श्रीअघोरस्तवः
सकलभुवननाथं सर्वदं सर्ववन्द्यं
सहमनु मनुनाथं पूजयित्वा सशक्तिम् ।
परमशिवमघोरास्त्राख्यमन्त्राधिराजं
परिमितविषयाभिर्वाग्भिरभ्यर्चयामः ॥ १॥
यत्पाशसंहृतिषु पाशुपतं महास्त्रं
ग्रन्थिप्रभेदनविधौ क्षुरिकास्त्रमाहुः ।
विघ्नस्तुतौ च शकलीकरणे शिवास्त्रं
वन्दे तदस्त्रमहमैशमघोरसंज्ञम् ॥ २॥
यस्ते बिभर्ति निजमूर्धनि मन्त्रचक्रं
यो वा बिभर्त्यवयवेषु तदक्षराणि ।
सोऽयं निरस्य निखिलग्रहभूतरोगान् (हेयं)
जित्वास्त्रनायकरिपूनतिवृद्धिमेति ॥ ३॥
वज्रं शक्तिर्दण्डखड्गाहिपाशान्
वायोरस्त्रं सा गदा(शङ्खं?) च त्रिशूलम् ।
पद्मं चक्रं साधयन्ति स्वकृत्यं
लब्ध्वाज्ञां ते दिग्भृतामायुधानि ॥ ४॥
न भवति विषपीडा नारिपीडा न चाधिः
न खलु निखिलरोगा नापि भूतग्रहार्तिः ।
न धनहरणभीतिर्नाभिचारस्य तेषां
सकृदपि भुवने त्वां येऽस्त्रराजं स्मरन्ति ॥ ५॥
मन्त्री जपाकुसुमसन्निभभीममूर्तिं
त्वां घोरमूर्धपरिपिङ्गलकेशपङ्क्तिम् ।
दंष्ट्राकरालवदनं तटिदाभजिह्वं
व्यात्ताननं रविशशिज्वलनोग्रनेत्रम् ॥ ६॥
नागेन्द्रभूषणकपालकृताङ्कमाला-
शोभान्वितं भ्रुकुटिभङ्गकरालवक्त्रम् ।
धूम्राम्बरं मुखरनूपुरमष्टबाहुं
ध्यायन् प्रसिध्यति झणत्क्वणकिङ्किणीकम् ॥ ७॥
त्वां दक्षिणैः करतलैरसिशूलमूल-
शक्तिं(क्तीः) डमड्डमरुकं चषकं दधानं (?) ।
खेटं त्रिशूलनृकपालसुरेन्द्रशस्त्रा-
ण्यारब्धयात्रमरिमर्दनमाश्रितोऽस्मि ॥ ८॥
कर्णद्वये करयुगे भुजयोश्च युग्मे
पार्श्वद्वये पदयुगे कटिमण्डले च ।
कुक्षौ गले शिरसि नाथ चतुर्दशाहीन्
तत्तद्विभूषणकृतात्मतनूर्बिभर्षि ॥ ९॥
वामे शूलदले स्थितस्तव हरिः श्रीनीलरुद्रः पुन-
र्मध्ये दक्षिणतो विधिः सुफलके गौरी गुहः कुम्भके ।
दण्डाग्रे गणनायको दिनकरो दण्डेऽस्य मूले स्मरः
तेनाघाहिगलग्रहोन्मदरिपूनस्त्रेश निर्नाशय ॥ १०॥
त्वां सात्त्विकं धवलरूपमुपास्य मोक्षं
सम्प्राप्नुवन्ति मनुजाः सुखसन्निविष्टम् ।
आरक्तवर्णमद(थ) राजसमुद्धताङ्ग-
मा(साद)यन्ति सकलाभिमतार्थसिद्धिम् ॥ ११॥
शत्रुक्षयाय सकलामयनाशनाय
सर्वोपसर्गहतये च तवातिरौद्रम् ।
कृष्णं कृपानिलयतामसमेव शस्तं
यानोद्यतं यतिवराः कथयन्ति रूपम् ॥ १२॥
यद्वा दमद्दमरुकासिपिशाचशूल-
मूलानि दक्षिणकरैरवरैः कपालम् ।
त्वां खेटकेन वरघण्टिकया च शूल-
मध्यं दधानमहमष्टभुजं नमामि ॥ १३॥
आकर्षणे निखिलरोगहतौ रिपूणां
स्तम्भे वशीकरणमोहनदीपनेषु ।
युद्धोद्यतं तव पुर(वपु)स्तटिदंशुभीमं
स्मृत्वोग्रदंष्ट्रमचिरेण फलं लभन्ते ॥ १४॥
कृष्णप्रभं त्रिनयनं त्रिभुजं त्रिपादं
भीमं महाशनिरवं विकटाट्टहासम् ।
त्वां सूचिमुष्टिहननैरहिभूषिताङ्गं
ध्यायन्ति धावनपरं रिपुमारणादौ ॥ १५॥
त्वां षड्भुजं त्रिनयनं शशिकान्तरूपं
पद्माननं विधृतभूषणमूर्धकेशम् ।
वामे कपालधनुषी दधतं सखेटं
शूलं शरं च परतः प्रणतोऽस्मि सासिम् ॥ १६॥
व्याधादरि(वरि)प्रमथने सति भूमिकम्पे
दाहे दिशां प्रचुरवृष्टिषु चण्डवाते ।
पापक्षये सकलवृद्धिषु शान्तिकादौ
भीतौ च देव तव रूपमिदं स्मरन्ति ॥ १७॥
सजलघनघनाभं भीमदंष्ट्रं त्रिनेत्रं
भुजगधरमघोरं रक्तवस्त्राङ्गरागम् ।
परशुडमरुखड्गान् खेटकं बाणचापौ
त्रिशिखनरकपाले बिभ्रतं भावयामि ॥ १८॥
शूलं मूलं पिशाचं शरमसिसृणियुक्टङ्कयुग्भिण्डिपालं
वज्रं तत्स्थूलमध्यं डमरुकमपरैर्घण्टिकां चापखेटौ ।
पाशं चक्रं च दण्डं भुजगमनलकं दक्षिणैर्बाहुदण्डै-
र्मध्ये त्वां विद्युदाभं विजयिनमनिशं घोरनाथं भजामः ॥ १९॥
केऽप्यष्टकाधिकसहस्रकरं विदुस्त्वा-
मन्येऽपि चाष्टशतहस्तमतर्क्यवेषम् ।
केचिद्द्विपञ्चकरमष्टभुजं परेऽपि
केचिच्चतुर्भुजयुतं कतिचिद्द्विबाहुम् ॥ २०॥
केचिद्वदन्ति धृतषोडशबाहुदण्ड-
मन्ये पुनर्द्विनवसङ्ख्यकरारविन्दम् ।
त्वां सर्वतः प्रसृतपाणिपदं तु शैवं
तेजः सुदुस्सहतरं वयमामनामः ॥ २१॥
त्वां बाहुमूलवलयीकृततक्षकाहिं
तन्मध्यवेष्टितमहादृढपूर्वपद्मम् ।
पादाब्जसंस्थकुलिकं करपद्मशोभं
दण्डे कटीघटितवासुकिमेखलाङ्कम् ॥ २२॥
त्वां शङ्खपालभुजगेन्द्रकृतोपवीतं
जानुद्वयस्फुरदनन्तमहोरगेन्द्रम् ।
लूतादिवृश्चिकविराजिविराजिताङ्गं
कर्कोटकाहिपरिभूषितकण्ठभागम् ॥ २३॥
त्वां प्रस्फुरच्छिखिनिभोर्ध्वकचं स्फुरन्तं
घोराननं विकृतघोरतराहिभूषम् ।
वन्दामहे वरतनुं वररूपशोभं
वक्षोल्लसच्चटचटारवरुण्डमालम् ॥ २४॥
आम्रेडितप्रयुतसङ्ख्यतटित्कृतास्थि-
मालाधरं कहकहारवभोगिभूषम् ।
भूयो वमज्ज्वलनदीप्तललाटनेत्रं
त्वां हुङ्कृतेन मम घातय घातयारीन् ॥ २५॥
चक्रोद्धृतप्रणवफट्कृतसम्पुटं ते
मन्त्रोत्तमं जपति यः सममङ्गमन्त्रैः ।
अस्मात्परं मनुशतैः किमिहाल्पसारै-
रायातमिष्टमनिशं त्वयि सिद्धिमेति ॥ २६॥
यः पञ्चषड्भिर्द्विदशाष्टयुग्मैर्वर्णैर्मनोज्ञैः परिकल्पिताङ्गः ।
ऋष्यादिकं बीजसशक्तिकीलयुक्त्यातिसञ्चिन्त्य जपेत्स धन्यः ॥ २७॥
यो मस्तकेऽलिकतले नयनद्वये च
मध्ये भ्रुवोस्तव मनोरिह नासिकायाम् ।
कर्णद्वये हनुयुगे द्विजपङ्क्तियुग्मे
कण्ठेऽसयोश्च जठरे स्तनयोः क्रमेण ॥ २८॥
वर्णान्निवेशयति वक्षसि नाभिदेशे
बाहुप्रकोष्ठतलपाणिषु वामतश्च ।
स्फिज्यूरुजानुतलतश्चरणेषु तद्व-
त्पायौ सलिङ्गवृषणे चरमाङ्गदेशे ॥ २९॥
पार्श्वद्वये हृदि च तालुनि साधकेन्द्रः
पूजाविधौ जपविधौ च सुसम्प्रदायः ।
(सोऽयं निरस्य) निखिलार्तिमनेकसौख्या-
न्यासादयत्यनिमिषैरपि पूज्यमानः ॥ ३०॥
त्वां शेषकलृप्तवलयाङ्कितपाणिपद्मं
कर्कोटकाहिपरिभूषितदामशोभम् ।
वक्षःस्थलाभरणतक्षकनागशोभं
पद्माख्यनागपरिकल्पितहारभूषम् ॥ ३१॥
सुश्वेतपद्मपरिक्लृप्तललाटशोभं
मध्याङ्गलग्नकुलिकोदरबन्धनागम् ।
केचित्कटीघटितभूषितशङ्खपालं
कर्णावतंसवरवासुकिमामनन्ति ॥ ३२॥
चर्मासिचापशरवज्रपरश्वथाङ्ग-
शूलादिमध्यसृणिदण्डधरैश्च हस्तैः ।
पञ्चाननं धवलदंष्ट्रमगाधनेत्रं
त्वामञ्जनाभमरिभीषणमाश्रयामः ॥ ३३॥
हस्तैरभीवरपरश्वथकृष्णसार-
युक्तैश्चतुर्भिरभिशोभितमाननैश्च ।
त्वां पूजयन्निह सहस्रदलाब्जसंस्थं
वाञ्छां व्रजेद्दशभिरावरणैरुपेतम् ॥ ३४॥
काल्याद्याभिः परिवृततनुं शक्तिभिर्दिग्गताभि-
स्तन्मध्यस्थैः परिचिततनुं भीषणाद्यैश्च रन्ध्रैः ।
ब्राह्म्याद्याभिर्दिशि दिशि तनुं(वृतं) मातृभिर्लोकपालैः
साङ्गं ध्यायन् जपति सुमतिर्भूतले यः स धन्यः ॥ ३५॥
कृत्वा चक्रं रजोभिस्तव तदनुगुणैः कर्णिकाकेसराढ्यं
मध्ये च द्वादशारं कृतनियमविधिः षोडशारं च बाह्ये ।
मध्ये त्वां पूजयित्वा दिशि दिशि परितः केसरेष्वष्टशक्ती-
रिच्छादिद्वादशारेष्वथ यजति महास्त्राणि चत्वारि दिक्षु ॥ ३६॥
शेषारेष्वष्टरुन्द्रान्विदिगुदिततनून् भीषणाभीषणादीन्
बाह्येऽस्त्रैरात्मदिक्स्थैः सह कुलिशमुखैर्भौतिकादीनि चाष्टौ ।
तस्याधिव्याधिनाशः सकलमभिमतं शत्रुनाशश्च सद्यः
शान्तिः पुष्टिश्च विद्या धनमपरिमितं क्षेत्रसम्पत्तिरन्ते ॥ ३७॥
यस्त्वां युद्धोद्यताङ्गं यजति कृतमतिर्भास्कराद्यैर्गणेशैः
क्षेत्रेशैः कोणसंस्थैः त्रिदशपतिमुखैरष्टरुद्रैः परीतम् ।
आद्ये तज्ज्ञानरूपप्रभृतिभिरपरे वीरघोषादिरुद्रै-
स्तद्बाह्यस्थैश्चतुर्थद्रविणपतिमुखैः पञ्चमे कालमुख्यैः ॥ ३८॥
षष्ठे चोच्छुष्ममुख्यैरनिशमभिमुखैः सप्तमे विष्णुमुख्यै-
रन्यस्मिन् तीक्ष्णदंष्ट्रप्रभृतिभिरमरेशादिभिश्चापरस्मिन् ।
आधारे लोकपालैर्दिशिदिशि दशमे सायुधैः सेव्यमानं
भोगानास्वाद्य सर्वान् भुवि तनुविरमे मोक्षमाप्नोति सोऽयम् ॥ ३९॥
चक्रं स्रग्वज्रशक्तीर्डमरुपरशुघण्टाहिखड्गप्रखेटान्
बिभ्राणं दण्डपाशौ ध्वजनरशिरसी चापबाणौ भुजैश्च ।
दोर्भ्यां द्वाभ्यां महास्त्रं नियुतरविनिभं लूतमुण्डाहिभूषं
चार्काभं कुण्डलाढ्यं कुमतविहतये घोरनाथं भजामः ॥ ४०॥
विद्युन्मालानलाभं भुजगपरिवृतं भीषणं निम्ननेत्रं
शूलं पाशं च घण्टामनलमसिमहाखेटकौ प्रज्वलन्तौ ।
सव्येऽभीशक्तिचापान शरपरशुरुजा दक्षिणे घोरवक्त्रं
पार्श्वे घोरास्त्रमेवं नियमितमनसा संयजे सर्वसिद्ध्यै ॥ ४१॥
जप्त्वायुतं (तव मनूत्तम)मिष्ट(मङ्ग)युक्तं
हुत्वा सहस्र(मपकृत्य)मपाकरोति ।
सन्ध्यासु चाष्टसहितं शतमत्र जप्त्वा
ध्यायन् कुबेरसदृशं श्रियमेति मर्त्यः ॥ ४२॥
आधारनाभिहृदये च गले च तालु-
भ्रूमध्यमूर्ध्न्यखिलशक्तिपदेषु देवम् ।
तेजोमयं सरति यः क्रमशश्च मोक्षं
यो व्युत्क्रमेण स नरः पुनरेति भोगम् ॥ ४३॥
यद्वैभवं तव महास्त्रमहानुभावं
स्तोतुं न मन्त्रपतयस्तदशेषमीशाः ।
का शक्तिरत्र वद तादृशमीदृशानां
कश्चैकदेशगणको गणकीर्तिमेति ॥ ४४॥
एतामघोरास्त्रपदानुविद्धां
यः स्त्रोत्रमालां पठति त्रिसन्ध्यम् ।
विजित्य(निर्जित्य)शत्रून् विगतामयोऽसौ
प्राप्नोत्यशेषानपि वाञ्छितार्थान् ॥ ४५॥
॥ इति श्रीअघोरस्तवः सम्पूर्णः ॥
0 Comments
If you have any Misunderstanding Please let me know