातु मध्याहे वटुकोऽवतु । सन्ध्यायां च महाकालो निशायां कालभैरवः ॥ १२॥ अर्द्धरात्रे स्वयं घोरो निशान्तेऽमृतरूपधृत् । पूर्वे मां पातु ऋग्वेदो यजुर्वेदस्तु दक्षिणे ॥ १३॥ पश्चिमे सामवेदोऽव्यादुत्तरेऽथर्ववेदकः । आग्नेय्यामग्निरव्यान्मां नैरृत्यां नित्यचेतनः ॥ १४॥ वायव्यां रौद्ररूपोऽव्यादैशान्यां कालशासनः । ऊर्ध्वोऽव्यादूर्ध्वरेताश्च पाताले परमेश्वरः ॥ १५॥ दशदिक्षु सदा पायाद्देवः कालाग्निरुद्रकः । अग्नेर्मां पातु कालाग्निर्वायोर्मां वायुभक्षकः ॥ १६॥ जलादौर्वामुखः पातु पथि मां शङ्करोऽवतु । निषण्णं योगध्येयोऽव्याद्गच्छन्तं वायुरूपभृत् ॥ १७॥ गृहे शर्वः सदा पातु बहिः पायाद्वृषध्वजः । सर्वत्र सर्वदा पातु मामघोरोऽथ घोरकः ॥ १८॥ रणे राजकुले दुर्गे दुर्भिक्षे शत्रुसंसदि । द्यूते मारीभये राष्ट्रे प्रलये वादिना कुले ॥ १६॥ अघोरेभ्योऽथ घोरेभ्योऽवतान्मां घोरभैरवः । घोरघोरतरेभ्यो मां पायान्मन्मथसङ्गरे ॥ २०॥ सर्वतः सर्वसर्वेभ्यो भोजनावसरेऽवतु । नमस्ते रुद्ररूपेभ्योऽवतु मां घोरभैरवः ॥ २१॥ सर्वत्र सर्वदाकालं सर्वाङ्गं सर्वभीतिषु । हं यं रं लं वं शं षं सं हं लं क्षः अघोरकः ॥ २२॥ अघोरास्त्राय फट् पातु अघोरो मां सभैरवः । विस्मारितं च यत्स्थानं स्थलं यन्नामवर्जितम् ॥ २३॥ तत्सर्वं मामघोरोऽव्यान्मामथाघोरः सभैरवः । भार्यान्पुत्रान्सुहृद्वर्गान्कन्यां यद्वस्तु मामकम् ॥ २४॥ तत्सर्वं पातु मे नित्यं अघोरो माथ घोरकः । स्नाने स्तवे जपे पाठे होमेऽव्यात्क्षः अघोरकः ॥ २५॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वतः सर्वसर्वेभ्यो नमस्तेभ्यो रुद्ररूपेभ्यः ॥ २६॥ ॐ श्रीं ह्रीं क्लीं सौः क्ष्मं पातु नित्यं मां श्री अघोरकः । इतीदं कवचं गुह्यं त्रिषु लोकेषु दुर्लभम् ॥ २७॥ मूलमन्त्रमयं दिव्यं त्रैलोक्ये सारमुत्तमम् । अदातव्यमवाच्यं च कवचं गुह्यमीश्वरि ॥ २८॥ अप्रष्टव्यमस्तोतव्यं दीक्षाहीनेन मन्त्रिणा । अदीक्षिताय शिष्याय पुत्राय शरजन्मने ॥ २६॥ न दातव्यं न श्रोतव्यमित्याज्ञां मामकां श‍ृणु । परं श्रीमहिमानं च श‍ृणु चास्य सुवर्मणः ॥ ३०॥ अदीक्षितो यदा मन्त्री विद्यागृध्नुः पठेदिदम् । सदीक्षित इति ज्ञेयो मान्त्रिकः साधकोत्तमः ॥ ३१॥ यः पठेन्मनसा तस्य रात्रौ ब्राह्मे मुहूर्त्तके । पूजाकाले निशीथे च तस्य हस्तेऽष्टसिद्धयः ॥ ३२॥ दुःस्वप्ने बन्धने धीरे कान्तारे सागरे भये । पठेत् कवचराजेन्द्रं मन्त्री विद्यानिधिं प्रिये ॥ ३३॥ सर्वं तत्प्रशमं याति भयं कवचपाठनात् । रजः-सत्त्व-तमोरूपमघोरकवचं पठेत् ॥ ३४॥ वाञ्छितं मनसा यद्यत्तत्तत्प्राप्नोति साधकः । कुङ्कुमेन लिखित्वा च भूर्जत्वचि रवौ शिवे ॥ ३५॥ केवलेन सुभक्ष्ये च धारयेन्मूर्ध्नि वा भुजे । यद्यदिष्टं भवेत् तत्तत्साधको लभतेऽचिरात् ॥ ३६॥ यद्गृहे अघोरकवचं वर्तते तस्य मन्दिरे । विद्या कीर्तिर्धनारोग्यलक्ष्मीवृद्धिर्न संशयः ॥ ३७॥ जपेच्चाघोरविद्यां यो विनानेनैव वर्मणा । तस्य विद्या जपं हीनं तस्माद्धर्मं सदा पठेत् ॥ ३८॥ अघोरमन्त्रविद्यापि जपन् स्तोत्रं तथा मनुम् । सद्यः सिद्धिं समायाति अघोरस्य प्रसादतः ॥ ३९॥ इति श्रीदेवदेवेशि अघोरकवचं स्मरेत् । गोप्यं कवचराजेन्द्रं गोपनीयं स्वयोनिवत् ॥ ४०॥ ॥ इति श्रीरुद्रयामले तन्त्रेविश्वसारोद्धारे तन्त्रेऽघोरसहस्रनामाख्ये कल्पे अघोरकवचं समाप्तम् ॥ 

Post a Comment

0 Comments

Ad Code