Ad Code

अष्टाध्यायी प्रवचनम् अध्याय 1.2 सूत्र ३८_७३

 


१.२.३८
सूत्राणि:॥ देवब्रह्मणोरनुदात्तः
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - देव-ब्रह्मणो: ६।२ अनुदात्तः १।१। 

समासः - देवश्च ब्रह्मा च तौ देवब्रह्मणौ, तयो: - देवब्रह्मणो: (इतरेतरयोगद्वन्द्व:) ।

अनुवृत्तिः - सुब्रह्मण्यायाम् एकश्रुति न स्वरितस्य अनुदात्त: ।     

अन्वयः - सुब्रह्मण्यायां देवब्रह्मणोरेकश्रुति न स्वरितस्तु अनुदात्तः ।        

अर्थः - सुब्रह्मण्यायां निगदे देवब्रह्मणोः शब्दयोरेकश्रुतिस्वरो न भवति किन्तु तत्र स्वरितस्य स्थानेऽनुदात्तः स्वरो भवति ।

उदाहरणम् - देवा ब्रह्माण आगच्छत ।

आर्यभाषार्थ - (सुब्रह्मण्यायाम्) सुब्रह्मण्या नामक निगद में (दिव-ब्रह्मणोः) देव और ब्रह्मन् शब्द का (एकश्रुति) एकश्रुति स्वर (न) नहीं होता है (तु) किन्तु (स्वरितस्य) स्वरित स्वर को (अनुदात्त:) अनुदात्त स्वर होता है ।

उदाहरणम् - देवा:, ब्रह्माण: । यहां इन दोनों पदों को 'आमन्त्रितस्य च' (अ० ६।१।१८) आद्युदात्त करने पर तथा शेष वर्णों को 'अनुदात्तं पदमेकवर्जम्' (६.१.१५८) से अनुदात्त हो जाने पर 'उदात्तादनुदात्तस्य स्वरित:' (८.४.६६) से स्वरित हो जाता है, तत्पश्चात् इस सूत्र से उस स्वरित को अनुदात्त आदेश होता है । देवाः । ब्रह्माणः । 
     १.२.३९
सूत्राणि:॥ स्वरितात् संहितायामनुदात्तानाम्
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - स्वरितात् ५।१ संहितायाम् ७।१ अनुदात्तानाम् ६।३।  

समासः - अनुदात्तश्च अनुदात्तश्च अनुदात्तश्च तेऽनुदात्ताः तेषाम् - अनुदात्तानाम् (एकशेषद्वन्द्वः) ।

अनुवृत्तिः - 'एकश्रुति' इत्यनुवर्तते ।

अन्वयः - संहितायां स्वरिताद् अनुदात्तानामेकश्रुति । अर्थः -संहितायां विषये स्वरितात् परेषाम् अनुदात्तानामेकश्रुति भवति ।        

उदाहरणम् - इमं मे गङ्गे यमुने सरस्वति शुतुद्र (ऋ०१०।७५।५) । माणवक जटिलकाध्यापक क्व गमिष्यसि ?

आर्यभाषार्थः - (संहितायाम्) संहिता विषय में (स्वरितात्) स्वरित स्वर से परे (अनुदात्तानाम्) अनुदात्त स्वरों के स्थान में (एकश्रुति) एकश्रुति स्वर होता है ।

उदाहरणम् - इमं मे गङ्गे यमुने सरस्वति शुतुद्र (ऋ०१०।७५।५) । माणवक जटिलकाध्यापक क्व गमिष्यसि ?

सिद्धिः - (१) इमं मे०। यहां 'इमम्' यह आन्तोदात्त पद है । 'में' यह अनुदात्त पद है । यहां 'उदात्तादनुदात्तस्य स्वरितः' (८.४.६६) से स्वरित हो जाता है । इस स्वरित से परे इस सूत्र से गङ्गे आदि अनुदात्त पदों में एकश्रुति स्वर होता है ।

(२) माणवक जटिलकाध्यापक०। यहां प्रथम आमन्त्रित 'माणवक' शब्द 'आमन्त्रितस्य च' (६.१.१९८) से आद्युदात, 'अनुदात्तं पदमेकवर्जम्' (६.१.१५८) से उसके प्रथम अक्षर को छोड़कर सब अनुदात्त हो जाता है । 'उदात्तादनुदात्तस्य स्वरितः' (८.४.६६) से स्वरित करने पर परवर्ती अनुदात्त स्वरों के स्थान में एकश्रुति स्वर होता है ।

१.२.४०

सूत्राणि:॥ उदात्तस्वरितपरस्य सन्नतरः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - उदात्त - स्वरितपरस्य ६।१सन्नतरः १।१।

समासः - उदात्तश्च स्वरितश्च तौ - उदात्तस्वरितौ, परश्च परश्च तौ-परौ, उदात्तस्वरितौ परौ यस्मात् सः - उदात्तस्वरितपरः, तस्य - उदात्तस्वरितपरस्य (इतरेतरयोगद्वन्द्वगर्भितबहुव्रीहि:) ।        

अनुवृत्तिः - अनुदात्तानाम् इत्यनुवर्तते ।

अन्वयः - उदात्तस्वरितपरस्यानुदात्तस्य सन्नतरः ।

अर्थः - उत्तपरस्य स्वरितपरस्य चानुदात्तस्य स्थाने सन्नतर: = अनुदात्ततर आदेशो भवति ।

उदाहरणम् - (उदात्तपरस्य) देवा मरुतः पृश्निमातरोऽय॒ । इमं मे सरस्वति॒ शुतुद्रि । (स्वरितपरस्य) अध्यापक क्व ।

आर्यभाषार्थ - (उदात्त-स्वरितपरस्य) उदात्त-परक तथा स्वरित-परक (अनुदात्तानाम्) अनुदात्त स्वर के स्थान में (सन्नतरः) अनुदात्ततर स्वर आदेश होता है ।      

उदाहरणम् - देवा मरुतः पृश्निमातरोऽपः । सरस्वति शुतुद्रि ।

(१) मातरोऽप: । यहां मातरः ' यह अनुदात्त पद है । 'अप: ' 'ऊडिदम्पदाद्यपुपुप्रैद्युभ्यः' (६.१.१७१) से अन्तोदात्त है और उसका 'अ' अनुदात्त है । दोनों अनुदात्त एकादेश 'ओ' अनुदात्त होता है । उसको उदात्त परे होने पर अनुदात्ततर आदेश होता है, अर्थात् वह अनुदात्ततर हो जाता है ।

(२) सरस्वति शुतुद्रि । यहां 'शुतुद्रि' यह आमन्त्रित पद पाद के आदि में है । उसको अनुदात्तं सर्वमपादादौ' (८.१.१८) से अनुदात नहीं होता है । इसलिये उसका प्रथम अक्षर 'शु' उदात्त है । उसके परे होने पर 'सरस्वति' के 'अनुदात्त' 'इ' को अनुदात्ततर आदेश होता है ।

विशेष - 'सन्नतर' यह अनुदात्त की पूर्वाचार्यों की संज्ञा है।

      १.२.४१

सूत्राणि:॥ अपृक्त एकाल् प्रत्ययः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - अपृक्तः १।१ एका १।१ प्रत्ययः १।१।

         समासः - एकश्चासावल् इति एकाल् (कर्मधारयतत्पुरुषः) ।       

अन्वयः - एकाल् प्रत्ययोऽपृक्तः ।

अर्थः - एकाल् प्रत्ययोऽपृक्तसंज्ञको भवति । एकशब्दोऽसहायवाची ।     

उदाहरणम् - घृतस्पृक् । अर्धभाक् । पादभाक् ।

आर्यभाषार्थ - (एकाल्-प्रत्ययः) एक अल् रूप प्रत्यय की (अपृक्तः) अपक्त संज्ञा होती है । यहां एक शब्द असहायवाची है ।

उदाहरणम् - घृतस्पृक् । घृत+स्पृश्+क्विन् । घृत+स्पृश्+वि। घृत+स्पृश्+व् । घृत+स्पृश्+०। घृतस्पृश् । घृतस्पृश्+सु । घृतस्पृक् ।

यहां घृत उपपदवाली 'स्पृश संस्पर्शने' (तु०प०) धातु से 'स्पृशोऽनुदके क्विन्' (३.२.५८) क्विन् प्रत्यय और उसकी इस सूत्र से 'अपृक्त' संज्ञा होकर 'वेरपृक्तस्य' (६.१.६७) से उसका लोप हो जाता है । यहां 'क्विन् प्रत्ययस्य कुः' (८.२.६२) से कुत्व होता है ।

(२) अर्धभाक् । अर्ध+भज्+ण्वि। अर्ध+भज्+वि। अर्ध+भाज्+व् । अर्ध+भाज्+०। अर्धभाज्+सु । अर्धभाक् ।

यहां अर्ध उपपदवाली 'भज सेवायाम्' (भ्वा०आ०) धातु से 'भजो ण्विः' (३.२.६२) से 'वि' प्रत्यय और उसकी इस सूत्र से अपृक्त संज्ञा होकर उसका पूर्ववत् लोप हो जाता है । यहां 'झलां जशोऽन्ते (८.२.३९) से पदान्त 'ज्' को 'ग' तथा 'वाऽवसाने' (८.४.५६) से 'ग' को चर् 'क' होता है ।

      १.२.४२

सूत्राणि:॥ तत्पुरुषः समानाधिकरणः कर्मधारयः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - तत्पुरुषः १।१ समानाधिकरणः १।१ कर्मधारयः १।१।

समासः - समानम् अधिकरणं यस्य सः - समानाधिकरण (बहुव्रीहि:) ।   

अन्वयः - समानाधिकरणस्तत्पुरुषः      समासः कर्मधारयसंज्ञको भवति ।

उदाहरणम् - परमं च तद् राज्यं चेति परमराज्यम् । उत्तमं च तद् राज्यं चेति - उत्तमराज्यम् ।

आर्यभाषार्थ - (समानाधिकरण:) समान अभिधेयवाले (तत्पुरुषः) तत्पुरुष समास की (कर्मधारयः) कर्मधारय संज्ञा होती है । यहां अधिकरण शब्द अभिधेय अर्थ का वाचक है ।

उदाहरणम् - परमं च तद् राज्यं चेति परमराज्यम् । बड़ा राज्य । उत्तमं च तद् राज्यं चेति उत्तमराज्यम् । श्रेष्ठ राज्य ।

सिद्धिः - (१) परमराज्यम् । यहां 'राज्य' शब्द कर्मधारय समास में है । अतः 'अकर्मधारये राज्यम्' (६.२.१३०) से उत्तरपद में आद्युदात्त स्वर नहीं होता है । इसी प्रकार से उत्तम राज्यम् ।

(२) यहां 'परमराज्यम्' पद के परम और राज्य दोनों पदों का अधिकरण= अभिधेय= वाच्यार्थ समाने एक है । अतः यहां समानाधिकरण है । जहां समानाधिकरण होता है वहां समान लिङ्ग, समान वचन और समान ही विभक्ति होती है ।

       १.२.४३

सूत्राणि:॥ प्रथमानिर्दिष्टं समास उपसर्जनम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - प्रथमानिर्दिष्टम् १।१ समासे ७।१ उपसर्जनम् १।१।

समासः - प्रथमया निर्दिष्टम् इति प्रथमानिर्दिष्टम् (तृतीयातत्पुरुषः) ।       

अन्वयः - समासे प्रथमानिर्दिष्टमुपसर्जनम् ।

अर्थः - समासे = समासप्रकरणे प्रथमया विभक्त्या निर्दिष्टं पदम् उपसर्जनसंज्ञकं भवति ।

उदाहरणम् - द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः कष्टं श्रित इति कष्टश्रितः । तृतीया तत्कृतार्थेन गुणवचनेन । शङ्कुलया खण्ड इति शङ्कुलखण्डः, इत्यादि ।

आर्यभाषार्थ - (समासे) समास- प्रकरण में (प्रथमा-निर्दिष्टम्) प्रथमा विभक्ति से निर्देश किये हुये पद की (उपसर्जनम्) उपसर्जन संज्ञा होती है । अष्टाध्यायी द्वितीय अध्याय के प्रथम और द्वितीय पाद में समास का प्रकरण है । उन सूत्रों में जिन पदों का प्रथमा विभक्ति लगाकर उपदेश किया है, उनकी यहां उपसर्जन संज्ञा की गई है । जैसे - द्वितीया श्रितातीतपतितप्राप्तापन्नैः कष्टं श्रित इति कष्टश्रितः । तृतीया तत्कृतार्थेन गुणवचनेन - शकुलया खण्ड इति शङ्कुलखण्ड: । चतुर्थी तदर्थार्थबलिहितसुखरक्षितै: - यूपाय दारु इति यूपदारु । पञ्चमी भयेन सिंहाद्भयम् इति सिंहभयम् । षष्ठी - राज्ञः पुरुष इति राजपुरुषः । सप्तमी - शौण्डै: - अक्षेषु शौण्ड इति अक्षशौण्डः ।

सिद्धिः - (१) कष्टश्रितः । कष्टं श्रित इति 'कष्टश्रित: ' यहां 'द्वितीया श्रितातीतपतितगतात्यस्त्यप्राप्तापन्नैः ' (२.१.२४) से द्वितीया तत्पुरुष समास होता है । यहां समास विधायक सूत्र के 'द्वितीया' पद में प्रथमा विभक्ति लगाकर निर्देश किया गया है । उसकी यहां उपसर्जन संज्ञा की है ।

उपसर्जन संज्ञा का लाभ यह है कि समास में दो पद होते हैं । उनका समास करते समय किस पद का पहले और किस पद का बाद में प्रयोग किया जाये ? जिस पद की उपसर्जन संज्ञा उसका 'उपसर्जनं पूर्वम्' (२.२.३०) से पहले प्रयोग किया जाता है । जैसे - 'कष्टश्रितः' में द्वितीयान्त पद 'कष्टम्' है, उसका समस्त पद में पहले प्रयोग हुआ है । इसी प्रकार अन्यत्र भी समझ लेवें ।

      १.२.४४

सूत्राणि:॥ एकविभक्ति चापूर्वनिपाते

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - एकविभक्ति १।१ च अव्ययपदम्, अपूर्वनिपाते ७।१।  

समासः - एका विभक्तिर्यस्य तद् - एकविभक्ति (बहुव्रीहि:) । पूर्वश्चासौ निपातश्चेति पूर्वनिपातः, न पूर्वनिपात इति अपूर्वनिपात:, तस्मिन्- अपूर्वनिपाते (कर्मधारयगर्भितनतत्पुरुषः) ।

अनुवृत्तिः - 'समासे, उपसर्जनम्' इत्यनुवर्तते ।

अन्वयः - यः समासे एकविभक्ति च उपसर्जमपूर्वनिपाते ।

अर्थः - समासे विधीयमाने यद् एकविभक्तिकं पदं तद् उपसर्जनसंज्ञकं

भवति, पूर्वनिपातम् उपसर्जनकार्यं वर्जयित्वा ।

उदाहरणम् - निष्क्रान्तः कौशाम्ब्या इति निष्कौशाम्बिः । निष्क्रान्तं कौशाम्ब्या इति निष्कौशाम्बिम् इत्यादि । कौशाम्बी - प्रयागनगरम् । इलाहाबाद इति लौकिकाः ।

आर्यभाषार्थ - (समासे) समास - विधान में (एकविभक्ति) जो पद नियत विभक्तिवाला होता है, उसकी (च) भी (उपसर्जनम्) उपसर्जन संज्ञा होती है, किन्तु (अपूर्वनिपाते) उसका समास में पूर्व प्रयोग नहीं होता है ।

उदाहरणम् - प्रथमा - निष्क्रान्तः कौशम्ब्या इति निष्कौशाम्बिः । द्वितीया - निष्क्रान्तं कौशाम्ब्या इति निष्कौशाम्बिम् । तृतीया - निष्क्रान्तेन कौशाम्ब्या इति निष्कौशाम्बिना । चतुर्थी - निष्क्रान्ताय कौशाम्ब्या इति निष्कौशाम्बये । पञ्चमी - निष्क्रान्तात् कौशाम्ब्या इति निष्कौशाम्बेः । षष्ठी - निष्क्रान्तस्य कौशाम्ब्या इति निष्कौशाम्बैः । सप्तमी - निष्क्रान्ते कौशाम्ब्या इति निष्कौशाम्बी। निष्कौशाम्बिः = कौशाम्बी (प्रयाग) से निकला हुआ ।

सिद्धिः - (१) निष्कौशाम्ब: । यहां निरादयः क्रान्ताद्यर्थे पञ्चम्या:' (वा०२।२।१८) इस वार्तिक से समास करने पर पूर्वपद के नानाविभक्तिवाला होने पर भी उत्तरपद 'कौशाम्ब्या: ' पञ्चमी विभक्तिवाला ही रहता है । अत: वह एक विभक्तिवाला पद होने से. उसकी यहां उपसर्जन संज्ञा की गई है । 'उपसर्जन पूर्वम्' (२.२.३०) से उपसर्जन संज्ञावाले पद का समस्त पद में पहले प्रयोग किया जाता है, किन्तु इस एक विभक्तिवाले उपसर्जन-संज्ञक पद का पूर्व प्रयोग नहीं होता है । यहां 'कौशाम्बी' शब्द की उपसर्जन संज्ञा होने से 'गोस्त्रियोरुपसर्जनस्य' (१.२.४८) से ह्रस्व हो जाता है ।

       १.२.४५

सूत्राणि:॥ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - अर्थवत् १।१ अधातुः १।१ अप्रत्ययः १।१ प्रातिपदिकम् १।१।

समासः - अर्थोऽस्यास्तीति अर्थवत् (तद्धितवृत्ति:) । न धातुः - अधातुः (नञ्तत्पुरुषः) । न प्रत्यय: - अप्रत्यय: (नञ्तत्पुरुषः) ।

अन्वयः - अर्थवत् प्रातिपदिकमधातुरप्रत्ययः ।

अर्थः - अर्थवत् शब्दरूपं प्रातिपदिकसंज्ञकं भवति, धातुं प्रत्ययं च वर्जीयत्वा ।

उदाहरणम् - डित्थः । कपित्थः । कुण्डम् । वनम् इत्यादि ।

आर्यभाषार्थ - (अर्थवत्) अर्थवान् शब्द की (प्रातिपदिकम्) प्रातिपदिक संज्ञा होती है, किन्तु (अधातुः) धातु को छोड़कर तथा (अप्रत्ययः) प्रत्यय को छोड़कर । धातु और प्रत्यय भी अर्थवान् शब्द है, उनकी प्रातिपदिक संज्ञा नहीं होती है ।

उदाहरणम् - डित्थः । कपित्थ: । कुण्डम् । वनम् इत्यादि ।

सिद्धिः - (१) डित्य: । डित्थ+सु । डित्थ+स् । डित्य+र् । डित्य+: । डित्थ । डित्थ' किसी व्यक्ति का नाम है । उसके अर्थवान् होने से उसकी यहां प्रातिपदिक संज्ञा की गई है । जिसकी प्रातिपदिक संज्ञा होती है उससे 'स्वौजस् ०' (४.१.२) से सु. औ, जस् आदि प्रत्यय होते हैं ।

(२) अष्टाध्यायी के चतुर्थ अध्याय से आरम्भ करके पञ्चम अध्याय के अन्त तक प्रातिपदिक का अधिकार है । वहां पाणिनिमुनि ने प्रातिपदिक से स्त्री-प्रत्यय और तद्धित प्रत्ययों का विधान किया है ।

       १.२.४६

सूत्राणि:॥ कृत्तद्धितसमासाश्च

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - कृत्-तद्धित-समासा: १।३ च अव्ययपदम् ।  

समासः - कृत् च तद्धितश्च समासश्च ते कृत्तद्धितसमासाः (इतरेतरयोगद्वन्द्वः) ।

अनुवृत्तिः - 'प्रादिपदिकम् ' इत्यनुवर्तते ।

अन्वयः - कृत्तद्धितसमासाश्च प्रातिपदिकम् ।

अर्थः - कृत्प्रत्ययान्ता:, तद्धितप्रत्ययान्ता: शब्दा:, समासाश्च प्रातिपदिकसंज्ञका भवन्ति ।

उदाहरणम् - (कृत्प्रत्ययान्ताः) कारकः । हारकः । कर्ता । हर्ता । (तद्धितप्रत्ययान्ताः) औपगवः । कापटवः । (      समासः) राजपुरुष: । कष्टश्रितः ।

आर्यभाषार्थ - (कृत्-तद्धित-समासाः) कृत्-प्रत्ययान्त, तद्धित-प्रत्ययान्त शब्दों की और समास की (प्रातिपदिकम्) प्रातिपदिक संज्ञा होती है ।

उदाहरणम् - (कृत्) कारक: । करनेवाला । हारकः । करनेवाला । कर्ता । करनेवाला । हर्ता । हरनेवाला । (तद्धित) औपगवः। उपगु का पुत्र । कापटवः । कपटु का पुत्र । ( समासः) राजपुरुषः । राजा का पुरुष । ब्राह्मणकम्बलः । ब्राह्मण का कम्बल ।

सिद्धिः - (१) कारक: । कृ+ण्वुल् । कृ+वु । कृ+अक । कार्+अक । कारक+सु । कारकः ।

यहां 'डुकृञ् करणे' (त०उ०) धातु से 'ण्वुल्तृचौ (३.१.१३३) से कृत् ण्वुल् प्रत्यय, 'युवोरनाक' (७.१.१) से 'वु' के स्थान में 'अक' आदेश और 'अचो मिति' (७.२.११५) से अङ्ग को वृद्धि होती है । 'ण्वुल्' कृत्-संज्ञक प्रत्यय है । कारक शब्द के कृदन्त होने से उसकी प्रातिपदिक संज्ञा होती है । प्रातिपदिक संज्ञा होने से 'कारक' शब्द से 'स्वौज समासः ' (४.१.२) से 'सु' आदि प्रत्यय होते हैं । इसी प्रकार 'हृञ् हरणें' (भ्वादि०) धातु से हारकः' शब्द सिद्ध करें ।

(२) कर्ता । कृ+तृच् । कर्+तृ । कर्तृ+सु । कर्ता । यहां पूर्ववत् कृ धातु से 'लाच' (३.१.१३३) से तृच्' प्रत्यय करने पर सार्वधातुकार्धधातुकयोः' (७.३.८४) से अङ्ग 'को गुण होता है । 'वृच्' प्रत्यय कृत्संज्ञक है । कर्तृ शब्द के कृदन्त होने से उसकी प्रातिपदिक संज्ञा होती है । प्रातिपदिक संज्ञा होने से पूर्ववत् 'सु' आदि प्रत्यय होते हैं । इसी प्रकार 'हृञ् हरणे' धातु से हर्ता शब्द सिद्ध करें ।

(३) औपगवः। उपगु+अण् । औपगु+अ। औपगो+अ । औपगव्+अ। औपगव+अ । औपगव+सु । औपगवः ।

यहां उपगु शब्द से 'तस्यापत्यम्' (४.१.९२) से अपत्य अर्थ में तद्धित अण्प्रत्यय, 'तद्धितेष्वचामादे:' (७.२.११७) से अङ्ग को आदिवृद्धि और 'ओर्गुण:' (६.४.१४६) से अङ्ग को गुण होता है । 'अणु' प्रत्यय के तद्धित होने से 'औपगवः' की प्रातिपदिक संज्ञा होती है और उससे पूर्ववत् 'सु' आदि प्रत्यय होते हैं । इसी प्रकार 'कपटु' शब्द से कापटवः शब्द सिद्ध करें ।

(४) राजपुरुषः । राज्ञः गुरुष इति राजपुरुषः । यहां 'षष्ठी' (२.२.८) से षष्ठीतत्पुरुष समास है । यहां समास की प्रातिपदिक संज्ञा की है । अतः इससे पूर्ववत् 'सु' आदि प्रत्यय होते हैं । इसी प्रकार ब्राह्मणस्य कम्बल इति ब्राह्मणकम्बलः ।

विशेष - (१) 'अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.४.४५) से प्रत्यय की प्रातिपदिक संज्ञा का पर्युदास प्रतिषेध किया गया था किन्तु इस सूत्र के द्वारा कृत् और तद्धित प्रत्यय की प्रातिपादिक संज्ञा का विधान किया गया है ।

(२) समास में पदों का समुदाय होता है । अर्थवान् पदसमुदाय में केवल समास की ही प्रातिपदिक संज्ञा का नियम किया गया है । इससे वाक्यरूप पदसमुदाय की प्रातिपदिक संज्ञा नहीं होती है -देवदत्तो वेदं पठति ।

        १.२.४७

सूत्राणि:॥ ह्रस्वो नपुंसके प्रातिपदिकस्य

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - ह्रस्वः १।१ नपुंसके ७।१ प्रातिपदिकस्य ६।१।

अन्वयः - नपुंसके प्रातिपदिकस्य ह्रस्वः ।

अर्थः - नपुंसकलिङ्गेऽर्थे वर्तमानस्य प्रातिपदिकस्य ह्रस्वो भवति ।

उदाहरणम् - (रै) अतिरि कुलम् । (नौ) अतिनु कुलम् ।   

आर्यभाषार्थ - (नपुंसके) नपुंसकलिङ्ग अर्थ में विद्यमान (प्रातिपदिकस्य) प्रातिपदिक के अन्तिम अच् को (ह्रस्व:) ह्रस्व आदेश होता है ।

उदाहरणम् - (रै) अतिरि कुलम् । धन को जीतनेवाला कुल। (नौ) अतिनु कुलम् । नौका को जीतनेवाला कुल ।

सिद्धिः - (१) अतिरि । अति+रै। अति+रि । अतिरि+सु । अतिरि। यहां 'अत्यादयः कान्ताद्यर्थे द्वितीयया' (वा०२।२।१८) से प्रादि- समास है । 'रायम् अतिक्रान्तमिति अतिरि कुलम्' यहां 'अतिरि' शब्द 'कुलम्' का विशेषण होने से नपुंसकलिङ्ग अर्थ में विद्यमान है, अत: उसे इस सूत्र से ह्रस्व हो जाता है । 'एच इग्घ्रस्वादेशे' (१.१.४८) से 'एच्' के स्थान में 'इक्' ही ह्रस्व होता है । इसी प्रकार से 'नावमतिक्रान्तमिति अतिनु कुलम्' समझें ।

        १.२.४८

सूत्राणि:॥ गोस्त्रियोरुपसर्जनस्य

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - गो- स्त्रियोः ६।२ उपसर्जनस्य ६।१।

समासः - गौश्च स्त्री च ते - गोस्त्रियौ, तयो: - गोस्त्रियो: । (इतरेतरयोगद्वन्द्वः) ।

अनुवृत्तिः - 'ह्रस्वः, प्रातिपदिकस्य' इत्यनुवर्तते ।

अन्वयः - उपसर्जनस्य गोस्त्रियोः प्रातिपदिकस्य ह्रस्वः ।

अर्थः - उपसर्जन गोशब्दान्तस्य, उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति ।

उदाहरणम् - (उपसर्जनगोशब्दान्तस्य) चित्रा गावो यस्य सः - चित्रगुः । शबला गावो यस्य सः-शबलगु: । (उपसर्जनस्त्रीप्रत्ययान्तस्य) निष्क्रान्तः कौशाम्ब्या इति निष्कौशाम्बिः ।

आर्यभाषार्थ - (उपसर्जनस्य) उपसर्जन संज्ञावाले (गो-स्त्रियोः) गो-शब्दान्त तथा स्त्रीप्रत्ययान्त (प्रातिपदिकस्य) प्रातिपदिक के अन्त्य अच् को (ह्रस्वः) ह्रस्व होता है ।

उदाहरणम् - (उपसर्जन गोशब्दान्त) चित्रा गावो यस्य सः - चित्रगुः । शबला गावो यस्य सः - शबलगुः । (उपसर्जनस्त्रीप्रत्ययान्त) निष्क्रान्तः कौशाम्ब्या इति निष्कौशाम्बिः ।

सिद्धिः - (१) चित्रगुः । चित्र+गो+सु । यहां 'अनेकमन्यपदार्थे' (२.२.२४) से बहुव्रीहि समास है । सूत्र में 'अनेकम्' पद प्रथमा विभक्ति से निर्दिष्ट होने से बहुव्रीहि समास में दोनों पद उपसर्जन होते हैं । यहां बहुव्रीहि समास में गो शब्द के उपसर्जन होने से गोशब्दान्त प्रातिपदिक 'चित्रगो' शब्द को ह्रस्व हो जाता है ।

(२) निष्कौशाम्बि: । निस्+कौशाम्बी। निष्क्रान्तः कौशाम्ब्या इति निष्कौशाम्बिः । यहां निरादय: क्रान्ताद्यर्थे पञ्चम्याः' (वा०२।२।१८) से प्रादि समास है और 'एकविभक्ति चापूर्वनिपाते से स्त्रीप्रत्ययान्त कौशाम्बी शब्द की उपसर्जन संज्ञा है । इस सूत्र से उसे ह्रस्व का विधान किया गया है ।

       १.२.४९

सूत्राणि:॥ लुक् तद्धितलुकि

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - लुक् १।१ तद्धितलुकि ७।१।

समासः - तद्धितस्य लुक् इति तद्धितलुक, तस्मिन् तद्धितलुकि (षष्ठीतत्पुरुषः) ।

अनुवृत्तिः - 'स्त्री, उपसर्जनस्य' इत्यनुवर्तते ।

अन्वयः - तद्धितलुकि उपसर्जनस्य स्त्रीप्रत्ययस्य लुक् । अर्थः -तद्धितप्रत्ययस्य लुकि सति, उपसर्जनस्य स्त्रीप्रत्ययस्यापि लुग् भवति ।

उदाहरणम् - पञ्चेन्द्राण्यो देवता अस्येति - पञ्चेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीत इति पञ्चशष्कुलि: । आमलक्याः फलमिति आमलकम् ।

आर्यभाषार्थ - (तद्धित-लुकि) तद्धितप्रत्यय का लुक् हो जाने पर (उपसर्जनस्य) उपसर्जनसंज्ञावाले (स्त्रियः) स्त्रीप्रत्यय का (लुक्) लुक् हो जाता है ।

उदाहरणम् - पञ्चेन्द्राण्यो देवता अस्येति पञ्चेन्द्रः । वह पुरोडाश जिसकी पांच इन्द्राणियां स्वामिनी हैं । दशेन्द्राण्यो देवता अस्येति-दशेन्द्र: । वह पुरोडाश जिसकी दस इन्द्राणियां स्वामिनी हैं । पञ्चभिः शष्कुलीभिः क्रीत इति पञ्चशष्कुलिः । पांच कचोरियों से खरीदा हुआ पदार्थ । आमलक्याः फलमिति आमलकम् । आंवला फल ।

(१) पञ्चेन्द्रः । पञ्च+इन्द्राणी+अण् । पञ्च+इन्द्राणी+०। पञ्चेन्द्र+सु । पञ्चेन्द्रः । यहां 'सास्य देवता' (४.२.२४) से तद्धित 'अन्' प्रत्यय, उसका 'द्विगोर्लुगपत्यें (४ ११।८८) से लुक् हो जाने पर इस सूत्र से इन्द्राणी शब्द में विद्यमान स्त्री-प्रत्यय का भी लुक् हो जाता है । इसी प्रकार से दशेन्द्रः ।

(२) पञ्चशष्कुलिः । पञ्च+शष्कुली+अण् । पञ्च+शष्कुली+०। पञ्च+शष्कुलि+सु । पञ्चशष्कुलिः । यहां न क्रीतम् (५.१.३७) से तद्धित 'अणु' प्रत्यय और पूर्ववत् उसका लुक हो जाने पर इस सूत्र से शष्कुली शब्द में विद्यमान स्त्री-प्रत्यय का भी लुक् हो जाता है ।

(३) आमलकम् । आमलकी+अण् । आमलकी+०। आमलक+सु । आमलकम् । यहां 'अवयवे च प्राण्योषधिवृक्षेभ्यः' (४.३.१३५) से विकार और अवयव अर्थ में

अण् प्रत्यय और उसका 'फले लुक्' (४.३.१६३) से लुक् हो जाने पर आमलकी शब्द में विद्यमान स्त्री-प्रत्यय का भी लुक् हो जाता है ।

         १.२.५०

सूत्राणि:॥ इद्गोण्याः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - इत् १।१ गोण्या: १।१।       

अनुवृत्तिः - 'तद्धितलुकि' इत्यनुवर्तते ।

अन्वयः - तद्धितलुकि गोण्या इत् ।

अर्थः - तद्धितप्रत्ययस्य लुकि सति गोणीशब्दस्य इकारादेशो भवति । पूर्वसूत्रेण लुकि प्राप्ते तदपवाद इकारादेशो विधीयते ।

उदाहरणम् - पञ्चभिर्गोणीभिः क्रीत इति पञ्चगोणिः पटः । दशभिर्गोणीभि: क्रीत इति दशगोणिः पटः ।

आर्यभाषार्थ - (गोण्या) गोणी शब्द से विहित (तद्धितलुकि) तद्धित प्रत्यय का लुक् हो जाने पर, उस गोणी शब्द के अन्त्य अच् को (इत्) इकार आदेश होता है । पूर्वसूत्र से स्त्रीप्रत्यय के लुक करने का विधान किया गया था। इस सूत्र से स्त्रीप्रत्यय का लुक् न होकर इकार आदेश का विधान किया है ।

उदाहरणम् - पञ्चभिर्गोणीभिः क्रीत इति पञ्चगोणिः पटः । दशभिर्गोणीभिः क्रीत इति दशगोणिः पटः । पांच वा दश गोणी देकर खरीदा हुआ कपड़ा ।

सिद्धिः - (१) पञ्चगोणिः । पञ्चगोणी+अणु । पञ्चगोणी+०। पञ्चगोणि+सु । पञ्चगोणि: । यहां तेन क्रीतम्' (५.१.३७) से तद्धित अणु प्रत्यय और उसका पूर्ववत् लुक् हो जाने पर गोणी शब्द में विद्यमान स्त्रीप्रत्यय को इस सूत्र से इकार आदेश हो जाता है । गोणी = एकद्रोण (२० सेर) ।

        १.२.५१

सूत्राणि:॥ लुपि युक्तवद्व्यक्तिवचने

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - लुपि ७।१, युक्तवद् अव्ययपदम्, व्यक्तिवचने १।२। 

समासः - युक्तेन तुल्यमिति युक्तवत् (तद्धितवृत्तिः) । व्यक्तिश्च वचनं च ते व्यक्तिवचने (इतरेतरयोगद्वन्द्वः) ।

अन्वयः - तद्धितलुपि व्यक्तिवचने ।

अर्थ: - तद्धितप्रत्ययस्य लुपि सति व्यक्तिवचने= लिङ्गसंख्ये युक्तवत् = पूर्ववद् भवतः । पञ्चाला नाम क्षत्रिया:, तेषां निवासो जनपद: - पञ्चालाः । कुरव: । मगधा: । मत्स्याः । अङ्गाः । बङ्गा । सुमा: । पुण्ड्राः ।

आर्यभाषार्थ - (लुपि) तद्धित प्रत्यय का लुप् हो जाने पर (व्यक्ति-वचने) लिङ्ग और संख्या (युक्तवत्) जिससे वह प्रत्यय युक्त किया था उस प्रकृति के ही समान होते हैं ।

उदाहरणम् - पञ्चाला नाम क्षत्रियाः, तेषां निवासो जनपद: पञ्चाला कुरवः । मगधाः । मत्स्याः । अङ्गा । बङ्गा । सुमाः । पुण्ड्राः ।

सिद्धिः - (१) पञ्चालाः । पञ्चाल+अणु । पञ्चाल+०। पञ्चाल+जस् । पाञ्चालाः । यहां क्षत्रियवाची पुंलिङ्ग बहुवचन विषय पञ्चाल शब्द से 'तस्य निवास:' ४।२।६१९) से तद्धित अण् प्रत्यय और जनपदे लुप' (४.२.८१) से उसका लुप् हो जाने पर पञ्चाल शब्द के लिङ्ग और वचन पूर्ववत् रहते हैं ।

विशेष - व्यक्ति और वचन क्रमशः लिङ्ग और संख्या की पूर्वाचार्यकृत संज्ञायें हैं । 

        १.२.५२

सूत्राणि:॥ विशेषणानां चाजातेः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः -     विशेषणानाम् ६।३ च अव्ययपदम् अजाते: ६।१।  

समासः - विशेषणं च   विशेषणं च विशेषणं च तानि - विशेषणानि, तेषाम् विशेषणानाम् (एकशेषद्वन्द्वः) न जातिरिति - अजातिः, तस्या: - अजातेः ।  

अनुवृत्तिः - 'लुपि युक्तवद व्यक्तिवचने' इति सर्वमनुवर्तते ।

अन्वयः - तद्धितलुपि   विशेषणानां च व्यक्तिवचने युक्तवद् अजातेः । 

अर्थः - तद्धितप्रत्ययस्य लुपि सति तस्य विशेषणानामपि व्यक्तिवचने= लिङ्गसंख्ये युक्तवत् = पूर्ववद् भवतः, जातिं वर्जयित्वा ।

उदाहरणम् - पञ्चाला नाम क्षत्रिया:, तेषां निवासो जनपद: पञ्चालाः, रमणीयाः, बह्वन्नाः, बहुक्षीरघृता: बहुमाल्यफलाः ।

आर्यभाषार्थ - (लुपि) प्रत्यय का लुप् हो जाने पर (विशेषणानाम्) विशेषणवाची शब्दों के (च) भी (व्यक्ति-वचने) लिङ्ग और वचन (युक्तवत्) जिससे वह प्रत्यय युक्त किया था उस प्रकृति के समान ही होते हैं (अजाते:) जातिवाची विशेषणों को छोड़कर ।

उदाहरणम् - पञ्चाला नाम क्षत्रिया:, तेषां निवासो जनपदः पञ्चालाः । ते रमणीयाः, बहुवन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः । पञ्चाल नामक क्षत्रियों का पञ्चाल नामक जनपद सुन्दर, बहुत अन्नवाला, बहुत दूध और घीवाला और बहुत फूल और फलवाला है ।

सिद्धिः - (१) पञ्चाला रमणीया: । यहां पञ्चाल शब्द से पूर्ववत् तद्धित प्रत्यय के लुप् हो जाने पर उसके विशेषणवाची रमणीय आदि शब्दों के लिङ्ग और वचन भी युक्तवत् (प्रकृतिवत्) रहते हैं ।

        १.२.५३

सूत्राणि:॥ तदशिष्यं संज्ञाप्रमाणत्वात्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - तत् १।१ अशिष्यम् १।१ संज्ञा-प्रमाणत्वात् ५।१।     

समासः - शासितुं योग्यं शिष्यम्, न शिष्यमिति - अशिष्यम् (नञ्तत्पुरुषः), संज्ञायाः प्रमाणमिति संज्ञाप्रमाणम् (षष्ठीतत्पुरुषः), संज्ञाप्रमाणस्य भाव इति संज्ञाप्रमाणत्वम्, तस्मात् - संज्ञाप्रमाणत्वात् (तद्धितवृत्तिः) ।

अर्थः - तद् युक्तवद्द्भाववचनं अशिष्यम् = न कर्त्तव्यम्, संज्ञाप्रमाणत्वात् = लोकप्रमाणत्वात् ।

उदाहरणम् - पञ्चालाः, वरणाः । जनपदसंज्ञा एता: । अत्र लिङ्गवचनं लोकसिद्धमेव ।

आर्यभाषार्थ - (तद्) वह पूर्वोक्त युक्तवद् भाव (अशिष्यम्) उपदेश करने के योग्य नहीं है, क्योंकि (संज्ञा-प्रमाणत्वात्) संज्ञा के प्रमाण होने से ।

प्रत्यय का लुप् हो जाने पर शब्द के लिग और वचन को युक्तवत् पूर्ववत् बनाये रखने के लिये पूर्वाचार्यों ने जो सूत्र बनाये हैं, उनका पाणिनिमुनि ने यहां खण्डन किया है कि उस युक्तवद् भाव के उपदेश की कोई आवश्यकता नहीं है, क्योंकि पञ्चालाः ' आदि शब्द कोई योगजन्य शब्द नहीं हैं, अपितु ये संज्ञा शब्द हैं । ये जनपद की संज्ञायें हैं । उनमें लिग और वचन स्वभावसिद्ध हैं, यत्नसाध्य नहीं । जैसे आप:, दाराः, गृहाः, सिकलाः, वर्षा आदि शब्दों के लिङग और वचन संज्ञाप्रमाण से सिद्ध हैं ।

         १.२.५४

सूत्राणि:॥ लुब्योगाप्रख्यानात्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - लुप् १।१ योग- अप्रख्यानात् ५।१।

समासः - न प्रख्यानमिति अप्रख्यानम् (नञ्तत्पुरुषः) । योगस्य अप्रख्यानमिति योगाप्रख्यानम्, तस्मात् - योगाप्रख्यानात् (षष्ठीतत्पुरुषः) ।  

अनुवृत्तिः - 'अशिष्यम्' इत्यनुवर्तते ।

अन्वयः - लुब् अशिष्यं योगाप्रख्यानात् ।

अर्थः - लुप् - विधायकं सूत्रमपि अशिष्यम् = न वक्तव्यम्, योगाप्रख्यानात् = सम्बन्धस्याऽप्रसिद्धत्वात् ।

उदाहरणम् - पञ्चालाः । वरणाः । एता देशविशेषस्य संज्ञा:, न हि निवाससम्बन्धादेव पञ्चालाः कथ्यन्ते, न हि वृक्षविशेषसम्बन्धादेव ते 'वरणा:' इत्युच्यन्ते ।

आर्यभाषार्थ - (लुप्) विधायक सूत्र भी (अशिष्यम्) उपदेश करने के योग्य नहीं है, क्योंकि (रोग अप्रख्यानात्) योग-सम्बन्ध के अप्रसिद्ध होने से।

उदाहरणम् - पञ्चालाः । वरणाः ।

सिद्धिः - लुप का विधान करनेवाले 'जनपदे लुप्' (४.२.८१) और 'वरणादिभ्यश्च' (४.२.८२) सूत्रों के उपदेश की कोई आवश्यकता नहीं है, क्योंकि वरण नाम वृक्ष विशेष के योग से 'वरणा:' शब्द प्रख्यात होगया है; ऐसी बात नहीं है किन्तु ये तो जनपद आदि की संज्ञायें ही हैं । इसलिये यहां 'तस्य निवास:' (४.२.६९) तथा 'अदूरभवश्च' (४.२.७०) से तद्धित प्रत्यय ही नहीं हो सकता, फिर उसे लुप् करने का प्रश्न ही उत्पन्न नहीं होता ।

       १.२.५५

सूत्राणि:॥ योगप्रमाणे च तदभावेऽदर्शनं स्यात्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - योगप्रमाणे ७।१ च अव्ययपदम्, तदभावे ७।१। अदर्शनम् १।१, स्यात् क्रियापदम् ।

समासः - योगस्य प्रमाणमिति योगप्रमाणम्, तस्मिन् योगप्रमाणे (षष्ठीतत्पुरुषः) । तस्याभाव इति तदभाव:, तस्मिन् - तदभावे (षष्ठीतत्पुरुषः) । न दर्शनमिति अदर्शनम् (नञ्तत्पुरुषः) । 

अनुवृत्तिः - 'लुप् अशिष्यम्' इत्यनुवर्तते ।

अन्वयः - योगप्रमाणे च तद् अशिष्यं तदभावेऽदर्शनं स्यात् ।      

अर्थः - योगप्रमाणे = सम्बन्ध   विशेषस्य प्रमाणे सत्यपि लुप्-विधायकं सूत्रम् अशिष्यम् = न वक्तव्यम्, यतो हि तदभावे = सम्बन्धविशेषस्याभावे तस्य शब्दप्रयोगस्यापि अदर्शनम् = लोप: स्यात् न च तथा भवति ।

आर्यभाषार्थ - (योगप्रमाणे) यदि योग = सम्बन्धविशेष को प्रमाण मान लेने पर (च) भी (लुप्) लुप् विधायक सूत्र (अशिष्यम्) उपदेश करने योग्य नहीं है क्योंकि (तदभावे) उस योग सम्बन्धविशेष का अभाव हो जाने पर (अदर्शनम्) उस शब्द के प्रयोग का भी लोप (स्यात्) हो जाना चाहिये ।

सिद्धिः - यदि कोई आचार्य यह कहता है कि 'पञ्चाला:' नामक क्षत्रियों के निवास के योग से उस जनपद का नाम 'पञ्चालाः ' है और 'वरणा:' नामक वृक्ष विशेष के योग से किसी जनपद का नाम 'वरणा:' है तो यह नाम योग (सम्बन्ध) के अभाव में नहीं रहना चाहिये, किन्तु ऐसा नहीं है । अब उन क्षत्रियों के सम्बन्ध के विना भी उस जनपद को 'पञ्चालाः ' कहा जाता है और 'वरण' नामक वृक्ष    विशेष के सम्बन्ध के विना भी 'तरणा' कहा जारहा है । रोहितक (रोहेड़ा) वन न रहने पर भी रोहतक कहा जारहा है ।

       १.२.५६

सूत्राणि:॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - प्रधान- प्रत्ययार्थवचनम् १।१ अर्थस्य ६।१अन्यप्रमाणत्वात् ५।१।

समासः - प्रधानं च प्रत्ययश्च तौ- प्रधानप्रत्ययौ तयोः प्रधानप्रत्यययोः, अर्थस्य वचनम् इति अर्थवचनम् प्रधानप्रत्यययोरर्थवचनमिति प्रधानप्रत्ययार्थवचनम् (इतरेतरयोगद्वन्द्वगर्भितषष्ठीतत्पुरुषः) । अन्यस्य प्रमाणमिति - अन्यप्रमाणम्, अन्यप्रमाणस्य भावोऽन्यप्रमाणत्वम्, तस्मात्- अन्यप्रमाणत्वात् (षष्ठीतत्पुरुषगर्भिततद्धितवृत्ति:) ।

अनुवृत्तिः - 'अशिष्यम्' इत्यनुवर्तते ।

अन्वयः - प्रधानप्रत्ययार्थवचनं चाशिष्यमर्थस्यान्यप्रमाणत्वात् ।  

अर्थः - प्रधानार्थवचनं प्रत्ययार्थवचनं चाशिष्यम् = न वक्तव्यम्, अर्थस्याऽन्यप्रमाणत्वात्-लोकप्रमाणत्वात् । शास्त्रादन्यो लोकः ।

पुरा वैयाकरणैः 'प्रधानोपर्सजने प्रधानार्थं सह ब्रूतः', प्रकृतिप्रत्ययौ सहार्थं ब्रूतः' इति प्रधानार्थवचनं प्रत्ययार्थवचनं च कृतम् । तत् पाणिनिः प्रत्याचष्टे - प्रधानार्थवचनं प्रत्ययार्थवचनं च लोकप्रमाणत एव सिद्धम् । 'राजपुरुषमानय' इत्युक्ते न राजानमानयन्ति न च पुरुषपात्रम्, अपितु राजविशिष्ट: पुरुष आनीयते । 'औपगवमानय' इत्युक्ते नोपगुमानयन्ति न चापत्यमात्रम्, अपितु उपगुविशिष्टमपत्यमानीयते । लोको हि प्रधानार्थवचनं च सम्यग् अवगच्छति, किं तत्र शास्त्रप्रयासेन ?

आर्यभाषार्थ - (प्रधान- प्रत्ययार्थवचनम्) प्रधानार्थ और प्रत्ययार्थ का कथन भी (अशिष्यम्) उपदेश करने के योग्य नहीं है क्योंकि (अर्थस्य) अर्थ के सम्बन्ध में (अन्यप्रमाणत्वात्) शास्त्र से अन्य = लोक को ही प्रमाण मानने से ।

सिद्धिः - पूर्वाचार्यों ने “प्रधानोपसर्जने प्रधानार्थं सह ब्रूत" अर्थात् प्रधान और उपसर्जन = गौण दोनों पद मिलकर समास में प्रधान अर्थ का कथन करते हैं ।, 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः' प्रकृति और प्रत्यय मिलकर प्रत्ययार्थ का कथन करते हैं, इस प्रकार के सूत्र बनाये थे। इस विषय में पाणिनिमुनि का मत यह है कि इस प्रकार के सूत्र- उपदेश की कोई आवश्यकता नहीं है, क्योंकि शब्दों के द्वारा अर्थ का कथन स्वाभाविक है, पारिभाषिक नहीं और वह लोक-प्रमाण से सिद्ध हो जाता है । जिन लोगों ने व्याकरण नहीं पढ़ा वे भी, जब यह कहा जाता है कि 'राजपुरुषमानय' अर्थात् राजपुरुष को बुलाओ तो वे राजविशिष्ट पुरुष को ले आते हैं, राजा को अथवा पुरुषमात्र को नहीं लाते। जो प्रयोजन लोक से सिद्ध है, उसमें शास्त्र उपदेश रूप प्रयत्न करने की क्या आवश्यकता है ?

       १.२.५७

सूत्राणि:॥ कालोपसर्जने च तुल्यम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - काल- उपसर्जने १।२ च अव्ययपदम् तुल्यम् १।१।   

समासः - कालश्च उपसर्जनं च ते - कालोपसर्जने (इतरेतरयोगद्वन्द्वः) ।     

अनुवृत्तिः - 'अशिष्यम्' इत्यनुवर्तते ।

अन्वयः - कालोपसर्जने च तुल्यम् अशिष्यम् ।

अर्थः - काल उपसर्जनं च पूर्वेण तुल्यम् अशिष्यम् = न वक्तव्यम्, तत्रापि लोकप्रमाणत्वात् ।

पुरा वैयाकरणै: 'आन्याय्यादुत्थानादान्याय्याच्च संवेशनाद् एषोऽद्य- तन: काल:' इति काललक्षणं कृतम्, 'अप्रधानमुपसर्जनम्' इति चोपसर्जनलक्षणं कृतम् । तत् पाणिनिः प्रत्याचष्टे - इदं काललक्षणमुपसर्जनलक्षणं च लोकप्रमाणत एव सिद्धम्, किं तत्र शास्त्रप्रयत्नेन ?

आर्यभाषार्थ - (काल-उपसर्जने) काल और उपसर्जन (च) भी (तुल्यम्) पूर्व के समान (अशिष्यम्) उपदेश करने योग्य नहीं हैं क्योंकि उनमें भी (अन्यप्रमाणत्वात्) शास्त्र से अन्य लोक को ही प्रमाण मानने से ।

सिद्धिः - कुछ वैयाकरणों ने काल और उपसर्जन की परिभाषायें की हैं । जैसे 'आन्याय्यादुत्यानादान्याय्याच्च संवेशनात् एषोऽद्यतन: काल:' अर्थात् उठने से लेकर सोने तक के काल को अद्यतन काल कहते हैं । 'अहरुभयतोऽर्धरात्रम् एषोऽद्यतन: काल:' अर्धरात्रि के दोनों ओर जो दिन है, उसे अद्यतन काल कहा जाता है । 'प्रधानमुपसर्जनम्' अप्रधान को उपसर्जन कहते हैं । इस विषय में पाणिनिमुनि का मत यह है कि काल और उपसर्जन के लक्षण-उपदेश की कोई आवश्यकता नहीं है, क्योंकि यह लोकप्रमाण से ही सिद्ध हो जाता है । जिन लोगों ने व्याकरण नहीं पढ़ा वे भी ऐसा कहते हैं कि 'इदमस्माभिरद्य कृतम्, इदं श्वः कर्त्तव्यम्, इदं हाः कृतम्' इत्यादि । इसी प्रकार 'उपसर्जनं वयमत्र गृहे ग्रामे वा' ऐसा कहने पर लोक में यह समझा जाता है कि हम इस घर में अथवा ग्राम में अप्रधान हैं । अतः जो अर्थ लोक से सिद्ध है, उसमें शास्त्र के द्वारा प्रयत्न करने की क्या आवश्यकता है ?

         १.२.५८

सूत्राणि:॥ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - जाति-आख्यायाम् ७।१ एकस्मिन् ७।१ बहुवचनम् १।१ अन्यतरस्याम् अव्ययम् ।

समासः - जातेराख्या इति जात्याख्या,तस्याम् -जात्याख्यायाम् (षष्ठीतत्पुरुषः) ।

अन्वयः - जात्याख्यायामेकस्मिन् अन्यतरस्यां बहुवचनम् ।       

अर्थः - जाति-आख्यामेकस्मिन्नर्थे विकल्पेन बहुवचनं भवति । 

उदाहरणम् - (एकवचनम्) सम्पन्नो यव: । सम्पन्नो व्रीहिः । पूर्ववया ब्राह्मणो प्रत्युत्थेय: । (बहुवचनम्) सम्पन्ना यवाः । सम्पन्ना व्रीहयः । पूर्ववयसो ब्राह्मणाः प्रत्युत्थेया: ।

आर्यभाषार्थ - (जाति- आख्यायाम्) जाति का कथन करते समय (एकस्मिन्) एकवचन में (अन्यतरस्याम्) विकल्प से (बहुवचन) बहुवचन होता है ।

उदाहरणम् - (एकवचन) सम्पन्नो पवः । (बहुवचन) सम्पन्ना यवाः । समृद्ध जौ । (एकवचन) सम्पन्नो व्रीहि: । (बहुवचन) सम्पन्ना वीहय: । समृद्ध चावल । (एकवचन) पूर्ववया ब्राह्मणः प्रत्युत्थेयः । (बहुवचन) पूर्वयवसो ब्राह्मणा प्रत्युत्थेयाः । पूर्वज ब्राह्मण का प्रत्युत्थानपूर्वक आदर करना चाहिये ।

विशेष - जाति एक अर्थ की वाचक होती है, इसलिये उसमें श्येकयोर्द्विर्वचनैकवचने (१.४.२२) से एकवचन ही हो सकता है । इस सूत्र से एकार्थवाची जाति शब्द में बहुवचन का भी उपदेश किया है ।

       १.२.५९

सूत्राणि:॥ अस्मदो द्वयोश्च

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - अस्मदः ६।१द्वयोः ७।२ च अव्ययपदम् ।     

अनुवृत्तिः - 'एकस्मिन् बहुवचनमन्यतरस्याम्' इत्यनुवर्तते ।       

अन्वयः - अस्मद एकस्मिन् द्वयोश्चान्यतरस्यां बहुवचनम् ।

अर्थः - अस्मद्-शब्दस्यैकवचने द्विवचने च विकल्पेन बहुवचनं भवति । 

उदाहरणम् - (एकवचने) अहं ब्रवीमि । वयं ब्रूमः । (द्विवचने) आवां ब्रूवः । वयं ब्रूमः ।

आर्यभाषार्थ - (अस्मदः) अस्मद् शब्द के प्रयोग में (एकस्मिन्) एकवचन में और (द्वयोः) द्विवचन में (च) भी (अन्यतरस्याम्) विकल्प से (बहुवचनम्) बहुवचन होता है ।

उदाहरणम् - एकवचन में बहुवचन - अहं ब्रवीमि । मैं बोलता हूं । वयं ब्रूमः । हम बोलते हैं । (द्विवचन में बहुवचन) आवां ब्रूवः । हम दोनों बोलते हैं । वयं ब्रूमः । हम सब बोलते हैं ।

       १.२.६०

सूत्राणि:॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - फल्गुनी - प्रोष्ठपदानाम् ६।३ च अव्ययपदम्, नक्षत्रे ७।१।     

समासः - फल्गुन्यौ च प्रोष्ठपदे च ताः फल्गुनीप्रोष्ठपदाः, तासाम् - फल्गुनीप्रोष्ठपदानाम् (इतरेतरयोगद्वन्द्वः) ।

अनुवृत्तिः - 'द्वयोः, बहुवचनम्, अन्यतरस्याम्' इत्यनुवर्तते ।

अन्वयः - नक्षत्रे फल्गुनीप्रोष्ठपदानां च द्वयोर्बहुवचनमन्यतरस्याम् ।        

अर्थः - नक्षत्रवाचिनां फल्गुनी - प्रोष्ठपदानां च द्विवचने विकल्पेन बहुवचनं भवति ।

उदाहरणम् - (फल्गुनी) द्विवचनम् -कदा पूर्वे फल्गुन्यौ । बहुवचनम् -कदा पूर्वा: फल्गुन्य: । (प्रोष्ठपदा) द्विवचनम् -कदा पूर्वे प्रोष्ठपदे । बहुवचनम् - कदा पूर्वा: प्रोष्ठपदाः ।

आर्यभाषार्थ - (नक्षत्रे) नक्षत्रवाची (फल्गुनी-प्रोष्ठपदयोः) फल्गुनी और प्रोष्ठपदा शब्दों के (द्वयोः) द्विवचन में (अन्यतरस्याम्) विकल्प से (बहुवचनम्) बहुवचन होता है ।      

उदाहरणम् - (फल्गुनी) द्विवचन - कदा पूर्वे फल्गुन्यः । बहुवचन-कदा पूर्वाः फल्गुन्मः । पूर्वा फल्गुनी नक्षत्र कब है ? (प्रोष्ठपदा) द्विवचन-कदा पूर्वे प्रोष्ठपदे । बहुवचन-कदा पूर्वा: प्रोष्ठपदाः । पूर्वा प्रोष्ठपदा नक्षत्र कब है ?

विशेष - (१) नक्षत्रों के नाम- अश्विनी (अश्वयुक्) । भरणी। कृत्तिका। रोहिणी । मृगशीर्ष (मृगशिर:, आग्रहायणी) । आर्द्रा । पुनर्वसु । पुष्य (सिध्य, तिष्य) । आश्लेषा । मघा । पूर्वा फल्गुनी । उत्तरा फल्गुनी । हस्त । चित्रा । स्वाति । विशाखा । अनुराधा । ज्येष्ठा । मूल । पूर्वाषाढा । उत्तराषाढा । श्रवण । धनिष्ठा (श्रविष्ठा) । शतभिषज् । पूर्वा भाद्रपदा (पूर्वा प्रोष्ठपदा)। उत्तरा भाद्रपदा (उत्तरा प्रोष्ठपदा)। रेवती। ये २७ सत्ताईस नक्षत्र होते हैं । अथर्ववेद का०१९ सू० ७ में २८वें अभिजित् नक्षत्र का भी वर्णन है । 'अष्टाविंशानि शिवानि (अ०१९ १८।२) ।

(२) पूर्वा फल्गुनी दो नक्षत्रों का नाम है, किन्तु उनके द्विवचन में विकल्प से बहुवचन भी होता है । प्रोष्ठपदा (पूर्वा भाद्रपदा, उत्तरा भाद्रपदा) भी दो नक्षत्रों का नाम है किन्तु उनके द्विवचन में विकल्प से बहुवचन भी होता है ।

      १.२.६१

सूत्राणि:॥ छन्दसि पुनर्वस्वोरेकवचनम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - छन्दसि ७।१ पुनर्वस्वोः ६।२ एकवचनम् १।१।

अनुवृत्तिः - 'नक्षत्रे द्वयोरन्यतरस्याम्' इत्यनुवर्तते ।

अन्वयः - छन्दसि नक्षत्रे पुनर्वस्वोर्द्वयोरन्यतरस्यामेकवचनम् । अर्थः -छन्दसि=वैदिकभाषायां नक्षत्रवाचिनोः पुनवस्वोर्द्विवचने विकल्पेन एकवचनं भवति ।

उदाहरणम् - (द्विवचनम्) पुनर्वसू नक्षत्रमदितिर्देवता । (एकवचनम्) पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसू नाम द्वे नक्षत्रे । तत्र द्वित्वविवक्षायां द्विवचने प्राप्ते पक्षे एकवचनं विधीयते ।

आर्यभाषार्थ - (छन्दसि) छन्द विषय में (नक्षत्रे) नक्षत्रवाची (पुनर्वस्वो:) पुनर्वसु शबद के (द्वयोः) द्विवचन में (अन्यतरस्याम्) विकल्प से (एकवचनम्) एकवचन होता है ।      

उदाहरणम् - (द्विवचन) पुनर्वसू नक्षत्रमदितिर्देवता । (एकवचन) पुनर्वसुर्नक्षत्रमदितिर्देवता ।

विशेष - पुनर्वसु दो नक्षत्र हैं, उनके द्विवचन में छन्द विषय में एकवचन भी हो जाता है । पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसु नक्षत्र है और अदिति उसका देवता है । 

          १.२.६२

सूत्राणि:॥ विशाखयोश्च

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - विशाखयोः ७।२ च अव्ययपदम् ।

अन्वयः - 'छन्दसि नक्षत्रे द्वयोः एकवचनम्, अन्यतरस्याम्' इत्यनुवर्तते । 

अनुवृत्तिः - छन्दसि नक्षत्रे विशाखायोश्च द्वयोरन्यतरस्यामेकवचनम् ।      

अर्थः - छन्दसि = वैदिकभाषायां नक्षत्रवाचिनोर्विशाखयोर्द्विवचने विकल्पेन एकवचनं भवति ।

उदाहरणम् - (द्विवचनम्) विशाखे नक्षत्रमिन्द्राग्नी देवता । (एकवचनम्) विशाखा नक्षत्रमिन्द्राग्नी देवता ।

विशाखा नाम द्वे नक्षत्रे । तत्र द्वित्वविवक्षायां द्विवचने प्राप्ते पक्षे एकवचनं विधीयते ।

आर्यभाषार्थ - (छन्दसि) छन्द विषय में (नक्षत्रे) नक्षत्रवाची (विशाखयोः) विशाखा शब्द के (द्वयोः) द्विवचन में (अन्यतरस्याम्) विकल्प से (एकवचनम्) एकवचन होता है । द्विवचन-विशाखे नक्षत्रमिन्द्राग्नी देवता । एकवचन-विशाखा नक्षत्रमिन्द्राग्नी देवता ।

विशेष - (१) विशाखा दो नक्षत्र हैं । उनके द्विवचन में छन्द विषय में एकवचन भी हो जाता है । विशाखा नक्षत्रमिन्द्राग्नी देवता । विशाखा नक्षत्र है और उसका इन्द्राग्नी देवता है ।

     १.२.६३

सूत्राणि:॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - तिष्य-पुनर्वस्वोः ६।२ नक्षत्रद्वन्द्वे ७।१ बहुवचनस्य ६।१द्विवचनम् १।१ नित्यम् १।१।

समासः - तिष्यश्च पुनर्वसू च तौ - तिष्य - पुनर्वसू, तयो: - तिष्यपुनर्वस्वोः (इतरेतरयोगद्वन्द्वः) । नक्षत्राणां द्वन्द्व इति नक्षत्रद्वन्द्वः, तस्मिन् नक्षत्रद्वन्द्वे (षष्ठीतत्पुरुषः) ।

अन्वयः - तिष्य पुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य नित्यं द्विवचनम् ।

अर्थः - तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे कर्त्तव्ये बहुवचनस्य स्थाने नित्यं द्विवचनं भवति । उदितौ तिष्यपुनर्वसू दृश्येते । तिष्यो नाम एकं नक्षत्रम्, पुनर्वसू नाम द्वे नक्षत्रे । तत्र नक्षत्रद्वन्द्वे कर्त्तव्ये बहुत्वविवक्षायां बहुवचने प्राप्ते नित्यं द्विवचनं विधीयते ।

आर्यभाषार्थ - (तिष्य-पुनर्वस्वोः) तिष्य और पुनर्वसु शब्दों के (नक्षत्रद्वन्द्वे) नक्षत्रविषयक द्वन्द्व समास में (बहुवचनस्य) बहुवचन के स्थान में (नित्यम्) सदा (द्विवचनम्) द्विवचन होता है ।

उदाहरणम् - (द्विवचन) उदितौ तिष्यपुनर्वसू दृश्येते । उदित हुये तिष्य और पुनर्वसु नक्षत्र दिखाई दे रहे हैं ।

सिद्धिः - (१) तिष्यपुनर्वसू । तिष्यश्च पुनर्वसू च ते - तिष्यपुनर्वसू । (द्वन्द्वसमास) यहां तिष्य एक नक्षत्र है और पुनर्वसु दो नक्षत्र हैं । इनके द्वन्द्व समास में बहुत्व विवक्षा में बहुवचन होना चाहिये किन्तु इस सूत्र से वहां नित्य द्विवचन का ही विधान किया गया है । 

        १.२.६४

सूत्राणि:॥ सरूपाणामेकशेष एकविभक्तौ

व्याख्या:॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - सरूपाणाम् ६।३ एकशेषः १।१ एकविभक्तौ ७।१।    

समासः - समानं रूपं येषां ते सरूपा:, तेषाम् सरूपाणाम (बहुव्रीहि:) एकस्य शेष इति एकशेषः (षष्ठीतत्पुरुषः) । एका चासौ विभक्तिश्चेति एकविभक्तिः , तस्याम् -एकविभक्तौ (कर्मधारयः)

अन्वयः - सरूपाणामेकविभक्तावेकशेषः ।

अर्थः - सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति, एक: शिष्यतेः अन्ये निवर्तन्ते ।

उदाहरणम् - वृक्षश्च वृक्षश्च तौ-वृक्षौ । वृक्षश्च वृक्षश्च वृक्षश्च ते वृक्षाः ।      

आर्यभाषार्थ - (एकविभक्तौ) समान विभक्ति में विद्यमान (सरूपाणाम्) एकरूपवाले शब्दों में (एकशेषः) एक शब्द शेष रहता है, अन्य निवृत्त हो जाते हैं ।

उदाहरणम् - वृक्षश्च वृक्षश्च तौ वृक्षौ । दो वृक्ष । वृक्षश्च वृक्षश्च वृक्षश्च ते वृक्षाः । सब वृक्ष ।

विशेष - प्रत्येक अर्थ में शब्द का निवेश आवश्यक होने से एक शब्द से अनेक अर्थों का कथन नहीं किया जा सकता, और चाहते हैं कि एक शब्द से अनेक अर्थों का कथन किया जा सके। इसलिये यहां एकशेष प्रकरण का आरम्भ किया गया है ।

       १.२.६५

सूत्राणि:॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - वृद्धः १।१ यूना ३।१ तल्लक्षणः १।१ चेत् अव्ययपदम्, एव अव्ययपदम्, विशेष: १।१।

समासः - स: (गोत्रप्रत्ययः, युवप्रत्ययश्च) लक्षणम् निमित्तं यस्य स: - तल्लक्षण: (बहुव्रीहि:) ।

अनुवृत्तिः - 'शेष:' इत्यनुवर्तते ।

अन्वयः - वृद्धयूना सह शेष:, तल्लक्षणश्चेदेव    विशेषः ।. अर्थः -वृद्ध: -गोत्रप्रत्ययान्त: शब्द:, यूना = युवप्रत्ययान्तेन शब्देन सह शिष्यते, तत्र यदि तल्लक्षण: = गोत्रप्रत्ययलक्षणो युवप्रत्ययलक्षश्चैव        विशेषो भवति । वृद्ध इति पूर्वाचार्याणां गोत्रस्य संज्ञा ।

उदाहरणम् - गार्ग्यश्च गार्ग्यायणश्च तौ-गाग्यौं । वात्स्यश्च वात्स्यायनश्च तौ- वात्स्यौ ।

आर्यभाषार्थ - (यूना) युवप्रत्ययान्त शब्द के साथ (वृद्ध:) गोत्रप्रत्ययान्त शब्द (शेषः) शेष रहता है (चेत्) यदि वहां (तत्-लक्षण:) युवा और गोत्र प्रत्यय को बतलानेवाली (एव) ही ( विशेषः)   विशेषता हो। 'वृद्ध' यह पूर्वाचार्यों की गोत्र की संज्ञा है ।

उदाहरणम् - गार्ग्यश्च गार्ग्यायणश्च तौ गायौं । गार्ग्य और उसका पुत्र गार्ग्यायण, दोनों। वात्स्यश्च वात्स्यानश्च तौ वात्स्यौ । वात्स्य और उसका पुत्र वात्स्यायन, दोनों ।

सिद्धिः - (१) गायों । गार्ग्य+गार्ग्यायण+औ । गार्यो। यहां 'गार्ग्य' शब्द में 'गर्गदिभ्यो यञ्' (४.१.१०५) से गोत्रापत्य अर्थ में यञ् प्रत्यय है और तत्पश्चात् गार्ग्य शब्द से 'यञिञोश्च' (४.१.१०१) से युवापत्य अर्थ में फक् प्रत्यय है । गार्ग्य और गार्ग्यायण को एक साथ कहने में गोत्रप्रत्ययान्त 'गार्ग्य' शब्द शेष रह जाता है और युवप्रत्ययान्त गायपण शब्द निवृत्त हो जाता है -गार्ग्यौ ।

       

१.२.६६

सूत्राणि:॥ स्त्री पुंवच्च

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - स्त्री १।१ पुंवत् अव्ययपदम् च अव्ययपदम् । पुंसा तुल्यमिति पुंवत् (तद्धितवृत्ति:) ।

अनुवृत्तिः - 'शेष:, वृद्धो यूना तल्लक्षणश्चेदेव विशेष:' इत्यनुवर्तते ।

अन्वयः - वृद्धा स्त्री यूना सह शेषः पुंवच्च, तल्लक्षणश्चेदेव       विशेषः ।

अर्थः - वृद्धा - गोत्रप्रत्ययान्ता स्त्री युवप्रत्ययन्तेन शब्देन सह शिष्यते, सा च स्त्री पुंवद् भवति । तत्र यदि तल्लक्षण: - गोत्रप्रत्ययलक्षणो युवप्रत्ययलक्षणश्चैव विशेषो भवति ।

उदाहरणम् - गार्गी च गार्ग्यायणश्च तौ-गार्ग्यो । वात्सी च वात्स्यायनश्च तौ- वात्स्यौ ।

आर्यभाषार्थ - (यूना) युवप्रत्ययान्त शब्द के साथ (वृद्ध:) वृद्धप्रत्ययान्त (स्त्री) स्त्रीलिङ्ग (च) भी (शेषः) शेष रहता है और वह (पुंवत्) पुंलिङ्ग के तुल्य हो जाता है । (चेत्) यदि वहां (तल्लक्षण:) युवा और गोत्र प्रत्यय को बतलानेवाली (एव) ही (विशेषः) विशेषता हो ।

उदाहरणम् - गार्गी च गार्ग्यायणश्च तौ गार्ग्यौ । गार्गी और गार्ग्य का पुत्र दोनों । वात्सी च वात्स्यायनश्च तो वात्स्यौ । वात्सी और वात्स्य का पुत्र दोनों।

सिद्धिः - (१) गाग्यो । गार्गी+गार्ग्यायण+औ। गायीं। यहां प्रथम गर्ग शब्द से गोत्रापत्य अर्थ में 'गर्गादिभ्यो यञ्' (४.१.१०५) से यञ् प्रत्यय होता है - गार्ग्य । उससे स्त्रीलिङ्ग में 'यत्रश्च' (४.१.१६) से ङीप् प्रत्यय होता है - गार्ग्य+ङीप् । गार्ग्य+ई। गार्गी । गोत्रप्रत्ययान्त गार्गी स्त्री और युवप्रत्ययान्त गार्ग्यायण के एक साथ कथन करने में गार्गी स्त्री शेष रह जाती है । उसके पुंवद् भाव होने से 'गार्ग्य' ही शब्द रह जाता है । ऐसे ही वात्स्य: ।

        १.२.६७

सूत्राणि:॥ पुमान् स्त्रिया

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - पुमान् १।१ स्त्रिया ३।१।

अनुवृत्तिः - 'शेष:, तल्लक्षणश्चेदेव विशेष:' इत्यनुवर्तते ।  

अन्वयः - पुमान् स्त्रिया सह शेष:, तल्लक्षणश्चेदेव विशेषः ।       

अर्थः - पुमान्= पुरुषवाची शब्द: स्त्रीवाचिना शब्देन सह शिष्यते, तत्र यदि तल्लक्षण: =लिङ्गलक्षण एव  विशेषो भवति ।

उदाहरणम् - ब्रह्मणी च ब्राह्मणश्च तौ ब्राह्मणौ । कुक्कुटी च कुक्कुटश्च तौ-कुक्कुटौ ।

आर्यभाषार्थ - (स्त्रिया) स्त्रीवाची शब्द के साथ (पुमान्) पुरुषवाची शब्द (शेषः) शेष रहता है (चेत्) यदि वहां (तल्लक्षण:) स्त्रीलिङ्ग और पुल्लिङ्ग को बतलानेवाली (एव) ही ( विशेषः) विशेषता हो ।

उदाहरणम् - ब्राह्मणी च ब्राह्मणश्च तौ ब्राह्मणौ । ब्राह्मणी और ब्राह्मण दोनों। कुक्कुटी कुक्कुश्च तौ - कुक्कुटौ । मुर्गी और मुर्गा दोनों ।

       १.२.६८

सूत्राणि:॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - भ्रातृ - पुत्रौ १।२ स्वसृ-दुहितृभ्याम् ५।२।

समासः - भ्राता च पुत्रश्च तौ भ्रातृपुत्रौ (इतरेतरयोगद्वन्द्व:), स्वसा च दुहिता च ते स्वसृदुहितरौ ताभ्याम् -स्वसृदुहितृभ्याम् (इतरेतरयोगद्वन्द्वः) ।        

अनुवृत्तिः - 'शेष' इत्यनुवर्तते ।

अन्वयः - भ्रातृपुत्रौ स्वसृदुहितृभ्यां शेषः ।

अर्थः - रातृपुत्रौ शब्दौ यथासंख्यं स्वसृदुहितृभ्यां शब्दाभ्यां सह शिष्येते ।

उदाहरणम् - (भ्राता) स्वसा च भ्राता च तौ भ्रातरौ (पुत्रः) दुहिता च पुत्रश्च तौ पुत्रौ ।

आर्यभाषार्थ - (स्वसृ-दुहितृभ्याम्) स्वसा और दुहिता शब्द के साथ यथासंख्य (भ्रातृपुत्रौ) भ्राता और पुत्र शब्द (शेषः) शेष रहता है अर्थात् स्वसा के साथ भ्राता और दुहिता के साथ पुत्र ।

उदाहरणम् - (भ्राता) स्वसा च भ्राता च तौ भ्रातरौ । बहन और भाई । (पुत्र) दुहिता च पुत्रश्च तौ पुत्रौ । पुत्री और पुत्र ।

      १.२.६९

सूत्राणि:॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - नपुंसकम् १।१ अनपुंसकेन ३।१ एकवत् अव्ययपदम्, च अव्ययपदम् अस्य ६।१ अन्यतरस्याम् ७।१।

समासः - न नपुंसकम् इति अनपुंसकम्, तेन - अनपुंसकेन (नञ्तत्पुरुषः) एकेन तुल्यमिति एकवत् (तद्धितवृत्तिः) ।

अनुवृत्तिः - 'शेष:, तल्लक्षणश्चेदेव विशेष:' इत्यनुवर्तते ।

अन्वयः - नपुंसकमनपुंसकेन शेष:, तल्लक्षणश्चेदेव       विशेषः अस्य चान्यतरस्यामेकवत् ।

अर्थः - नपुंसकलिङ्गशब्दोऽनपुंसकलिङ्गशब्देन सह शिष्यते, तत्र यदि ' तल्लक्षण: = पुलिङ्गलक्षण एव विशेषो भवति, अस्य शेषस्य च नपुंसकलिङ्गशब्दस्य विकल्पेन एकवत् कार्यं भवति, एकवचनं भवतीत्यर्थः ।

उदाहरणम् - शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रम् तदिदम् -शुक्लम् । तानीमानि - शुक्लानि ।

आर्यभाषार्थ - (अनपुंसकेन) पुल्लिङ्ग और स्त्रीलिङ्ग शब्द के साथ (नपुंसकम्) नपुंसकलिङ्ग शब्द (शेषः) शेष रहता है, (चेत्) यदि वहां (तल्लक्षण:) पुलिङ्ग, स्त्रीलिङ्ग और नपुंसकलिङ्ग को बतलानेवाली ही (विशेषः) विशेषता हो। (च) और (अस्य) इस शेष नपुंसक शब्द को (अन्यतरस्याम्) विकल्प से (एकवत्) एक वचन के समान कार्य होता है ।

उदाहरणम् - शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रम्, तदिदम् शुक्लम् (एकवचन) । तानीमानि शुक्लानि (बहुवचन) । बृहतिका - दुपट्टा ।

      १.२.७०

सूत्राणि:॥ पिता मात्रा ॥

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - पिता १।१ मात्रा ३।१।

समासः -'शेष:, अन्यतरस्याम्' इत्यनुवर्तते ।

अन्वयः - पिता मात्रा शेषः ।

अर्थः - पितृशब्दो मातृशब्देन सह विकल्पेन शिष्यते, पक्षे मातृशब्दो निवर्तते ।

उदाहरणम् - माता च पिता च तौ पितरौ । माता च पिता च तौ-मातापितरौ ।

आर्यभाषार्थ - (मात्रा) माता शब्द के साथ (पिता) पिता शब्द (अन्यतरस्याम्) विकल्प से (शेषः) शेष रहता है ।

उदाहरणम् - पिता-माता च पिता च तौ पितरौ । माता-पिता-माता च पिता च तौ मातापितरौ । पितरौ माता और पिता ।

       १.२.७१

सूत्राणि:॥ श्वशुरः श्वश्र्वा

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - श्वशुरः १।१ श्वश्रूवा ३।१।    

अनुवृत्तिः - 'शेष:, अन्यतरस्याम्' इत्यनुवर्तते ।

अन्वयः - श्वशुरः श्वश्रवा शेषः ।

अर्थः - श्वशुरशब्दः श्वश्रूशब्देन सह विकल्पेन शिष्यते । पक्षे श्वश्रूशब्दो निवर्तते ।

उदाहरणम् - श्वश्रूश्च श्वशुरश्च तौ श्वशुरौ । श्वश्रूश्च श्वशुरश्च तौ श्वश्रूश्वशुरौ ।

आर्यभाषार्थ - (श्वश्रवा) श्वश्रू शब्द के साथ (श्वशुरः) श्वशुर शब्द (अन्यतरस्याम्) विकल्प से (शेषः) शेष रहता है ।

उदाहरणम् - श्वश्रूश्च श्वशुरश्च तौ श्वशुरौ । श्वश्रूश्व श्वशुरश्च तौ श्वश्रूश्वशुरौ । श्वशुरौ = सास और ससुर ।

       १.२.७२

सूत्राणि:॥ त्यदादीनि सर्वैर्नित्यम्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - त्यदादीनि १।३ सर्वैः ३।३ नित्यम् १।१।      

समासः - त्यद् आदिर्येषां तानीमानि - त्यदादीनि (बहुव्रीहि:) ।   

अनुवृत्तिः - 'शेष:' इत्यनुवर्तते ।

अन्वयः - त्यदादीनि सर्वैर्नित्यं शेषः । 

अर्थः - त्यद्-आदीनि शब्दरूपाणि सर्वैः शब्दैः सह नित्यं शिष्यन्ते । (यद्) यश्च देवदत्तश्च - यौ ।

उदाहरणम् - (तद्) स च देवदत्तश्च - तौ ।

आर्यभाषार्थ - (सर्वै.) सब शब्दों के साथ (त्यद्-आदीनि) त्यद् आदि शब्द (नित्यम्) सदा (शेषः) शेष रहते हैं ।

उदाहरणम् - (तद्) स च देवदत्तश्च- तौ । (यद्) यश्च देवदत्तश्च यौ। तौ वह और देवदत्त । यौ = जो और देवदत्त ।

त्यदादिगण- त्यद् । तद् । यद् । एतद् । इदम् । अदस्। एक। द्वि । युष्मद् । अस्मद् । भवतु । किम् । (सर्वोद्यन्तर्गत:) ।

विशेष - यदि त्यद् आदि शब्दों का ही परस्पर कथन किया जाये तो वहां जो परवर्ती शब्द होता है, वह शेष रहता है - स च यश्च यौ । यश्च कश्च - कौ ।

      १.२.७३

सूत्राणि:॥ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - ग्राम्य- पशुसंघेषु ७।३ अतरुणेषु ७।३ स्त्री १।१।       

समासः - ग्रामे भवा ग्राम्याः (तद्धितवृत्ति:) । ग्राम्याश्च ते पशव इति ग्राम्यपशव:, तेषाम् -ग्राम्यपशूनाम्, ग्राम्यपशूनां संघा इति ग्राम्यपशुसंघाः, तेषु - ग्राम्यपशुसंघेषु (कर्मधारयगर्भितषष्ठीतत्पुरुषः) । न विद्यन्ते तरुणा येषु ते - अरुणा:, तेषु - अतरुणेषु (बहुव्रीहि:) ।   

अनुवृत्तिः - 'शेष:' इत्यनुवर्तते ।

अन्वयः - अतरुणेषु ग्राम्यपशुसंघेषु स्त्री शेषः ।

अर्थः - अतरुणेषु=तरुणरहितेषु ग्रामीणपशूनां संघेषु उच्यमानेषु स्त्री शिष्यते, पुमाँश्च निवर्तते ।

उदाहरणम् - गावश्च वृषभाश्च ताः - गावः । गाव इमाश्चरन्ति । महिषाश्च महिष्यश्च ताः - महिष्यः । महिष्य इमाश्चरन्ति । 'पुमान् स्त्रियां' (१.२.६७) इति पुंसः शेषत्वे प्राप्तेऽत्र स्त्रीशेषो विधीयते ।

आर्यभाषार्थ - (अतरुणेषु) तरुण पशुओं से रहित (ग्राम्य- पशुसंघेषु) ग्रामीण पशुसंघों के कथन में (स्त्री) स्त्रीलिङ्ग शब्द (शेषः) शेष रहता है ।

उदाहरणम् - गावश्च वृषभाश्च ता गावः । गाव इमाश्चरन्ति । ये गौवें चरती हैं । महिष्यश्च महिषाश्च ता महिष्यः । महिष्य इमाश्चरन्ति । ये भैंसें चरती हैं ।

विशेष - यहां 'पुमान् स्त्रियां' (अ०१।२।६७) से पुलिङ्ग शब्द का शेषत्व प्राप्त था, अतः यहां स्त्री शब्द के शेष रहने का उपदेश किया है ।

इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीय- अष्टाध्यायी प्रवचने प्रथमाध्यायस्य द्वितीयः पादः समाप्तः ।

Post a Comment

0 Comments

Ad Code